ऋग्वेदः सूक्तं ८.३१

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं ८.३० ऋग्वेदः - मण्डल ८
सूक्तं ८.३१
मनुर्वैवस्वतः।
सूक्तं ८.३२ →
दे. १-४ यज्ञः यजमानश्च, ५-९ दंपती, १०-१८ दंपत्याशिषः । गायत्री, ९, १४ अनुष्टुप्, १० पादनिचृत्, १५, १८ पङ्क्तिः।


यो यजाति यजात इत्सुनवच्च पचाति च ।
ब्रह्मेदिन्द्रस्य चाकनत् ॥१॥
पुरोळाशं यो अस्मै सोमं ररत आशिरम् ।
पादित्तं शक्रो अंहसः ॥२॥
तस्य द्युमाँ असद्रथो देवजूतः स शूशुवत् ।
विश्वा वन्वन्नमित्रिया ॥३॥
अस्य प्रजावती गृहेऽसश्चन्ती दिवेदिवे ।
इळा धेनुमती दुहे ॥४॥
या दम्पती समनसा सुनुत आ च धावतः ।
देवासो नित्ययाशिरा ॥५॥
प्रति प्राशव्याँ इतः सम्यञ्चा बर्हिराशाते ।
न ता वाजेषु वायतः ॥६॥
न देवानामपि ह्नुतः सुमतिं न जुगुक्षतः ।
श्रवो बृहद्विवासतः ॥७॥
पुत्रिणा ता कुमारिणा विश्वमायुर्व्यश्नुतः ।
उभा हिरण्यपेशसा ॥८॥
वीतिहोत्रा कृतद्वसू दशस्यन्तामृताय कम् ।
समूधो रोमशं हतो देवेषु कृणुतो दुवः ॥९॥
आ शर्म पर्वतानां वृणीमहे नदीनाम् ।
आ विष्णोः सचाभुवः ॥१०॥
ऐतु पूषा रयिर्भगः स्वस्ति सर्वधातमः ।
उरुरध्वा स्वस्तये ॥११॥
अरमतिरनर्वणो विश्वो देवस्य मनसा ।
आदित्यानामनेह इत् ॥१२॥
यथा नो मित्रो अर्यमा वरुणः सन्ति गोपाः ।
सुगा ऋतस्य पन्थाः ॥१३॥
अग्निं वः पूर्व्यं गिरा देवमीळे वसूनाम् ।
सपर्यन्तः पुरुप्रियं मित्रं न क्षेत्रसाधसम् ॥१४॥
मक्षू देववतो रथः शूरो वा पृत्सु कासु चित् ।
देवानां य इन्मनो यजमान इयक्षत्यभीदयज्वनो भुवत् ॥१५॥
न यजमान रिष्यसि न सुन्वान न देवयो ।
देवानां य इन्मनो यजमान इयक्षत्यभीदयज्वनो भुवत् ॥१६॥
नकिष्टं कर्मणा नशन्न प्र योषन्न योषति ।
देवानां य इन्मनो यजमान इयक्षत्यभीदयज्वनो भुवत् ॥१७॥
असदत्र सुवीर्यमुत त्यदाश्वश्व्यम् ।
देवानां य इन्मनो यजमान इयक्षत्यभीदयज्वनो भुवत् ॥१८॥


सायणभाष्यम्

पञ्चमेऽनुवाके द्वादश सूक्तानि । तत्र ‘यो यजाति ' इत्यष्टादशर्चं प्रथमं सूक्तम् । वैवस्वतो मनुर्ऋषिः । नवमीचतुर्दश्यावनुष्टुभौ शिष्टाः पञ्चदश्याद्याश्चतस्रः पङ्क्तयः । दशमी पादनिचृत् । ‘ त्रयः सप्तकाः पादनिचृत् ' (अनु. ४. ४ ) इति तल्लक्षणात् । शिष्टा एकादश प्राग्वत्सप्रपरिभाषया गायत्र्यः । आद्यासु चतसृषु यज्ञस्ततो यजमानप्रशंसा च श्रूयते । अतस्तद्देवताकाः । ‘ या दंपती' इत्याद्यासु पञ्चम्यादिषु दंपती प्रशस्येते अतस्तद्देवताकाः । अवशिष्टासु नवसु दंपत्योराशिषः प्रतिपाद्यन्ते । अतस्ता एव देवताः । तथा चानुक्रम्यते - ‘ यो यजाति द्व्यूनात्रेज्यास्तवो यजमानप्रशंसा च येत्यादिपञ्च दंपत्योः शिष्टास्तदाशिषोऽनुष्टुप् चतुष्पङ्क्त्यन्तं नवम्यनुब्दशमी पादनिचृत् ' इति ॥


