बृहद्देवता/अध्यायः ६

विकिस्रोतः तः

१- ऋग्वेद ७.५०-६६ के देवता
आ मामिति तु सूक्तेन प्रत्यृचं देवता स्तुताः ।
मित्रवरुणावग्निश्च देवा नद्यस्तथैव च ।। १ ।।
तृचावादित्यदेवत्यौ रोदस्योः प्रेति यस्तृचः ।
वास्तोष्पत्यश्चतस्रस्तु सप्त प्रस्वापिन्यः स्मृताः ।। २ ।।
परं चत्वारि सूक्तानि मारुतानि क ईमिति ।
तेषां तु पितरं देवं त्र्यम्बकं स्तौत्यृगुत्तमा ।। ३ ।।
स्तुतौ तु मित्रावरुणौ सूक्तैर्यदिति सप्तभिः ।
अश्विनौ तु परैर्देवाव् अष्टभिः प्रति वामिति ।। ४ ।।
यदद्यैकोत्सूर्यस्तिस्र उद्वेतीत्यर्धपञ्चमाः ।
सौर्यस्तच्चक्षुरिति तु गीयते चक्षुर्देवता ।। ५ ।।
२-ऋग्वेद ७.६६-८५ के देवता
आदित्यानां तद्वो अद्य द्वे ऋचौ शौनकोऽब्रवीत् ।
अन्याः सर्वा ऋचः सौर्यो यदद्याद्याः प्रकीर्तिताः ।। ६ ।।
इमे चेतार इत्याद्याः सत्रे मित्रो मितः स्तुतः ।
अर्यम्णो वरुणस्यापि मित्रस्यैता नव स्मृताः ।। ७ ।।
यदद्य सूर इत्याद्या दशादित्या ऋचः स्मृताः ।
सविता वादितिर्मित्रो वरुणश्चार्यमा भगः ।। ८ ।।
स्तुता उदु त्यदित्येतास् तिस्रः सौर्यस्ततः पराः ।
आशीस्तच्चक्षुरित्येताम् आचार्यः शौनकोऽब्रवीत् ।। ९ ।।
उषास्तु सप्तभिर्व्युषाः सूक्तान्येभ्यः पराणि तु ।
चत्वारीन्द्रावरुणेति इन्द्रावरुणयो स्तुतिः ।। १० ।।
३-वसिष्ठ क्षीर वरुण का कुत्ता ः ऋग्वेद ७.८६-८९
उदु ज्योतिरिति त्वस्मिन्न् अर्धर्चे मध्यम स्तुतः ।
वरुणस्य गृहान्नात्रौ वसिष्ठः स्वप्न आचरत् ।। ११ ।।
प्राविवेशाथ तं तत्र श्वा नदन्नभ्यधावत ।
क्रन्दन्तं सारमेयं स धावन्तं दष्टुसुद्यतम् ।। १२ ।।
यदर्जुनेति च द्वाभ्यां सान्त्वयित्वा व्यसुष्वपत् ।
स तं प्रस्वापयामास जनमन्यं च वारुणम् ।। १३ ।।
ततस्तु वरुणो राजा स्वैः पाशैः प्रत्यबध्यत ।
स बद्धः पितरं सूक्तैश् चतुर्भिरित उत्तरैः ।। १४ ।।
अभितुष्टाव धीरेति मुमोचैर्न ततः पिता ।
ध्रुवासु त्वेति चोक्तायां पाशा अस्मात्प्रमोचिरे ।। १५ ।।
४-ऋग्वेद ७.९०-९६ के देवता ।
पराणि त्रीणि सक्तानि वायव्यानि प्र वीरया ।
अत्र तास्त्वैन्द्रवायव्या स्तुतौ यासु द्विवत्स्तुतिः ।। १६ ।।
प्र वीरयोक्ता वायव्या प्राउगीत्यैतरेयके ।
पदस्य व्यत्ययं कृत्वा वायोः प्राधान्यमुच्यते ।। १७ ।।
ते सत्येन तृचो यावत् तरश्चतुर्ऋचः पुनः ।
उशन्तैका प्र सोता चर्ग द्वयोरेता नव स्मृताः ।। १८ ।।
एन्द्राग्ने शुचिमित्येते प्रेति सारस्वते परे ।
ऋचा सरस्वान् स इति जनीयन्तश्च तिसृभिः ।। १९ ।।
५-नाहुषऔर सरस्वतीती की कथा ः ऋग्वेद ७.९५-९६
राजा वर्षसहस्राय दीक्षिष्यन्नाहुषः पुरा ।
चचारैकरथेनेमां ब्रुवन् सर्वाः समुद्रगाः ।। २० ।।
