ऋग्वेदः सूक्तं ८.४१

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं ८.४० ऋग्वेदः - मण्डल ८
सूक्तं ८.४१
नाभाकः काण्वः।
सूक्तं ८.४२ →
दे. वरुणः । महापङ्क्तिः।


अस्मा ऊ षु प्रभूतये वरुणाय मरुद्भ्योऽर्चा विदुष्टरेभ्यः ।
यो धीता मानुषाणां पश्वो गा इव रक्षति नभन्तामन्यके समे ॥१॥
तमू षु समना गिरा पितॄणां च मन्मभिः ।
नाभाकस्य प्रशस्तिभिर्यः सिन्धूनामुपोदये सप्तस्वसा स मध्यमो नभन्तामन्यके समे ॥२॥
स क्षपः परि षस्वजे न्युस्रो मायया दधे स विश्वं परि दर्शतः ।
तस्य वेनीरनु व्रतमुषस्तिस्रो अवर्धयन्नभन्तामन्यके समे ॥३॥
यः ककुभो निधारयः पृथिव्यामधि दर्शतः ।
स माता पूर्व्यं पदं तद्वरुणस्य सप्त्यं स हि गोपा इवेर्यो नभन्तामन्यके समे ॥४॥
यो धर्ता भुवनानां य उस्राणामपीच्या वेद नामानि गुह्या ।
स कविः काव्या पुरु रूपं द्यौरिव पुष्यति नभन्तामन्यके समे ॥५॥
यस्मिन्विश्वानि काव्या चक्रे नाभिरिव श्रिता ।
त्रितं जूती सपर्यत व्रजे गावो न संयुजे युजे अश्वाँ अयुक्षत नभन्तामन्यके समे ॥६॥
य आस्वत्क आशये विश्वा जातान्येषाम् ।
परि धामानि मर्मृशद्वरुणस्य पुरो गये विश्वे देवा अनु व्रतं नभन्तामन्यके समे ॥७॥
स समुद्रो अपीच्यस्तुरो द्यामिव रोहति नि यदासु यजुर्दधे ।
स माया अर्चिना पदास्तृणान्नाकमारुहन्नभन्तामन्यके समे ॥८॥
यस्य श्वेता विचक्षणा तिस्रो भूमीरधिक्षितः ।
त्रिरुत्तराणि पप्रतुर्वरुणस्य ध्रुवं सदः स सप्तानामिरज्यति नभन्तामन्यके समे ॥९॥
यः श्वेताँ अधिनिर्णिजश्चक्रे कृष्णाँ अनु व्रता ।
स धाम पूर्व्यं ममे य स्कम्भेन वि रोदसी अजो न द्यामधारयन्नभन्तामन्यके समे ॥१०॥


सायणभाष्यम्

अस्मा ऊ षु ' इति दशर्चमेकादशं सूक्तम् । अत्रेयमनुक्रमणिका--- अस्मा ऊ षु दश वारुणं तु ' इति । नाभाक ऋषिरनुवृत्तत्वात् । ‘महापाङ्क्तं हि ' इत्युक्तत्वादिदमपि महापाङ्क्तम् । इदमादिके द्वे सूक्ते वरुणदेवत्ये । विनियोगो लैङ्गिकः । चातुर्विंशिकेऽहनि माध्यंदिनसवने मैत्रावरुणशस्त्र आरम्भणीयाया ऊर्ध्वं ' स क्षपः ' इत्ययं नाभाकतृचः । सूत्रितं च - ‘ स क्षपः परि षस्वज इति मैत्रावरुणः ' ( आश्व. श्रौ. ७. २) इति । ‘ यः ककुभः' इत्येतत्प्रभृतिको वा नाभाकतृचः ।। सूत्रितं च -- यः ककुभो निधारय इति वा ' ( आश्व. श्रौ. ७. २ ) इति ॥


अ॒स्मा ऊ॒ षु प्रभू॑तये॒ वरु॑णाय म॒रुद्भ्योऽर्चा॑ वि॒दुष्ट॑रेभ्यः ।

यो धी॒ता मानु॑षाणां प॒श्वो गा इ॑व॒ रक्ष॑ति॒ नभ॑न्तामन्य॒के स॑मे ॥१

अ॒स्मै । ऊं॒ इति॑ । सु । प्रऽभू॑तये । वरु॑णाय । म॒रुत्ऽभ्यः॑ । अर्च॑ । वि॒दुःऽत॑रेभ्यः ।