यो यजा॑ति॒ यजा॑त॒ इत्सु॒नव॑च्च॒ पचा॑ति च ।

ब्र॒ह्मेदिन्द्र॑स्य चाकनत् ॥१

यः । यजा॑ति । यजा॑ते । इत् । सु॒नव॑त् । च॒ । पचा॑ति । च॒ ।

ब्र॒ह्मा । इत् । इन्द्र॑स्य । चा॒क॒न॒त् ॥१

यः । यजाति । यजाते । इत् । सुनवत् । च । पचाति । च ।

ब्रह्मा । इत् । इन्द्रस्य । चाकनत् ॥१

“यः यजमानः सकृत् "यजाति यागं करोति हविर्भिर्देवान् पूजयति स देवेभ्यो लब्धधनादिकः सन् “यजात “इत् पुनरभीष्टप्राप्तये देवेभ्यो हवींषि प्रयच्छत्येव । तथा स एव यजमानः “सुनवच्च सोमाभिषवं करोति च । स एव “पचाति “च पशुपुरोडाशादिकं पचति च । सर्वत्र यजादिषु लेट्यडागमाः । स यजमानः "इन्द्रस्य "ब्रह्म ब्रह्माणि । “इत् अवधारणे । इन्द्रसंबन्धीनि स्तोत्राण्येव "चाकनत् पुनःपुनः कामयते । कनतेः कान्त्यर्थात् यङ्लुकि अभ्यासत्वं छान्दसम् । ततो लेट्यडागमः । अत्र यागे यजमानो धनादि लभत इति यज्ञप्रशंसा । स एव दृष्टफलः सन् सोमाभिषवादीन् करोतीति यजमानप्रशंसा ॥


पु॒रो॒ळाशं॒ यो अ॑स्मै॒ सोमं॒ रर॑त आ॒शिर॑म् ।

पादित्तं श॒क्रो अंह॑सः ॥२

पु॒रो॒ळाश॑म् । यः । अ॒स्मै॒ । सोम॑म् । रर॑ते । आ॒ऽशिर॑म् ।

पात् । इत् । तम् । श॒क्रः । अंह॑सः ॥२

पुरोळाशम् । यः । अस्मै । सोमम् । ररते । आऽशिरम् ।

पात् । इत् । तम् । शक्रः । अंहसः ॥२

“यः यजमानः "अस्मै इन्द्राय पशुपुरोळाशं तथा "आशिरं तृतीयसवने गोक्षीरेणामिश्रित “सोमं "ररते प्रयच्छति । रातेर्लटि शपः श्लुः। अडागमः। “शक्रः समर्थः स इन्द्रः "तं यष्टारम् “अंहसः पापात् तद्रूपाद्रक्षसो वा "पात् । "इत् अवधारणे । अपादेव । रक्षत्येव । पातेर्लुङि रूपम् ॥


तस्य॑ द्यु॒माँ अ॑स॒द्रथो॑ दे॒वजू॑त॒ः स शू॑शुवत् ।

विश्वा॑ व॒न्वन्न॑मि॒त्रिया॑ ॥३

तस्य॑ । द्यु॒ऽमान् । अ॒स॒त् । रथः॑ । दे॒वऽजू॑तः । सः । शू॒शु॒व॒त् ।

विश्वा॑ । व॒न्वन् । अ॒मि॒त्रिया॑ ॥३

तस्य । द्युऽमान् । असत् । रथः । देवऽजूतः । सः । शूशुवत् ।

विश्वा । वन्वन् । अमित्रिया ॥३

“तस्य देवान् पूजयतो यजमानस्य “देवजूतः देवैरिन्द्रादिभिः प्रेरितः “द्युमान् दीप्तिमान् “रथः रंहणशीलः स्यन्दनो देवानां हविष्प्रदानरूपेण यज्ञेन “असत् भवति आगच्छति । ततस्तेन रथेन “अमित्रिया अमित्रियान् शत्रुभिः कृतान् "विश्वा सर्वान् बाधान् “वन्वन् । 'वनोतिर्हिंसाकर्मा ' इति यास्कः । हिंसन् "सः एव “शूशुवत् पुत्रादिभिर्धनैश्च वर्धते । अत्र येन मे रथो बाधाभावश्चाभूदिति यागप्रशंसा येन सम्यगिष्टदेवा रथं दत्तवन्त इति यजमानप्रशंसा ॥


