ऋग्वेदः सूक्तं ८.२२

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं ८.२१ ऋग्वेदः - मण्डल ८
सूक्तं ८.२२
सौभरिः काण्वः
सूक्तं ८.२३ →
दे. अश्विनौ। १ - ६ प्रगाथ= (विषमा बृहती, समा सतोबृहती), ७ बृहती, ८ अनुष्टुप्, ११ ककुप्, १२ मध्येज्योतिः, प्रगाथः = (९, १३, १५, १७ ककुप्, १०, १४, १६, १८ सतोबृहती) ।


ओ त्यमह्व आ रथमद्या दंसिष्ठमूतये ।
यमश्विना सुहवा रुद्रवर्तनी आ सूर्यायै तस्थथुः ॥१॥
पूर्वायुषं सुहवं पुरुस्पृहं भुज्युं वाजेषु पूर्व्यम् ।
सचनावन्तं सुमतिभिः सोभरे विद्वेषसमनेहसम् ॥२॥
इह त्या पुरुभूतमा देवा नमोभिरश्विना ।
अर्वाचीना स्ववसे करामहे गन्तारा दाशुषो गृहम् ॥३॥
युवो रथस्य परि चक्रमीयत ईर्मान्यद्वामिषण्यति ।
अस्माँ अच्छा सुमतिर्वां शुभस्पती आ धेनुरिव धावतु ॥४॥
रथो यो वां त्रिवन्धुरो हिरण्याभीशुरश्विना ।
परि द्यावापृथिवी भूषति श्रुतस्तेन नासत्या गतम् ॥५॥
दशस्यन्ता मनवे पूर्व्यं दिवि यवं वृकेण कर्षथः ।
ता वामद्य सुमतिभिः शुभस्पती अश्विना प्र स्तुवीमहि ॥६॥
उप नो वाजिनीवसू यातमृतस्य पथिभिः ।
येभिस्तृक्षिं वृषणा त्रासदस्यवं महे क्षत्राय जिन्वथः ॥७॥
अयं वामद्रिभिः सुतः सोमो नरा वृषण्वसू ।
आ यातं सोमपीतये पिबतं दाशुषो गृहे ॥८॥
आ हि रुहतमश्विना रथे कोशे हिरण्यये वृषण्वसू ।
युञ्जाथां पीवरीरिषः ॥९॥
याभिः पक्थमवथो याभिरध्रिगुं याभिर्बभ्रुं विजोषसम् ।
ताभिर्नो मक्षू तूयमश्विना गतं भिषज्यतं यदातुरम् ॥१०॥
यदध्रिगावो अध्रिगू इदा चिदह्नो अश्विना हवामहे ।
वयं गीर्भिर्विपन्यवः ॥११॥
ताभिरा यातं वृषणोप मे हवं विश्वप्सुं विश्ववार्यम् ।
इषा मंहिष्ठा पुरुभूतमा नरा याभिः क्रिविं वावृधुस्ताभिरा गतम् ॥१२॥
ताविदा चिदहानां तावश्विना वन्दमान उप ब्रुवे ।
ता उ नमोभिरीमहे ॥१३॥
ताविद्दोषा ता उषसि शुभस्पती ता यामन्रुद्रवर्तनी ।
मा नो मर्ताय रिपवे वाजिनीवसू परो रुद्रावति ख्यतम् ॥१४॥
आ सुग्म्याय सुग्म्यं प्राता रथेनाश्विना वा सक्षणी ।
हुवे पितेव सोभरी ॥१५॥
मनोजवसा वृषणा मदच्युता मक्षुंगमाभिरूतिभिः ।
आरात्ताच्चिद्भूतमस्मे अवसे पूर्वीभिः पुरुभोजसा ॥१६॥
आ नो अश्वावदश्विना वर्तिर्यासिष्टं मधुपातमा नरा ।
गोमद्दस्रा हिरण्यवत् ॥१७॥
सुप्रावर्गं सुवीर्यं सुष्ठु वार्यमनाधृष्टं रक्षस्विना ।
अस्मिन्ना वामायाने वाजिनीवसू विश्वा वामानि धीमहि ॥१८॥

सायणभाष्यम्

“ओ त्यमह्वे' इत्यष्टादशर्चं द्वितीयं सूक्तं काण्वस्य सोभरेरार्षम् । आद्यातृतीयापञ्चम्यो बृहत्यो द्वितीयाचतुर्थीषष्ट्यः सतोबृहत्यः सप्तमी बृहती अष्टम्यनुष्टुप् । 'काकुभं प्रागाथं ह' इत्युक्तस्यानुवृत्तेः शिष्टाश्चत्वारः काकुभाः प्रगाथाः । अश्विनौ देवता । तथा चानुक्रान्तम्-‘ओ त्यमाश्विनं त्रिप्रगाथादि बृहत्यनुष्टुबेकादश्याद्ये ककुम्मध्येज्योतिषी' इति । प्रातरनुवाक आश्विने क्रतौ बार्हते छन्दस्याश्विनशस्त्रे चाद्याः सप्तर्चः । सूत्रितं च- ओ त्यमह्व आ रथमिति सप्त' (आश्व. श्रौ. ४. १५) इति ॥


