ऋग्वेदः सूक्तं ८.७५

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं ८.७४ ऋग्वेदः - मण्डल ८
सूक्तं ८.७५
विरूप आङ्गिरसः।
सूक्तं ८.७६ →
दे. अग्निः। गायत्री।


युक्ष्वा हि देवहूतमाँ अश्वाँ अग्ने रथीरिव ।
नि होता पूर्व्यः सदः ॥१॥
उत नो देव देवाँ अच्छा वोचो विदुष्टरः ।
श्रद्विश्वा वार्या कृधि ॥२॥
त्वं ह यद्यविष्ठ्य सहसः सूनवाहुत ।
ऋतावा यज्ञियो भुवः ॥३॥
अयमग्निः सहस्रिणो वाजस्य शतिनस्पतिः ।
मूर्धा कवी रयीणाम् ॥४॥
तं नेमिमृभवो यथा नमस्व सहूतिभिः ।
नेदीयो यज्ञमङ्गिरः ॥५॥
तस्मै नूनमभिद्यवे वाचा विरूप नित्यया ।
वृष्णे चोदस्व सुष्टुतिम् ॥६॥
कमु ष्विदस्य सेनयाग्नेरपाकचक्षसः ।
पणिं गोषु स्तरामहे ॥७॥
मा नो देवानां विशः प्रस्नातीरिवोस्राः ।
कृशं न हासुरघ्न्याः ॥८॥
मा नः समस्य दूढ्यः परिद्वेषसो अंहतिः ।
ऊर्मिर्न नावमा वधीत् ॥९॥
नमस्ते अग्न ओजसे गृणन्ति देव कृष्टयः ।
अमैरमित्रमर्दय ॥१०॥
कुवित्सु नो गविष्टयेऽग्ने संवेषिषो रयिम् ।
उरुकृदुरु णस्कृधि ॥११॥
मा नो अस्मिन्महाधने परा वर्ग्भारभृद्यथा ।
संवर्गं सं रयिं जय ॥१२॥
अन्यमस्मद्भिया इयमग्ने सिषक्तु दुच्छुना ।
वर्धा नो अमवच्छवः ॥१३॥
यस्याजुषन्नमस्विनः शमीमदुर्मखस्य वा ।
तं घेदग्निर्वृधावति ॥१४॥
परस्या अधि संवतोऽवराँ अभ्या तर ।
यत्राहमस्मि ताँ अव ॥१५॥
विद्मा हि ते पुरा वयमग्ने पितुर्यथावसः ।
अधा ते सुम्नमीमहे ॥१६॥


सायणभाष्यम्

‘युक्ष्वा हि' इति षोडशर्च षष्ठं सूक्तमाङ्गिरसस्य विरूपस्यार्षं गायत्रमाग्नेयम् । तथा चानुक्रमणिका-– ‘युक्ष्वा हि षोळश विरूपः' इति । दशरात्रे तृतीयेऽहनीदं सूक्तमाज्यशस्त्रम् । सूत्रितं च -– तृतीये युक्ष्वा हीत्याज्यम्' (आश्व. श्रौ. ७. १०) इति । प्रातरनुवाकेऽप्याग्नेये गायत्रे छन्दस्याश्विनशस्त्रे चेदं सूक्तम् । सूत्रितं च --युक्ष्वा हि प्रेष्ठं वः' ( आश्व. श्रौ. ४, १३) इति ॥


यु॒क्ष्वा हि दे॑व॒हूत॑माँ॒ अश्वाँ॑ अग्ने र॒थीरि॑व ।

नि होता॑ पू॒र्व्यः स॑दः ॥१

यु॒क्ष्व । हि । दे॒व॒ऽहूत॑मान् । अश्वा॑न् । अ॒ग्ने॒ । र॒थीःऽइ॑व ।

नि । होता॑ । पू॒र्व्यः । स॒दः॒ ॥१

युक्ष्व । हि । देवऽहूतमान् । अश्वान् । अग्ने । रथीःऽइव ।

नि । होता । पूर्व्यः । सदः ॥१

हे "अग्ने "देवहूतमान् देवानामाह्वातृतमान् "अश्वान् "युक्ष्व योजय रथे। “रथीरिव यथा रथी स्वाश्वानिष्टदेशगमनाय योजयति तद्वत् । तथा कृत्वा “होता त्वं पूर्व्यः मुख्यः सन् “नि “षदः उपविश च ॥