यक्ष्ये वहत भागान्मे द्वन्द्वशो वाथवैकशः ।
प्रत्यूचुस्तं नृपं नद्यः स्वल्पवीर्याः कथं वयम् ।। २१ ।।
वहेम भागात्सर्वांस्ते सत्रे वार्यसहस्रिके ।
सरस्वतीं प्रपद्यस्व सा ते वक्ष्यति नाहुष ।। २२ ।।
तथेत्युक्त्वा जगामाशु आपगां स सरस्वतीम् ।
सा चैनं प्रतिजग्राह दुदुहे च पयो घृतम् ।। २३ ।।
एतदत्यद्भुतं कर्म सरस्वत्या नृपं प्रति ।
वारुणिः कीर्तयामास प्रथमस्य द्वितीयया ।। २४ ।।
६-ऋग्वेद ७. ९७-१०४ के देवता ।
यज्ञे बार्हस्पत्यमैन्द्रं वैष्णवे तु परे ततः ।
उरुमैन्द्र्यश्च तिस्रः स्युः पार्जन्ये तिस्र उत्तरे ।। २५ ।।
स्तौतीन्द्रं प्रथमा त्वत्र द्वितीयाद्या बृहस्पतिम् ।
यज्ञ आद्येन्द्रमेवास्तौद् अन्त्या त्विन्द्राबृहस्पती ।।२६।।
तृतीया नवमी चैव स्तौतीन्द्राब्रह्मणस्पति ।
संवत्सरं तु मण्डूकान् ऐन्द्रासोमं परं तु यत् ।। २७ ।।
ऋषिर्ददर्श राक्षोघ्नं पुत्रशोकपरिप्लुतः ।
हते पुत्रशते तस्मिन् सौदासैर्दुःखितस्तदा ।। २८ ।।
७-ऋग्वेद ७. १०४ का विस्तृत विवरण ।
ये पाकशंसमृक्सौम्या आग्नेयी तत् उत्तरा ।
एकादशी वैश्वदेवी सौम्यस्तस्याः परो द्वृचः ।। २९ ।।
यदि वाहमृगाग्नेयी ऐन्द्री यो मेति तु स्मृता ।
ग्राव्णी प्र या जिगातोति वि तिष्ठध्वं तु मारुती ।।३०।।
प्र वर्तयेति पञ्चेन्द्र्य पेन्द्रासोमी त्वृगुत्तमा ।
ऋषिस्त्वाशिषमाशास्ते मा नो रक्ष इति त्वृचि ।।३ १।।
दिवि चैव पृथिव्यां च तथा पालनमात्मनः ।
उलूकयातुं जह्येतान् नानारूपान्निशाचरान् ।।३२।।
पञ्चदश्यां तु सूक्तस्य अष्टम्यां चैव वारुणिः ।
दुःखशोकपरीतात्मा शपते विलपन्निव ।। ३३ ।।
हते पुत्रशते तस्मिन् वसिष्ठो दुःखितस्तदा ।
रक्षोभूतेन शापात्तु सुदासेनेति वै श्रुतिः ।। ३४।।
अष्टम मण्डल
८-कण्व श्री- प्रगाथ की कथा
कण्वश्चैव प्रगाथश्च घोरपुत्रौ बभूवतुः ।
गुरुणा तावनुज्ञाताव् ऊषतुः सहितौ वने ।। ३५ ।।
वसतोस्तु तयोस्तत्र कण्वपत्न्या शिरः स्वपत् ।
कृत्वा कनीयान्कण्वस्य उत्सङ्गे नान्वबुध्यत ।। ३६ ।।
शप्तुकामस्तु तं कण्वः क्रुद्धः पापाभिशङ्कया ।
बोधयामास पादेन दिधक्षन्निव तेजसा ।। ३७ ।।
विदित्वा तस्य तं भावं प्रगाथः प्राञ्जलि स्थितः ।
मातृत्वे च पितृत्वे च वरयामास तावुभौ ।। ३८ ।।
स घौरो वाथ काण्वो वा वंशजैर्बहुभिः सह ।
ददर्शान्यैश्च सहित ऋषिर्मण्डलमष्टमम् ।। ३९ ।।
९-ऋग्वेद ८.१-२१ के देवता
माचिदैन्द्राणि चत्वारि अन्वस्य स्थूरमित्यृचि ।
तुष्टावाङ्गिरसी नारी वसन्ती शाश्वती पतिम् ।। ४० ।।
स्त्रियं सन्तं पुमांसं तम् आसङ्गं कृतवानृषिः ।
स्वस्य दानं स्तुहीत्यृग्भिश् चतुर्भिः परिकीर्तितम् ।।४१।।
शिक्षेत्यृग्भ्यां तु काश्यस्य विभिन्दोः परिकीर्तितम् ।