यः । धी॒ता । मानु॑षाणाम् । प॒श्वः । गाःऽइ॑व । रक्ष॑ति । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥१

अस्मै । ऊं इति । सु । प्रऽभूतये । वरुणाय । मरुत्ऽभ्यः । अर्च । विदुःऽतरेभ्यः ।

यः । धीता । मानुषाणाम् । पश्वः । गाःऽइव । रक्षति । नभन्ताम् । अन्यके । समे ॥१

हे स्तोतः "सु “प्रभूतये प्रकृष्टधनाय "अस्मै “वरुणाय “विदुष्टरेभ्यः विद्वत्तरेभ्यः “मरुद्भ्यः च "अर्च स्तुहि । “यः वरुणः “धीता कर्मणा “मानुषाणां मनुष्याणां “पश्वः पशून् “गाइव "रक्षति । सिद्धमन्यत् ॥


तमू॒ षु स॑म॒ना गि॒रा पि॑तॄ॒णां च॒ मन्म॑भिः ।

ना॒भा॒कस्य॒ प्रश॑स्तिभि॒र्यः सिन्धू॑ना॒मुपो॑द॒ये स॒प्तस्व॑सा॒ स म॑ध्य॒मो नभ॑न्तामन्य॒के स॑मे ॥२

तम् । ऊं॒ इति॑ । सु । स॒म॒ना । गि॒रा । पि॒तॄ॒णाम् । च॒ । मन्म॑ऽभिः ।

ना॒भा॒कस्य॑ । प्रश॑स्तिऽभिः । यः । सिन्धू॑नाम् । उप॑ । उ॒त्ऽअ॒ये । स॒प्तऽस्व॑सा । सः । म॒ध्य॒मः । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥२

तम् । ऊं इति । सु । समना । गिरा । पितॄणाम् । च । मन्मऽभिः ।

नाभाकस्य । प्रशस्तिऽभिः । यः । सिन्धूनाम् । उप । उत्ऽअये । सप्तऽस्वसा । सः । मध्यमः । नभन्ताम् । अन्यके । समे ॥२

“तमु तमेव वरुणं “समना समानया “गिरा स्तुत्या "सु अभिष्टौमि । “पितॄणां “मन्मभिः स्तोमैः “च अभिष्टौमि । “नाभाकस्य ऋषेः “प्रशस्तिभिः स्तोत्रैश्चाभिष्टौमि । “सिन्धूनां स्यन्दमानानां नदीनाम् “उप समीपे “यः “उदये उद्गच्छति यश्च “सप्तस्वसा “स “मध्यमः इति वाग्भिर्निरुच्यते । “अन्यके दुर्धियः शत्रवः “समे सर्वे “नभन्ता मा भूवन् । तथा च यास्कः - ‘ तं स्वभिष्टौमि समानया गिरा गीत्या स्तुत्या पितॄणां च मननीयैः स्तोमैर्नाभाकस्य प्रशस्तिभिः। ऋषिर्नाभाको बभूव । यः स्यन्दमानानामासामपामुपोदये सप्तस्वसारमेनमाह वाग्भिः स मध्यम इति निरुच्यतेऽथैष एव भवति । नभन्तामन्यके समे मा भूवन्नन्यके सर्वे ये नो द्विषन्ति दुर्धियः पापधियः पापसंकल्पाः' (निरु. १०. ५) इति ॥


स क्षप॒ः परि॑ षस्वजे॒ न्यु१॒॑स्रो मा॒यया॑ दधे॒ स विश्वं॒ परि॑ दर्श॒तः ।

तस्य॒ वेनी॒रनु॑ व्र॒तमु॒षस्ति॒स्रो अ॑वर्धय॒न्नभ॑न्तामन्य॒के स॑मे ॥३

सः । क्षपः॑ । परि॑ । स॒स्व॒जे॒ । नि । उ॒स्रः । मा॒यया॑ । द॒धे॒ । सः । विश्व॑म् । परि॑ । द॒र्श॒तः ।