उ॒त नो॑ देव दे॒वाँ अच्छा॑ वोचो वि॒दुष्ट॑रः ।

श्रद्विश्वा॒ वार्या॑ कृधि ॥२

उ॒त । नः॒ । दे॒व॒ । दे॒वान् । अच्छ॑ । वो॒चः॒ । वि॒दुःऽत॑रः ।

श्रत् । विश्वा॑ । वार्या॑ । कृ॒धि॒ ॥२

उत । नः । देव । देवान् । अच्छ । वोचः । विदुःऽतरः ।

श्रत् । विश्वा । वार्या । कृधि ॥२

हे “देव अग्ने "उत अपि च “नः अस्मान् "देवान् "अच्छा "वोचः अभिब्रूयाः । सम्यगनुष्ठितवन्त इति । तथा “विदुष्टरः विद्वत्तमान् वोचः । तथा कृत्वा “विश्वा सर्वाणि “वार्या वरणीयानि धनानि देवसंबन्धीनि “श्रत् सत्यानि “कृधि कुर्वस्माकम् । अथवास्मदीयानि सर्वाणि वरणीयानि हवींषि श्रत् सत्यानि कुरु । देवान् प्रापयेत्यर्थः ॥


त्वं ह॒ यद्य॑विष्ठ्य॒ सह॑सः सूनवाहुत ।

ऋ॒तावा॑ य॒ज्ञियो॒ भुवः॑ ॥३

त्वम् । ह॒ । यत् । य॒वि॒ष्ठ्य॒ । सह॑सः । सू॒नो॒ इति॑ । आ॒ऽहु॒त॒ ।

ऋ॒तऽवा॑ । य॒ज्ञियः॑ । भुवः॑ ॥३

त्वम् । ह । यत् । यविष्ठ्य । सहसः । सूनो इति । आऽहुत ।

ऋतऽवा । यज्ञियः । भुवः ॥३

हे अग्ने “यविष्ठ्य युवतम "सहसः “सूनो बलस्य पुत्र “आहुत सर्वतो हुत आहूत वा “त्वं “यत् यदा “ह खलु “ऋतावा सत्यवान् “यज्ञियः यज्ञार्हश्च “भुवः भवसि तदा वार्याणि श्रत्कुर्विति संबन्धः ।।


अ॒यम॒ग्निः स॑ह॒स्रिणो॒ वाज॑स्य श॒तिन॒स्पतिः॑ ।

मू॒र्धा क॒वी र॑यी॒णां ॥४

अ॒यम् । अ॒ग्निः । स॒ह॒स्रिणः॑ । वाज॑स्य । श॒तिनः॑ । पतिः॑ ।

मू॒र्धा । क॒विः । र॒यी॒णाम् ॥४

अयम् । अग्निः । सहस्रिणः । वाजस्य । शतिनः । पतिः ।

मूर्धा । कविः । रयीणाम् ॥४

“अयमग्निः “शतिनः “सहस्रिणः चोक्तसंख्योपेतस्य “वाजस्य अन्नस्य “पतिः स्वामी "मूर्धा शिरोवदुन्नतः श्रेष्ठः “कविः मेधावी “रयीणां धनानामपि पतिरिति शेषः । तदुभयं प्रयच्छत्वित्यर्थः ॥


