ऋग्वेदः सूक्तं ८.४३

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं ८.४२ ऋग्वेदः - मण्डल ८
सूक्तं ८.४३
विरूप आङ्गिरसः।
सूक्तं ८.४४ →
दे. अग्निः। गायत्री।


इमे विप्रस्य वेधसोऽग्नेरस्तृतयज्वनः ।
गिर स्तोमास ईरते ॥१॥
अस्मै ते प्रतिहर्यते जातवेदो विचर्षणे ।
अग्ने जनामि सुष्टुतिम् ॥२॥
आरोका इव घेदह तिग्मा अग्ने तव त्विषः ।
दद्भिर्वनानि बप्सति ॥३॥
हरयो धूमकेतवो वातजूता उप द्यवि ।
यतन्ते वृथगग्नयः ॥४॥
एते त्ये वृथगग्नय इद्धासः समदृक्षत ।
उषसामिव केतवः ॥५॥
कृष्णा रजांसि पत्सुतः प्रयाणे जातवेदसः ।
अग्निर्यद्रोधति क्षमि ॥६॥
धासिं कृण्वान ओषधीर्बप्सदग्निर्न वायति ।
पुनर्यन्तरुणीरपि ॥७॥
जिह्वाभिरह नन्नमदर्चिषा जञ्जणाभवन् ।
अग्निर्वनेषु रोचते ॥८॥
अप्स्वग्ने सधिष्टव सौषधीरनु रुध्यसे ।
गर्भे सञ्जायसे पुनः ॥९॥
उदग्ने तव तद्घृतादर्ची रोचत आहुतम् ।
निंसानं जुह्वो मुखे ॥१०॥
उक्षान्नाय वशान्नाय सोमपृष्ठाय वेधसे ।
स्तोमैर्विधेमाग्नये ॥११॥
उत त्वा नमसा वयं होतर्वरेण्यक्रतो ।
अग्ने समिद्भिरीमहे ॥१२॥
उत त्वा भृगुवच्छुचे मनुष्वदग्न आहुत ।
अङ्गिरस्वद्धवामहे ॥१३॥
त्वं ह्यग्ने अग्निना विप्रो विप्रेण सन्सता ।
सखा सख्या समिध्यसे ॥१४॥
स त्वं विप्राय दाशुषे रयिं देहि सहस्रिणम् ।
अग्ने वीरवतीमिषम् ॥१५॥
अग्ने भ्रातः सहस्कृत रोहिदश्व शुचिव्रत ।
इमं स्तोमं जुषस्व मे ॥१६॥
उत त्वाग्ने मम स्तुतो वाश्राय प्रतिहर्यते ।
गोष्ठं गाव इवाशत ॥१७॥
तुभ्यं ता अङ्गिरस्तम विश्वाः सुक्षितयः पृथक् ।
अग्ने कामाय येमिरे ॥१८॥
अग्निं धीभिर्मनीषिणो मेधिरासो विपश्चितः ।
अद्मसद्याय हिन्विरे ॥१९॥
तं त्वामज्मेषु वाजिनं तन्वाना अग्ने अध्वरम् ।
वह्निं होतारमीळते ॥२०॥
पुरुत्रा हि सदृङ्ङसि विशो विश्वा अनु प्रभुः ।
समत्सु त्वा हवामहे ॥२१॥
तमीळिष्व य आहुतोऽग्निर्विभ्राजते घृतैः ।
इमं नः शृणवद्धवम् ॥२२॥
तं त्वा वयं हवामहे शृण्वन्तं जातवेदसम् ।
अग्ने घ्नन्तमप द्विषः ॥२३॥
विशां राजानमद्भुतमध्यक्षं धर्मणामिमम् ।
अग्निमीळे स उ श्रवत् ॥२४॥
अग्निं विश्वायुवेपसं मर्यं न वाजिनं हितम् ।
सप्तिं न वाजयामसि ॥२५॥
घ्नन्मृध्राण्यप द्विषो दहन्रक्षांसि विश्वहा ।
अग्ने तिग्मेन दीदिहि ॥२६॥
यं त्वा जनास इन्धते मनुष्वदङ्गिरस्तम ।
अग्ने स बोधि मे वचः ॥२७॥
यदग्ने दिविजा अस्यप्सुजा वा सहस्कृत ।
तं त्वा गीर्भिर्हवामहे ॥२८॥
तुभ्यं घेत्ते जना इमे विश्वाः सुक्षितयः पृथक् ।
धासिं हिन्वन्त्यत्तवे ॥२९॥
ते घेदग्ने स्वाध्योऽहा विश्वा नृचक्षसः ।
तरन्तः स्याम दुर्गहा ॥३०॥
अग्निं मन्द्रं पुरुप्रियं शीरं पावकशोचिषम् ।
हृद्भिर्मन्द्रेभिरीमहे ॥३१॥
स त्वमग्ने विभावसुः सृजन्सूर्यो न रश्मिभिः ।
शर्धन्तमांसि जिघ्नसे ॥३२॥
तत्ते सहस्व ईमहे दात्रं यन्नोपदस्यति ।
त्वदग्ने वार्यं वसु ॥३३॥

