ऋग्वेदः सूक्तं ८.४२
← सूक्तं ८.४१ | ऋग्वेदः - मण्डल ८ सूक्तं ८.४२ नाभाकः काण्वः, अर्चनाना आत्रेयो वा । |
सूक्तं ८.४३ → |
दे. १-३ वरुणः, ४-६ अश्विनौ । १-३ त्रिष्टुप्, ४-६ अनुष्टुप् । |
अस्तभ्नाद्द्यामसुरो विश्ववेदा अमिमीत वरिमाणं पृथिव्याः ।
आसीदद्विश्वा भुवनानि सम्राड्विश्वेत्तानि वरुणस्य व्रतानि ॥१॥
एवा वन्दस्व वरुणं बृहन्तं नमस्या धीरममृतस्य गोपाम् ।
स नः शर्म त्रिवरूथं वि यंसत्पातं नो द्यावापृथिवी उपस्थे ॥२॥
इमां धियं शिक्षमाणस्य देव क्रतुं दक्षं वरुण सं शिशाधि ।
ययाति विश्वा दुरिता तरेम सुतर्माणमधि नावं रुहेम ॥३॥
आ वां ग्रावाणो अश्विना धीभिर्विप्रा अचुच्यवुः ।
नासत्या सोमपीतये नभन्तामन्यके समे ॥४॥
यथा वामत्रिरश्विना गीर्भिर्विप्रो अजोहवीत् ।
नासत्या सोमपीतये नभन्तामन्यके समे ॥५॥
एवा वामह्व ऊतये यथाहुवन्त मेधिराः ।
नासत्या सोमपीतये नभन्तामन्यके समे ॥६॥
सायणभाष्यम्
'अस्तभ्नात् ' इति षडृचं द्वादशं सूक्तम् । अर्चनाना ऋषिः काण्वो नाभाको वा ऋषिः । उत्तरे त्वर्चनानाः । आद्यस्तृचस्त्रैष्टुभो वरुणदेवत्यो द्वितीयस्तृच आनुष्टुभोऽश्विदेवताकः । तथा चानुक्रान्तम्--’अस्तभ्नात् षळर्चनाना वा त्रैष्टुभमन्त्यं वा तृचमाश्विनमानुष्टुभमपश्यत्' इति । सूक्तविनियोगो लैङ्गिकः । वारुणे पशौ हविषो याज्या अस्तभ्नात्' इति । सूत्रितं च- अस्तभ्नाद्द्यामसुरो विश्ववेदा इत्यैकादशिनाः' (आश्व. श्रौ. ३. ७) इति । अग्नीषोमप्रणयनेऽप्येषोत्तरा परिधानीया । तथा सूत्रितम्---’अस्तभ्नाद्द्यामसुरो विश्ववेदा इति परिदध्यादुत्तरया वा' (आश्व. श्रौ. ४. १०) इति । एवा वन्दस्व' इत्येषा वारुणे पशौ हविषोऽनुवाक्या । सूत्रितं च - ’एवा वन्दस्व वरुणं बृहन्तं तत्त्वा यामि ब्रह्मणा वन्दमान इति द्वे' ( आश्व. श्रौ, ३. ७ )। सोमप्रवहणे ‘इमां धियम्' इत्येषा परिधानीया । सूत्रितं च-' इमां धियं शिक्षमाणस्य देवेति निहिते परिदध्यात्' (आश्व. श्रौ. ४. ४) इति ॥
अस्त॑भ्ना॒द्द्यामसु॑रो वि॒श्ववे॑दा॒ अमि॑मीत वरि॒माणं॑ पृथि॒व्याः ।
आसी॑द॒द्विश्वा॒ भुव॑नानि स॒म्राड्विश्वेत्तानि॒ वरु॑णस्य व्र॒तानि॑ ॥१
अस्त॑भ्नात् । द्याम् । असु॑रः । वि॒श्वऽवे॑दाः । अमि॑मीत । व॒रि॒माण॑म् । पृ॒थि॒व्याः ।