पाकस्थाम्नस्तु भोजस्य चतुर्भिर्यमिति स्तुतम् ।।
पौष्णौ प्रेति प्रगाथौ द्वौ मन्यते शाकटायनः ।
ऐन्द्रमेवाथ पूर्वं तु गालवः पौष्णमुत्तरम् ।। ४३ ।।
ऐन्द्राणामिह सूक्तानाम् उत्तमस्योत्तमे तृचे ।
दानं राज्ञः कुरुङ्गस्य स्थूरं राय इति स्तुतम् ।। ४४ ।।
१०-ऋग्वेद ८.५-१८ के देवता
दूरादित्याश्विने सूक्ते सप्तत्रिंशत्तमी यथा ।
इत्यर्धर्चो द्वृचश्चान्त्यः कशोर्दानस्तुतिः स्मृता ।। ४५ ।।
महानैन्द्रं प्रत्नवत्याम् अग्निं वैश्वानरं स्तुतम् ।
मन्यते शाकपूणिस्तु भार्म्यश्वश्चैव मुद्गलः ।। ४६ ।।
तृचे तु शतमित्यस्मिन् दानं तैरिन्दिरं स्मृतम् ।
परं नु मारुतं प्रेति आ नस्त्रीण्याश्विनानि च ।। ४७ ।।
त्वमाग्नेयं य इन्द्रेति षळैन्द्राण्युत्तमस्य तु ।
उपोत्तमायामर्धर्चे देवो वास्तोष्पति स्तुतः ।। ४८ ।।
इदमादिन्यदेवत्यं तिसृभिस्त्वदिति स्तुता ।
षष्ठ्या चतुर्थ्या सप्तम्या उतेत्याचिन्यगष्टमी ।। ४९ ।।
११-ऋग्वेद ८.१९ ः त्रसदस्यु के दानों की स्तुति
स्तुताः शमिति पच्छस्तु अग्निसूर्यानिलास्त्रयः ।
वरुणार्यममित्राणां प्रगाथो यमिति स्तुतिः ।। ५० ।।
आग्नेये स्तुती राजर्षेस् त्रसदस्योरदादिति ।
पञ्चाशतं वधूनां च गवां तिस्त्रश्च सप्ततीः ।। ५१ ।।
अश्वोष्ट्राणां तथैवासौ वासांसि विविधानि च ।
रत्नानि वृषभं श्यावं तासामग्नेसरं पतिम् ।। ५२ ।।
कृत्वा दारानृषिर्गच्छन्न् इन्द्रायैतच्छशंस च ।
वयं सूक्तेन शक्रं च प्रीतस्तेन शचीपतिः ।। ५३ ।।
ऋषे वरं वृणीष्वेति प्रह्वस्तमृषिरब्रवीत् ।
काकुत्स्थकन्याः पञ्चाशद् युगपद्रमये प्रभो ।। ५४ ।।
कामतो बहुरूपत्वं यौवनं चाक्षयां रतिम् ।
शङ्खनिधिं पद्मनिधि मद्गृहेष्वनपायिनम् ।। ५५ ।।
१२-ऋषि द्वारा मांगे गये वर । सोभरि और चित्र की कथा ।
प्रासादान् विश्वकर्मासौ सौवर्णांस्त्वत्प्रसादतः ।
कुर्वीत पुष्पवाटीं च पृथक्तासां सुरद्रुमैः ।। ५६ ।।
मा भूत्सपत्नीस्पर्धासां सर्वमस्त्विति चाब्रवीत् ।
आ गन्त मारुतं सूक्तं वयमित्यैन्द्रमुत्तरम् ।। ५७ ।।
कण्वस्य सोभरेश्चैव यजतो वंशजैः सह ।
कुरुक्षेत्रे यवाञ्जक्षुर् हवींषि विविधानि च ।। ५८ ।।
आखवः सोऽभितुष्टाव इन्द्रं चित्रं सरस्वतीम् ।
इन्द्रो वेत्यनयर्चा स दानशक्तिं प्रकाशयन् ।। ५९ ।।
१३-सोभरि और चित्र की कथा ( क्रमशः) । ऋग्वेद ८.२२-२५
आखुराजोऽभिमानाच्च प्रहर्षितमनाः स्वयम् ।
संस्तुतो देवयच्चित्र ऋषये तु गवां ददौ ।। ६० ।।
अयुतानां सहस्रं वै निजग्राह स्तुवन्नृषिः ।
ऋषिं चोवाच हृष्टात्मा नाहमर्हाम्यृषे स्तुतिम् ।। ६१ ।।
तिर्यग्योनौ समुत्पन्नो देवता स्तोतुमर्हसि ।
तमन्त्ययापुनश्चास्तौद् ओ त्यं सूक्तेन चाश्विनौ ।।६२।।
