सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः ११/मैधातिथम्

विकिस्रोतः तः
मैधातिथम्.
मैधातिथम्

मा चिदन्यद्वि शंसत सखायो मा रिषण्यत ।
इन्द्रमित्स्तोता वृषणं सचा सुते मुहुरुक्था च शंसत ॥ १३६० ॥ ऋ. ८.१.१
अवक्रक्षिणं वृषभं यथा जुवं गां न चर्षणीसहं ।
विद्वेषणं संवननमुभयङ्करं मंहिष्ठमुभयाविनं ॥ १३६१ ॥



१५. मैधातिथम् । मैधातिथिः। बृहती। इन्द्रः॥
माचिदन्यदोहाइ ॥ विशाऽ३ꣳसाता । सखायाऽ२होऽ१इ । माओऽ३हो ॥ राइषाउवा । ण्याताउवा ॥ इन्द्रमित्स्तोतावृषणाऔऽ३हो । साचाउवा। सूताउवा ॥ मुहुरुक्थाऔऽ३हो। चशा। औहो । वाहोऽ२३४वा । साऽ५तोऽ६" हाइ ॥ श्रीः ॥ मुहुरुक्थोहाइ ॥ चशाऽ३ꣳसाता । मुहुरूऽ२होऽ१ । क्थाऔऽ३हो ॥ चाशाउवा । साताउवा ॥ अवक्रक्षिणंवृषभाऔऽ३हो ॥ याथाउवा। जूवाउवा ॥ गान्नचाऔऽ३हो। षणा । औहो । वाहोऽ२३४वा । साऽ५होऽ६"हाइ ॥ श्रीः ॥ गान्नचोहाई ॥ षणाऽ३इसाहाम् । गान्नाऽ२ होऽ१इ । चाऔऽ३हो ॥ षाणाउवा । साहाउवा । विद्वेषणꣳसवननमाओऽ३हो ॥ भायाउवा । काराउवा ॥ मꣳहिष्ठमाऔऽ३हो । भया। औहो । वाहोऽ२३४वा । वाऽ५इनोऽ६"हाइ ॥
दी. १४. उत् . ९. मा. ३३. धि. ॥२१५।।


[सम्पाद्यताम्]

टिप्पणी

मा चिद् अन्यद् वि शंसतेति मासान् एवैतद् अर्धमासान् अभिवदति। अथो तेषाम् एव प्रजापतिम् अनु प्रजायत। इन्द्रम् इत् स्तोता वृषणं सचा सुते मुहुर् उक्था च शंसत॥ अवक्रक्षिणं वृषभं यथाजुवं गां न चर्षणीसहम्। इति गोमतीः पशुमतीर् भवन्ति पशूनाम् एवावरुद्ध्यै। तासु मैधातिथम् उक्तब्राह्मणम्। - जैब्रा. ३.२९३

मा चिदन्यद्विशंसत"इत्युत्थानमेव तदाशिषो ह्येतर्हि .........एतेन वै मेधातिथिः काण्वो विभिन्दुकाद्व्यूध्नीर्गा उदसृजत पशूनामवरुध्यै मैधातिथं क्रियते - पञ्च.ब्रा १५.१०.२

मा चिद् अन्यद् वि शंसत मा भेम मा श्रमिष्म इति मैधातिथम् मैत्रावरुणस्य दशमे अहन् बृहतीषु पृष्ठम् भवति । न हि तस्य प्राग् दशमाद् अह्नो बृहतीषु पृष्ठम् भवति । एकस्था वै श्रीः । श्रीर् वै बृहती । श्रियाम् एव तद् अन्ततः प्रतितिष्ठन्ते यन्ति । - कौ.ब्रा. २९.५