अस्य॑ प्र॒जाव॑ती गृ॒हेऽस॑श्चन्ती दि॒वेदि॑वे ।

इळा॑ धेनु॒मती॑ दुहे ॥४

अस्य॑ । प्र॒जाऽव॑ती । गृ॒हे । अस॑श्चन्ती । दि॒वेऽदि॑वे ।

इळा॑ । धे॒नु॒ऽमती॑ । दु॒हे॒ ॥४

अस्य । प्रजाऽवती । गृहे । असश्चन्ती । दिवेऽदिवे ।

इळा । धेनुऽमती । दुहे ॥४

“प्रजावती पुत्रादियुक्तम् "असश्चन्ती । सश्चतिर्गतिकर्मा । अगमनशीलं तादृशं “धेनुमती । पयसा सर्वान् धिनोति प्रणयतीति धेनुर्गौः । तत्सहितम् ”इळा अन्नम् "अस्य यष्टुः "गृहे "दिवेदिवे अहरहः "दुहे देवैः दुह्यते । यद्वा । इळेति गवां देवता । सा स्थिरा धेनुमती । गवां पतित्वात् धेनुभिर्धेनुमती । इळा गोदेवता । देवैः प्रेरिता सती अस्य यजमानस्य गृहे दोग्धा । पुत्रादिकमस्मै ददातीत्यर्थः । दुहेर्लटि ‘लोपस्त आत्मनेपदेषु ' इति तलोपः । अत्र इज्यास्तवः ॥


या दम्प॑ती॒ सम॑नसा सुनु॒त आ च॒ धाव॑तः ।

देवा॑सो॒ नित्य॑या॒शिरा॑ ॥५

या । दम्प॑ती॒ इति॒ दम्ऽप॑ती । सऽम॑नसा । सु॒नु॒तः । आ । च॒ । धाव॑तः ।

देवा॑सः । नित्य॑या । आ॒ऽशिरा॑ ॥५

या । दम्पती इति दम्ऽपती । सऽमनसा । सुनुतः । आ । च । धावतः ।

देवासः । नित्यया । आऽशिरा ॥५

अत्र यजने दंपत्योः स्तुतिः । हे "देवासः देवाः "समनसा समनसौ कर्मणि समानमनस्कौ “या यौ “दंपती यज्ञकारिणौ जायापती “सुनुतः सोमाभिषवं कुरुतः । यौ दंपती ततस्तमभिषुतं सोमम् “आ “धावतः "च दशापवित्रेण शोधयतः । ‘ धावु गतिशुद्धयोः '। तथा "नित्यया । यत्र तृतीयसवने सोमोऽस्ति तत्राश्रयणद्रव्यं गोक्षीरमस्त्येव । तस्मात् नित्यसंबन्धेन “आशिरा आश्रयणेन गोक्षीरेण संयुतं सोमं यौ प्रयच्छतः तावन्नादीन् प्राप्नुत इत्युत्तरत्र संबन्धः ॥ ॥ ३८ ॥


प्रति॑ प्राश॒व्याँ॑ इतः स॒म्यञ्चा॑ ब॒र्हिरा॑शाते ।

न ता वाजे॑षु वायतः ॥६

प्रति॑ । प्रा॒श॒व्या॑न् । इ॒तः॒ । स॒म्यञ्चा॑ । ब॒र्हिः । आ॒शा॒ते॒ इति॑ ।

न । ता । वाजे॑षु । वा॒य॒तः॒ ॥६

प्रति । प्राशव्यान् । इतः । सम्यञ्चा । बर्हिः । आशाते इति ।

न । ता । वाजेषु । वायतः ॥६

तौ देवेभ्यो हविषां दातारौ दंपती "प्राशव्यान् । ' अश भोजने '। प्रपूर्वस्यास्यौणादिको भाव उण्प्रत्ययः । प्राशुर्भक्षणम् । तस्मै साधून् हितान् वा अन्नादीन् “प्रति “इतः प्रतिगच्छतः । यद्वा । प्राशितव्यान् । अत्र वर्णलोपः । तावेव "सम्यञ्चा सम्यञ्चौ समीचीनौ संगतौ “बर्हिः यज्ञम् “आशाते आनशाते । तत्र द्रव्यैर्व्याप्नुतः । तस्मात् तौ यष्टारौ भार्यापती “वाजेषु देवैर्दत्तेष्वन्नेषु "न “वायतः । वयतिर्गत्यर्थः । न गच्छतः । सर्वदान्नसहितौ तिष्ठेतामित्यर्थः ॥