तस्य॑ । वेनीः॑ । अनु॑ । व्र॒तम् । उ॒षः । ति॒स्रः । अ॒व॒र्ध॒य॒न् । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥३

सः । क्षपः । परि । सस्वजे । नि । उस्रः । मायया । दधे । सः । विश्वम् । परि । दर्शतः ।

तस्य । वेनीः । अनु । व्रतम् । उषः । तिस्रः । अवर्धयन् । नभन्ताम् । अन्यके । समे ॥३

“सः वरुणः “क्षपः रात्रीः “परि “षस्वजे परिष्वजते । अपि च “दर्शतः दर्शनीयः “सः वरुणः “उस्रः उत्सरणशीलः सन् “विश्वं “मायया कर्मणा “परि परितः “नि “दधे निदधाति । किंच “तस्य वरुणस्य “व्रतं कर्म “वेनीः कामयमानाः प्रजाः “तिस्रः “उषः त्रिषु प्रातर्माध्यंदिनं सायं च “अनु “अवर्धयन् अनुवर्धयन्ति । सिद्धमन्यत् ॥


यः क॒कुभो॑ निधार॒यः पृ॑थि॒व्यामधि॑ दर्श॒तः ।

स माता॑ पू॒र्व्यं प॒दं तद्वरु॑णस्य॒ सप्त्यं॒ स हि गो॒पा इ॒वेर्यो॒ नभ॑न्तामन्य॒के स॑मे ॥४

यः । क॒कुभः॑ । नि॒ऽधा॒र॒यः । पृ॒थि॒व्याम् । अधि॑ । द॒र्श॒तः ।

सः । माता॑ । पू॒र्व्यम् । प॒दम् । तत् । वरु॑णस्य । सप्त्य॑म् । सः । हि । गो॒पाःऽइ॑व । इर्यः॑ । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥४

यः । ककुभः । निऽधारयः । पृथिव्याम् । अधि । दर्शतः ।

सः । माता । पूर्व्यम् । पदम् । तत् । वरुणस्य । सप्त्यम् । सः । हि । गोपाःऽइव । इर्यः । नभन्ताम् । अन्यके । समे ॥४

“यः वरुणः “पृथिव्यामधि पृथिव्या उपरि “दर्शतः दर्शनीयः सन् “ककुभः दिशः “निधारयः निधारयति “सः वरुणः “माता निर्माता । "पूर्व्यः प्रत्नं “पदं स्वर्गाख्यं स्थानं "सप्त्यम् अस्माभिश्च सर्पणीयं “तत् “वरुणस्य स्वकृतम् । अपि च “स “हि स एव “इर्यः ईश्वरः सन् “गोपाइव गोपाल इव पशूनामस्माकं रक्षिता । सिद्धमन्यत् ॥


यो ध॒र्ता भुव॑नानां॒ य उ॒स्राणा॑मपी॒च्या॒३॒॑ वेद॒ नामा॑नि॒ गुह्या॑ ।

स क॒विः काव्या॑ पु॒रु रू॒पं द्यौरि॑व पुष्यति॒ नभ॑न्तामन्य॒के स॑मे ॥५

यः । ध॒र्ता । भुव॑नानाम् । यः । उ॒स्राणा॑म् । अ॒पी॒च्या॑ । वेद॑ । नामा॑नि । गुह्या॑ ।

सः । क॒विः । काव्या॑ । पु॒रु । रू॒पम् । द्यौःऽइ॑व । पु॒ष्य॒ति॒ । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥५

यः । धर्ता । भुवनानाम् । यः । उस्राणाम् । अपीच्या । वेद । नामानि । गुह्या ।

सः । कविः । काव्या । पुरु । रूपम् । द्यौःऽइव । पुष्यति । नभन्ताम् । अन्यके । समे ॥५