सायणभाष्यम्

षष्ठेऽनुवाके षट् सूक्तानि । तत्र 'इमे विप्रस्य' इति त्रयस्त्रिशदृचं प्रथमं सूक्तमाङ्गिरसस्य विरूपस्यार्षं गायत्रमग्निदेवताकम् । तथा चानुक्रान्तम्-‘इमे त्रयस्त्रिंशद्विरूप आङ्गिरस आग्नेयं तु ' इति । प्रातरनुवाक आग्नेये क्रतौ गायत्रे छन्दस्याश्विनशस्त्रे चैतदादिके द्वे सूक्ते । सूत्रितं च - ’इमे विप्रस्येति सूक्ते' ( आश्व. श्रौ. ४. १३) इति । कारीर्यवभृथेष्ट्योः प्रथमाज्यभागस्य ‘अप्स्वग्ने' इत्यनुवाक्या। तथा च सूत्रितम्- अप्सुमन्तावाज्यभागावप्स्वग्ने सधिष्टव' (आश्व. श्रौ. २. १३) इति । आग्नीध्रस्य प्रातःसवने प्रस्थितयाज्या । श्रूयते च - ’उक्षान्नाय वशान्नायेत्याग्नीध्रो यजति ' ( ऐ. ब्रा. ६. १०) इति । अग्निवतीष्टौ ‘त्वं ह्यग्ने ' इत्येषा याज्या । सूत्रितं च - ’त्वं ह्यग्ने अग्निनाग्ने त्वमस्मद्युयोध्यमीवाः' ( आश्व. श्रौ. ३. १३) इति । अग्निमन्थनेऽप्येषा । सूत्रितं च - ’त्वं ह्यग्ने अग्निना तं मर्जयन्त सुक्रतुम्' (आश्व. श्रौ. २. १६) इति । अग्नये कामायाष्टाकपालेष्टौ ‘तुभ्यं ता अङ्गिरस्तम' इत्येषानुवाक्या । सूत्रितं च--- तुभ्यं ता अङ्गिरस्तमाश्याम तं काममग्ने तवोतीति कामाय' ( आश्व. श्रौ. २. १०) इति । अन्वाहिताग्नेः प्रयाणे समारोपणपक्षेऽनयैकाहुतिः कर्तव्या । तथा च सूत्रितं - ’तुभ्यं ता अङ्गिरस्तमेति वाज्याहुतिं हुत्वा समारोपयेत्' (आश्व. श्रौ. ३. १०) इति । वैद्युताग्निनाम्नीनां संसर्गेऽग्नयेऽप्सुमतीष्टिः । तत्र ‘ यदग्ने दिविजाः' इति याज्या । ‘यदग्ने दिविजा अस्यग्निर्होता न्यसीदद्यजीयान्' (आश्व. श्रौ. ३. १३) इति ॥


इ॒मे विप्र॑स्य वे॒धसो॒ऽग्नेरस्तृ॑तयज्वनः ।

गिरः॒ स्तोमा॑स ईरते ॥१

इ॒मे । विप्र॑स्य । वे॒धसः॑ । अ॒ग्नेः । अस्तृ॑तऽयज्वनः ।

गिरः॑ । स्तोमा॑सः । ई॒र॒ते॒ ॥

इमे । विप्रस्य । वेधसः । अग्नेः । अस्तृतऽयज्वनः ।

गिरः । स्तोमासः । ईरते ॥

"इमे अस्मदीयाः “स्तोमासः स्तोतारः विप्रस्य मेधाविनः "वेधसः विधातुः अस्तृतयज्वनः अहिंसितयजमानस्य अग्नेः गिरः स्तुतीः "ईरते प्रेरयन्ति ।।


अस्मै॑ ते प्रति॒हर्य॑ते॒ जात॑वेदो॒ विच॑र्षणे ।

अग्ने॒ जना॑मि सुष्टु॒तिं ॥२

अस्मै॑ । ते॒ । प्र॒ति॒ऽहर्य॑ते । जात॑ऽवेदः । विऽच॑र्षणे ।

अग्ने॑ । जना॑मि । सु॒ऽस्तु॒तिम् ॥

अस्मै । ते । प्रतिऽहर्यते । जातऽवेदः । विऽचर्षणे ।

अग्ने । जनामि । सुऽस्तुतिम् ॥

हे "जातवेदः जातधन "विचर्षणे विद्रष्टः "अग्ने "अस्मै "प्रतिहर्यते प्रयच्छते "ते तुभ्यं "सुष्टुतिं शोभनां स्तुतिं "जनामि आङ्गिरसोऽहं जनयामि ॥


आ॒रो॒का इ॑व॒ घेदह॑ ति॒ग्मा अ॑ग्ने॒ तव॒ त्विषः॑ ।

द॒द्भिर्वना॑नि बप्सति ॥३

आ॒रो॒काःऽइ॑व । घ॒ । इत् । अह॑ । ति॒ग्माः । अ॒ग्ने॒ । तव॑ । त्विषः॑ ।

द॒त्ऽभिः । वना॑नि । ब॒प्स॒ति॒ ॥

आरोकाःऽइव । घ । इत् । अह । तिग्माः । अग्ने । तव । त्विषः ।

दत्ऽभिः । वनानि । बप्सति ॥

हे अग्ने “तव "तिग्माः तीक्ष्णाः “त्विषः दीप्तयः “आरोकाइव आरोचमानाः पशव इव “दद्भिः दन्तैः "वनानि अरण्यानि “बप्सति भक्षयन्ति । “घेदह इति त्रयं पूरकम् ।।