आ । अ॒सी॒द॒त् । विश्वा॑ । भुव॑नानि । स॒म्ऽराट् । विश्वा॑ । इत् । तानि॑ । वरु॑णस्य । व्र॒तानि॑ ॥१
अस्तभ्नात् । द्याम् । असुरः । विश्वऽवेदाः । अमिमीत । वरिमाणम् । पृथिव्याः ।
आ । असीदत् । विश्वा । भुवनानि । सम्ऽराट् । विश्वा । इत् । तानि । वरुणस्य । व्रतानि ॥१
“विश्ववेदाः विश्वधनः "असुरः बलवान् वरुणः "द्याम् "अस्तभ्नात् । तथा “पृथिव्याः च “वरिमाणं परिमाणम् "अमिमीत चक्रे । एवं निर्मितानि “विश्वा सर्वाणि "भुवनानि "सम्राट् भूत्वा “आसीदत् च अध्यतिष्ठच्च । "वरुणस्य “तानि एतानि “व्रतानि कर्माणि “विश्वेत् विश्वान्येव । अतो वर्णयितुमशक्यानीत्यर्थः ॥
ए॒वा वं॑दस्व॒ वरु॑णं बृ॒हंतं॑ नम॒स्या धीर॑म॒मृत॑स्य गो॒पां ।
स नः॒ शर्म॑ त्रि॒वरू॑थं॒ वि यं॑सत्पा॒तं नो॑ द्यावापृथिवी उ॒पस्थे॑ ॥२
ए॒व । व॒न्द॒स्व॒ । वरु॑णम् । बृ॒हन्त॑म् । न॒म॒स्य । धीर॑म् । अ॒मृत॑स्य । गो॒पाम् ।
सः । नः॒ । शर्म॑ । त्रि॒ऽवरू॑थम् । वि । यं॒स॒त् । पा॒तम् । नः॒ । द्या॒वा॒पृ॒थि॒वी॒ इति॑ । उ॒पऽस्थे॑ ॥२
एव । वन्दस्व । वरुणम् । बृहन्तम् । नमस्य । धीरम् । अमृतस्य । गोपाम् ।
सः । नः । शर्म । त्रिऽवरूथम् । वि । यंसत् । पातम् । नः । द्यावापृथिवी इति । उपऽस्थे ॥२
हे स्तोतः “बृहन्तं महान्तं "वरुणम् "एव एवं "वन्दस्व स्तुहि । "अमृतस्य “गोपां गोपायितारं “धीरं प्राज्ञं वरुणं "नमस्य नमस्कुरु च । "सः वरुणः "नः अस्मभ्यं त्रिवरूथं त्रिस्थानं “शर्म गृहं “वि “यंसत् प्रयच्छतु । "उपस्थे उपस्थाने वर्तमानान् "नः अस्मान् "द्यावापृथिवी द्यावापृथिव्यौ "पातं रक्षतम् ॥
इ॒मां धियं॒ शिक्ष॑माणस्य देव॒ क्रतुं॒ दक्षं॑ वरुण॒ सं शि॑शाधि ।
ययाति॒ विश्वा॑ दुरि॒ता तरे॑म सु॒तर्मा॑ण॒मधि॒ नावं॑ रुहेम ॥३
इ॒माम् । धिय॑म् । शिक्ष॑माणस्य । दे॒व॒ । क्रतु॑म् । दक्ष॑म् । व॒रु॒ण॒ । सम् । शि॒शा॒धि॒ ।
यया॑ । अति॑ । विश्वा॑ । दुः॒ऽइ॒ता । तरे॑म । सु॒ऽतर्मा॑णम् । अधि॑ । नाव॑म् । रु॒हे॒म॒ ॥३
इमाम् । धियम् । शिक्षमाणस्य । देव । क्रतुम् । दक्षम् । वरुण । सम् । शिशाधि ।
यया । अति । विश्वा । दुःऽइता । तरेम । सुऽतर्माणम् । अधि । नावम् । रुहेम ॥३