“यः वरुणः “भुवनानां “धर्ता धारयिता “यः च “उस्राणां देवाधिष्ठानभूतानां रश्मीनाम् “अपीच्या अपीच्यान्यन्तर्हितानि “गुह्या गुह्यानि गुहायां निहितानि “नामानि "वेद जानाति “सः वरुणः “कविः प्राज्ञः सन् "काव्या काव्यानि कविकर्माणि “पुरु बहूनि “रूपं “द्यौरिव “पुष्यति । सिद्धमन्यत् ॥ ॥ २६ ॥


यस्मि॒न्विश्वा॑नि॒ काव्या॑ च॒क्रे नाभि॑रिव श्रि॒ता ।

त्रि॒तं जू॒ती स॑पर्यत व्र॒जे गावो॒ न सं॒युजे॑ यु॒जे अश्वाँ॑ अयुक्षत॒ नभ॑न्तामन्य॒के स॑मे ॥६

यस्मि॑न् । विश्वा॑नि । काव्या॑ । च॒क्रे । नाभिः॑ऽइव । श्रि॒ता ।

त्रि॒तम् । जू॒ती । स॒प॒र्य॒त॒ । व्र॒जे । गावः॑ । न । स॒म्ऽयुजे॑ । यु॒जे । अश्वा॑न् । अ॒यु॒क्ष॒त॒ । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥६

यस्मिन् । विश्वानि । काव्या । चक्रे । नाभिःऽइव । श्रिता ।

त्रितम् । जूती । सपर्यत । व्रजे । गावः । न । सम्ऽयुजे । युजे । अश्वान् । अयुक्षत । नभन्ताम् । अन्यके । समे ॥६

“यस्मिन् वरुणे “विश्वानि सर्वाणि “काव्या काव्यानि कविकर्माणि “चक्रे “नाभिरिव यथा रथस्य चक्रे नाभिस्तथा “श्रिता श्रितानि तं “त्रितं त्रिस्थानं वरुणं “जूती जूत्या क्षिप्रं “सपर्यत हे मदीया जनाः परिचरत । किमर्थमित्यत आह । “व्रजे गोष्ठे “गावो “न यथा गाः “संयुजे संयोगार्थं सह स्थापयितुं “युजे युञ्जन्ति तथास्माकमभियोगाय “अश्वानयुक्षत सपत्ना युञ्जन्ति । अतस्तदुपद्रवपरिहाराय वरुणं परिचरतेत्यर्थः ।।


य आ॒स्वत्क॑ आ॒शये॒ विश्वा॑ जा॒तान्ये॑षाम् ।

परि॒ धामा॑नि॒ मर्मृ॑श॒द्वरु॑णस्य पु॒रो गये॒ विश्वे॑ दे॒वा अनु॑ व्र॒तं नभ॑न्तामन्य॒के स॑मे ॥७

यः । आ॒सु॒ । अत्कः॑ । आ॒ऽशये॑ । विश्वा॑ । जा॒तानि॑ । ए॒षा॒म् ।

परि॑ । धामा॑नि । मर्मृ॑शत् । वरु॑णस्य । पु॒रः । गये॑ । विश्वे॑ । दे॒वाः । अनु॑ । व्र॒तम् । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥७

यः । आसु । अत्कः । आऽशये । विश्वा । जातानि । एषाम् ।

परि । धामानि । मर्मृशत् । वरुणस्य । पुरः । गये । विश्वे । देवाः । अनु । व्रतम् । नभन्ताम् । अन्यके । समे ॥७

--- त्परिमृशतः “वरुणस्य "पुरो “गये रथस्य पुरताद्भवति तस्य वरुणस्य पुरस्तात् “विश्वे सर्वे “देवाः “व्रतं कर्म “अनु गच्छन्तीत्यर्थः । सिद्धमन्यत् ॥


स स॑मु॒द्रो अ॑पी॒च्य॑स्तु॒रो द्यामि॑व रोहति॒ नि यदा॑सु॒ यजु॑र्द॒धे ।

स मा॒या अ॒र्चिना॑ प॒दास्तृ॑णा॒न्नाक॒मारु॑ह॒न्नभ॑न्तामन्य॒के स॑मे ॥८

सः । स॒मु॒द्रः । अ॒पी॒च्यः॑ । तु॒रः । द्याम्ऽइ॑व । रो॒ह॒ति॒ । नि । यत् । आ॒सु॒ । यजुः॑ । द॒धे ।