हर॑यो धू॒मके॑तवो॒ वात॑जूता॒ उप॒ द्यवि॑ ।

यतं॑ते॒ वृथ॑ग॒ग्नयः॑ ॥४

हर॑यः । धू॒मऽके॑तवः । वात॑ऽजूताः । उप॑ । द्यवि॑ ।

यत॑न्ते । वृथ॑क् । अ॒ग्नयः॑ ॥

हरयः । धूमऽकेतवः । वातऽजूताः । उप । द्यवि ।

यतन्ते । वृथक् । अग्नयः ॥

"हरयः हरणशीलाः “वातजूताः वातप्रेरिताः "धूमकेतवः धूमध्वजाः "अग्नयः "उप “द्यवि अन्तरिक्षे "वृथक् पृथक् "यतन्ते गच्छन्ति । पृथगित्यनेन सममव्ययं वृथगिति । पृथगित्येव वाजसनेयिनः पठन्ति (वा. सं. ३३. २)॥


ए॒ते त्ये वृथ॑ग॒ग्नय॑ इ॒द्धासः॒ सम॑दृक्षत ।

उ॒षसा॑मिव के॒तवः॑ ॥५

ए॒ते । त्ये । वृथ॑क् । अ॒ग्नयः॑ । इ॒द्धासः॑ । सम् । अ॒दृ॒क्ष॒त॒ ।

उ॒षसा॑म्ऽइव । के॒तवः॑ ॥

एते । त्ये । वृथक् । अग्नयः । इद्धासः । सम् । अदृक्षत ।

उषसाम्ऽइव । केतवः ॥

“एते “त्ये एते अग्नयः "वृथक् पृथक् "इद्धासः अग्निहोत्रिभिः समिद्धाः सन्तः "उषसामिव “केतवः उषसां प्रज्ञापका इव "समदृक्षत सम्यग्दृश्यन्ते ॥ ॥ २९ ॥


कृ॒ष्णा रजां॑सि पत्सु॒तः प्र॒याणे॑ जा॒तवे॑दसः ।

अ॒ग्निर्यद्रोध॑ति॒ क्षमि॑ ॥६

कृ॒ष्णा । रजां॑सि । प॒त्सु॒तः । प्र॒ऽयाने॑ । जा॒तऽवे॑दसः ।

अ॒ग्निः । यत् । रोध॑ति । क्षमि॑ ॥

कृष्णा । रजांसि । पत्सुतः । प्रऽयाने । जातऽवेदसः ।

अग्निः । यत् । रोधति । क्षमि ॥

"जातवेदसः अग्नेः "प्रयाणे “पत्सुतः पत्तः "रजांसि पांसवः कृष्णानि भवन्ति । कदेत्यत आह । "क्षमि क्षमायां "यत् यदा “अग्निः "रोधति शुष्कान् वनस्पतीन् निरुणद्धि ।।।


धा॒सिं कृ॑ण्वा॒न ओष॑धी॒र्बप्स॑द॒ग्निर्न वा॑यति ।

पुन॒र्यंतरु॑णी॒रपि॑ ॥७

धा॒सिम् । कृ॒ण्वा॒नः । ओष॑धीः । बप्स॑त् । अ॒ग्निः । न । वा॒य॒ति॒ ।

पुनः॑ । यन् । तरु॑णीः । अपि॑ ॥

धासिम् । कृण्वानः । ओषधीः । बप्सत् । अग्निः । न । वायति ।

पुनः । यन् । तरुणीः । अपि ॥

“अग्निः “ओषधीः “धासिम् अन्नम्। 'क्षुत् धासि' इत्यन्ननामसु पाठात् । "कृण्वानः कुर्वन् “बप्सत् भक्षयन् "न “वायति न शाम्यति । "पुनः च “तरुणीः ओषधीः "अपि "यन् गच्छन् भवति । भक्षयितुमिति शेषः ।।


जि॒ह्वाभि॒रह॒ नन्न॑मद॒र्चिषा॑ जंजणा॒भव॑न् ।

अ॒ग्निर्वने॑षु रोचते ॥८

जि॒ह्वाभिः॑ । अह॑ । नन्न॑मत् । अ॒र्चिषा॑ । ज॒ञ्ज॒णा॒ऽभव॑न् ।

अ॒ग्निः । वने॑षु । रो॒च॒ते॒ ॥

जिह्वाभिः । अह । नन्नमत् । अर्चिषा । जञ्जणाऽभवन् ।

अग्निः । वनेषु । रोचते ॥

"अग्निः “जिह्वाभिरह ज्वालाभिरेव "नन्नमत् वनस्पतीनत्यन्तं नमयन् "अर्चिषा तेजसा “जञ्जणाभवन् ज्वलन् । ‘जञ्जणाभवन् मल्मलाभवन्' इति ज्वलतिकर्मसु पाठात् । "वनेषु अरण्येषु “रोचते प्रकाशते ।।


अ॒प्स्व॑ग्ने॒ सधि॒ष्टव॒ सौष॑धी॒रनु॑ रुध्यसे ।

गर्भे॒ संजा॑यसे॒ पुनः॑ ॥९

अ॒प्ऽसु । अ॒ग्ने॒ । सधिः॑ । तव॑ । सः । ओष॑धीः । अनु॑ । रु॒ध्य॒से॒ ।

गर्भे॑ । सन् । जा॒य॒से॒ । पुन॒रिति॑ ॥

अप्ऽसु । अग्ने । सधिः । तव । सः । ओषधीः । अनु । रुध्यसे ।

गर्भे । सन् । जायसे । पुनरिति ॥

हे "अग्ने यस्य “तव "अप्सु सधिः प्रवेशस्थानं "सः त्वम् "ओषधीः "अनु “रुध्यसे अनुरुणत्सि । "पुनः च तासां भूमिष्ठानां "गर्भे "सन् भवन् "जायसे प्रादुर्भवसि ॥


