ऋग्वेदः सूक्तं ८.७६
← सूक्तं ८.७५ | ऋग्वेदः - मण्डल ८ सूक्तं ८.७६ कुरुसुतिः काण्वः । |
सूक्तं ८.७७ → |
दे. इन्द्रः । गायत्री । |
इमं नु मायिनं हुव इन्द्रमीशानमोजसा ।
मरुत्वन्तं न वृञ्जसे ॥१॥
अयमिन्द्रो मरुत्सखा वि वृत्रस्याभिनच्छिरः ।
वज्रेण शतपर्वणा ॥२॥
वावृधानो मरुत्सखेन्द्रो वि वृत्रमैरयत् ।
सृजन्समुद्रिया अपः ॥३॥
अयं ह येन वा इदं स्वर्मरुत्वता जितम् ।
इन्द्रेण सोमपीतये ॥४॥
मरुत्वन्तमृजीषिणमोजस्वन्तं विरप्शिनम् ।
इन्द्रं गीर्भिर्हवामहे ॥५॥
इन्द्रं प्रत्नेन मन्मना मरुत्वन्तं हवामहे ।
अस्य सोमस्य पीतये ॥६॥
मरुत्वाँ इन्द्र मीढ्वः पिबा सोमं शतक्रतो ।
अस्मिन्यज्ञे पुरुष्टुत ॥७॥
तुभ्येदिन्द्र मरुत्वते सुताः सोमासो अद्रिवः ।
हृदा हूयन्त उक्थिनः ॥८॥
पिबेदिन्द्र मरुत्सखा सुतं सोमं दिविष्टिषु ।
वज्रं शिशान ओजसा ॥९॥
उत्तिष्ठन्नोजसा सह पीत्वी शिप्रे अवेपयः ।
सोममिन्द्र चमू सुतम् ॥१०॥
अनु त्वा रोदसी उभे क्रक्षमाणमकृपेताम् ।
इन्द्र यद्दस्युहाभवः ॥११॥
वाचमष्टापदीमहं नवस्रक्तिमृतस्पृशम् ।
इन्द्रात्परि तन्वं ममे ॥१२॥
सायणभाष्यम्
‘इमं नु मायिनम्' इति द्वादशर्चं सप्तमं सूक्तम् । कुरुसुतिर्नाम काण्व ऋषिः । गायत्री छन्दः । इन्द्रो देवता । तथा चानुक्रान्तम्- ‘ इमं नु द्वादश कुरुसुतिः काण्वः' इति । व्यूढे दशरात्रे चतुर्थेऽहनि मरुत्वतीय आद्यस्तृचः । सूत्रितं च--' इमं नु मायिनं हुवे त्यमु वः सत्रासाहम्' ( आश्व. श्रौ. ८. ८) इति ॥
इ॒मं नु मा॒यिनं॑ हुव॒ इन्द्र॒मीशा॑न॒मोज॑सा ।
म॒रुत्व॑न्तं॒ न वृ॒ञ्जसे॑ ॥१
इ॒मम् । नु । मा॒यिन॑म् । हु॒वे॒ । इन्द्र॑म् । ईशा॑नम् । ओज॑सा ।
म॒रुत्व॑न्तम् । न । वृ॒ञ्जसे॑ ॥१
इमम् । नु । मायिनम् । हुवे । इन्द्रम् । ईशानम् । ओजसा ।
मरुत्वन्तम् । न । वृञ्जसे ॥१
“इमं “मायिनं प्रज्ञावन्तम् “ओजसा स्वबलेन "ईशानं सर्वस्य स्वामिनं “मरुत्वन्तं “न । नेति संप्रत्यर्थे । मरुद्भिस्तद्वन्तमिदानीम् "इन्द्रं वृञ्जसे शत्रूणां छेदनाय "हुवे आह्वयामि ॥
अ॒यमिन्द्रो॑ म॒रुत्स॑खा॒ वि वृ॒त्रस्या॑भिन॒च्छिर॑ः ।
वज्रे॑ण श॒तप॑र्वणा ॥२
