ऋग्वेदः सूक्तं ८.२१

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं ८.२० ऋग्वेदः - मण्डल ८
सूक्तं ८.२१
सोभरिः काण्वः।
सूक्तं ८.२२ →
दे. इन्द्रः, १७-१८ चित्रः । प्रगाथः ( )।


वयमु त्वामपूर्व्य स्थूरं न कच्चिद्भरन्तोऽवस्यवः ।
वाजे चित्रं हवामहे ॥१॥
उप त्वा कर्मन्नूतये स नो युवोग्रश्चक्राम यो धृषत् ।
त्वामिद्ध्यवितारं ववृमहे सखाय इन्द्र सानसिम् ॥२॥
आ याहीम इन्दवोऽश्वपते गोपत उर्वरापते ।
सोमं सोमपते पिब ॥३॥
वयं हि त्वा बन्धुमन्तमबन्धवो विप्रास इन्द्र येमिम ।
या ते धामानि वृषभ तेभिरा गहि विश्वेभिः सोमपीतये ॥४॥
सीदन्तस्ते वयो यथा गोश्रीते मधौ मदिरे विवक्षणे ।
अभि त्वामिन्द्र नोनुमः ॥५॥
अच्छा च त्वैना नमसा वदामसि किं मुहुश्चिद्वि दीधयः ।
सन्ति कामासो हरिवो ददिष्ट्वं स्मो वयं सन्ति नो धियः ॥६॥
नूत्ना इदिन्द्र ते वयमूती अभूम नहि नू ते अद्रिवः ।
विद्मा पुरा परीणसः ॥७॥
विद्मा सखित्वमुत शूर भोज्यमा ते ता वज्रिन्नीमहे ।
उतो समस्मिन्ना शिशीहि नो वसो वाजे सुशिप्र गोमति ॥८॥
यो न इदमिदं पुरा प्र वस्य आनिनाय तमु व स्तुषे ।
सखाय इन्द्रमूतये ॥९॥
हर्यश्वं सत्पतिं चर्षणीसहं स हि ष्मा यो अमन्दत ।
आ तु नः स वयति गव्यमश्व्यं स्तोतृभ्यो मघवा शतम् ॥१०॥
त्वया ह स्विद्युजा वयं प्रति श्वसन्तं वृषभ ब्रुवीमहि ।
संस्थे जनस्य गोमतः ॥११॥
जयेम कारे पुरुहूत कारिणोऽभि तिष्ठेम दूढ्यः ।
नृभिर्वृत्रं हन्याम शूशुयाम चावेरिन्द्र प्र णो धियः ॥१२॥
अभ्रातृव्यो अना त्वमनापिरिन्द्र जनुषा सनादसि ।
युधेदापित्वमिच्छसे ॥१३॥
नकी रेवन्तं सख्याय विन्दसे पीयन्ति ते सुराश्वः ।
यदा कृणोषि नदनुं समूहस्यादित्पितेव हूयसे ॥१४॥
मा ते अमाजुरो यथा मूरास इन्द्र सख्ये त्वावतः ।
नि षदाम सचा सुते ॥१५॥
मा ते गोदत्र निरराम राधस इन्द्र मा ते गृहामहि ।
दृळ्हा चिदर्यः प्र मृशाभ्या भर न ते दामान आदभे ॥१६॥
इन्द्रो वा घेदियन्मघं सरस्वती वा सुभगा ददिर्वसु ।
त्वं वा चित्र दाशुषे ॥१७॥
चित्र इद्राजा राजका इदन्यके यके सरस्वतीमनु ।
पर्जन्य इव ततनद्धि वृष्ट्या सहस्रमयुता ददत् ॥१८॥


सायणभाष्यम्

॥ श्रीगणेशाय नमः ॥

यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् ।

निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥

चतुर्थेऽनुवाके दश सूक्तानि । तत्र ‘ वयमु त्वाम्' इत्यष्टादशर्चं प्रथमं सूक्तम् । अत्रानुक्रमणिका–'वयमु द्व्यूनान्त्ये द्वृचे चित्रस्य दानस्तुतिः' इति । ‘ऋषिश्चान्यस्मात् ' इति परिभाषया काण्वः सोभरिर्ऋषिः । ‘ काकुभं प्रागाथं ह' इत्युक्तत्वादस्यापि सूक्तस्यायुजः ककुभो युजः सतोबृहत्यः । अन्त्ये द्वृचे चित्रस्य दानं देवता । शिष्टा ऐन्द्र्यः । सूक्तविनियोगो लैङ्गिकः । उक्थ्ये ब्राह्मणाच्छंसिशस्त्रे 'वयमु त्वाम्' इति प्रगाथः स्तोत्रियः । सूत्रितं च-’ वयमु त्वामपूर्व्यं यो न इदमिदं पुरेति प्रगाथौ' (आश्व. श्रौ. ६. १ ) इति । आभिप्लविकेषूक्थ्येष्वपि तृतीयसवने ब्राह्मणाच्छंसिनो वैकल्पिकोऽयं स्तोत्रियः प्रगाथः । सूत्रमुक्तम् । अस्मिन्नेव शस्त्रे ‘ त्वं न इन्द्रा भर ' इति प्रगाथो यदा स्तोत्रियः तदा ‘वयमु त्वा' इत्यनुरूपतृचस्याद्या । सूत्रितं च -- वयमु त्वामपूर्व्य यो न इदमिदं पुरा याहीम इन्दव इति समाहार्योऽनुरूपः' (आश्व. श्रौ. ७. ८) इति ॥