उद॑ग्ने॒ तव॒ तद्घृ॒ताद॒र्ची रो॑चत॒ आहु॑तं ।

निंसा॑नं जु॒ह्वो॒३॒॑ मुखे॑ ॥१०

उत् । अ॒ग्ने॒ । तव॑ । तत् । घृ॒तात् । अ॒र्चिः । रो॒च॒ते॒ । आऽहु॑तम् ।

निंसा॑नम् । जु॒ह्वः॑ । मुखे॑ ॥

उत् । अग्ने । तव । तत् । घृतात् । अर्चिः । रोचते । आऽहुतम् ।

निंसानम् । जुह्वः । मुखे ॥

हे "अग्ने "तव "घृतात् "आहुतं "जुह्वः होमसाधनभूतायाः स्रुचः "मुखे “निंसानं लिहानं “तत् “अर्चिः “उत् “रोचते प्रकाशते ॥ ॥ ३० ॥


उ॒क्षान्ना॑य व॒शान्ना॑य॒ सोम॑पृष्ठाय वे॒धसे॑ ।

स्तोमै॑र्विधेमा॒ग्नये॑ ॥११

उ॒क्षऽअ॑न्नाय । व॒शाऽअ॑न्नाय । सोम॑ऽपृष्ठाय । वे॒धसे॑ ।

स्तोमैः॑ । वि॒धे॒म॒ । अ॒ग्नये॑ ॥

उक्षऽअन्नाय । वशाऽअन्नाय । सोमऽपृष्ठाय । वेधसे ।

स्तोमैः । विधेम । अग्नये ॥

“उक्षान्नाय । उक्षान्नमदनीयं हविर्यस्यासावुक्षान्नः । तस्मै "वशान्नाय। वशान्नं यस्यासौ वशान्नः । तस्मै "सोमपृष्ठाय सोमघृतपृष्ठाय "वेधसे विधात्रे कामानाम् "अग्नये "स्तोमैः “विधेम परिचरेम ॥


उ॒त त्वा॒ नम॑सा व॒यं होत॒र्वरे॑ण्यक्रतो ।

अग्ने॑ स॒मिद्भि॑रीमहे ॥१२

उ॒त । त्वा॒ । नम॑सा । व॒यम् । होतः॑ । वरे॑ण्यक्रतो॒ इति॒ वरे॑ण्यऽक्रतो ।

अग्ने॑ । स॒मित्ऽभिः॑ । ई॒म॒हे॒ ॥

उत । त्वा । नमसा । वयम् । होतः । वरेण्यक्रतो इति वरेण्यऽक्रतो ।

अग्ने । समित्ऽभिः । ईमहे ॥

“उत अपि च हे “होतः देवानां ह्वातः “वरेण्यक्रतो वरणीयप्रज्ञ “अग्ने “त्वा त्वां “वयम् आङ्गिरसाः "नमसा अन्नेन हविषा "समिद्भिः च "ईमहे याचामहे ॥


उ॒त त्वा॑ भृगु॒वच्छु॑चे मनु॒ष्वद॑ग्न आहुत ।

अं॒गि॒र॒स्वद्ध॑वामहे ॥१३

उ॒त । त्वा॒ । भृ॒गु॒ऽवत् । शु॒चे॒ । म॒नु॒ष्वत् । अ॒ग्ने॒ । आ॒ऽहु॒त॒ ।

अ॒ङ्गि॒र॒स्वत् । ह॒वा॒म॒हे॒ ॥

उत । त्वा । भृगुऽवत् । शुचे । मनुष्वत् । अग्ने । आऽहुत ।

अङ्गिरस्वत् । हवामहे ॥

हे “शुचे स्वभावतः शुद्ध "आहुत "अग्ने “त्वा त्वां "भृगुवत् यथा भृगुस्तथा "मनुष्वत् यथा च मनुस्तथा "अङ्गिरस्वत् अङ्गिरोवच्च "हवामहे ॥


त्वं ह्य॑ग्ने अ॒ग्निना॒ विप्रो॒ विप्रे॑ण॒ सन्त्स॒ता ।

सखा॒ सख्या॑ समि॒ध्यसे॑ ॥१४

त्वम् । हि । अ॒ग्ने॒ । अ॒ग्निना॑ । विप्रः॑ । विप्रे॑ण । सन् । स॒ता ।

सखा॑ । सख्या॑ । स॒म्ऽइ॒ध्यसे॑ ॥

त्वम् । हि । अग्ने । अग्निना । विप्रः । विप्रेण । सन् । सता ।

सखा । सख्या । सम्ऽइध्यसे ॥

हे "अग्ने "विप्रः मेधावी "सन् विद्यमानः "सखा च “त्वं "विप्रेण "सता "सख्या "अग्निना “समिध्यसे । तथा च ब्राह्मणं - ’त्वं ह्यग्ने अग्निना विप्रो विप्रेण सन्त्सतेति विप्र इतरो विप्र इतरः सन्नितरः सन्नितरः सखा सख्या समिध्यस इत्येष ह वा अस्य स्वः सखा' (ऐ. ब्रा. १. १६ ) इति ॥