ओ त्यम॑ह्व॒ आ रथ॑म॒द्या दंसि॑ष्ठमू॒तये॑ ।

यम॑श्विना सुहवा रुद्रवर्तनी॒ आ सू॒र्यायै॑ त॒स्थथुः॑ ॥१

ओ इति॑ । त्यम् । अ॒ह्वे॒ । आ । रथ॑म् । अ॒द्य । दंसि॑ष्ठम् । ऊ॒तये॑ ।

यम् । अ॒श्वि॒ना॒ । सु॒ऽह॒वा॒ । रु॒द्र॒व॒र्त॒नी॒ इति॑ रुद्रऽवर्तनी । आ । सू॒र्यायै॑ । त॒स्थथुः॑ ॥१

ओ इति । त्यम् । अह्वे । आ । रथम् । अद्य । दंसिष्ठम् । ऊतये ।

यम् । अश्विना । सुऽहवा । रुद्रवर्तनी इति रुद्रऽवर्तनी । आ । सूर्यायै । तस्थथुः ॥१

हे अश्विनौ "दंसिष्ठम् अत्यन्तदर्शनीयं यद्वातिशयेन शत्रूणामुपक्षपयितारं “त्यं तं युवयोः “रथम् "ऊतये रक्षणाय “अद्य अस्मिन् यागदिने "अह्वे सोभरिरहमाह्वयामि । "सुहवा सुहवौ स्तोत्रशस्त्रादिभिः शोभनाह्वानौ "रुद्रवर्तनी संग्रामे रोदनशीलमार्गौ यद्वा स्तूयमानमार्गौ हे अश्विनौ "सूर्यायै सूर्यां स्वयंवरे वरयितुं "यं रथं युवाम् "आ "तस्थथुः आश्रयथः तं रथमाह्वयामीति ॥


पू॒र्वा॒युषं॑ सु॒हवं॑ पुरु॒स्पृहं॑ भु॒ज्युं वाजे॑षु॒ पूर्व्यं॑ ।

स॒च॒नावं॑तं सुम॒तिभिः॑ सोभरे॒ विद्वे॑षसमने॒हसं॑ ॥२

पू॒र्व॒ऽआ॒युष॑म् । सु॒ऽहव॑म् । पु॒रु॒ऽस्पृह॑म् । भु॒ज्युम् । वाजे॑षु । पूर्व्य॑म् ।

स॒च॒नाऽव॑न्तम् । सु॒म॒तिऽभिः॑ । सो॒भ॒रे॒ । विऽद्वे॑षसम् । अ॒ने॒हस॑म् ॥२

पूर्वऽआयुषम् । सुऽहवम् । पुरुऽस्पृहम् । भुज्युम् । वाजेषु । पूर्व्यम् ।

सचनाऽवन्तम् । सुमतिऽभिः । सोभरे । विऽद्वेषसम् । अनेहसम् ॥२

हे "सोभरे "सुमतिभिः कल्याणीभिः स्तुतिभिरश्विनो रथं स्तुहि । किंविशिष्टम् । "पूर्वापुषं पूर्वेषां स्तोतॄणां धनादिदानेन पोषकं "सुहवं यज्ञेषु शोभनाह्वानं "पुरुस्पृहं बहुभिः स्पृहणीयं "भुज्युम् । ‘भुज पालने '। सर्वस्य रक्षकं “वाजेषु “पूर्व्यं संग्रामेश्वग्रतो गन्तारं “सचनावन्तं सर्वैर्भजनवन्तं “विद्वेषसं शत्रूणां विशेषेण द्वेष्टारम् “अनेहसं कैश्चिदप्यनुपद्रवं पापरहितं वा रथं स्तुहीत्यन्वयः ॥


इ॒ह त्या पु॑रु॒भूत॑मा दे॒वा नमो॑भिर॒श्विना॑ ।

अ॒र्वा॒ची॒ना स्वव॑से करामहे॒ गंता॑रा दा॒शुषो॑ गृ॒हं ॥३

इ॒ह । त्या । पु॒रु॒ऽभूत॑मा । दे॒वा । नमः॑ऽभिः । अ॒श्विना॑ ।

अ॒र्वा॒ची॒ना । सु । अव॑से । क॒रा॒म॒हे॒ । गन्ता॑रा । दा॒शुषः॑ । गृ॒हम् ॥३

इह । त्या । पुरुऽभूतमा । देवा । नमःऽभिः । अश्विना ।

अर्वाचीना । सु । अवसे । करामहे । गन्तारा । दाशुषः । गृहम् ॥३

“पुरुभूतमा अतिशयेन बहूनां शत्रूणां भावयितारौ "देवा देवौ द्योतनशीलौ स्तोतव्यौ वा “दाशुषः हविर्दत्तवतो यजमानस्य “गृहं प्रति गन्तारौ गमनशीलौ “त्या तौ “अश्विना अश्विनौ युवाम् “इह अस्मिन् कर्मणि “अवसे रक्षणाय “नमोभिः हविर्भिः स्तोत्रैर्वा “अर्वाचीना अर्वाचीनौ अभिमुखमागच्छन्तौ "सु “करामहे वयं सुष्ठु कुर्मः ॥