व॒यमु॒ त्वाम॑पूर्व्य स्थू॒रं न कच्चि॒द्भर॑न्तोऽव॒स्यव॑ः ।

वाजे॑ चि॒त्रं ह॑वामहे ॥१

व॒यम् । ऊं॒ इति॑ । त्वाम् । अ॒पू॒र्व्य॒ । स्थू॒रम् । न । कत् । चि॒त् । भर॑न्तः । अ॒व॒स्यवः॑ ।

वाजे॑ । चि॒त्रम् । ह॒वा॒म॒हे॒ ॥१

वयम् । ऊं इति । त्वाम् । अपूर्व्य । स्थूरम् । न । कत् । चित् । भरन्तः । अवस्यवः ।

वाजे । चित्रम् । हवामहे ॥१

हे “अपूर्व्य त्रिषु सवनेषु प्रादुर्भूतत्वादभिनवेन्द्र “भरन्तः सोमलक्षणैरन्नैस्त्वां पोषयन्तः “वयं “वाजे । वाजयन्ति गच्छन्ति योद्धारोऽत्रेति वाजयन्त्यायुधान्यत्रेति वा वाजः संग्रामः । तस्मिन् “चित्रं चायनीयं विविधरूपं वा “त्वाम् “उ त्वामेव “अवस्यवः रक्षणमात्मन इच्छन्तः सन्तः “हवामहे त्वामाह्वयामः । तत्र दृष्टान्तः । “स्थूरं “न यथा भरन्तो व्रीह्यादिभिर्गृहं पूरयन्तो जनाः वाजे अन्नविषये स्थूरं स्थूलं गुणाधिकं “कच्चित् कंचिन्मानवं यथाह्वयन्ति तद्वत् ॥


उप॑ त्वा॒ कर्म॑न्नू॒तये॒ स नो॒ युवो॒ग्रश्च॑क्राम॒ यो धृ॒षत् ।

त्वामिद्ध्य॑वि॒तारं॑ ववृ॒महे॒ सखा॑य इन्द्र सान॒सिम् ॥२

उप॑ । त्वा॒ । कर्म॑न् । ऊ॒तये॑ । सः । नः॒ । युवा॑ । उ॒ग्रः । च॒क्रा॒म॒ । यः । धृ॒षत् ।

त्वाम् । इत् । हि । अ॒वि॒तार॑म् । व॒वृ॒महे॑ । सखा॑यः । इ॒न्द्र॒ । सा॒न॒सिम् ॥२

उप । त्वा । कर्मन् । ऊतये । सः । नः । युवा । उग्रः । चक्राम । यः । धृषत् ।

त्वाम् । इत् । हि । अवितारम् । ववृमहे । सखायः । इन्द्र । सानसिम् ॥२

प्रथमपादः प्रत्यक्षकृतः । हे इन्द्र “कर्मन् अग्निष्टोमादिकर्मणि “ऊतये रक्षणाय “त्वा त्वामुपगच्छामः । द्वितीयः पादः परोक्षकृतः । “यः इन्द्रः “धृषत् धृष्णोति शत्रूनभिभवति । ञिधृषा प्रागल्भ्ये '। 'बहुलं छन्दसि ' इति शप्रत्ययः । “युवा तरुणः “उग्रः उद्गूणः “सः इन्द्रः “नः अस्मान् प्रति “चक्राम आगच्छतु । यद्वा । चक्राम अस्मानुत्साहयुक्तान् करोतु । क्रमतेः सर्गार्थे व्यत्ययेन परस्मैपदम् (पा. सू. १. ३. ३८ )। परोऽर्धर्चः प्रत्यक्षकृतः । “सखायः समानख्याना बन्धुभूता वा वयं "सानसिम् । वन षण संभक्तौ । संभजनीयम् “अवितारं सर्वस्य रक्षितारं “त्वामित् त्वामेव “ववृमहे वृणीमहे संभजामहे । हिः प्रसिद्धौ । हियोगादनिघातः ।।


आ या॑ही॒म इन्द॒वोऽश्व॑पते॒ गोप॑त॒ उर्व॑रापते ।

सोमं॑ सोमपते पिब ॥३

आ । या॒हि॒ । इ॒मे । इन्द॑वः । अश्व॑ऽपते । गोऽप॑ते । उर्व॑राऽपते ।

सोम॑म् । सो॒म॒ऽप॒ते॒ । पि॒ब॒ ॥३

आ । याहि । इमे । इन्दवः । अश्वऽपते । गोऽपते । उर्वराऽपते ।

सोमम् । सोमऽपते । पिब ॥३

“अश्वपते अश्वानां स्वामिन् “गोपते गवां पालयितः “उर्वरापते । सर्वसस्याढ्या भूमिरुर्वरा । तस्याः पते हे इन्द्र “इन्दवः सोमाः “इमे भवदीयाः । त्वदर्थमभिषुता इत्यर्थः । तस्मात् “आ “याहि आगच्छ । आगत्य “सोमपते हे इन्द्र “सोमं “पिब ।।