न दे॒वाना॒मपि॑ ह्नुतः सुम॒तिं न जु॑गुक्षतः ।

श्रवो॑ बृ॒हद्वि॑वासतः ॥७

न । दे॒वाना॑म् । अपि॑ । ह्नु॒तः॒ । सु॒ऽम॒तिम् । न । जु॒घु॒क्ष॒तः॒ ।

श्रवः॑ । बृ॒हत् । वि॒वा॒स॒तः॒ ॥७

न । देवानाम् । अपि । ह्नुतः । सुऽमतिम् । न । जुघुक्षतः ।

श्रवः । बृहत् । विवासतः ॥७

एतौ दंपती "देवानाम् इन्द्रादीनां "न “अपि "ह्नुतः अपलापं न कुरुतः । अपिह्नवोऽपलापः । देवेभ्यो हविः प्रदास्याम इति प्रतिज्ञाय पुनरदानमपलापः । ‘ ह्नुङ् अपनये '। कथं नापलपन्तीत्यवसीयते । तदाह । “सुमतिं युष्मदीयां शोभनां मतिं "न जुगुक्षतः जुघुक्षतः न संवरीतुमिच्छतः । संवारणमाच्छादनम् । न छादयत इत्यर्थः । किंतु स्तुतिं कुरुतः । ‘ गुहू संवरणे '। सनिग्रहगुहोश्च । (पा. सू. ७. २. १२ ) इति इट्प्रतिषेधः । ढत्वषत्वभावौ । संहिताकाले भष्भावो नास्ति छान्दसत्वात् । किंच “बृहत् देवेभ्यो दीयमानत्वात् महत् “श्रवः । श्रव इत्यन्ननाम । महदन्नं "विवासतः युष्मभ्यं प्रयच्छतः । विवासतिः परिचरणकर्मा । दानमपि च परिचरणमेव । देवैर्दत्तमन्नं घृतादिभिर्मिश्रीकृत्य पुनःपुनर्यजत इत्यर्थः॥


पु॒त्रिणा॒ ता कु॑मा॒रिणा॒ विश्व॒मायु॒र्व्य॑श्नुतः ।

उ॒भा हिर॑ण्यपेशसा ॥८

पु॒त्रिणा॑ । ता । कु॒मा॒रिणा॑ । विश्व॑म् । आयुः॑ । वि । अ॒श्नु॒तः॒ ।

उ॒भा । हिर॑ण्यऽपेशसा ॥८

पुत्रिणा । ता । कुमारिणा । विश्वम् । आयुः । वि । अश्नुतः ।

उभा । हिरण्यऽपेशसा ॥८

“पुत्रिणा पुत्रवन्तौ तत्रापि "कुमारिणा षोडशवर्षदेशीयपुत्रवन्तौ “हिरण्यपेशसा हिरण्मयैराभरणैरलंकृतरूपौ "उभा उभौ “ता तौ दंपती “विश्वं सर्वम् "आयुः आयुष्यं “व्यश्नुतः व्याप्नुतः । यज्ञेन तयोः पुत्रादिकं धनमायुश्च संभवतीत्यर्थः ।।