यु॒वो रथ॑स्य॒ परि॑ च॒क्रमी॑यत ई॒र्मान्यद्वा॑मिषण्यति ।

अ॒स्माँ अच्छा॑ सुम॒तिर्वां॑ शुभस्पती॒ आ धे॒नुरि॑व धावतु ॥४

यु॒वोः । रथ॑स्य । परि॑ । च॒क्रम् । ई॒य॒ते॒ । ई॒र्मा । अ॒न्यत् । वा॒म् । इ॒ष॒ण्य॒ति॒ ।

अ॒स्मान् । अच्छ॑ । सु॒ऽम॒तिः । वा॒म् । शु॒भः॒ । प॒ती॒ इति॑ । आ । धे॒नुःऽइ॑व । धा॒व॒तु॒ ॥४

युवोः । रथस्य । परि । चक्रम् । ईयते । ईर्मा । अन्यत् । वाम् । इषण्यति ।

अस्मान् । अच्छ । सुऽमतिः । वाम् । शुभः । पती इति । आ । धेनुःऽइव । धावतु ॥४

हे अश्विनौ “युवोः युवयोः “रथस्य एकं “चक्रं परि “ईयते परितो द्यां गच्छति । “अन्यत् अवस्थितं रथस्य चक्रम् "ईर्मा ईर्मौ सर्वस्यान्तर्यामितया प्रेरकौ यद्वोदकस्य प्रेरयितारौ “वां युवाम् “इषण्यति गच्छति । उक्तार्थे मन्त्रान्तरं -- न्यघ्न्यस्य मूर्धनि' (ऋ. सं. १. ३०. १९) इति । हे "शुभस्पती उदकस्य पालयितारौ हे अश्विनौ “वां युवयोः “सुमतिः कल्याणी मतिः "अच्छ आभिमुख्येन “अस्मान् “आ “धावतु आगच्छतु । तत्र दृष्टान्तः । “धेनुरिव । यथा नवप्रसूता गौर्वत्सं प्रति पयोदानार्थमागच्छति तद्वद्युवयोः सुमतिरस्मान् प्रति धनादिप्रदानार्थमागच्छतु ॥


रथो॒ यो वां॑ त्रिवंधु॒रो हिर॑ण्याभीशुरश्विना ।

परि॒ द्यावा॑पृथि॒वी भूष॑ति श्रु॒तस्तेन॑ नास॒त्या ग॑तं ॥५

रथः॑ । यः । वा॒म् । त्रि॒ऽव॒न्धु॒रः । हिर॑ण्यऽअभीशुः । अ॒श्वि॒ना॒ ।

परि॑ । द्यावा॑पृथि॒वी इति॑ । भूष॑ति । श्रु॒तः । तेन॑ । ना॒स॒त्या॒ । आ । ग॒त॒म् ॥५

रथः । यः । वाम् । त्रिऽवन्धुरः । हिरण्यऽअभीशुः । अश्विना ।

परि । द्यावापृथिवी इति । भूषति । श्रुतः । तेन । नासत्या । आ । गतम् ॥५

हे "अश्विना अश्विनौ "त्रिवन्धुरः । वन्धुरं सारथिस्थानम्। त्रिप्रकारवन्धुरोपेतः । यद्वा । द्वे ईषे तन्मध्ये रज्जुसज्जनार्थको दण्डः एते त्रयो वन्धुरशब्देनोच्यन्ते । त्रिवन्धुरयुक्तः “हिरण्याभीशुः। हिरण्मयाश्वादिरज्जुः “वां युवयोः “यः “रथः “श्रुतः सर्वत्र प्रसिद्धः सन् “द्यावापृथिवी द्यावापृथिव्यौ "परि “भूषति स्वबलेन परिभवति । भवतेलेंटि सिप्यडागमः । यद्वा परितः स्वप्रकाशेनालंकरोति । हे “नासत्या नासत्यौ “तेन पूर्वोक्तेन रथेन “आ “गतम् आगच्छतम् ॥ ॥ ५ ॥


द॒श॒स्यंता॒ मन॑वे पू॒र्व्यं दि॒वि यवं॒ वृके॑ण कर्षथः ।

ता वा॑म॒द्य सु॑म॒तिभिः॑ शुभस्पती॒ अश्वि॑ना॒ प्र स्तु॑वीमहि ॥६

द॒श॒स्यन्ता॑ । मन॑वे । पू॒र्व्यम् । दि॒वि । यव॑म् । वृके॑ण । क॒र्ष॒थः॒ ।

ता । वा॒म् । अ॒द्य । सु॒म॒तिऽभिः॑ । शु॒भः॒ । प॒ती॒ इति॑ । अश्वि॑ना । प्र । स्तु॒वी॒म॒हि॒ ॥६