तं ने॒मिमृ॒भवो॑ य॒था न॑मस्व॒ सहू॑तिभिः ।

नेदी॑यो य॒ज्ञमं॑गिरः ॥५

तम् । ने॒मिम् । ऋ॒भवः॑ । य॒था॒ । आ । न॒म॒स्व॒ । सहू॑तिऽभिः ।

नेदी॑यः । य॒ज्ञम् । अ॒ङ्गि॒रः॒ ॥५

तम् । नेमिम् । ऋभवः । यथा । आ । नमस्व । सहूतिऽभिः ।

नेदीयः । यज्ञम् । अङ्गिरः ॥५

हे “अङ्गिरः त्वं “सहूतिभिः समानाह्वानैरन्यैर्देवैः सह “नेदीयः अन्तिकतमं “यज्ञम् “आ “नमस्व' आनमय । “ऋभवः “नेमिं रथमिव ॥ ॥ २४ ॥


तस्मै॑ नू॒नम॒भिद्य॑वे वा॒चा वि॑रूप॒ नित्य॑या ।

वृष्णे॑ चोदस्व सुष्टु॒तिं ॥६

तस्मै॑ । नू॒नम् । अ॒भिऽद्य॑वे । वा॒चा । वि॒ऽरू॒प॒ । नित्य॑या ।

वृष्णे॑ । चो॒द॒स्व॒ । सु॒ऽस्तु॒तिम् ॥६

तस्मै । नूनम् । अभिऽद्यवे । वाचा । विऽरूप । नित्यया ।

वृष्णे । चोदस्व । सुऽस्तुतिम् ॥६

हे “विरूप नानारूपैतन्नामक महर्षे त्वं “तस्मै प्रसिद्धाय “अभिद्यवे अभिगतदीप्तये “वृष्णे वर्षकायाग्नये “नित्यया उत्पत्तिरहितया “वाचा मन्त्ररूपया "सुष्टुतिं "नूनम् इदानीं “चोदस्व स्तुहीत्येवमृषिः स्वात्मानं ब्रवीति यजमानो वा होतारं विरूपम् ॥


कमु॑ ष्विदस्य॒ सेन॑या॒ग्नेरपा॑कचक्षसः ।

प॒णिं गोषु॑ स्तरामहे ॥७

कम् । ऊं॒ इति॑ । स्वि॒त् । अ॒स्य॒ । सेन॑या । अ॒ग्नेः । अपा॑कऽचक्षसः ।

प॒णिम् । गोषु॑ । स्त॒रा॒म॒हे॒ ॥७

कम् । ऊं इति । स्वित् । अस्य । सेनया । अग्नेः । अपाकऽचक्षसः ।

पणिम् । गोषु । स्तरामहे ॥७

“अस्य “अग्नेः “अपाकचक्षसः अनल्पचक्षसोऽग्नेः "सेनया ज्वालारूपया “गोषु निमित्तेषु “कमु "ष्वित् कं खलु “पणिं “स्तरामहे । स्तरणं हिंसनम् । इदानीं बलिनमभिभवेमेत्यर्थः ॥


मा नो॑ दे॒वानां॒ विशः॑ प्रस्ना॒तीरि॑वो॒स्राः ।

कृ॒शं न हा॑सु॒रघ्न्याः॑ ॥८

मा । नः॒ । दे॒वाना॑म् । विशः॑ । प्र॒स्ना॒तीःऽइ॑व । उ॒स्राः ।

कृ॒शम् । न । हा॒सुः॒ । अघ्न्याः॑ ॥८

मा । नः । देवानाम् । विशः । प्रस्नातीःऽइव । उस्राः ।

कृशम् । न । हासुः । अघ्न्याः ॥८

“देवानां सर्वेषां “विशः प्रजाभूतान् परिचारकान् “नः अस्मान् "मा हासीत् अग्निर्मा परित्यजतु । “प्रस्नातीः “उस्राः “इव पयः क्षरन्तीर्गाव इव । ता यथा न मुञ्चन्ति । उभयमपि न परित्यजत्वित्यर्थः । किमिव । “कृशम् अल्पं स्ववत्सम् “अघ्न्याः गावो यथा “न “हासुः न परित्यजन्ति तद्वत् ॥