ईळिष्वेत्येतदाग्नेयं सखायश्चैन्द्रमुत्तरम् ।
यथा वरो सुषाम्या इत्य् उत्तमस्त्वौषसस्तृचः ।। ६३ ।।
अष्टौ तु सहितास्त्वेता देवता बिभिदुर्बलम् ।
उषाश्चेन्द्रश्च सोमश्च अग्निः सूर्यो बृहस्पतिः ।। ६४ ।।
अङ्गिराः सरमा चैव ता वामित्युत्तरस्य तु ।
आदौ मैत्रावरुण्यस्तु नव द्वादश तूत्तराः ।। ६५ ।।
वैश्वदेव्यो वरू राजा यच्चादादृषये वसु ।
कीर्तितं तत्तृचे त्वस्मिन्न् ऋज्रमुक्षण्यायने ।। ६६ ।।
१४-ऋग्वेद ८.२६-३१ के देवता । ८.२९ पृथक्कर्मस्तुति है ।
अश्विनौ ददतुः प्रीतौ तदिहोक्तं सुषामणि ।
आश्विनं तु युवोर्युक्ष्व वायव्या उत्तरास्तु याः ।। ६७ ।।
यं सवर्णा मनुर्नाम लेभे पुत्रं विवस्वतः ।
वैश्वदेवानि पञ्चैतान्य् अग्निरुक्थे जगाद सः ।। ५८ ।।
बभ्रुरेक इति त्वेता लिङ्गतो द्विपदा दश ।
स्तूयन्ते देवता ह्यासु कर्मभिः स्वैः पृथक्पृथक् ।। ६९ ।।
स्तुताः कर्मगुणैः स्वैः स्वैर् देवता यत्र तत्र तु ।
पृथक्कर्मस्तुतिर्नाम वैश्वदेवं तदेव तु ।। ७० ।।
ऋग्वेद ८.३२-३४ के देवता
तासां बभ्रुरिति त्वाद्या सौम्याग्नेयी त्वृगुत्तरा ।
त्वाष्ट्री चैन्द्री च रौद्री च पौष्णी वैष्णव्यृगाश्विनी ।।७१ ।।
नवमी मैत्रावरुणी ऋग्दशम्यत्रिसंस्तवः ।
यजमानप्रसङ्गाच्च य इज्यात्र प्रकीर्तिता ।।७२।।
यो जयति द्वृचे शक्रो यजतां पतिरीळितः ।
तस्य द्युमान् द्वृचे यज्वा चतसृष्वपि मक्ष्विति ।।७३।।
यज्वनोरेव दंपत्योः पञ्च या दंपती ऋचः ।
आ शर्माशीरैतु पौष्ण्यौ परे मित्रोऽर्यमा यथा ।।७४।।
वरुणश्च स्तुतास्त्वत्र आदित्या अग्निमग्नये ।
सूक्तानि प्र कृतानीति त्रीण्यैन्द्राणि पराण्यतः ।।७५।।।
१६-इन्द्र और व्यंस की बहन । ऋग्वेद ८.३५-४६ के देवता
अध इत्यत्र कन्या तं स्त्रीलिङ्गेनेन्द्रमब्रवीत् ।
स हि तां कामयामास दानवीं पाकशासनः ।।७६।।
ज्येष्ठां स्वसारं व्यंसस्य तस्यैव युवकाम्यया ।
अग्निनेत्याश्विनं सूक्तम् ऐन्द्रसूक्ते परे ततः ।।७७।।
ऐन्द्राग्नं परमाग्नेयम् ऐन्द्राग्नं वारुणे परे ।
उत्तरे वारुणे त्वन्त्य आ वामित्वाश्विनस्तृचः ।।७८।।
सूक्ते इमे समाग्नेये ताभ्यामैन्द्रे ततः परे ।
वशायाश्व्यात यत्प्रादात् कानीनस्तु पृथुश्रवाः ।।७९।।
तदत्र संस्तुतं दानम् आ स इत्येवमादिभिः ।
आ नः प्रगाथौ वायव्यौ सूक्तस्योपोत्तमा च या ।।८०।।
२-ऋग्वेद ८.४७-५६ के देवता
मित्रार्यमाणौ मरुतः सुनीथो घ द्वृचे स्तुताः ।
द्विचत्वारिंशकात्प्रीतस् त्रिशोकाय पुरंदरः ।। ८१ ।।
गिरिं निकृत्य वज्रेण गा दशवसुरैर्हृताः ।
यः तृन्तदिति चैतस्याम् ऋषिस्तु स्वयमब्रवीत्।। ८२।।
स्तुता नवम्या त्वदितिर महीत्यादित्यदैवते ।
अन्त्या मञ्चोषसेऽपि स्युः सौम्यं स्वादोरिति स्मृतम् ।।८३