दशस्यन्ता । मनवे । पूर्व्यम् । दिवि । यवम् । वृकेण । कर्षथः ।

ता । वाम् । अद्य । सुमतिऽभिः । शुभः । पती इति । अश्विना । प्र । स्तुवीमहि ॥६

हे अश्विनौ "पूर्व्यं पुरातनं “दिवि द्युलोके स्थितमुदकं “मनवे एतन्नामकाय राज्ञे “दशस्यन्ता दशस्यन्तौ प्रयच्छन्तौ युवां “वृकेण। ' वृको लाङ्गलं भवति विकर्तनात्' (निरु. ६.२६) इति यास्कः। तेन लाङ्गलेन "यवं यवनामकं धान्यं "कर्षथः । पुनश्च तस्मै विलेखनं कुरुथः । “शुभस्पती उदकस्य पालयितारौ हे "अश्विना अश्विनौ “ता तौ पूर्वोक्तलक्षणयुक्तौ "वां युवाम् “अद्य अस्मिन् यज्ञदिने “सुमतिभिः शोभनाभिः स्तुतिभिः प्रकर्षेण "स्तुवीमहि वयं स्तुमः ॥


उप॑ नो वाजिनीवसू या॒तमृ॒तस्य॑ प॒थिभिः॑ ।

येभि॑स्तृ॒क्षिं वृ॑षणा त्रासदस्य॒वं म॒हे क्ष॒त्राय॒ जिन्व॑थः ॥७

उप॑ । नः॒ । वा॒जि॒नी॒व॒सू॒ इति॑ वाजिनीऽवसू । या॒तम् । ऋ॒तस्य॑ । प॒थिऽभिः॑ ।

येभिः॑ । तृ॒क्षिम् । वृ॒ष॒णा॒ । त्रा॒स॒द॒स्य॒वम् । म॒हे । क्ष॒त्राय॑ । जिन्व॑थः ॥७

उप । नः । वाजिनीवसू इति वाजिनीऽवसू । यातम् । ऋतस्य । पथिऽभिः ।

येभिः । तृक्षिम् । वृषणा । त्रासदस्यवम् । महे । क्षत्राय । जिन्वथः ॥७

हे “वाजिनीवसू अन्नधनवन्तौ । अन्नमेव धनं यथोस्तौ । अश्विनौ "ऋतस्य सत्यभूतस्य यज्ञस्य “पथिभिः मार्गैः “नः अस्मान् “उप “यातम् आगच्छतम् । “वृषणा वृषणौ धनानां सेक्तारौ हे अश्विनौ “त्रासदस्यवं त्रसदस्योः पुत्रं “तृक्षिम् एतन्नामकं "येभिः यैर्यज्ञमार्गैः "महे महते “क्षत्राय धनाय "जिन्वथः प्रीणयथ । एवं तैर्मार्गैरस्मान् धनादिभिः प्रीणयितुमागच्छतमित्यर्थः ॥


अ॒यं वा॒मद्रि॑भिः सु॒तः सोमो॑ नरा वृषण्वसू ।

आ या॑तं॒ सोम॑पीतये॒ पिब॑तं दा॒शुषो॑ गृ॒हे ॥८

अ॒यम् । वा॒म् । अद्रि॑ऽभिः । सु॒तः । सोमः॑ । न॒रा॒ । वृ॒ष॒ण्व॒सू॒ इति॑ वृषण्ऽवसू ।

आ । या॒त॒म् । सोम॑ऽपीतये । पिब॑तम् । दा॒शुषः॑ । गृ॒हे ॥८

अयम् । वाम् । अद्रिऽभिः । सुतः । सोमः । नरा । वृषण्वसू इति वृषण्ऽवसू ।

आ । यातम् । सोमऽपीतये । पिबतम् । दाशुषः । गृहे ॥८

"नरा सर्वस्य नेतारौ यद्वा स्तोतॄणां धनस्य नेतारौ “वृषण्वसू वर्षणशीलधनवन्तौ हे अश्विनौ “वां युष्मदर्थम् "अद्रिभिः ग्रावभिः "अयं “सोमः “सुतः अभिषुतः । तस्मात् “सोमपीतये सोमपानार्थं युवाम् “आ “यातम् । आगत्य च “दाशुषः हविर्दत्तवतो यजमानस्य “गृहे यज्ञस्थाने सोमं युवां “पिबतम् ॥


आ हि रु॒हत॑मश्विना॒ रथे॒ कोशे॑ हिर॒ण्यये॑ वृषण्वसू ।

युं॒जाथां॒ पीव॑री॒रिषः॑ ॥९

आ । हि । रु॒हत॑म् । अ॒श्वि॒ना॒ । रथे॑ । कोशे॑ । हि॒र॒ण्यये॑ । वृ॒ष॒ण्व॒सू॒ इति॑ वृषण्ऽवसू ।