सः । मा॒याः । अ॒र्चिना॑ । प॒दा । अस्तृ॑णात् । नाक॑म् । आ । अ॒रु॒ह॒त् । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥८

सः । समुद्रः । अपीच्यः । तुरः । द्याम्ऽइव । रोहति । नि । यत् । आसु । यजुः । दधे ।

सः । मायाः । अर्चिना । पदा । अस्तृणात् । नाकम् । आ । अरुहत् । नभन्ताम् । अन्यके । समे ॥८

यस्मादापः समुद्द्रवन्ति “सः वरुणः “समुद्रः “अपीच्यः अन्तर्हितः “तुरः क्षिप्रः “द्यामिव यथादित्यो द्यां रोहति तथा नाकं “रोहति । अपि च “यत् यः वरुणः “आसु दिक्षु “यजुः प्रजाभ्यो दानं “नि “दधे निदधाति “सः वरुणः "मायाः असुराणां मायाः “अर्चिना अर्चिष्मता “पदा स्थानेन । तेजसेत्यर्थः। “आ “अस्तृणात् समन्ताद्धिनस्ति । “नाकं स्वर्गम् “आरुहत् आरोहति । सिद्धमन्यत् ॥


यस्य॑ श्वे॒ता वि॑चक्ष॒णा ति॒स्रो भूमी॑रधिक्षि॒तः ।

त्रिरुत्त॑राणि प॒प्रतु॒र्वरु॑णस्य ध्रु॒वं सद॒ः स स॑प्ता॒नामि॑रज्यति॒ नभ॑न्तामन्य॒के स॑मे ॥९

यस्य॑ । श्वे॒ता । वि॒ऽच॒क्ष॒णा । ति॒स्रः । भूमीः॑ । अ॒धि॒ऽक्षि॒तः ।

त्रिः । उत्ऽत॑राणि । प॒प्रतुः॑ । वरु॑णस्य । ध्रु॒वम् । सदः॑ । सः । स॒प्ता॒नाम् । इ॒र॒ज्य॒ति॒ । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥९

यस्य । श्वेता । विऽचक्षणा । तिस्रः । भूमीः । अधिऽक्षितः ।

त्रिः । उत्ऽतराणि । पप्रतुः । वरुणस्य । ध्रुवम् । सदः । सः । सप्तानाम् । इरज्यति । नभन्ताम् । अन्यके । समे ॥९

“यस्य वरुणस्य “अधिक्षितः अन्तरिक्षेऽधिवसतः “श्वेता श्वेतानि “विचक्षणा तेजांसि “तिस्रो “भूमीः “त्रिरुत्तराणि तिसृणामधिस्थितानि भुवनानि “पप्रतुः प्रथयन्ति । तथा च मन्त्रवर्णः -- ‘ तिस्रो भूमीर्धारयन् त्रीँरुत द्यून् ' ( ऋ. सं. २. २७.८) इति । तस्य “वरुणस्य “सदः स्थानं “ध्रुवम् अचलमिति । किंच “सः वरुणः “सप्तानां सिन्धूनाम् इरज्यति ईश्वरो भवति । सिद्धमन्यत् ॥


यः श्वे॒ताँ अधि॑निर्णिजश्च॒क्रे कृ॒ष्णाँ अनु॑ व्र॒ता ।

स धाम॑ पू॒र्व्यं म॑मे॒ यः स्क॒म्भेन॒ वि रोद॑सी अ॒जो न द्यामधा॑रय॒न्नभ॑न्तामन्य॒के स॑मे ॥१०

यः । श्वे॒तान् । अधि॑ऽनिर्निजः । च॒क्रे । कृ॒ष्णान् । अनु॑ । व्र॒ता ।

सः । धाम॑ । पू॒र्व्यम् । म॒मे॒ । यः । स्क॒म्भेन॑ । वि । रोद॑सी॒ इति॑ । अ॒जः । न । द्याम् । अधा॑रयत् । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥१०