स त्वं विप्रा॑य दा॒शुषे॑ र॒यिं दे॑हि सह॒स्रिणं॑ ।

अग्ने॑ वी॒रव॑ती॒मिषं॑ ॥१५

सः । त्वम् । विप्रा॑य । दा॒शुषे॑ । र॒यिम् । दे॒हि॒ । स॒ह॒स्रिण॑म् ।

अग्ने॑ । वी॒रऽव॑तीम् । इष॑म् ॥

सः । त्वम् । विप्राय । दाशुषे । रयिम् । देहि । सहस्रिणम् ।

अग्ने । वीरऽवतीम् । इषम् ॥

हे "अग्ने "सः प्रसिद्धः "त्वं "विप्राय मेधाविने "दाशुषे हविषां प्रदात्रे यजमानाय "सहस्रिणं सहस्रसंख्याकमपरिमितं "रयिं धनं "वीरवतीं पुत्रपौत्रादिसहितम् “इषम् अन्नं च "देहि ॥ ॥३१॥


अग्ने॒ भ्रातः॒ सह॑स्कृत॒ रोहि॑दश्व॒ शुचि॑व्रत ।

इ॒मं स्तोमं॑ जुषस्व मे ॥१६

अग्ने॑ । भ्रात॒रिति॑ । सहः॑ऽकृत । रोहि॑त्ऽअश्व । शुचि॑ऽव्रत ।

इ॒मम् । स्तोम॑म् । जु॒ष॒स्व॒ । मे॒ ॥

अग्ने । भ्रातरिति । सहःऽकृत । रोहित्ऽअश्व । शुचिऽव्रत ।

इमम् । स्तोमम् । जुषस्व । मे ॥

हे "अग्ने "भ्रातः भ्रातृवद्यजमानानां मित्रभूत "सहस्कृत सहसा बलेन कृत "रोहिदश्व लोहितवर्णाश्व “शुचिव्रत शुद्धकर्मन्नग्ने "मे आङ्गिरसस्य मम “इमं "स्तोमं "जुषस्व सेवस्व ॥


उ॒त त्वा॑ग्ने॒ मम॒ स्तुतो॑ वा॒श्राय॑ प्रति॒हर्य॑ते ।

गो॒ष्ठं गाव॑ इवाशत ॥१७

उ॒त । त्वा॒ । अ॒ग्ने॒ । मम॑ । स्तुतः॑ । वा॒श्राय॑ । प्र॒ति॒ऽहर्य॑ते ।

गो॒ऽस्थम् । गावः॑ऽइव । आ॒श॒त॒ ॥

उत । त्वा । अग्ने । मम । स्तुतः । वाश्राय । प्रतिऽहर्यते ।

गोऽस्थम् । गावःऽइव । आशत ॥

“उत अपि च हे "अग्ने “त्वा त्वां "मम आङ्गिरसस्य “स्तुतः स्तुतयः “वाश्राय वाशनशीलाय वत्साय “प्रतिहर्यते पयः कामयमानाय दोग्धुं “गोष्ठं “गावइव यथा गावः प्रविशन्ति तथा “आशत प्राप्नुवन्ति ।।


तुभ्यं॒ ता अं॑गिरस्तम॒ विश्वाः॑ सुक्षि॒तयः॒ पृथ॑क् ।

अग्ने॒ कामा॑य येमिरे ॥१८

तुभ्य॑म् । ताः । अ॒ङ्गि॒रः॒ऽत॒म॒ । विश्वाः॑ । सु॒ऽक्षि॒तयः॑ । पृथ॑क् ।

अग्ने॑ । कामा॑य । ये॒मि॒रे॒ ॥

तुभ्यम् । ताः । अङ्गिरःऽतम । विश्वाः । सुऽक्षितयः । पृथक् ।

अग्ने । कामाय । येमिरे ॥

हे "अङ्गिरस्तम अङ्गिरसां श्रेष्ठ “अग्ने "तुभ्यं "विश्वाः सर्वाः “ताः प्रसिद्धाः “सुक्षितयः प्रजाः “कामाय आत्मनः कामसिद्ध्यर्थं "पृथक् "येमिरे नियच्छन्ति ।


अ॒ग्निं धी॒भिर्म॑नी॒षिणो॒ मेधि॑रासो विप॒श्चितः॑ ।

अ॒द्म॒सद्या॑य हिन्विरे ॥१९

अ॒ग्निम् । धी॒भिः । म॒नी॒षिणः॑ । मेधि॑रासः । वि॒पः॒ऽचितः॑ ।

अ॒द्म॒ऽसद्या॑य । हि॒न्वि॒रे॒ ॥

अग्निम् । धीभिः । मनीषिणः । मेधिरासः । विपःऽचितः ।

अद्मऽसद्याय । हिन्विरे ॥

"मनीषिणः मनस ईश्वराः "मेधिरासः मेधाविनः “विपश्चितः प्राज्ञा यजमानाः “धीभिः कर्मभिः "अद्मसद्याय अन्नस्य भजनाय "अग्निं हिन्विरे प्रीणयन्ति ।।


तं त्वामज्मे॑षु वा॒जिनं॑ तन्वा॒ना अ॑ग्ने अध्व॒रं ।

वह्निं॒ होता॑रमीळते ॥२०

तम् । त्वाम् । अज्मे॑षु । वा॒जिन॑म् । त॒न्वा॒नाः । अ॒ग्ने॒ । अ॒ध्व॒रम् ।

वह्नि॑म् । होता॑रम् । ई॒ळ॒ते॒ ॥

तम् । त्वाम् । अज्मेषु । वाजिनम् । तन्वानाः । अग्ने । अध्वरम् ।

वह्निम् । होतारम् । ईळते ॥

हे "अग्ने "वाजिनं बलिनं "वह्निं हविषां वोढारं "होतारं देवानामाह्वातारं "तं प्रसिद्धं "त्वाम् । “अज्मेषु गृहेषु "अध्वरं यज्ञं "तन्वानाः विस्तारयन्तो यजमानाः “ईळते स्तुवन्ति ॥ ॥ ३२ ॥