मा नः॑ समस्य दू॒ढ्यः१॒॑ परि॑द्वेषसो अंह॒तिः ।

ऊ॒र्मिर्न नाव॒मा व॑धीत् ॥९

मा । नः॒ । स॒म॒स्य॒ । दुः॒ऽध्यः॑ । परि॑ऽद्वेषसः । अं॒ह॒तिः ।

ऊ॒र्मिः । न । नाव॑म् । आ । व॒धी॒त् ॥९

मा । नः । समस्य । दुःऽध्यः । परिऽद्वेषसः । अंहतिः ।

ऊर्मिः । न । नावम् । आ । वधीत् ॥९

“समस्य सर्वस्य “परिद्वेषसः परितो द्विषतः “दूढ्यः पापबुद्धेः "अंहतिः हननं “मा “आ “वधीत् मा हिंस्यात् । “नावम् "ऊर्मिः समुद्रतरङ्ग इव । स यथा तां पीडयति तद्वन्मा वधीदित्यर्थः । अत्र ‘मा नः सर्वस्य दुर्धियः' (निरु. ५. २३) इत्यादि निरुक्तं द्रष्टव्यम् ।।


नम॑स्ते अग्न॒ ओज॑से गृ॒णंति॑ देव कृ॒ष्टयः॑ ।

अमै॑र॒मित्र॑मर्दय ॥१०

नमः॑ । ते॒ । अ॒ग्ने॒ । ओज॑से । गृ॒णन्ति॑ । दे॒व॒ । कृ॒ष्टयः॑ ।

अमैः॑ । अ॒मित्र॑म् । अ॒र्द॒य॒ ॥१०

नमः । ते । अग्ने । ओजसे । गृणन्ति । देव । कृष्टयः ।

अमैः । अमित्रम् । अर्दय ॥१०

हे “अग्ने “देव "ते तुभ्यं “नमः "गृणन्ति नमस्कारशब्दमुञ्चारयन्ति । किमर्थम् । "ओजसे बलाय । के। "कृष्टयः मनुष्या यजमानाः । अतोऽहमपि गृणामीत्यर्थः । तथा “अमैः बलैः “अमित्रं शत्रुम् “अर्दय नाशय ॥ ॥ २५ ॥


ग्राम्येणाग्निना वैतानिकस्य संसर्गेऽग्नये संवर्गायेष्टिः कार्या । तत्र ‘कुवित्सु नः' इत्यनुवाक्या ‘ मा नो अस्मिन्' इति याज्या । सूत्रितं च -- कुवित्सु नो गविष्टये मा नो अस्मिन्महाधने' (आश्व. श्रौ. ३. १३) इति ॥

कु॒वित्सु नो॒ गवि॑ष्ट॒येऽग्ने॑ सं॒वेषि॑षो र॒यिं ।

उरु॑कृदु॒रु ण॑स्कृधि ॥११

कु॒वित् । सु । नः॒ । गोऽइ॑ष्टये । अग्ने॑ । स॒म्ऽवेषि॑षः । र॒यिम् ।

उरु॑ऽकृत् । उ॒रु । नः॒ । कृ॒धि॒ ॥११

कुवित् । सु । नः । गोऽइष्टये । अग्ने । सम्ऽवेषिषः । रयिम् ।

उरुऽकृत् । उरु । नः । कृधि ॥११

हे “अग्ने त्वं “नः अस्माकं “गविष्टये गवामेषणाय “कुवित् बहु “रयिं धनं “संवेषिषः संप्रापय । "उरुकृत् त्वं “नः अस्मान्” "उरु “कृधि कुरु ॥