व॒यं हि त्वा॒ बन्धु॑मन्तमब॒न्धवो॒ विप्रा॑स इन्द्र येमि॒म ।

या ते॒ धामा॑नि वृषभ॒ तेभि॒रा ग॑हि॒ विश्वे॑भि॒ः सोम॑पीतये ॥४

व॒यम् । हि । त्वा॒ । बन्धु॑ऽमन्तम् । अ॒ब॒न्धवः॑ । विप्रा॑सः । इ॒न्द्र॒ । ये॒मि॒म ।

या । ते॒ । धामा॑नि । वृ॒ष॒भ॒ । तेभिः॑ । आ । ग॒हि॒ । विश्वे॑भिः । सोम॑ऽपीतये ॥४

वयम् । हि । त्वा । बन्धुऽमन्तम् । अबन्धवः । विप्रासः । इन्द्र । येमिम ।

या । ते । धामानि । वृषभ । तेभिः । आ । गहि । विश्वेभिः । सोमऽपीतये ॥४

हे “इन्द्र “अबन्धवः बन्धुरहिताः “विप्रासः मेधाविनः “वयं बन्धुमन्तं बन्धुभिर्देवैरङ्गिरोभिर्वा तद्वन्तं “त्वा त्वाम् । हिरवधारणे । त्वामेव “येमिम बन्धुत्वेन नियच्छाम। यच्छतेर्लिटि रूपम् । तथा सति हे “वृषभ कामानां वर्षितरिन्द्र “ते तव “या यानि “धामानि शरीराणि तेजांसि वा विद्यन्ते “तेभिः तैः “विश्वेभिः सर्वैर्धामभिः सह “सोमपीतये सोमपानार्थम् “आ “गहि आगच्छ ।।


सीद॑न्तस्ते॒ वयो॑ यथा॒ गोश्री॑ते॒ मधौ॑ मदि॒रे वि॒वक्ष॑णे ।

अ॒भि त्वामि॑न्द्र नोनुमः ॥५

सीद॑न्तः । ते॒ । वयः॑ । य॒था॒ । गोऽश्री॑ते । मधौ॑ । म॒दि॒रे । वि॒वक्ष॑णे ।

अ॒भि । त्वाम् । इ॒न्द्र॒ । नो॒नु॒मः॒ ॥५

सीदन्तः । ते । वयः । यथा । गोऽश्रीते । मधौ । मदिरे । विवक्षणे ।

अभि । त्वाम् । इन्द्र । नोनुमः ॥५

हे “इन्द्र “गोश्रीते । ‘श्रीङ् पाके'। गोविकारे दधिपयसी गोशब्देनोच्यते । दध्ना पयसा च श्रीते श्रयद्रव्येण मिश्रिते “मदिरे मदकरे “विवक्षणे स्वर्गप्रापणशीले त्वदीये “मधौ सोमे “सीदन्तः निवसन्तः । सदने दृष्टान्तः । “वयो “यथा पक्षिणो यथैकत्र संघीभूय तिष्ठन्ति तद्वत् सीदन्तो वयं “त्वाम् “अभि आभिमुख्येन "नोनुमः पुनःपुनर्भृशं वा स्तुमः ॥ ॥ १ ॥


अच्छा॑ च त्वै॒ना नम॑सा॒ वदा॑मसि॒ किं मुहु॑श्चि॒द्वि दी॑धयः ।

सन्ति॒ कामा॑सो हरिवो द॒दिष्ट्वं स्मो व॒यं सन्ति॑ नो॒ धिय॑ः ॥६

अच्छ॑ । च॒ । त्वा॒ । ए॒ना । नम॑सा । वदा॑मसि । किम् । मुहुः॑ । चि॒त् । वि । दी॒ध॒यः॒ ।

सन्ति॑ । कामा॑सः । ह॒रि॒ऽवः॒ । द॒दिः । त्वम् । स्मः । व॒यम् । सन्ति॑ । नः॒ । धियः॑ ॥६

अच्छ । च । त्वा । एना । नमसा । वदामसि । किम् । मुहुः । चित् । वि । दीधयः ।

सन्ति । कामासः । हरिऽवः । ददिः । त्वम् । स्मः । वयम् । सन्ति । नः । धियः ॥६

हे इन्द्र “अच्छ ”च अपि च आभिमुख्येन वा “एना एनेन "नमसा स्तोत्रेण हविर्लक्षणेनान्नेन वा सह “त्वा त्वां “वदामसि अभिवदामः । ‘ चवायोगे प्रथमा ' इति न निघातः । त्वं तु “मुहुश्चित् मुहुर्मुहुः “किं कस्माद्धेतोः “वि “दीधयः । विपूर्वो दीधितिश्चिन्तने । विचिन्तयसि । “दीधीङ् दीप्तिदेवनयोः' । व्यत्ययेन परस्मैपदं लुगभावश्च । किमर्थं यूयं वदथेति चेत् । “हरिवः हरिताश्ववन् हे इन्द्र अस्माकं “कामासः पुत्रपश्वादिविषयाः कामाः “सन्ति कामाः सन्तु । अहं न प्रयच्छामीति चेत् । “त्वं तु “ददिः धनादिदाता खलु । तस्मात् “वयं त्वत्संनिधौ “स्मः भवामः । किंच “नः अस्माकं “धियः कर्माणि च तव समीपे “सन्ति तिष्ठन्ति । ततो धनादिलाभार्थं त्वां वदाम इत्यर्थः ॥