पु॒रु॒त्रा हि स॒दृङ्ङसि॒ विशो॒ विश्वा॒ अनु॑ प्र॒भुः ।

स॒मत्सु॑ त्वा हवामहे ॥२१

पु॒रु॒ऽत्रा । हि । स॒ऽदृङ् । असि॑ । विशः॑ । विश्वाः॑ । अनु॑ । प्र॒ऽभुः ।

स॒मत्ऽसु॑ । त्वा॒ । ह॒वा॒म॒हे॒ ॥

पुरुऽत्रा । हि । सऽदृङ् । असि । विशः । विश्वाः । अनु । प्रऽभुः ।

समत्ऽसु । त्वा । हवामहे ॥

हे अग्ने त्वं "हि यतः "प्रभु प्रभुः । सुलोपश्छान्दसः । "पुरुत्रा बहुषु प्रदेशेषु "विश्वाः सर्वाः “विशः प्रजाः "अनु "सदृङ् समानदर्शी “असि अतः "त्वा त्वां "समत्सु संग्रामेषु “हवामहे ह्वयामः॥


तमी॑ळिष्व॒ य आहु॑तो॒ऽग्निर्वि॒भ्राज॑ते घृ॒तैः ।

इ॒मं नः॑ शृणव॒द्धवं॑ ॥२२

तम् । ई॒ळि॒ष्व॒ । यः । आऽहु॑तः । अ॒ग्निः । वि॒ऽभ्राज॑ते । घृ॒तैः ।

इ॒मम् । नः॒ । शृ॒ण॒व॒त् । हव॑म् ॥

तम् । ईळिष्व । यः । आऽहुतः । अग्निः । विऽभ्राजते । घृतैः ।

इमम् । नः । शृणवत् । हवम् ॥

"यः "अग्निः “घृतैः सह 'आहुतः "विभ्राजते यश्च "नः अस्माकम् "इमं "हवम् आह्वानं “शृणवत् शृणोति “तम् अग्निम् “ईळिष्व स्तुहि ॥


तं त्वा॑ व॒यं ह॑वामहे शृ॒ण्वंतं॑ जा॒तवे॑दसं ।

अग्ने॒ घ्नंत॒मप॒ द्विषः॑ ॥२३

तम् । त्वा॒ । व॒यम् । ह॒वा॒म॒हे॒ । शृ॒ण्वन्त॑म् । जा॒तऽवे॑दसम् ।

अग्ने॑ । घ्नन्त॑म् । अप॑ । द्विषः॑ ॥

तम् । त्वा । वयम् । हवामहे । शृण्वन्तम् । जातऽवेदसम् ।

अग्ने । घ्नन्तम् । अप । द्विषः ॥

हे "अग्ने "जातवेदसं जातधनं जातप्रज्ञं वा "द्विषः शत्रून् "अप “घ्न्तं हिंसन्तं "शृण्वन्तम् अस्मदीयमाह्वानं शृण्वन्तं च त्वां "वयम् आङ्गिरसाः "हवामहे ।।


वि॒शां राजा॑न॒मद्भु॑त॒मध्य॑क्षं॒ धर्म॑णामि॒मं ।

अ॒ग्निमी॑ळे॒ स उ॑ श्रवत् ॥२४

वि॒शाम् । राजा॑नम् । अद्भु॑तम् । अधि॑ऽअक्षम् । धर्म॑णाम् । इ॒मम् ।

अ॒ग्निम् । ई॒ळे॒ । सः । ऊं॒ इति॑ । श्र॒व॒त् ॥

विशाम् । राजानम् । अद्भुतम् । अधिऽअक्षम् । धर्मणाम् । इमम् ।

अग्निम् । ईळे । सः । ऊं इति । श्रवत् ॥

“विशां प्रजानां "राजानम् ईश्वरम् "अद्भुतं महान्तं “धर्मणां कर्मणाम् "अध्यक्षम् अनुसंधातारं यं "इममग्निमीळे स्तौमि "स "उ स एवाग्निः “श्रवत् अस्मदीयां स्तुतिं शृणोतु ॥


अ॒ग्निं वि॒श्वायु॑वेपसं॒ मर्यं॒ न वा॒जिनं॑ हि॒तं ।

सप्तिं॒ न वा॑जयामसि ॥२५

अ॒ग्निम् । वि॒श्वायु॑ऽवेपसम् । मर्य॑म् । न । वा॒जिन॑म् । हि॒तम् ।

सप्ति॑म् । न । वा॒ज॒या॒म॒सि॒ ॥

अग्निम् । विश्वायुऽवेपसम् । मर्यम् । न । वाजिनम् । हितम् ।

सप्तिम् । न । वाजयामसि ॥

“विश्वायुवेपसं सर्वगतबलम् "अग्निं “वाजिनं बलिनं “मर्यं "न मनुष्यमिव “हितं "सप्तिं “न अश्वमिव “वाजयामसि स्तुतिभिर्हविर्भिश्च बलिनं कुर्मः ॥ ॥ ३३ ॥