पराण्यष्टौ तु सूक्तानि ऋषीणां तिग्मतेजसाम् ।
ऐन्द्राण्यत्र तु षड्विंशः प्रगाथो बहुदैवतः ।। ८४ ।।
२८-ऋग्वेद ८.६०-६७ के देवता ।
ऋगन्त्याग्नेरचेत्यग्निः सूर्यमन्त्यं पदं जगौ ।
प्रस्कण्वश्च पृषध्रस्य प्रादाद्यद्वसु किंचन ।। ८५ ।।
तदूभूरीदिति सूक्ताभ्याम् अखिलं त्विह संस्तुतम् ।
ऐन्द्राण्युभयमित्यत्र षळाग्नेयात्पराणि तु ।।
निपातमाह देवानां दाता म हति भागुरिः ।। ८६ ।।
ऋचं यास्कस्तृचं त्वेतं मन्यते वैश्वदेवतम् ।
आदित्यदैवतं सूक्तं त्यान्न्वित्यत्र परं तु यत् ।। ८७ ।।
धीवराः सहसा मीनान् दृष्ट्वा सारस्वते जले ।
जालं प्रक्षिप्य तान्बद्ध्वोद् अक्षिपन्सलिलात्स्थलम् ।।८८।।
शरीरपातभीतास्ते तुष्टुवुश्चादितेः सुतान् ।
मुमुचुस्तांस्ततस्ते च प्रसन्नास्तान् समुदिरे ।। ८९ ।।
धीवराः क्षुद्भयं मा वो भूत् स्वर्गं प्राप्त्यथेति च ।
उतेति माता तत्रैषां तृचेनाभिष्टुतादितिः ।। ९० ।।
१५ःऋग्वेद ८.६८-७५ के देवता
मातृत्वादभिसंबन्धात् स्तूयेतैषां स्तुतौ स्तुतौ ।
ऐन्द्राण्या त्वा रथं त्रीणि स्तौत्यृतूनुप मेति षट् ।। ९१ ।।
कक्षीश्वमेधयोरत्र पञ्च दानस्तुतिः पराः ।
अपादिन्द्रस्य चाग्नेश्च विश्वेषां चैव संस्तवः ।। ९२ ।।
द्वृचस्य प्रथमोऽर्धर्चः शेषो वरुणदैवतः ।
त्वमाग्नेयेऽथवा सूक्तम् उत्तरं हविषां स्तुतिः ।। ९३ ।।
पयः पश्वोषधीनां च तथारूपं हि दृश्यते ।
उदित्याश्विनमाग्नेये परे सूक्ते विशोविशः ।। ९४ ।।
ऋग्भ्यामहमिति द्वाभ्यां स्तौत्यात्मानमृषिः स्वयम् ।
आत्मानमात्मना स्तुत्वा स्तौति दानं श्रुतर्वणः ।।९५।।
आत्मादानाभिसंबन्धात् परुष्णीं च महानदीम् ।
परया परुष्णीमिन्द्रं त्रिभिः सूक्तैरिमं न्विति ।।९६।।
अयं कृत्नुरिदं सौम्यं त्रोण्यैन्द्राणि पराण्यतः ।
नहीति तेषां प्रथमे वैश्वदेव्यृगवीवृधत् ।। ९७ ।।
देवानामिति देवानां प्रेष्टमाग्नेयमुत्तरम् ।
त्रीण्याश्विनात्या म इति ऐन्द्राणि तमितीति च । । ९८ । ।
२१-अपाला की कथा
अपालात्रिसुता त्वासीत् कन्या त्वग्दोषिणी पुरा ।
तामिन्द्रश्चकमे दृष्ट्वा विजने पितुराश्रमे ।।९९।।
तपसा बुबुधे सा तु सर्वमिन्द्रकीर्षितम् ।
उदकुम्भं समादाय अपामर्धे जगाम सा ।। १०० ।।
दष्ट्वा सोममपामन्ते तुष्टावर्चा वने तु तम् ।
कन्या वारिति चैतस्याम् एषोऽर्थः कथितस्ततः ।। १० १।।
सा सुषाव मुखे सोमं सुत्वेन्द्रं चाजुहाव तम् ।
असौ य एषीत्यनया पपाविन्द्रश्च तन्मुखात् ।। १०२ ।।
अपूपांश्चैव सक्तूंऽश्च भक्षयित्वा स तद्गृहात् ।
ऋग्भिस्तुष्टाव सा चैनं जगादैनं तृचेन तु ।। १०३ ।।
सुलोमामनवद्याङ्गीं कुरु मां शक्र सुत्वचम् ।
तस्यास्तद्वचनं श्रुत्वा प्रीतस्तेन पुरन्दरः ।। १०४ ।।