यु॒ञ्जाथा॑म् । पीव॑रीः । इषः॑ ॥९

आ । हि । रुहतम् । अश्विना । रथे । कोशे । हिरण्यये । वृषण्वसू इति वृषण्ऽवसू ।

युञ्जाथाम् । पीवरीः । इषः ॥९

“वृषण्वसू वर्षणशीलधनौ हे "अश्विना अश्विनौ “हिरण्यये हिरण्मयरज्ज्वादियुक्ते “कोशे आयुधादीनां कोशस्थाने रमणशीले “रथे । हिरवधारणे । युवामेव “आ “रुहतम् आरोहणं कुरुतम् । ततः “पीवरीः पावयितॄणि स्थूलानि वा “इषः अन्नानि "युञ्जाथाम् अस्मासु योजयतम् ॥


याभिः॑ प॒क्थमव॑थो॒ याभि॒रध्रि॑गुं॒ याभि॑र्ब॒भ्रुं विजो॑षसं ।

ताभि॑र्नो म॒क्षू तूय॑मश्वि॒ना ग॑तं भिष॒ज्यतं॒ यदातु॑रं ॥१०

याभिः॑ । प॒क्थम् । अव॑थः । याभिः॑ । अध्रि॑ऽगुम् । याभिः॑ । ब॒भ्रुम् । विऽजो॑षसम् ।

ताभिः॑ । नः॒ । म॒क्षु । तूय॑म् । अ॒श्वि॒ना॒ । आ । ग॒त॒म् । भि॒ष॒ज्यत॑म् । यत् । आतु॑रम् ॥१०

याभिः । पक्थम् । अवथः । याभिः । अध्रिऽगुम् । याभिः । बभ्रुम् । विऽजोषसम् ।

ताभिः । नः । मक्षु । तूयम् । अश्विना । आ । गतम् । भिषज्यतम् । यत् । आतुरम् ॥१०

हे अश्विनौ “याभिः ऊतिभिः “पक्थम् एतन्नामकं राजानम् “अवथः रक्षथः । “याभिः ऊतिभिश्च “अध्रिगुम् अधृतगमनं राजानमवथः । “याभिः ऊतिभिश्च “बभ्रुं राजानं च "विजोषसं विशेषेण सोमैः प्रीणयन्तम् । एतान् सर्वान् यैः पालनैरवथः "ताभिः तै रक्षणैः "मक्षु क्षिप्रं “तूयं तूर्णं “न अस्मान् "आ "गतं रक्षणार्थमागच्छतम् । किंच “यत् “आतुरं रोगादिसहितमस्माकं पुत्रादिकं प्रति “भिषज्यतं भैषज्यं कुरुतम् । भिषक्कण्ड्वादिः ॥ ॥ ६ ॥


यदध्रि॑गावो॒ अध्रि॑गू इ॒दा चि॒दह्नो॑ अ॒श्विना॒ हवा॑महे ।

व॒यं गी॒र्भिर्वि॑प॒न्यवः॑ ॥११

यत् । अध्रि॑ऽगावः । अध्रि॑गू॒ इत्यध्रि॑ऽगू । इ॒दा । चि॒त् । अह्नः॑ । अ॒श्विना॑ । हवा॑महे ।

व॒यम् । गीः॒ऽभिः । वि॒प॒न्यवः॑ ॥११

यत् । अध्रिऽगावः । अध्रिगू इत्यध्रिऽगू । इदा । चित् । अह्नः । अश्विना । हवामहे ।

वयम् । गीःऽभिः । विपन्यवः ॥११

“अध्रिगावः अधृतगमनाः कर्मसु त्वरमाणाः “विपन्यवः मेधाविनः “वयम् “अध्रिगू अधृतगमनौ संग्रामे शत्रुवधार्थं त्वरया गच्छन्तौ “अश्विना अश्विनौ युवाम् “अह्नः दिवसस्य “इदा “चित् इदानीमेव प्रातःकाले “गीर्भिः स्तुतिलक्षणाभिर्वाग्भिः “यत् यदा “हवामहे युवामाह्वयामस्तदा ताभिरूतिभिरस्मानागच्छतमित्युत्तरत्र संबन्धः ।।


ताभि॒रा या॑तं वृष॒णोप॑ मे॒ हवं॑ वि॒श्वप्सुं॑ वि॒श्ववा॑र्यं ।

इ॒षा मंहि॑ष्ठा पुरु॒भूत॑मा नरा॒ याभिः॒ क्रिविं॑ वावृ॒धुस्ताभि॒रा ग॑तं ॥१२

ताभिः॑ । आ । या॒त॒म् । वृ॒ष॒णा॒ । उप॑ । मे॒ । हव॑म् । वि॒श्वऽप्सु॑म् । वि॒श्वऽवा॑र्यम् ।

इ॒षा । मंहि॑ष्ठा । पु॒रु॒ऽभूत॑मा । न॒रा॒ । याभिः॑ । क्रिवि॑म् । व॒वृ॒धुः । ताभिः॑ । आ । ग॒त॒म् ॥१२