घ्नन्मृ॒ध्राण्यप॒ द्विषो॒ दह॒न्रक्षां॑सि वि॒श्वहा॑ ।

अग्ने॑ ति॒ग्मेन॑ दीदिहि ॥२६

घ्नन् । मृ॒ध्राणि॑ । अप॑ । द्विषः॑ । दह॑न् । रक्षां॑सि । वि॒श्वहा॑ ।

अग्ने॑ । ति॒ग्मेन॑ । दी॒दि॒हि॒ ॥

घ्नन् । मृध्राणि । अप । द्विषः । दहन् । रक्षांसि । विश्वहा ।

अग्ने । तिग्मेन । दीदिहि ॥

हे "अग्ने त्वं “मृध्राणि हिंसकान् "द्विषः द्वेष्टॄन् “अप “घ्नन् हिंसन् "विश्वहा सर्वदा "रक्षांसि च "दहन् "तिग्मेन तीक्ष्णेन तेजसा "दीदिहि दीप्यस्व ॥


यं त्वा॒ जना॑स इंध॒ते म॑नु॒ष्वदं॑गिरस्तम ।

अग्ने॒ स बो॑धि मे॒ वचः॑ ॥२७

यम् । त्वा॒ । जना॑सः । इ॒न्ध॒ते । म॒नु॒ष्वत् । अ॒ङ्गि॒रः॒ऽत॒म॒ ।

अग्ने॑ । सः । बो॒धि॒ । मे॒ । वचः॑ ॥

यम् । त्वा । जनासः । इन्धते । मनुष्वत् । अङ्गिरःऽतम ।

अग्ने । सः । बोधि । मे । वचः ॥

हे “अङ्गिरस्तमाग्ने “यं "त्वा त्वां "जनासः जनाः "मनुष्वत् यथा मनुस्तथा “इन्धते दीपयन्ति "सः त्वं "मे मदीयं "वचः स्तुतिं "बोधि बुध्यस्व ।।


यद॑ग्ने दिवि॒जा अस्य॑प्सु॒जा वा॑ सहस्कृत ।

तं त्वा॑ गी॒र्भिर्ह॑वामहे ॥२८

यत् । अ॒ग्ने॒ । दि॒वि॒ऽजाः । असि॑ । अ॒प्सु॒ऽजाः । वा॒ । स॒हः॒ऽकृ॒त॒ ।

तम् । त्वा॒ । गीः॒ऽभिः । ह॒वा॒म॒हे॒ ॥

यत् । अग्ने । दिविऽजाः । असि । अप्सुऽजाः । वा । सहःऽकृत ।

तम् । त्वा । गीःऽभिः । हवामहे ॥

हे "अग्ने “यत् यस्त्वं "दिविजाः दिवि भवः "असि भवसि “अप्सुजा “वा अन्तरिक्षजातश्च भवसि “सहस्कृतः सहसा बलेन कृतश्चासि "तं "त्वा त्वामग्निं “गीर्भिः स्तुतिभिः “हवामहे ह्वयामः ॥


तुभ्यं॒ घेत्ते जना॑ इ॒मे विश्वाः॑ सुक्षि॒तयः॒ पृथ॑क् ।

धा॒सिं हि॑न्वं॒त्यत्त॑वे ॥२९

तुभ्य॑म् । घ॒ । इत् । ते । जनाः॑ । इ॒मे । विश्वाः॑ । सु॒ऽक्षि॒तयः॑ । पृथ॑क् ।

धा॒सिम् । हि॒न्व॒न्ति॒ । अत्त॑वे ॥

तुभ्यम् । घ । इत् । ते । जनाः । इमे । विश्वाः । सुऽक्षितयः । पृथक् ।

धासिम् । हिन्वन्ति । अत्तवे ॥

हे अग्ने "तुभ्यं “घ त्वदर्थमेव “ते "इमे मया दृश्यमानाः "जनाः "विश्वाः सर्वाः "सुक्षितयः प्रजाश्च “धासिम् अन्नं हविः "अत्तवे अदनाय "पृथक् "हिन्वन्ति प्रेरयन्ति ॥


ते घेद॑ग्ने स्वा॒ध्योऽहा॒ विश्वा॑ नृ॒चक्ष॑सः ।

तरं॑तः स्याम दु॒र्गहा॑ ॥३०

ते । घ॒ । इत् । अ॒ग्ने॒ । सु॒ऽआ॒ध्यः॑ । अहा॑ । विश्वा॑ । नृ॒ऽचक्ष॑सः ।

तर॑न्तः । स्या॒म॒ । दुः॒ऽगहा॑ ॥

ते । घ । इत् । अग्ने । सुऽआध्यः । अहा । विश्वा । नृऽचक्षसः ।

तरन्तः । स्याम । दुःऽगहा ॥

हे "अग्ने "ते "घेत् त्वदर्थमेव खलु वयं "स्वाध्यः सुकर्माणः सन्तः “विश्वा विश्वानि “अहा अहानि "नृचक्षसः द्रष्टारश्च "दुर्गहा दुःखेन गाहयितव्यानि “तरन्तः "स्याम भवेम ॥ ॥ ३४ ॥


अ॒ग्निं मं॒द्रं पु॑रुप्रि॒यं शी॒रं पा॑व॒कशो॑चिषं ।

हृ॒द्भिर्मं॒द्रेभि॑रीमहे ॥३१

अ॒ग्निम् । म॒न्द्रम् । पु॒रु॒ऽप्रि॒यम् । शी॒रम् । पा॒व॒कऽशो॑चिषम् ।

हृ॒त्ऽभिः । म॒न्द्रेभिः॑ । ई॒म॒हे॒ ॥

अग्निम् । मन्द्रम् । पुरुऽप्रियम् । शीरम् । पावकऽशोचिषम् ।

हृत्ऽभिः । मन्द्रेभिः । ईमहे ॥

"मन्द्रं मादनं “पुरुप्रियं बहुप्रियं "शीरं यज्ञेषु शयनशीलं “पावकशोचिषं पावकदीप्तिम् “अग्निं "हृद्भिः मनोहरैर्मन्द्रैः मादनैः स्तोत्रैः "ईमहे याचामहे ।।