मा नो॑ अ॒स्मिन्म॑हाध॒ने परा॑ वर्ग्भार॒भृद्य॑था ।

सं॒वर्गं॒ सं र॒यिं ज॑य ॥१२

मा । नः॒ । अ॒स्मिन् । म॒हा॒ऽध॒ने । परा॑ । व॒र्क् । भा॒र॒ऽभृत् । य॒था॒ ।

स॒म्ऽवर्ग॑म् । सम् । र॒यिम् । ज॒य॒ ॥१२

मा । नः । अस्मिन् । महाऽधने । परा । वर्क् । भारऽभृत् । यथा ।

सम्ऽवर्गम् । सम् । रयिम् । जय ॥१२

"नः अस्मान् “अस्मिन् “महाधने संग्रामे “मा “परा “वर्क् मा परित्याक्षीः । “भारभृद्यथा । भारवाही यथा भारमन्ते परित्यजति तद्वत् । “संवर्गं शत्रुभ्यः सहाच्छिद्यमानं “रयिं धनं “सं “जय अस्मदर्थम् ॥


अ॒न्यम॒स्मद्भि॒या इ॒यमग्ने॒ सिष॑क्तु दु॒च्छुना॑ ।

वर्धा॑ नो॒ अम॑व॒च्छवः॑ ॥१३

अ॒न्यम् । अ॒स्मत् । भि॒यै । इ॒यम् । अग्ने॑ । सिस॑क्तु । दु॒च्छुना॑ ।

वर्ध॑ । नः॒ । अम॑ऽवत् । शवः॑ ॥१३

अन्यम् । अस्मत् । भियै । इयम् । अग्ने । सिसक्तु । दुच्छुना ।

वर्ध । नः । अमऽवत् । शवः ॥१३

हे “अग्ने त्वदीया “इयं “दुच्छुना बाधकसंहतिः “अस्मत् “अन्यम् अस्तोतारं “भियै भयाय “सिषक्तु सेवताम् । त्वं च “नः अस्माकम् "अमवत् बलोपेतं "शवः वेगं “वर्ध वर्धय संग्रामे ।।


यस्याजु॑षन्नम॒स्विनः॒ शमी॒मदु॑र्मखस्य वा ।

तं घेद॒ग्निर्वृ॒धाव॑ति ॥१४

यस्य॑ । अजु॑षत् । न॒म॒स्विनः॑ । शमी॑म् । अदुः॑ऽमखस्य । वा॒ ।

तम् । घ॒ । इत् । अ॒ग्निः । वृ॒धा । अ॒व॒ति॒ ॥१४

यस्य । अजुषत् । नमस्विनः । शमीम् । अदुःऽमखस्य । वा ।

तम् । घ । इत् । अग्निः । वृधा । अवति ॥१४

“यस्य “नमस्विनः नमस्कारवतः “अदुर्मखस्य “वा अदुष्टयागस्य वा “शमीं कर्म “अजुषत् असेवत “तं “घेत् तमेव यजमानं संग्रामे “अग्निर्विधावति विशेषेण गच्छति । अतो नमोयुक्ता अदुर्मखाश्च भवामेति भावः ।।


पर॑स्या॒ अधि॑ सं॒वतोऽव॑राँ अ॒भ्या त॑र ।

यत्रा॒हमस्मि॒ ताँ अ॑व ॥१५

पर॑स्याः । अधि॑ । स॒म्ऽवतः॑ । अव॑रान् । अ॒भि । आ । त॒र॒ ।

यत्र॑ । अ॒हम् । अस्मि॑ । तान् । अ॒व॒ ॥१५

परस्याः । अधि । सम्ऽवतः । अवरान् । अभि । आ । तर ।

यत्र । अहम् । अस्मि । तान् । अव ॥१५

हे अग्ने "परस्याः अन्यस्याः “संवतः सेनायाः “अवरान् अन्यानस्मदीयान् “अभि अभिमुखम् “आ सर्वतः “तर तारय । वैरिसेना अस्मद्भटैः पराभावयेत्यर्थः । “यत्र येष्वस्मदीयपरिजनमध्ये “अहमस्मि स्वामी “तानव रक्ष ।।