ताभिः । आ । यातम् । वृषणा । उप । मे । हवम् । विश्वऽप्सुम् । विश्वऽवार्यम् ।

इषा । मंहिष्ठा । पुरुऽभूतमा । नरा । याभिः । क्रिविम् । ववृधुः । ताभिः । आ । गतम् ॥१२

“वृषणा वृषणौ वर्षणशीलौ हे अश्विनौ “विश्वप्सुम् । प्सुरिति रूपनाम। स्तोत्रशस्त्रात्मकत्वेन नानारूपं विश्ववार्यं सर्वैर्देवैर्वरणीयं “मे मदीयं “हवं युष्मद्विषयमाह्वानम् “आ अभिमुखीकृत्य “ताभिः ऊतिभिः उप “यातं युवामागच्छतम् । याभिः “नरा नरौ सर्वस्य नेतारावश्विनौ “इषा। ‘ इष इच्छायाम्'। हवींषीच्छन्तौ “मंहिष्ठा मंहिष्ठावतिशयेन धनानां दातारौ “पुरुभूतमा पुरुभूतमौ युद्धेष्वत्यन्तं पुरुधा भवन्तौ यद्वातिशयेन बहूनां शत्रूणामभिभवितारौ भवन्तौ "क्रिविं कूपं प्रति “याभिः ऊतिभिरुदकानि "वावृधुः अवर्धयतः । द्वयोर्बहुवचनं पूजार्थम् । कूपपतितो वन्दनो मायाभिः कूपं पूरयित्वा युवाभ्यामुत्थापितः खलु । तथा मन्त्रः---' उद्वन्दनमैरयतं स्वर्दृशे' (ऋ. सं. १. ११२. ५) इति । “ताभिः तैः पालनैः “आ “गतम् अस्मद्रक्षणार्थमागच्छतम् ॥


तावि॒दा चि॒दहा॑नां॒ ताव॒श्विना॒ वंद॑मान॒ उप॑ ब्रुवे ।

ता उ॒ नमो॑भिरीमहे ॥१३

तौ । इ॒दा । चि॒त् । अहा॑नाम् । तौ । अ॒श्विना॑ । वन्द॑मानः । उप॑ । ब्रु॒वे॒ ।

तौ । ऊं॒ इति॑ । नमः॑ऽभिः । ई॒म॒हे॒ ॥१३

तौ । इदा । चित् । अहानाम् । तौ । अश्विना । वन्दमानः । उप । ब्रुवे ।

तौ । ऊं इति । नमःऽभिः । ईमहे ॥१३

"तौ संग्रामे आयुधानि स्तोतृभ्यो धनानि वा विस्तारयन्तौ पूर्वोक्तौ “अश्विना अश्विनौ "अहानाम् अह्नाम् “इदा “चित् इदानीमेव प्रातःकाले "वन्दमानः अभिवादनं कुर्वन् सन् "उप "ब्रुवे तयोः समीपे स्तौमि। ततः "ता “उ तावेव “नमोभिः हविर्भिः स्तोत्रैर्वा "ईमहे वयं धनादिकं याचामहे ॥


ताविद्दो॒षा ता उ॒षसि॑ शु॒भस्पती॒ ता याम॑न्रु॒द्रव॑र्तनी ।

मा नो॒ मर्ता॑य रि॒पवे॑ वाजिनीवसू प॒रो रु॑द्रा॒वति॑ ख्यतं ॥१४

तौ । इत् । दो॒षा । तौ । उ॒षसि॑ । शु॒भः । पती॒ इति॑ । ता । याम॑न् । रु॒द्रव॑र्तनी॒ इति॑ रु॒द्रऽव॑र्तनी ।

मा । नः॒ । मर्ता॑य । रि॒पवे॑ । वा॒जि॒नी॒व॒सू॒ इति॑ वाजिनीऽवसू । प॒रः । रु॒द्रौ॒ । अति॑ । ख्य॒त॒म् ॥१४

तौ । इत् । दोषा । तौ । उषसि । शुभः । पती इति । ता । यामन् । रुद्रवर्तनी इति रुद्रऽवर्तनी ।

मा । नः । मर्ताय । रिपवे । वाजिनीवसू इति वाजिनीऽवसू । परः । रुद्रौ । अति । ख्यतम् ॥१४

“शुभस्पती उदकस्य पालयितारौ "रुद्रवर्तनी युद्धे रोदनशीलमार्गौ स्तूयमानमार्गौ वा "तावित् तावेवाश्विनौ "दोषा दोषायां रात्रौ “तौ एव "उषसि उषःकाले तावश्विनौ “यामन् यामन्यहनि च सर्वेषु कालेषु वयमश्विनावाह्वयामः । एवं सति “वाजिनीवसू अन्नधनौ "रुद्रौ हे अश्विनौ “मर्ताय मनुष्याय “रिपवे शत्रवे "नः अस्मान् “परः परस्तात् “मा "अति “ख्यतं मा ब्रूतम् । शत्रवे अस्मान्मा कुरुतमित्यर्थः ॥