स त्वम॑ग्ने वि॒भाव॑सुः सृ॒जन्त्सूर्यो॒ न र॒श्मिभिः॑ ।

शर्धं॒तमां॑सि जिघ्नसे ॥३२

सः । त्वम् । अ॒ग्ने॒ । वि॒भाऽव॑सुः । सृ॒जन् । सूर्यः॑ । न । र॒श्मिऽभिः॑ ।

शर्ध॑न् । तमां॑सि । जि॒घ्न॒से॒ ॥

सः । त्वम् । अग्ने । विभाऽवसुः । सृजन् । सूर्यः । न । रश्मिऽभिः ।

शर्धन् । तमांसि । जिघ्नसे ॥

हे "अग्ने "विभावसुः दीप्तिधनः "सः प्रसिद्धः "त्वं "सृजन् उद्यन् "सूर्यो "न यथा सूर्यस्तथा “रश्मिभिः "शर्धन् बलं कुर्वन् “तमांसि "जिघ्नसे नाशयसि ।।


तत्ते॑ सहस्व ईमहे दा॒त्रं यन्नोप॒दस्य॑ति ।

त्वद॑ग्ने॒ वार्यं॒ वसु॑ ॥३३

तत् । ते॒ । स॒ह॒स्वः॒ । ई॒म॒हे॒ । दा॒त्रम् । यत् । न । उ॒प॒ऽदस्य॑ति ।

त्वत् । अ॒ग्ने॒ । वार्य॑म् । वसु॑ ॥

तत् । ते । सहस्वः । ईमहे । दात्रम् । यत् । न । उपऽदस्यति ।

त्वत् । अग्ने । वार्यम् । वसु ॥

हे "सहस्वः बलवन् "अग्ने "ते तव "यत् वसु "नोपदस्यति नोपक्षीयते "तत् "दात्रं दातव्यं “वार्यं वरणीयं च “वसु धनं "त्वत् त्वत्तः "ईमहे याचामहे ॥ ॥ ३५ ॥

मण्डल ८

सूक्तं ८.१

सूक्तं ८.२

सूक्तं ८.३

सूक्तं ८.४

सूक्तं ८.५

सूक्तं ८.६

सूक्तं ८.७

सूक्तं ८.८

सूक्तं ८.९

सूक्तं ८.१०

सूक्तं ८.११

सूक्तं ८.१२

सूक्तं ८.१३

सूक्तं ८.१४

सूक्तं ८.१५

सूक्तं ८.१६

सूक्तं ८.१७

सूक्तं ८.१८

सूक्तं ८.१९

सूक्तं ८.२०

सूक्तं ८.२१

सूक्तं ८.२२

सूक्तं ८.२३

सूक्तं ८.२४

सूक्तं ८.२५

सूक्तं ८.२६

सूक्तं ८.२७

सूक्तं ८.२८

सूक्तं ८.२९

सूक्तं ८.३०

सूक्तं ८.३१

सूक्तं ८.३२

सूक्तं ८.३३

सूक्तं ८.३४

सूक्तं ८.३५

सूक्तं ८.३६

सूक्तं ८.३७

सूक्तं ८.३८

सूक्तं ८.३९

सूक्तं ८.४०

सूक्तं ८.४१

सूक्तं ८.४२

सूक्तं ८.४३

सूक्तं ८.४४

सूक्तं ८.४५

सूक्तं ८.४६

सूक्तं ८.४७

सूक्तं ८.४८

सूक्तं ८.४९

सूक्तं ८.५०

सूक्तं ८.५१

सूक्तं ८.५२

सूक्तं ८.५३

सूक्तं ८.५४

सूक्तं ८.५५

सूक्तं ८.५६

सूक्तं ८.५७

सूक्तं ८.५८

सूक्तं ८.५९

सूक्तं ८.६०

सूक्तं ८.६१

सूक्तं ८.६२

सूक्तं ८.६३

सूक्तं ८.६४

सूक्तं ८.६५

सूक्तं ८.६६

सूक्तं ८.६७

सूक्तं ८.६८

सूक्तं ८.६९

सूक्तं ८.७०

सूक्तं ८.७१

सूक्तं ८.७२

सूक्तं ८.७३

सूक्तं ८.७४

सूक्तं ८.७५

सूक्तं ८.७६

सूक्तं ८.७७

सूक्तं ८.७८

सूक्तं ८.७९

सूक्तं ८.८०

सूक्तं ८.८१

सूक्तं ८.८२

सूक्तं ८.८३

सूक्तं ८.८४

सूक्तं ८.८५

सूक्तं ८.८६

सूक्तं ८.८७

सूक्तं ८.८८

सूक्तं ८.८९

सूक्तं ८.९०

सूक्तं ८.९१

सूक्तं ८.९२

सूक्तं ८.९३

सूक्तं ८.९४

सूक्तं ८.९५

सूक्तं ८.९६

सूक्तं ८.९७

सूक्तं ८.९८

सूक्तं ८.९९

सूक्तं ८.१००

सूक्तं ८.१०१

सूक्तं ८.१०२

सूक्तं ८.१०३

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_८.४३&oldid=165332" इत्यस्माद् पुनः प्राप्तिः