नूत्ना॒ इदि॑न्द्र ते व॒यमू॒ती अ॑भूम न॒हि नू ते॑ अद्रिवः ।

वि॒द्मा पु॒रा परी॑णसः ॥७

नूत्नाः॑ । इत् । इ॒न्द्र॒ । ते॒ । व॒यम् । ऊ॒ती । अ॒भू॒म॒ । न॒हि । नु । ते॒ । अ॒द्रि॒ऽवः॒ ।

वि॒द्म । पु॒रा । परी॑णसः ॥७

नूत्नाः । इत् । इन्द्र । ते । वयम् । ऊती । अभूम । नहि । नु । ते । अद्रिऽवः ।

विद्म । पुरा । परीणसः ॥७

हे “इन्द्र “ते तव “ऊती ऊत्यै रक्षणे “वयं "नूत्ना “इत् नूतना एव “अभूम भवामः । “अद्रिवः वज्रिन हे इन्द्र “पुरा पूर्वं त्वां “परीणसः । सुब्व्यत्ययः । परीणसं परितो व्याप्तं महान्तं वेति “नहि “विद्म न जानीमः । “नु संप्रति तु “ते त्वां महान्तमिति जानन्तो वयं भवता रक्ष्या इति ।।


वि॒द्मा स॑खि॒त्वमु॒त शू॑र भो॒ज्य१॒॑मा ते॒ ता व॑ज्रिन्नीमहे ।

उ॒तो स॑मस्मि॒न्ना शि॑शीहि नो वसो॒ वाजे॑ सुशिप्र॒ गोम॑ति ॥८

वि॒द्म । स॒खि॒ऽत्वम् । उ॒त । शू॒र॒ । भो॒ज्य॑म् । आ । ते॒ । ता । व॒ज्रि॒न् । ई॒म॒हे॒ ।

उ॒तो इति॑ । स॒म॒स्मि॒न् । आ । शि॒शी॒हि॒ । नः॒ । व॒सो॒ इति॑ । वाजे॑ । सु॒ऽशि॒प्र॒ । गोऽम॑ति ॥८

विद्म । सखिऽत्वम् । उत । शूर । भोज्यम् । आ । ते । ता । वज्रिन् । ईमहे ।

उतो इति । समस्मिन् । आ । शिशीहि । नः । वसो इति । वाजे । सुऽशिप्र । गोऽमति ॥८

"शूर शत्रूणां शातयितर्बलवन् हे इन्द्र "सखित्वं तव सखिभावं वयं “विद्म जानीमः । "उत अपि च “भोज्यम् अभ्यवहार्यं धनं च विद्म । “वज्रिन् हे इन्द्र “ते त्वदीये “ता ते सख्यधने “आ आभिमुख्येन “ईमहे वयं याचामहे । "उतो अपि च "वसो सर्वस्य वासयितः “सुशिप्र शोभनहनो यद्वा शोभनशिरस्त्राण हे इन्द्र “गोमति गवादियुक्ते “समस्मिन् सर्वस्मिन् “वाजे अन्ने “नः अस्मान् “आ “शिशीहि तीक्ष्णीकुरु । उपलक्षणम् । प्रदानेनास्मान् प्रसिद्धान् कुर्वित्यर्थः । ‘ शिञ् निशाने' इत्यस्य छान्दसः श्लुः ॥


उक्थ्ये ब्राह्मणाच्छंसिशस्त्रे “यो न इदमिदम्' इत्ययं प्रगाथोऽनुरूपः । ‘ यो न इदमिदं पुरेति प्रगाथौ सर्वाः ककुभः ' ( आश्व. श्रौ. ६. १) इति सूत्रितम् । आभिप्लविकेषूक्थ्येष्वपि ब्राह्मणाच्छंसिशस्त्रेऽयं वैकल्पिकोऽनुरूपः ( आश्व. श्रौ. ७.८)। आभिप्लविकेषूक्थ्येषु तृतीयसवने ब्राह्मणाच्छंसिशस्त्रे • त्वं न इन्द्रा भर ' इति प्रगाथे स्तोत्रिये सत्यनुरूपतृचः समाहार्यः । तत्रेयं ‘यो न इदमिदम्' इति द्वितीया । सूत्रितं च--- यो न इदमिदं पुरा याहीम इन्दव इति समाहार्योऽनुरूपः' ( आश्व. श्रौ. ७. ८) इति ॥

यो न॑ इ॒दमि॑दं पु॒रा प्र वस्य॑ आनि॒नाय॒ तमु॑ वः स्तुषे ।

सखा॑य॒ इन्द्र॑मू॒तये॑ ॥९

यः । नः॒ । इ॒दम्ऽइ॑दम् । पु॒रा । प्र । वस्यः॑ । आ॒ऽनि॒नाय॑ । तम् । ऊं॒ इति॑ । वः॒ । स्तु॒षे॒ ।