२२-अपाला की कथा ( शेषांश) । ऋग्वेद ८.९२-९३ के देवत
रथछिद्रेण तामिन्द्रः शकटस्य युगस्य च ।
प्रक्षिप्य निश्चकर्ष त्रिः सुत्वक् सातु ततोऽभवत् ।। १ ०५।।
तस्यास्त्वगपहता या पूर्वा सा शल्यकोऽभवत् ।
उत्तरा त्वभवद्गोधा कृकलासस्त्वगुत्तमा ।। १०६ ।।
इतिहासमिदं सूक्तम् आहतुर्यास्कभागुरी ।
कन्येति शौनकस्त्वैन्द्रं पान्तमित्युत्तरे च ये ।। १०७ ।।
उत्तमा त्वार्भवी प्रोक्ता उत्तरस्यैतरेयके ।
छान्दोमिके तृतीये तद् आर्भवं शस्यते यतः ।। १ ०८।।
२३ देवों के पास से सोम के पलायन की कथा ।
मारुतं गौः परं सूक्तम्[१] आत्वैन्द्राणि पराणि षट्[२]
सूक्ते द्वितीय[३] एतेषाम् इतिहासं प्रचक्षते ।
अपक्रम्य तु देवेभ्यः सोमो वृत्रभयार्दितः ।। १ ०९।।
नदीमंशुमतीं[४] नाम्ना अभ्यतिष्ठत्कुरून्प्रति ।
तं बृहस्पतिनैकेन अभ्यवाद्वृत्रहा सह ।।१ १०।।
योत्स्यमानः सुसंहृष्टैर् मरुद्भिर्विविधायुधैः ।
दृष्ट्वा तानायतः सोमः स्वबलेन व्यवस्थितः ।। ११ १।।
मन्वानो वृत्रमायान्तं जिघांसुमरिसेनया ।
व्यवस्थितं धनुष्मन्तं तमुवाच बृहस्पतिः ।। १ १२।।
मरुत्पतिरयं सोम एहि देवान्पुनर्विभो ।
श्रुत्वा देवगुरोर्वाक्यम् अनर्थं वृत्रशङ्कया ।।१ १ ३।।
सोऽब्रवीन्नेति तं शक्रः स्वर्ग एव बलाद्बली ।
इयाय देवानादाय तं पपुर्विधिवत्सुराः ।। १ १४।।
२४-सोम के पलायन की कथा ( क्रमशः) ।
जघ्नुः पीत्वा च दैत्यानां समरे नवतीर्नव ।
तदेतदप्यवेत्यस्मिंस् तृचे सर्वं निगद्यते ।। ११५ ।।
इन्द्रं च मरुतश्चैव तथैव च बृहस्पतिम् ।
तृचस्य देवता ह्येता इन्द्रमेवाह शौनकः ।। ११६ ।।
ऐन्द्राबार्हस्पत्य उक्तो ब्राह्मणे त्वैतरेयके ।
तृचेनेन्द्रमपश्यंस्तं नेमोऽयमिति भार्गवः ।।१ १७।।
तुष्टावेन्द्रो द्वृचेनायम् अहं पश्य च मामृषे ।
स हि स्तुवन्नेम एको नेन्द्री अस्तीति चाब्रवीत् ।। १ १८।।
२५-ऋग्वेद ८.१०० संबन्धी विवरण । विष्णु द्वारा इन्द्र की सहायता
तदाकर्ण्येन्द्र आत्मानम् ऋग्भ्यां तुष्टाव दर्शयन् ।
ऋषिस्तं दृष्ट्वा सुप्रीतो विश्वेत्ता त इति द्वृचे ।।१ १९।।
विविधानि च कर्माणि दानमैन्द्रं च शंसति ।
मनोजवास्तु सौपर्णी समुद्रं वज्रसंस्तवः ।। १२०।।
वाचं सर्वगतां देवीं स्तौति यद्वागिति द्वृचे ।
त्रील्लोकानभितप्येमान् वृत्रस्तस्थौ स्वया त्विषा ।।१२१ ।।
तं नाशकद्धन्तुमिन्द्रो विष्णुमभ्येत्य सोऽब्रवीत् ।
वृत्रं हनिष्ये तिष्ठस्व विक्रम्याद्य ममान्तिके ।।१२२।।
उद्यतस्यैव वज्रस्य द्यौर्ददातु ममान्तरम् ।
तथेति विष्णुस्तच्चक्रे द्यौश्चास्य विवरं ददौ ।। १२३ ।।
२६-ऋग्वेद ७,१०१ के देवताओं से संबन्धित विवरण
तदेतदखिलं प्रोक्तं सखे विष्णविति त्वृचि ।