वि॒द्मा हि ते॑ पु॒रा व॒यमग्ने॑ पि॒तुर्यथाव॑सः ।

अधा॑ ते सु॒म्नमी॑महे ॥१६

वि॒द्म । हि । ते॒ । पु॒रा । व॒यम् । अग्ने॑ । पि॒तुः । यथा॑ । अव॑सः ।

अध॑ । ते॒ । सु॒म्नम् । ई॒म॒हे॒ ॥१६

विद्म । हि । ते । पुरा । वयम् । अग्ने । पितुः । यथा । अवसः ।

अध । ते । सुम्नम् । ईमहे ॥१६

हे “अग्ने “पितुः पालकस्य “ते तव “अवसः अवो रक्षणं “पुरा “यथा तथेदानीमपीति “विद्म । “अधः तत् “ते तव “सुम्नं सुखम् “ईमहे याचामहे । अथवा पितुर्यथेति दृष्टान्तः । पितुः पालनं पुत्रो यथा वेत्ति तथेत्यर्थः ॥ ॥ २६ ॥

मण्डल ८

सूक्तं ८.१

सूक्तं ८.२

सूक्तं ८.३

सूक्तं ८.४

सूक्तं ८.५

सूक्तं ८.६

सूक्तं ८.७

सूक्तं ८.८

सूक्तं ८.९

सूक्तं ८.१०

सूक्तं ८.११

सूक्तं ८.१२

सूक्तं ८.१३

सूक्तं ८.१४

सूक्तं ८.१५

सूक्तं ८.१६

सूक्तं ८.१७

सूक्तं ८.१८

सूक्तं ८.१९

सूक्तं ८.२०

सूक्तं ८.२१

सूक्तं ८.२२

सूक्तं ८.२३

सूक्तं ८.२४

सूक्तं ८.२५

सूक्तं ८.२६

सूक्तं ८.२७

सूक्तं ८.२८

सूक्तं ८.२९

सूक्तं ८.३०

सूक्तं ८.३१

सूक्तं ८.३२

सूक्तं ८.३३

सूक्तं ८.३४

सूक्तं ८.३५

सूक्तं ८.३६

सूक्तं ८.३७

सूक्तं ८.३८

सूक्तं ८.३९

सूक्तं ८.४०

सूक्तं ८.४१

सूक्तं ८.४२

सूक्तं ८.४३

सूक्तं ८.४४

सूक्तं ८.४५

सूक्तं ८.४६

सूक्तं ८.४७

सूक्तं ८.४८

सूक्तं ८.४९

सूक्तं ८.५०

सूक्तं ८.५१

सूक्तं ८.५२

सूक्तं ८.५३

सूक्तं ८.५४

सूक्तं ८.५५

सूक्तं ८.५६

सूक्तं ८.५७

सूक्तं ८.५८

सूक्तं ८.५९

सूक्तं ८.६०

सूक्तं ८.६१

सूक्तं ८.६२

सूक्तं ८.६३

सूक्तं ८.६४

सूक्तं ८.६५

सूक्तं ८.६६

सूक्तं ८.६७

सूक्तं ८.६८

सूक्तं ८.६९

सूक्तं ८.७०

सूक्तं ८.७१

सूक्तं ८.७२

सूक्तं ८.७३

सूक्तं ८.७४

सूक्तं ८.७५

सूक्तं ८.७६

सूक्तं ८.७७

सूक्तं ८.७८

सूक्तं ८.७९

सूक्तं ८.८०

सूक्तं ८.८१

सूक्तं ८.८२

सूक्तं ८.८३

सूक्तं ८.८४

सूक्तं ८.८५

सूक्तं ८.८६

सूक्तं ८.८७

सूक्तं ८.८८

सूक्तं ८.८९

सूक्तं ८.९०

सूक्तं ८.९१

सूक्तं ८.९२

सूक्तं ८.९३

सूक्तं ८.९४

सूक्तं ८.९५

सूक्तं ८.९६

सूक्तं ८.९७

सूक्तं ८.९८

सूक्तं ८.९९

सूक्तं ८.१००

सूक्तं ८.१०१

सूक्तं ८.१०२

सूक्तं ८.१०३

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_८.७५&oldid=209016" इत्यस्माद् पुनः प्राप्तिः