सखा॑यः । इन्द्र॑म् । ऊ॒तये॑ ॥९

यः । नः । इदम्ऽइदम् । पुरा । प्र । वस्यः । आऽनिनाय । तम् । ऊं इति । वः । स्तुषे ।

सखायः । इन्द्रम् । ऊतये ॥९

“सखायः समानख्याना हे ऋत्विग्यजमानाः “यः इन्द्रः “पुरा पूर्वमिदं दर्शनीयतया विद्यमानं “वस्यः वसीयः । वसोरीयसुनि ईकारलोपश्छान्दसः । प्रशस्तं वसु “नः अस्मान् “प्राणिनाय प्रकर्षेणानीतवान् “तमु तमेव धनानामानेतारम् “इन्द्रं “वः युष्माकं धनलाभार्थम् “ऊतये रक्षणाय च “स्तुषे सोभरिरहं स्तौमि ॥


हर्य॑श्वं॒ सत्प॑तिं चर्षणी॒सहं॒ स हि ष्मा॒ यो अम॑न्दत ।

आ तु न॒ः स व॑यति॒ गव्य॒मश्व्यं॑ स्तो॒तृभ्यो॑ म॒घवा॑ श॒तम् ॥१०

हरि॑ऽअश्वम् । सत्ऽप॑तिम् । च॒र्ष॒णि॒ऽसह॑म् । सः । हि । स्म॒ । यः । अम॑न्दत ।

आ । तु । नः॒ । सः । व॒य॒ति॒ । गव्य॑म् । अश्व्य॑म् । स्तो॒तृऽभ्यः॑ । म॒घऽवा॑ । श॒तम् ॥१०

हरिऽअश्वम् । सत्ऽपतिम् । चर्षणिऽसहम् । सः । हि । स्म । यः । अमन्दत ।

आ । तु । नः । सः । वयति । गव्यम् । अश्व्यम् । स्तोतृऽभ्यः । मघऽवा । शतम् ॥१०

“हर्यश्वं हरितवर्णाश्वोपेतं “सत्पतिं स्वप्रकाशाधिक्येन सतां नक्षत्राणां पतिं सतां श्रेष्ठानां पतिं वा “चर्षणीसहं चर्षणीनां शत्रुभूतानां मनुष्याणामभिभवितारं “स “हि “ष्म स खलु जनः स्तौति । “यः जनः “अमन्दत ततो लब्धधनः संस्तृप्तो भवति स एनं तुष्टूषति । एवं सति “मघवा धनवान् “सः इन्द्रः “शतं “गव्यमश्व्यम् अनेकं गवाश्वसंघं “स्तोतृभ्यः “नः अस्मभ्यं “तु क्षिप्रम् “आ “वयति आप्रापयतु । वी गत्यादिषु । अस्माल्लेट्यडागमः । ततो लब्धगवादिका वयं चैनं स्तुम इति ॥ ॥२॥


त्वया॑ ह स्विद्यु॒जा व॒यं प्रति॑ श्व॒सन्तं॑ वृषभ ब्रुवीमहि ।

सं॒स्थे जन॑स्य॒ गोम॑तः ॥११

त्वया॑ । ह॒ । स्वि॒त् । यु॒जा । व॒यम् । प्रति॑ । श्व॒सन्त॑म् । वृ॒ष॒भ॒ । ब्रु॒वी॒म॒हि॒ ।

स॒म्ऽस्थे । जन॑स्य । गोऽम॑तः ॥११

त्वया । ह । स्वित् । युजा । वयम् । प्रति । श्वसन्तम् । वृषभ । ब्रुवीमहि ।

सम्ऽस्थे । जनस्य । गोऽमतः ॥११

“वृषभ वर्षितर्हे इन्द्र “गोमतः गवादियुक्तस्य “जनस्य “संस्थे स्थाने युद्धे “श्वसन्तम् अस्मान् प्रति क्रोधातिशयेल श्वासकारिणं शत्रुं “युजा सहायेन “त्वया “ह “स्वित् त्वयैव खलु “वयं “प्रति “ब्रुवीमहि प्रतिवचनं कुर्मः । निराकरिष्याम इत्यर्थः ।।


जये॑म का॒रे पु॑रुहूत का॒रिणो॒ऽभि ति॑ष्ठेम दू॒ढ्य॑ः ।

नृभि॑र्वृ॒त्रं ह॒न्याम॑ शूशु॒याम॒ चावे॑रिन्द्र॒ प्र णो॒ धिय॑ः ॥१२

जये॑म । का॒रे । पु॒रु॒ऽहू॒त॒ । का॒रिणः॑ । अ॒भि । ति॒ष्ठे॒म॒ । दुः॒ऽध्यः॑ ।

नृऽभिः॑ । वृ॒त्रम् । ह॒न्याम॑ । शू॒शु॒याम॑ । च॒ । अवेः॑ । इ॒न्द्र॒ । प्र । नः॒ । धियः॑ ॥१२