मैत्रावरुण्यः सूक्ताद्याश् चतस्रस्त्वृधगित्यृचः ।। १२४।।
प्रेति मित्राय पादाश्च अर्यम्णो वरुणस्य च ।
त्रयश्चतुर्थः सर्वेषाम् आदित्यानामिति स्तुतिः ।।१२५।।
परा त्वादित्यदेवत्या आ म इत्यश्विनो द्वृचः ।
वायव्ये सौर्ये उषस्या प्रभां वा चन्द्रसूर्ययोः ।।१२६।।
पावमानी प्रजा हेति मातेत्यृग्भ्यां तु गौ स्तुता ।
त्वमग्ने बृहदाग्नेये परेऽग्निस्त्वृचि संस्तुतः ।। १२७ ।।
मरुद्भिः सह रुद्रैश्च आग्ने याहीति मध्यमः ।
प्रजा हेत्यपि वार्धर्चे प्रथमेऽग्निरिहोच्यते ।। १२८ ।।
पादे तृतीय आदित्यस् तुरीये मध्यम स्तुतः ।
रुहस्ये ब्राह्मणेऽप्येवं व्याख्यतं ह्यैतरेयके ।। १२९ ।।
नवम मण्डल
२७-ऋग्वेद ९.१-८६ के देवता
पवमान स्तुतः सोमो नवमे त्विह मण्डले ।
पवमानवदाप्र्यस्तु समिद्ध इति संस्तुताः ।। १३० ।।
अत्र आयूंषीति चासु तिसृष्वग्निर्निपातभाक् ।
अविता न इति त्वस्मिंस् तृचे पूष्णा सह स्तुतः ।।१ ३१ ।।
आग्नेय्यौ द्वे ऋचावत्र यत्त इत्युत्तरे ततः ।
उभाभ्यामिति सावित्री आग्निसावित्र्यृगुत्तरा ।। १३२ ।।
पुनन्तु मां वैश्वदेवी आग्नेयी त्वृगुप प्रियम् ।
उत्तरे च व इत्येते स्वाध्यायाध्येतृ संस्तवः ।। १३३ ।।
सूक्ते निरुक्ते स्रक्वेऽग्नी रक्षोहा धर्मसंस्तवः ।
सूर्यःवच्चात्मवच्चापि पवित्रमिति चोच्यते ।। १३४ ।।
२८-ऋग्वेद ९.८७.९६.११२. के देवता
आर्भवस्तु भवेत्पाद ऋभुर्धीर इति स्मृतः ।
निपातैस्तु त्रिभिः पादैस् त्रयो देवा इहोदिताः ।।१३५।।
ब्रह्मा देवानां तिस्रोक्तास् त्रिभिस्त्वेतैर्द्वृचैर्द्वृचैः ।
सूर्यवच्चात्मवच्चापि स्तूयते सोम एव वा ।। १३६।।
अनावृष्ट्यां तु वर्तन्त्यां पप्रच्छर्षीञ्छचीपतिः ।
काले दुर्गे महत्यस्मिन् कर्मणा केन जीवथ ।। १३७ ।।
शकटं शाकिनी गावः कृषिरस्यन्दनं वनम् ।
समुद्रः पर्वतो राजा एवं जीवामहे वयम् ।। १३८ ।।
स्तुवन्नेव शशंसास्य ऋषिराङ्गिरसः शिशुः ।
नानानीयेन सूक्तेन ऋषीणामेव संनिधौ ।। १३९ ।।
२९- इन्द्र और ऋषिगण । तप का माहात्म्य ।
तानिन्द्रस्त्वाह सर्वांस्तु तपध्वं सुमहत्तपः ।
न ह्यृते तपसः शक्यम् इदं कृछ्रं व्यपोहितुम् ।। १४० ।।
अथ ते वै तपस्तेपुः सर्वे स्वर्गजिगीषवः ।
ततस्ते तपसोग्रेण पावमानीर्ऋचोऽब्रुवन् ।। १४१ ।।
अनसूयुरधीयानः शुश्रूषुस्तपसान्वितः ।
दश पूर्वापरान् वंश्यान् पुनात्यात्मानमेव च ।। १४२ ।।
पापं यच्चाकरोत्किंचन् मनोवाग्देहभोजनैः ।
पूतः स तस्मात्सर्वस्मात् स्वाध्यायफलमश्नुते ।। १ ४३।।
पावमान्यः परं ब्रह्म शुक्रं ज्योतिः सनातनम् ।
गायत्र्योऽन्तेऽत्र यश्चासां प्राणानायम्य तन्मनाः ।। १ ४४।।
पावमानं पितॄन्देवान् ध्यायेद्यश्च सरस्वतीम् ।
पितॄंस्तस्योपवर्तेत क्षीरं सर्पिर्मधूदकम् ।। १४५ ।।