वी॒तिहो॑त्रा कृ॒तद्व॑सू दश॒स्यन्ता॒मृता॑य॒ कम् ।

समूधो॑ रोम॒शं ह॑तो दे॒वेषु॑ कृणुतो॒ दुव॑ः ॥९

वी॒तिऽहो॑त्रा । कृ॒तद्व॑सू॒ इति॑ कृ॒तत्ऽव॑सू । द॒श॒स्यन्ता॑ । अ॒मृता॑य । कम् ।

सम् । ऊधः॑ । रो॒म॒शम् । ह॒तः॒ । दे॒वेषु॑ । कृ॒णु॒तः॒ । दुवः॑ ॥९

वीतिऽहोत्रा । कृतद्वसू इति कृतत्ऽवसू । दशस्यन्ता । अमृताय । कम् ।

सम् । ऊधः । रोमशम् । हतः । देवेषु । कृणुतः । दुवः ॥९

“वीतिहोत्रा वीतिहोत्रौ । वीतिः प्रियकरो होत्रा यज्ञो ययोस्तौ । अनेन यज्ञेन तयोः सुखादिकं संभवति । तादृशौ । यद्वा । वीतिः कान्त्यर्थः । होत्रेति वाङ्नाम । अस्मद्विषयां स्तुतिं कुरुतमिति पृथक्पृथग्देवैः काम्यमानस्तुती । अत एव "कं सुखप्रदं हवीरूपमन्नं “दशस्यन्ता देवेभ्यः प्रयच्छन्तौ “कृतद्वसू । तकारोपजनश्छान्दसः । याचमानकृतधनौ । पात्रेषूपयुक्तधनावित्यर्थः । एवंविधौ दंपती “अमृताय अमरणाय संतानाभिवृद्धये "रोमशं रोमवन्तं वृषणम् “ऊधः योनिं च “सं “हतः संयोजयत इति मैथुनमनूद्यते । ततः सपुत्रादिकौ तौ "देवेषु "दुवः स्तुत्यन्नदानरूपां परिचर्यां “कृणुतः कुरुतः । पञ्चभिर्दंपती अस्तूयेताम् ॥


आ शर्म॒ पर्व॑तानां वृणी॒महे॑ न॒दीना॑म् ।

आ विष्णो॑ः सचा॒भुव॑ः ॥१०

आ । शर्म॑ । पर्व॑तानाम् । वृ॒णी॒महे॑ । न॒दीना॑म् ।

आ । विष्णोः॑ । स॒चा॒ऽभुवः॑ ॥१०

आ । शर्म । पर्वतानाम् । वृणीमहे । नदीनाम् ।

आ । विष्णोः । सचाऽभुवः ॥१०

एतदादिषु दंपत्योराशिषः । यष्टारो वयं “पर्वतानां फलपुष्पसहितलताभिर्युक्तानां यत् "शर्म सुखं तत्तेषां स्थैर्यलक्षणं सुखं वा "नदीनां चोभयकूलवासिभिर्मुनिभिर्मनुष्यैर्वा जपाद्यनुष्ठाने कृते यत्सुखं तासां भवति तत्सुखमेकत्र स्थित्वा सकलपदार्थभोक्तृत्वलक्षणमनुष्ठानलक्षणं सुखम् “आ “वृणीमहे संभजामहे । "सचाभुवः देवैः सह भवतो देवसहितस्य "विष्णोः अपि शत्रुहननलक्षणं यत्सुखं तदपि वयम् "आ वृणीमहे । बाधाभावाद्धविष्प्रदानेन देवैः सह वर्तामह इत्यर्थः ॥ ॥ ३९ ॥


ऐतु॑ पू॒षा र॒यिर्भग॑ः स्व॒स्ति स॑र्व॒धात॑मः ।

उ॒रुरध्वा॑ स्व॒स्तये॑ ॥११

आ । ए॒तु॒ । पू॒षा । र॒यिः । भगः॑ । स्व॒स्ति । स॒र्व॒ऽधात॑मः ।

उ॒रुः । अध्वा॑ । स्व॒स्तये॑ ॥११

आ । एतु । पूषा । रयिः । भगः । स्वस्ति । सर्वऽधातमः ।

उरुः । अध्वा । स्वस्तये ॥११

“रयिः धनानां दाता "भगः भजनीयः सर्वैः स"र्वधातमः सर्वेषां धारयितृतमः सर्वेषां धनादिभिः पोषयितृतमः "पूषा एतन्नामको देवः "स्वस्ति क्षेमेण “आ “एतु अस्मान् प्रत्यागच्छतु । ततो मार्गरक्षके पूषण्यागते सति "उरुः विस्तीर्णः "अध्वा मार्गः "स्वस्तये अस्माकमविनाशाय भवतु ॥


अ॒रम॑तिरन॒र्वणो॒ विश्वो॑ दे॒वस्य॒ मन॑सा ।

आ॒दि॒त्याना॑मने॒ह इत् ॥१२

अ॒रम॑तिः । अ॒न॒र्वणः॑ । विश्वः॑ । दे॒वस्य॑ । मन॑सा ।

आ॒दि॒त्याना॑म् । अ॒ने॒हः । इत् ॥१२

अरमतिः । अनर्वणः । विश्वः । देवस्य । मनसा ।

आदित्यानाम् । अनेहः । इत् ॥१२

देवानां मध्ये पूषणमाह । "अनर्वणः । अर्वा गन्तव्यः । शत्रुभिरगन्तव्यस्य अप्रत्यृतस्य “देवस्य द्योतमानस्य पूष्णः “विश्वः सर्वः स्तोतृजनः "मनसा श्रद्धया भक्त्यैव "अरमतिः अलंमतिः पर्याप्तस्तुतिर्भवति । तथा हि “आदित्यानाम् अदितेः पुत्राणां देवानां दानम् "अनेह “इत् अपापमेव खलु । तस्मादन्नादिप्राप्तये स्तोतृजनः पूषणं स्तौतीत्यर्थः ।।