यः । श्वेतान् । अधिऽनिर्निजः । चक्रे । कृष्णान् । अनु । व्रता ।

सः । धाम । पूर्व्यम् । ममे । यः । स्कम्भेन । वि । रोदसी इति । अजः । न । द्याम् । अधारयत् । नभन्ताम् । अन्यके । समे ॥१०

“यः वरुणः “निर्णिजः आत्मीयान् रश्मीन् दिवा “श्वेतान् “अधि “चक्रे अधिकरोति तथा रात्रौ “कृष्णान् चक्रे “सः वरुणः “अनु “व्रता कर्माणि लक्षीकृत्योभयविधकर्मानुगुणं पूर्व्यं “धाम अन्तरिक्षं दिवं वा “ममे निर्ममे । अपि च “यः स्कम्भेन अन्तरिक्षेण “अजो “न यथा आदित्यः “द्यां धारयति तथा “रोदसी द्यावापृथिव्यौ “वि “अधारयत् विधारयति स वरुण इत्यर्थः । सिद्धमन्यत् ॥ ॥ २७ ॥

मण्डल ८

सूक्तं ८.१

सूक्तं ८.२

सूक्तं ८.३

सूक्तं ८.४

सूक्तं ८.५

सूक्तं ८.६

सूक्तं ८.७

सूक्तं ८.८

सूक्तं ८.९

सूक्तं ८.१०

सूक्तं ८.११

सूक्तं ८.१२

सूक्तं ८.१३

सूक्तं ८.१४

सूक्तं ८.१५

सूक्तं ८.१६

सूक्तं ८.१७

सूक्तं ८.१८

सूक्तं ८.१९

सूक्तं ८.२०

सूक्तं ८.२१

सूक्तं ८.२२

सूक्तं ८.२३

सूक्तं ८.२४

सूक्तं ८.२५

सूक्तं ८.२६

सूक्तं ८.२७

सूक्तं ८.२८

सूक्तं ८.२९

सूक्तं ८.३०

सूक्तं ८.३१

सूक्तं ८.३२

सूक्तं ८.३३

सूक्तं ८.३४

सूक्तं ८.३५

सूक्तं ८.३६

सूक्तं ८.३७

सूक्तं ८.३८

सूक्तं ८.३९

सूक्तं ८.४०

सूक्तं ८.४१

सूक्तं ८.४२

सूक्तं ८.४३

सूक्तं ८.४४

सूक्तं ८.४५

सूक्तं ८.४६

सूक्तं ८.४७

सूक्तं ८.४८

सूक्तं ८.४९

सूक्तं ८.५०

सूक्तं ८.५१

सूक्तं ८.५२

सूक्तं ८.५३

सूक्तं ८.५४

सूक्तं ८.५५

सूक्तं ८.५६

सूक्तं ८.५७

सूक्तं ८.५८

सूक्तं ८.५९

सूक्तं ८.६०

सूक्तं ८.६१

सूक्तं ८.६२

सूक्तं ८.६३

सूक्तं ८.६४

सूक्तं ८.६५

सूक्तं ८.६६

सूक्तं ८.६७

सूक्तं ८.६८

सूक्तं ८.६९

सूक्तं ८.७०

सूक्तं ८.७१

सूक्तं ८.७२

सूक्तं ८.७३

सूक्तं ८.७४

सूक्तं ८.७५

सूक्तं ८.७६

सूक्तं ८.७७

सूक्तं ८.७८

सूक्तं ८.७९

सूक्तं ८.८०

सूक्तं ८.८१

सूक्तं ८.८२

सूक्तं ८.८३

सूक्तं ८.८४

सूक्तं ८.८५

सूक्तं ८.८६

सूक्तं ८.८७

सूक्तं ८.८८

सूक्तं ८.८९

सूक्तं ८.९०

सूक्तं ८.९१

सूक्तं ८.९२

सूक्तं ८.९३

सूक्तं ८.९४

सूक्तं ८.९५

सूक्तं ८.९६

सूक्तं ८.९७

सूक्तं ८.९८

सूक्तं ८.९९

सूक्तं ८.१००

सूक्तं ८.१०१

सूक्तं ८.१०२

सूक्तं ८.१०३

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_८.४१&oldid=201918" इत्यस्माद् पुनः प्राप्तिः