आ सुग्म्या॑य॒ सुग्म्यं॑ प्रा॒ता रथे॑ना॒श्विना॑ वा स॒क्षणी॑ ।

हु॒वे पि॒तेव॒ सोभ॑री ॥१५

आ । सुग्म्या॑य । सुग्म्य॑म् । प्रा॒तरिति॑ । रथे॑न । अ॒श्विना॑ । वा॒ । स॒क्षणी॒ इति॑ ।

हु॒वे । पि॒ताऽइ॑व । सोभ॑री ॥१५

आ । सुग्म्याय । सुग्म्यम् । प्रातरिति । रथेन । अश्विना । वा । सक्षणी इति ।

हुवे । पिताऽइव । सोभरी ॥१५

“वा अपि च "सक्षणी सेवनीयशीलौ “अश्विना अश्विनौ युवां “सुग्म्याय सुखार्हाय मह्यं “सुग्म्यं सुखं प्रातःकाले “रथेन वहतम् । ततः "सोभरी सोभरिरहं “हुवे युवामाह्वयामि । तत्र दृष्टान्तः । “पितेव यथा मम पिता आजुहाव तद्वदहमाह्वयामि ॥ ॥ ७ ॥


मनो॑जवसा वृषणा मदच्युता मक्षुंग॒माभि॑रू॒तिभिः॑ ।

आ॒रात्ता॑च्चिद्भूतम॒स्मे अव॑से पू॒र्वीभिः॑ पुरुभोजसा ॥१६

मनः॑ऽजवसा । वृ॒ष॒णा॒ । म॒द॒ऽच्यु॒ता॒ । म॒क्षु॒म्ऽग॒माभिः॑ । ऊ॒तिऽभिः॑ ।

आ॒रात्ता॑त् । चि॒त् । भू॒त॒म् । अ॒स्मे इति॑ । अव॑से । पू॒र्वीभिः॑ । पु॒रु॒ऽभो॒ज॒सा॒ ॥१६

मनःऽजवसा । वृषणा । मदऽच्युता । मक्षुम्ऽगमाभिः । ऊतिऽभिः ।

आरात्तात् । चित् । भूतम् । अस्मे इति । अवसे । पूर्वीभिः । पुरुऽभोजसा ॥१६

हे "मनोजवसा मनोवच्छीघ्रं गच्छन्तौ "वृषणा वृषणौ धनानां वर्षितारौ “मदच्युता । माद्यन्तीति मदाः शत्रवः । तेषां च्यावयितारौ “पुरुभोजसा बहूनां भोक्तारौ रक्षकौ यद्वा बहून् स्तोतॄन् धनादिभिर्भोजयन्तौ हे अश्विनौ “मक्षुंगमाभिः शीघ्रं गच्छन्तीभिः “ऊतिभिः रक्षाभिः "पूर्वीभिः बहुभिः “अस्मे अस्माकम् “अवसे रक्षणाय "आरात्ताञ्चित् अन्तिक एव “भूतं भवतम् ॥


आ नो॒ अश्वा॑वदश्विना व॒र्तिर्या॑सिष्टं मधुपातमा नरा ।

गोम॑द्दस्रा॒ हिर॑ण्यवत् ॥१७

आ । नः॒ । अश्व॑ऽवत् । अ॒श्वि॒ना॒ । व॒र्तिः । या॒सि॒ष्ट॒म् । म॒धु॒ऽपा॒त॒मा॒ । न॒रा॒ ।

गोऽम॑त् । द॒स्रा॒ । हिर॑ण्यऽवत् ॥१७

आ । नः । अश्वऽवत् । अश्विना । वर्तिः । यासिष्टम् । मधुऽपातमा । नरा ।

गोऽमत् । दस्रा । हिरण्यऽवत् ॥१७

"मधुपातमा अतिशयेन मधोः सोमस्य पातारौ “नरा नेतारौ "दस्रा सर्वैर्दर्शनीयौ हे अश्विनौ “नः अस्माकं “वर्तिः । वर्तन्तेऽत्रेति वर्तिर्गृहम् । तत् “अश्वावत् अश्वयुक्तं “गोमत् गवादियुक्तं “हिरण्यवत् सुवर्णकनकादियुक्तं कृत्वा “आ “यासिष्टम् आगच्छतम् । यद्वा । अस्मान् प्रति वर्तिर्यज्ञमार्गम् अश्वादियुक्तं कृत्वागच्छतम् । यातेलुङि रूपम् ॥


सु॒प्रा॒व॒र्गं सु॒वीर्यं॑ सु॒ष्ठु वार्य॒मना॑धृष्टं रक्ष॒स्विना॑ ।

अ॒स्मिन्ना वा॑मा॒याने॑ वाजिनीवसू॒ विश्वा॑ वा॒मानि॑ धीमहि ॥१८

सु॒ऽप्रा॒व॒र्गम् । सु॒ऽवीर्य॑म् । सु॒ष्ठु । वार्य॑म् । अना॑धृष्टम् । र॒क्ष॒स्विना॑ ।