यथा॑ नो मि॒त्रो अ॑र्य॒मा वरु॑ण॒ः सन्ति॑ गो॒पाः ।

सु॒गा ऋ॒तस्य॒ पन्था॑ः ॥१३

यथा॑ । नः॒ । मि॒त्रः । अ॒र्य॒मा । वरु॑णः । सन्ति॑ । गो॒पाः ।

सु॒ऽगाः । ऋ॒तस्य॑ । पन्थाः॑ ॥१३

यथा । नः । मित्रः । अर्यमा । वरुणः । सन्ति । गोपाः ।

सुऽगाः । ऋतस्य । पन्थाः ॥१३

"मित्रोऽर्यमा "वरुणः एते त्रयो देवाः "नः अस्माकं “गोपाः गोपायितारः "यथा “सन्ति भवन्ति यैर्मार्गैर्वयमेतैः पालयितव्या भवाम ते “ऋतस्य सत्यभूतस्य यज्ञस्य “पन्थाः पन्थानः "सुगाः एषां सुगमना भवन्तु । तैरागत्य अस्मान् यज्ञमार्गे स्थापयन्त्वित्यर्थः ॥


अ॒ग्निं व॑ः पू॒र्व्यं गि॒रा दे॒वमी॑ळे॒ वसू॑नाम् ।

स॒प॒र्यन्त॑ः पुरुप्रि॒यं मि॒त्रं न क्षे॑त्र॒साध॑सम् ॥१४

अ॒ग्निम् । वः॒ । पू॒र्व्यम् । गि॒रा । दे॒वम् । ई॒ळे॒ । वसू॑नाम् ।

स॒प॒र्यन्तः॑ । पु॒रु॒ऽप्रि॒यम् । मि॒त्रम् । न । क्षे॒त्र॒ऽसाध॑सम् ॥१४

अग्निम् । वः । पूर्व्यम् । गिरा । देवम् । ईळे । वसूनाम् ।

सपर्यन्तः । पुरुऽप्रियम् । मित्रम् । न । क्षेत्रऽसाधसम् ॥१४

हे देवाः “वः युष्माकं “पूर्व्यं मुख्यं पुरतो गन्तारं वा “देवं स्वभासा दीप्यमानम् "अग्निं “वसूनां प्राप्तये “गिरा स्तुतिलक्षणया वाचा “ईळे अहं स्तौमि । किंच “सपर्यन्तः युष्मान् परिचरन्तो मनुष्याः “पुरुप्रियं बहविधप्रियं बहूनामभिमतदानेन प्रीणयितारं वा क्षेत्रसाधसम् । क्षियन्ति निवसन्ति कर्मकरणार्थमत्रेति क्षेत्रो यज्ञः । तस्य साधकम् । साधने दृष्टान्तः । “मित्रं “न । यथा मित्रं सुहृदन्यस्य क्षेत्रं केदारादिकं साधयति तद्वद्यज्ञसाधकमग्निं वसुप्राप्तये स्तुवन्ति ॥


म॒क्षू दे॒वव॑तो॒ रथ॒ः शूरो॑ वा पृ॒त्सु कासु॑ चित् ।

दे॒वानां॒ य इन्मनो॒ यज॑मान॒ इय॑क्षत्य॒भीदय॑ज्वनो भुवत् ॥१५

म॒क्षु । दे॒वऽव॑तः । रथः॑ । शूरः॑ । वा॒ । पृ॒त्ऽसु । कासु॑ । चि॒त् ।

दे॒वाना॑म् । यः । इत् । मनः॑ । यज॑मानः । इय॑क्षति । अ॒भि । इत् । अय॑ज्वनः । भु॒व॒त् ॥१५