जयेम । कारे । पुरुऽहूत । कारिणः । अभि । तिष्ठेम । दुःऽध्यः ।

नृऽभिः । वृत्रम् । हन्याम । शूशुयाम । च । अवेः । इन्द्र । प्र । नः । धियः ॥१२

“पुरुहूत बहुभिराह्वातव्य हे “इन्द्र अस्माकं विविधाः शत्रव उपद्रवकारिणो बाधां मनसा स्मरन्तश्चेति । तत्र “कारिणः हिंसां कुर्वतः शत्रून् “कारे । कीर्यन्त आयुधान्यत्रेति कारो युद्धम् । तस्मिंस्तान् वयं “जयेम। “दूढ्यः दुर्धियः पापबुद्धीनपि “अभि “तिष्ठेम अभितः स्थास्यामः । किंच “वृत्रं गवामावरकं शत्रुं “नृभिः आयुधनेतृभिर्मरुद्भिः सह “हन्याम हिंस्याम । हत्वा “शूशुयाम “च ! शत्रुराहित्येन पुत्रपौत्रैरग्निष्टोमादिकर्मभिश्च वर्धयेमहि । यद्वा। श्वयतिरत्रान्तर्णीतण्यर्थः । शत्रुभ्यो बाधाभावात् सोमलक्षणैरन्नैस्त्वां वर्धयेम । ततस्त्वं “नः अस्माकं “धियः कर्माणि “प्र “अवेः प्रकर्षेण रक्ष ।।


आभिप्लविकेषूक्थ्येषु तृतीयसवने ब्राह्मणाच्छंसिशस्त्रे ‘ अभ्रातृव्यः' इत्यादिकौ द्वौ प्रगाथौ वैकल्पिकौ स्तोत्रियानुरूपौ । सूत्रितं च--‘अभ्रातृव्यो अना त्वं मा ते अमाजुरो यथा' (आश्व. श्रौ. ७. ८ ) इति ।।

अ॒भ्रा॒तृ॒व्यो अ॒ना त्वमना॑पिरिन्द्र ज॒नुषा॑ स॒नाद॑सि ।

यु॒धेदा॑पि॒त्वमि॑च्छसे ॥१३

अ॒भ्रा॒तृ॒व्यः । अ॒ना । त्वम् । अना॑पिः । इ॒न्द्र॒ । ज॒नुषा॑ । स॒नात् । अ॒सि॒ ।

यु॒धा । इत् । आ॒पि॒ऽत्वम् । इ॒च्छ॒से॒ ॥१३

अभ्रातृव्यः । अना । त्वम् । अनापिः । इन्द्र । जनुषा । सनात् । असि ।

युधा । इत् । आपिऽत्वम् । इच्छसे ॥१३

हे “इन्द्र “त्वं “जनुषा जन्मनैव “अभ्रातृव्यः । व्यन् सपत्ने ' ( पा. सू. ४. १. १४५) इति व्यन्प्रत्ययः । “अना अनेतृकः । ‘ ऋतश्छन्दसि ' इति कपः प्रतिषेधः । अनियन्तृक इत्यर्थः । “अनापिः बन्धुवर्जितश्च “सनादसि चिरादेव भ्रातृव्यादिवर्जितोऽसि । यच्च त्वया “आपित्वं बान्धवम् “इच्छसे इच्छसि तत्र “युधेत् युद्धेनैव युद्धं कुर्वन्नेव स्तोतॄणां सखा भवसीति ।।


नकी॑ रे॒वन्तं॑ स॒ख्याय॑ विन्दसे॒ पीय॑न्ति ते सुरा॒श्व॑ः ।

य॒दा कृ॒णोषि॑ नद॒नुं समू॑ह॒स्यादित्पि॒तेव॑ हूयसे ॥१४

नकिः॑ । रे॒वन्त॑म् । स॒ख्याय॑ । वि॒न्द॒से॒ । पीय॑न्ति । ते॒ । सु॒रा॒श्वः॑ ।

य॒दा । कृ॒णोषि॑ । न॒द॒नुम् । सम् । ऊ॒ह॒सि॒ । आत् । इत् । पि॒ताऽइ॑व । हू॒य॒से॒ ॥१४

नकिः । रेवन्तम् । सख्याय । विन्दसे । पीयन्ति । ते । सुराश्वः ।

यदा । कृणोषि । नदनुम् । सम् । ऊहसि । आत् । इत् । पिताऽइव । हूयसे ॥१४

हे इन्द्र “रेवन्तं धनवन्तं केवलधनवन्तं दानादिरहितमयष्टारमाढ्यं मानवं “सख्याय सखिभावाय “नकिः “विन्दसे न भजसे नाश्रयसीत्यर्थः । अयष्टारो जनाः किं सन्तीत्यत आह । “सुराश्वः । ‘ दुओश्वि गतिवृद्धयोः ' । सुरया वृद्धास्तद्वत् प्रमत्ता नास्तिकाः “ते त्वां “पीयन्ति । पीयतिर्हिंसाकर्मा । हिंसन्ति । तान्नाश्रयसीत्यर्थः ॥