एतत्सूक्तशतं सौम्यं मण्डलं सचतुर्दशम् ।
पावमानमिति ख्यातम् अनुवाकास्तु सप्त वै ।। १४६ ।।
दशम मण्डल
३०-ऋग्वेद १०.१-८ के देवता । त्रिशिरस् और इन्द्र ।
सप्ताग्नेयानि सूक्तानि ददर्शाथ डति त्रितः ।
प्र केतुनेति त्वाष्ट्रस्तु त्रिशिराः सूक्तमुत्तरम् ।। १४७ ।।
ऋचस्त्वस्य षळाग्नेय्यस् तृचस्त्वस्येति यः परः ।
तेनेन्द्रमभितुष्टाव स्वप्रान्त इति नः श्रुतिः ।। १४८ ।।
अभवत्स हि देवानां पुरोधाः प्रियकाम्यया ।
असुराणां स्वसुः पुत्रस् त्रिशिरा विश्वरूपधृक् ।।१४९।।
तमृषिं प्रहितं त्विन्द्रो देवेषु बुबुधेऽसुरैः ।
सोऽस्य वज्रेण तान्याशु शिरांसि त्रीण्यथाछिदत्।। १५०।।
तस्य यत्सोमपानं तु मुखं सोऽभूत्कपिञ्जलः ।
कलविङ्कः सुरापाणम् अन्नादं तित्तिरिस्त्वभूत् ।।१५१।।
३१-ऋग्वेद १०.९-१४ के देवता
तं वागभ्यवदद्ब्राह्मी ब्रह्महासि शतक्रतो ।
प्रपन्नं हतवान्यस्माद् विश्वरूपं पराङ्मुखम् ।। १५२ ।।
तमभ्यसिञ्चत्सूक्तेन ऋषिराप इति स्वयम् ।
सिन्धुद्वीपोऽपनुत्त्यर्थं तस्याश्लीलस्य पाप्मनः ।। १५३।।
मैथुनार्थमभीप्सन्तीं प्रत्याचष्टे यमी यमः ।
तदो चिदिति संवादो विवस्वत्सुतयोस्तयोः ।। १५४ ।।
वृषाग्नेये हविर्धाने युजे वामत्र संस्तुते ।
परेयिवांसमित्यत्र स्तूयते मध्यमो यमः ।। १५५ ।।
अथर्वाणोऽथ भृगवोऽङ्गिरसः पितरः सह ।
षष्ट्यां देवगणास्तत्र संस्तूयन्ते द्युभक्तयः ।। १५६ ।।
पितृभिश्चाङ्गिरोभिश्च संस्तुतो दृश्यते यमः ।
मन्त्रेषु बहुशः पादे विवस्वन्तं पिता हि सः ।। १५७।।
संस्कार्यप्रेतसंयुक्तैः पितृभि स्तूयते यमः ।
प्रेहि प्रेहिति तिसृषु प्रेताशिष उदाहृताः ।। १५८ ।।
पितॄणां हि पतिर्देवो यमस्तस्मात्स सूक्तभाक् ।
अति द्रव तृचे श्वानौ परं पित्र्यमुदीरताम् ।। १५९।।
उत्तरेण तु सूक्तेन श्मशाने कर्म शंसति ।
पितृदेवासुराणां च अभवन्नग्नयस्त्रयः ।
हव्यकव्यवहौ चोभौ सहरक्षाश्च नाम यः ।। १५० ।।
तत्र मैनमिति त्वेतत् कव्यवाहनसंस्तुतिः ।
इतराणि तु दैवस्य स्तुतिर्नास्यासुरस्य च ।। १६१ ।।
३३-सरण्यू की कथाः ऋग्वेद १०.१७
अभवन्मिथुनं त्वष्टुः सरण्यूस्त्रिशिराः सह ।
स वै सरण्यूं प्रायच्छत् स्वयमेव विवस्वते ।। १६२ ।।
ततः सरण्य्वां जज्ञाते यमस्ययौ विवस्वतः ।
तौ चाप्युभौ यमावेव ज्यायांस्ताभ्यां तु वै यमः ।। १ ६३।।

।। इति वृहद्देवतायां षष्ठोऽध्यायः ।।


  1. गौर्धयति मरुतां इति - ऋ. ८.९४
  2. आ त्वा गिरो इति -ऋ. ८.९५- अयं त एमि इति८.१००
  3. अस्मा उषास इति - ऋ. ८.९६
  4. ऋ. ८.९६.१३-१५
"https://sa.wikisource.org/w/index.php?title=बृहद्देवता/अध्यायः_६&oldid=327605" इत्यस्माद् प्रतिप्राप्तम्