मक्षु । देवऽवतः । रथः । शूरः । वा । पृत्ऽसु । कासु । चित् ।

देवानाम् । यः । इत् । मनः । यजमानः । इयक्षति । अभि । इत् । अयज्वनः । भुवत् ॥१५

“देववतः । देवा यष्टव्यतया यस्य सन्ति स देववान् । तस्य "रथः देवैर्दत्त: "मक्षु शीघ्रं दुर्गमं मार्गमपि प्रविशति । सर्वत्राप्रतिहतगतिरित्यर्थः । तत्र दृष्टान्तः । “वा इतिशब्दोऽत्र उपमानवाची । यथा “शूरः योद्धा “कासु "चित् "पृत्सु पृतनासु तद्वत् । "यः "देवानाम् । "इत् अवधारणे । "मनः एव “इयक्षति स्तुतिभिः पूजयितुमिच्छति । यद्वा । देवानां मन इयक्षति हविर्भिर्यष्टुमिच्छति । सः "यजमानः "अयज्वनः यागमकुर्वतो जनान् "अभि “भुवत् स्वसामर्थ्येनाभिभवत्येव ।। इयक्षति । ‘ यक्ष पूजायाम् '। यज देवपूजादिषु । उभयोरभ्यासस्य संप्रसारणं छान्दसम् । पूर्वस्य ‘ स्कोः संयोगाद्योः ' इति ककारलोपः ॥


न य॑जमान रिष्यसि॒ न सु॑न्वान॒ न दे॑वयो ।

दे॒वानां॒ य इन्मनो॒ यज॑मान॒ इय॑क्षत्य॒भीदय॑ज्वनो भुवत् ॥१६

न । य॒ज॒मा॒न॒ । रि॒ष्य॒सि॒ । न । सु॒न्वा॒न॒ । न । दे॒व॒यो॒ इति॑ देवऽयो ।

दे॒वाना॑म् । यः । इत् । मनः॑ । यज॑मानः । इय॑क्षति । अ॒भि । इत् । अय॑ज्वनः । भु॒व॒त् ॥१६

न । यजमान । रिष्यसि । न । सुन्वान । न । देवयो इति देवऽयो ।

देवानाम् । यः । इत् । मनः । यजमानः । इयक्षति । अभि । इत् । अयज्वनः । भुवत् ॥१६

हे "यजमान "यः भवान् “देवानां "मनः “इयक्षति स त्वं "न “रिष्यसि विनष्टो न भवसि । किंतु पुत्रपौत्रादिभिर्वर्धसे । हे "सुन्वान सोमाभिषवं कुर्वन् यः सुन्वंस्तेषां मन इयक्षति स त्वमपि “न रिष्यसि । हे “देवयो देवान् कामयमान यो देवानियक्षति तादृशस्त्वमपि “न रिष्यसि किंतु धनादिभिर्वर्धसे । देवानां मनो यो यजमानो यष्टुमिच्छति स यागमकुर्वतो जनानभिभवति ॥


नकि॒ष्टं कर्म॑णा नश॒न्न प्र यो॑ष॒न्न यो॑षति ।

दे॒वानां॒ य इन्मनो॒ यज॑मान॒ इय॑क्षत्य॒भीदय॑ज्वनो भुवत् ॥१७

नकिः॑ । तम् । कर्म॑णा । न॒श॒त् । न । प्र । यो॒ष॒त् । न । यो॒ष॒ति॒ ।

दे॒वाना॑म् । यः । इत् । मनः॑ । यज॑मानः । इय॑क्षति । अ॒भि । इत् । अय॑ज्वनः । भु॒व॒त् ॥१७

नकिः । तम् । कर्मणा । नशत् । न । प्र । योषत् । न । योषति ।

देवानाम् । यः । इत् । मनः । यजमानः । इयक्षति । अभि । इत् । अयज्वनः । भुवत् ॥१७

"यः यजमानः "देवानां "मनः यष्टुमिच्छति "तं "नकिः न कश्चिदपि "नशत् स्वकीयेन “कर्मणा न व्याप्नोति । नशतिव्याप्तिकर्मा । किंच स यष्टा “न “प्र “योषत् स्वस्मात् स्थानान्न विभक्तः पृथक्कृतो न भवति । किंच "न “योषति पुत्रादिभिर्धनादिभिश्च न विभक्तो भवति । ‘यु मिश्रणामिश्रणयोः' इत्यस्य उभयत्र लेट्यडागमः । शिष्टं व्याख्यातम् ॥