हे "देव द्योतमान "वरुण “इमां “धियम् इदं कर्म "शिक्षमाणस्य अनुतिष्ठतो मम "क्रतुं प्रज्ञानं "दक्षं बलं च "सं “शिशाधि तीक्ष्णीकुरु । "यया नावा यज्ञरूपया "विश्वा सर्वाणि "दुरिता दुरितानि “अति “तरेम तां “सुतर्माणं सुष्ठु तारयित्रीं यज्ञरूपां “नावम् "अधि “रुहेम वयमारुहेम । दुःखसागरतरणे हेतुत्वाद्यज्ञो नौरित्यत्र व्यपदिश्यते ॥
आ वां॒ ग्रावा॑णो अश्विना धी॒भिर्विप्रा॑ अचुच्यवुः ।
नास॑त्या॒ सोम॑पीतये॒ नभं॑तामन्य॒के स॑मे ॥४
आ । वा॒म् । ग्रावा॑णः । अ॒श्वि॒ना॒ । धी॒भिः । विप्राः॑ । अ॒चु॒च्य॒वुः॒ ।
नास॑त्या । सोम॑ऽपीतये । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥४
आ । वाम् । ग्रावाणः । अश्विना । धीभिः । विप्राः । अचुच्यवुः ।
नासत्या । सोमऽपीतये । नभन्ताम् । अन्यके । समे ॥४
हे "नासत्या सत्यौ सत्यप्रणेतारौ वा । तथा च यास्कः– सत्यावेव नासत्यावित्यौर्णवाभः सत्यस्य प्रणेतारौ ' (निरु. ६. १३ ) इति । "अश्विना अश्विनौ “वां युवां "सोमपीतये सोमस्य पानाय “विप्राः प्राज्ञा ऋत्विजः “ग्रावाणः सोमाभिषव्पाषाणाश्च “धीभिः कर्मभिः स्वस्वव्यापारैः “अचुच्यतुः अभिगच्छन्ति । सिद्धमन्यत् ॥
यथा॑ वा॒मत्रि॑रश्विना गी॒र्भिर्विप्रो॒ अजो॑हवीत् ।
नास॑त्या॒ सोम॑पीतये॒ नभं॑तामन्य॒के स॑मे ॥५
यथा॑ । वा॒म् । अत्रिः॑ । अ॒श्वि॒ना॒ । गीः॒ऽभिः । विप्रः॑ । अजो॑हवीत् ।
नास॑त्या । सोम॑ऽपीतये । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥५
यथा । वाम् । अत्रिः । अश्विना । गीःऽभिः । विप्रः । अजोहवीत् ।
नासत्या । सोमऽपीतये । नभन्ताम् । अन्यके । समे ॥५
हे नासत्यावश्विनौ “वां युवां विप्रः प्राज्ञः “अत्रिः यथा “गीर्भिः स्तुतिभिः सोमपीतये “अजोहवीत् तथाहमपि जोहवीमि ।।
ए॒वा वा॑मह्व ऊ॒तये॒ यथाहु॑वंत॒ मेधि॑राः ।
नास॑त्या॒ सोम॑पीतये॒ नभं॑तामन्य॒के स॑मे ॥६
ए॒व । वा॒म् । अ॒ह्वे॒ । ऊ॒तये॑ । यथा॑ । अहु॑वन्त । मेधि॑राः ।
नास॑त्या । सोम॑ऽपीतये । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥६
एव । वाम् । अह्वे । ऊतये । यथा । अहुवन्त । मेधिराः ।
नासत्या । सोमऽपीतये । नभन्ताम् । अन्यके । समे ॥६
इयं व्याख्यातचरा ॥ ॥ २८ ॥ ॥५॥
मण्डल ८ | ||||||
---|---|---|---|---|---|---|