मा ते॑ अमा॒जुरो॑ यथा मू॒रास॑ इन्द्र स॒ख्ये त्वाव॑तः ।

नि ष॑दाम॒ सचा॑ सु॒ते ॥१५

मा । ते॒ । अ॒मा॒ऽजुरः॑ । य॒था॒ । मू॒रासः॑ । इ॒न्द्र॒ । स॒ख्ये । त्वाऽव॑तः ।

नि । स॒दा॒म॒ । सचा॑ । सु॒ते ॥१५

मा । ते । अमाऽजुरः । यथा । मूरासः । इन्द्र । सख्ये । त्वाऽवतः ।

नि । सदाम । सचा । सुते ॥१५

हे “इन्द्र “ते तव स्वभूता वयं तथा “मा भूम मा भवाम “यथा “त्वावतः त्वादृशः त्वत्सदृशस्य देवस्य “सख्ये "मूरासः मूराः । सोमप्रदानादिन्द्रेण सह सख्यं कुर्म इत्येतदजानन्तो मूढा जनाः । “अमाजुरः सोमाभिषवमकुर्वन्तस्ते गृहैः पुत्रैः पौत्रैर्धनादिभिश्च सह जीर्णा भवन्ति । तथा वयममाजुरो न भवाम । कथम् । "सचा ऋत्विग्भिः सह "सुते अभिषुते सोमे वयं तु “नि “षदाम निवसाम । तस्मात् सोमदानेन त्वया सह सखिभावं कुर्म इत्यर्थः ॥ ॥ ३ ॥


मा ते॑ गोदत्र॒ निर॑राम॒ राध॑स॒ इन्द्र॒ मा ते॑ गृहामहि ।

दृ॒ळ्हा चि॑द॒र्यः प्र मृ॑शा॒भ्या भ॑र॒ न ते॑ दा॒मान॑ आ॒दभे॑ ॥१६

मा । ते॒ । गो॒ऽद॒त्र॒ । निः । अ॒रा॒म॒ । राध॑सः । इन्द्र॑ । मा । ते॒ । गृ॒हा॒म॒हि॒ ।

दृ॒ळ्हा । चि॒त् । अ॒र्यः । प्र । मृ॒श॒ । अ॒भि । आ । भ॒र॒ । न । ते॒ । दा॒मानः॑ । आ॒ऽदभे॑ ॥१६

मा । ते । गोऽदत्र । निः । अराम । राधसः । इन्द्र । मा । ते । गृहामहि ।

दृळ्हा । चित् । अर्यः । प्र । मृश । अभि । आ । भर । न । ते । दामानः । आऽदभे ॥१६

हे “गोदत्र स्तोतॄणां गवादिदानशील हे “इन्द्र “ते तव स्वभूता वयं “राधसः धनान् “मा “निरराम मा निर्गमाम । अर्तेर्लुङि ‘सर्तिशास्त्यर्तिभ्यश्च ' इत्यङादेशः । ‘ ऋदृशोऽङि' इति गुणः । सर्वदा त्वत्तो धनाढ्या भवाम । किंच “ते तव स्वभूता वयं धनं प्रयच्छाम । कस्माच्चित् "मा “गृहामहि मा गृह्णीमः। अपि तु त्वत्त एव धनं गृह्णीम इत्यर्थः। ग्रहेर्लुङि ‘बहुलं छन्दसि' इति शः । ङित्त्वात्संप्रसारणम् । “अर्यः स्वामी त्वं “दृळ्हा “चित् दृढान्यपि विनश्वराणि धनानि “प्र “मृश प्रकर्षेणास्मासु स्थापय । किंच “अभि आभिमुख्येन “आ “भर धनादिभिः समन्तादस्मान् पोषय । “ते तव “दामानः तानि दानानि “न “आदभे न कैश्चिदपि आदम्भितुं शक्यन्ते । तस्मात् दानादियुक्तानस्मान् कुर्वित्यर्थः ॥


इन्द्रो॑ वा॒ घेदिय॑न्म॒घं सर॑स्वती वा सु॒भगा॑ द॒दिर्वसु॑ ।

त्वं वा॑ चित्र दा॒शुषे॑ ॥१७

इन्द्रः॑ । वा॒ । घ॒ । इत् । इय॑त् । म॒घम् । सर॑स्वती । वा॒ । सु॒ऽभगा॑ । द॒दिः । वसु॑ ।

त्वम् । वा॒ । चि॒त्र॒ । दा॒शुषे॑ ॥१७

इन्द्रः । वा । घ । इत् । इयत् । मघम् । सरस्वती । वा । सुऽभगा । ददिः । वसु ।

त्वम् । वा । चित्र । दाशुषे ॥१७

अत्र चित्रस्य दानं स्तौति । चित्रो नाम राजा सरस्वतीतीर इन्द्रार्थं यागमकृत । तत्र मन्त्रद्रष्टर्षिर्बहुधनलाभान्मह्यमेतावद्धनं को वा प्रयच्छदिति विकल्पयते। “दाशुषे इन्द्राय हवींषि दत्तवते मह्यम् “इन्द्रो “वा “घेत् इन्द्र एव किं खल्वेतावत् “मघं मंहनीयं धनं “ददिः प्रायच्छत् । यद्वा "सुभगा शोभनधना “सरस्वती नदी "वसु धनं ददिः किं प्रायच्छत् । अथवा “चित्र एतन्नामक हे राजन् “त्वं “वा एतावद्धनं मह्यं प्रादा इति ।