अ॒स्मिन् । आ । वा॒म् । आ॒ऽयाने॑ । वा॒जि॒नी॒व॒सू॒ इति॑ वाजिनीऽवसू । विश्वा॑ । वा॒मानि॑ । धी॒म॒हि॒ ॥१८

सुऽप्रावर्गम् । सुऽवीर्यम् । सुष्ठु । वार्यम् । अनाधृष्टम् । रक्षस्विना ।

अस्मिन् । आ । वाम् । आऽयाने । वाजिनीवसू इति वाजिनीऽवसू । विश्वा । वामानि । धीमहि ॥१८

"सुप्रावर्गं शोभनं प्रवर्जनं यस्य तत् । स्तोतृभ्यः स्वयमेव प्रयच्छतीत्यर्थः । तथाविधं “सुवीर्यं शोभनवीर्यं “सुष्ठु शोभनं यथा भवति तथा “वार्यं सर्वैर्वरणीयं “रक्षस्विना बलवतापि “अनाधृष्टम् अनभिभवनीयं धनम् “आ “धीमहि त्वत्तो वयं धारयामः । तदेवाह । “वाजिनीवसू बलयुक्तधनौ अन्नधनौ वाश्विनौ “वां युवयोः “अस्मिन् “आयाने अस्मद्गृहं प्रत्यागमने “विश्वा विश्वानि दिव्यभौमादीनि “वामानि धनानि आ धीमहि वयं लभामहे । 'धीङ् आधारे' इत्यस्य लिङि छान्दसो विकरणस्य लुक् ॥ ॥ ८ ॥

मण्डल ८

सूक्तं ८.१

सूक्तं ८.२

सूक्तं ८.३

सूक्तं ८.४

सूक्तं ८.५

सूक्तं ८.६

सूक्तं ८.७

सूक्तं ८.८

सूक्तं ८.९

सूक्तं ८.१०

सूक्तं ८.११

सूक्तं ८.१२

सूक्तं ८.१३

सूक्तं ८.१४

सूक्तं ८.१५

सूक्तं ८.१६

सूक्तं ८.१७

सूक्तं ८.१८

सूक्तं ८.१९

सूक्तं ८.२०

सूक्तं ८.२१

सूक्तं ८.२२

सूक्तं ८.२३

सूक्तं ८.२४

सूक्तं ८.२५

सूक्तं ८.२६

सूक्तं ८.२७

सूक्तं ८.२८

सूक्तं ८.२९

सूक्तं ८.३०

सूक्तं ८.३१

सूक्तं ८.३२

सूक्तं ८.३३

सूक्तं ८.३४

सूक्तं ८.३५

सूक्तं ८.३६

सूक्तं ८.३७

सूक्तं ८.३८

सूक्तं ८.३९

सूक्तं ८.४०

सूक्तं ८.४१

सूक्तं ८.४२

सूक्तं ८.४३

सूक्तं ८.४४

सूक्तं ८.४५

सूक्तं ८.४६

सूक्तं ८.४७

सूक्तं ८.४८

सूक्तं ८.४९

सूक्तं ८.५०

सूक्तं ८.५१

सूक्तं ८.५२

सूक्तं ८.५३

सूक्तं ८.५४

सूक्तं ८.५५

सूक्तं ८.५६

सूक्तं ८.५७

सूक्तं ८.५८

सूक्तं ८.५९

सूक्तं ८.६०

सूक्तं ८.६१

सूक्तं ८.६२

सूक्तं ८.६३

सूक्तं ८.६४

सूक्तं ८.६५

सूक्तं ८.६६

सूक्तं ८.६७

सूक्तं ८.६८

सूक्तं ८.६९

सूक्तं ८.७०

सूक्तं ८.७१

सूक्तं ८.७२

सूक्तं ८.७३

सूक्तं ८.७४

सूक्तं ८.७५

सूक्तं ८.७६

सूक्तं ८.७७

सूक्तं ८.७८

सूक्तं ८.७९

सूक्तं ८.८०

सूक्तं ८.८१

सूक्तं ८.८२

सूक्तं ८.८३

सूक्तं ८.८४

सूक्तं ८.८५

सूक्तं ८.८६

सूक्तं ८.८७

सूक्तं ८.८८

सूक्तं ८.८९

सूक्तं ८.९०

सूक्तं ८.९१

सूक्तं ८.९२

सूक्तं ८.९३

सूक्तं ८.९४

सूक्तं ८.९५

सूक्तं ८.९६

सूक्तं ८.९७

सूक्तं ८.९८

सूक्तं ८.९९

सूक्तं ८.१००

सूक्तं ८.१०१

सूक्तं ८.१०२

सूक्तं ८.१०३

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_८.२२&oldid=208924" इत्यस्माद् पुनः प्राप्तिः