अस॒दत्र॑ सु॒वीर्य॑मु॒त त्यदा॒श्वश्व्य॑म् ।

दे॒वानां॒ य इन्मनो॒ यज॑मान॒ इय॑क्षत्य॒भीदय॑ज्वनो भुवत् ॥१८

अस॑त् । अत्र॑ । सु॒ऽवीर्य॑म् । उ॒त । त्यत् । आ॒शु॒ऽअश्व्य॑म् ।

दे॒वाना॑म् । यः । इत् । मनः॑ । यज॑मानः । इय॑क्षति । अ॒भि । इत् । अय॑ज्वनः । भु॒व॒त् ॥१८

असत् । अत्र । सुऽवीर्यम् । उत । त्यत् । आशुऽअश्व्यम् ।

देवानाम् । यः । इत् । मनः । यजमानः । इयक्षति । अभि । इत् । अयज्वनः । भुवत् ॥१८

“यः यजमानः “देवानां “मनः यष्टgमिच्छति “अत्र अस्मिन् यजमाने “सुवीर्यं शोभनवीर्योपेतं पुत्रादिकम् “असत् भवत्येव । “उत अपि च "आश्वश्व्यम् आशुगमनाश्वसंघयुक्तं “त्यत् तद्धनादिकं तस्मिन् यजमाने भवति । देवानां मनो यो जनो हविर्भिर्यष्टुमिच्छति यद्वा पूजयितुमिच्छति स जनः “अयज्वनः सर्वानभिभवत्येव ॥ ॥ ४० ॥

मण्डल ८

सूक्तं ८.१

सूक्तं ८.२

सूक्तं ८.३

सूक्तं ८.४

सूक्तं ८.५

सूक्तं ८.६

सूक्तं ८.७

सूक्तं ८.८

सूक्तं ८.९

सूक्तं ८.१०

सूक्तं ८.११

सूक्तं ८.१२

सूक्तं ८.१३

सूक्तं ८.१४

सूक्तं ८.१५

सूक्तं ८.१६

सूक्तं ८.१७

सूक्तं ८.१८

सूक्तं ८.१९

सूक्तं ८.२०

सूक्तं ८.२१

सूक्तं ८.२२

सूक्तं ८.२३

सूक्तं ८.२४

सूक्तं ८.२५

सूक्तं ८.२६

सूक्तं ८.२७

सूक्तं ८.२८

सूक्तं ८.२९

सूक्तं ८.३०

सूक्तं ८.३१

सूक्तं ८.३२

सूक्तं ८.३३

सूक्तं ८.३४

सूक्तं ८.३५

सूक्तं ८.३६

सूक्तं ८.३७

सूक्तं ८.३८

सूक्तं ८.३९

सूक्तं ८.४०

सूक्तं ८.४१

सूक्तं ८.४२

सूक्तं ८.४३

सूक्तं ८.४४

सूक्तं ८.४५

सूक्तं ८.४६

सूक्तं ८.४७

सूक्तं ८.४८

सूक्तं ८.४९

सूक्तं ८.५०

सूक्तं ८.५१

सूक्तं ८.५२

सूक्तं ८.५३

सूक्तं ८.५४

सूक्तं ८.५५

सूक्तं ८.५६

सूक्तं ८.५७

सूक्तं ८.५८

सूक्तं ८.५९

सूक्तं ८.६०

सूक्तं ८.६१

सूक्तं ८.६२

सूक्तं ८.६३

सूक्तं ८.६४

सूक्तं ८.६५

सूक्तं ८.६६

सूक्तं ८.६७

सूक्तं ८.६८

सूक्तं ८.६९

सूक्तं ८.७०

सूक्तं ८.७१

सूक्तं ८.७२

सूक्तं ८.७३

सूक्तं ८.७४

सूक्तं ८.७५

सूक्तं ८.७६

सूक्तं ८.७७

सूक्तं ८.७८

सूक्तं ८.७९

सूक्तं ८.८०

सूक्तं ८.८१

सूक्तं ८.८२

सूक्तं ८.८३

सूक्तं ८.८४

सूक्तं ८.८५

सूक्तं ८.८६

सूक्तं ८.८७

सूक्तं ८.८८

सूक्तं ८.८९

सूक्तं ८.९०

सूक्तं ८.९१

सूक्तं ८.९२

सूक्तं ८.९३

सूक्तं ८.९४

सूक्तं ८.९५

सूक्तं ८.९६

सूक्तं ८.९७

सूक्तं ८.९८

सूक्तं ८.९९

सूक्तं ८.१००

सूक्तं ८.१०१

सूक्तं ८.१०२

सूक्तं ८.१०३

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_८.३१&oldid=201820" इत्यस्माद् पुनः प्राप्तिः