चित्र॒ इद्राजा॑ राज॒का इद॑न्य॒के य॒के सर॑स्वती॒मनु॑ ।

प॒र्जन्य॑ इव त॒तन॒द्धि वृ॒ष्ट्या स॒हस्र॑म॒युता॒ दद॑त् ॥१८

चित्रः॑ । इत् । राजा॑ । रा॒ज॒काः । इत् । अ॒न्य॒के । य॒के । सर॑स्वतीम् । अनु॑ ।

प॒र्जन्यः॑ऽइव । त॒तन॑त् । हि । वृ॒ष्ट्या । स॒हस्र॑म् । अ॒युता॑ । दद॑त् ॥१८

चित्रः । इत् । राजा । राजकाः । इत् । अन्यके । यके । सरस्वतीम् । अनु ।

पर्जन्यःऽइव । ततनत् । हि । वृष्ट्या । सहस्रम् । अयुता । ददत् ॥१८

अनया चित्र एव प्रादादिति निश्चयमकार्षीत् । “सहस्रं सहस्रसंख्याकं धनम् “अयुता अयुतानि च धनानि च “ददत् प्रयच्छन् “चित्र “इत् चित्रनामैव "राजा । “अन्यके "यके । अल्प इत्यर्थे कः । अल्पा येऽन्ये “राजका “इत् राजान एव “सरस्वतीमनु सरस्वत्यास्तीरे वर्तन्ते । तान् सर्वान् याचमानानयमेव चित्रो राजा “ततनत् धनैस्तनोति । तनोतेर्लुङि चङि रूपम् । ‘चङ्यन्यतरस्याम्' इति स्वरः। तत्र दृष्टान्तः । “पर्जन्यइव। यथा पर्जन्यः पृथिवीं वृष्ट्या तनोति प्रीणयति तथायं चित्रः सर्वान् धनैः प्रीणयतीत्यर्थः ॥ ॥ ४ ॥

मण्डल ८

सूक्तं ८.१

सूक्तं ८.२

सूक्तं ८.३

सूक्तं ८.४

सूक्तं ८.५

सूक्तं ८.६

सूक्तं ८.७

सूक्तं ८.८

सूक्तं ८.९

सूक्तं ८.१०

सूक्तं ८.११

सूक्तं ८.१२

सूक्तं ८.१३

सूक्तं ८.१४

सूक्तं ८.१५

सूक्तं ८.१६

सूक्तं ८.१७

सूक्तं ८.१८

सूक्तं ८.१९

सूक्तं ८.२०

सूक्तं ८.२१

सूक्तं ८.२२

सूक्तं ८.२३

सूक्तं ८.२४

सूक्तं ८.२५

सूक्तं ८.२६

सूक्तं ८.२७

सूक्तं ८.२८

सूक्तं ८.२९

सूक्तं ८.३०

सूक्तं ८.३१

सूक्तं ८.३२

सूक्तं ८.३३

सूक्तं ८.३४

सूक्तं ८.३५

सूक्तं ८.३६

सूक्तं ८.३७

सूक्तं ८.३८

सूक्तं ८.३९

सूक्तं ८.४०

सूक्तं ८.४१

सूक्तं ८.४२

सूक्तं ८.४३

सूक्तं ८.४४

सूक्तं ८.४५

सूक्तं ८.४६

सूक्तं ८.४७

सूक्तं ८.४८

सूक्तं ८.४९

सूक्तं ८.५०

सूक्तं ८.५१

सूक्तं ८.५२

सूक्तं ८.५३

सूक्तं ८.५४

सूक्तं ८.५५

सूक्तं ८.५६

सूक्तं ८.५७

सूक्तं ८.५८

सूक्तं ८.५९

सूक्तं ८.६०

सूक्तं ८.६१

सूक्तं ८.६२

सूक्तं ८.६३

सूक्तं ८.६४

सूक्तं ८.६५

सूक्तं ८.६६

सूक्तं ८.६७

सूक्तं ८.६८

सूक्तं ८.६९

सूक्तं ८.७०

सूक्तं ८.७१

सूक्तं ८.७२

सूक्तं ८.७३

सूक्तं ८.७४

सूक्तं ८.७५

सूक्तं ८.७६

सूक्तं ८.७७

सूक्तं ८.७८

सूक्तं ८.७९

सूक्तं ८.८०

सूक्तं ८.८१

सूक्तं ८.८२

सूक्तं ८.८३

सूक्तं ८.८४

सूक्तं ८.८५

सूक्तं ८.८६

सूक्तं ८.८७

सूक्तं ८.८८

सूक्तं ८.८९

सूक्तं ८.९०

सूक्तं ८.९१

सूक्तं ८.९२

सूक्तं ८.९३

सूक्तं ८.९४

सूक्तं ८.९५

सूक्तं ८.९६

सूक्तं ८.९७

सूक्तं ८.९८

सूक्तं ८.९९

सूक्तं ८.१००

सूक्तं ८.१०१

सूक्तं ८.१०२

सूक्तं ८.१०३

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_८.२१&oldid=191462" इत्यस्माद् पुनः प्राप्तिः