अ॒यम् । इन्द्रः॑ । म॒रुत्ऽस॑खा । वि । वृ॒त्रस्य॑ । अ॒भि॒न॒त् । शिरः॑ ।
वज्रे॑ण । श॒तऽप॑र्वणा ॥२
अयम् । इन्द्रः । मरुत्ऽसखा । वि । वृत्रस्य । अभिनत् । शिरः ।
वज्रेण । शतऽपर्वणा ॥२
"अयमिन्द्रो “मरुत्सखा मरुद्युक्तः "वृत्रस्य "वि “अभिनत् व्यच्छिनत् "शिरः “वज्रेण “शतपर्वणा शतसंधिना ।।
वा॒वृ॒धा॒नो म॒रुत्स॒खेन्द्रो॒ वि वृ॒त्रमै॑रयत् ।
सृ॒जन्स॑मु॒द्रिया॑ अ॒पः ॥३
व॒वृ॒धा॒नः । म॒रुत्ऽस॑खा । इन्द्रः॑ । वि । वृ॒त्रम् । ऐ॒र॒य॒त् ।
सृ॒जन् । स॒मु॒द्रियाः॑ । अ॒पः ॥३
ववृधानः । मरुत्ऽसखा । इन्द्रः । वि । वृत्रम् । ऐरयत् ।
सृजन् । समुद्रियाः । अपः ॥३
अयम् “इन्द्रः “वावृधानः वर्धमानः “मरुत्सखा मरुत्सहायः “वृत्रं मेघं “वि “ऐरयत् विदारितवान् । किं कुर्वन् । “समुद्रियाः । समुद्रमन्तरिक्षम् । तत्संबन्धिन्यः “अपः "सृजन् ।
षष्ठेऽहनि मरुत्वतीये ‘अयं ह येन ' इति मरुत्वन्निविद्धानीयः । सूत्रितं च – 'अयं ह येन वा इदमुप नो हरिभिः सुतम् ' ( आश्व. श्रौ. ८. ८) इति ।।
अ॒यं ह॒ येन॒ वा इ॒दं स्व॑र्म॒रुत्व॑ता जि॒तम् ।
इन्द्रे॑ण॒ सोम॑पीतये ॥४
अ॒यम् । ह॒ । येन॑ । वै । इ॒दम् । स्वः॑ । म॒रुत्व॑ता । जि॒तम् ।
इन्द्रे॑ण । सोम॑ऽपीतये ॥४
अयम् । ह । येन । वै । इदम् । स्वः । मरुत्वता । जितम् ।
इन्द्रेण । सोमऽपीतये ॥४
"अयं "ह' खल्विन्द्रः "येन “वै येन खलु “मरुत्वता मरुद्भिर्युक्तेन “इन्द्रेण “इदं “स्वः स्वर्गाख्यं स्थानमिदं स्वः सर्वं कर्म वा यद्वेदं सर्वं जगत् “जितम् । किमर्थम् । “सोमपीतये सोमपानाय ।।
म॒रुत्व॑न्तमृजी॒षिण॒मोज॑स्वन्तं विर॒प्शिन॑म् ।
इन्द्रं॑ गी॒र्भिर्ह॑वामहे ॥५
म॒रुत्व॑न्तम् । ऋ॒जी॒षिण॑म् । ओज॑स्वन्तम् । वि॒ऽर॒प्शिन॑म् ।
इन्द्र॑म् । गीः॒ऽभिः । ह॒वा॒म॒हे॒ ॥५
मरुत्वन्तम् । ऋजीषिणम् । ओजस्वन्तम् । विऽरप्शिनम् ।
इन्द्रम् । गीःऽभिः । हवामहे ॥५
“मरुत्वन्तं मरुद्भिस्तद्वन्तम् “ऋजीषिणम् । अभिषुतशेष ऋजीषः । स च तृतीयसवने पुनः सूयते । तद्वन्तम् "ओजस्वन्तम् । ओजो नामाष्टमी दशा । शरीरवृद्ध्युपेतमित्यर्थः । “विरप्शिनम् । महन्नामैतत् । महान्तमेवंमहानुभावम् “इन्द्रं “गीर्भिः स्तुतिभिः "हवामहे आह्वयामः ॥
इन्द्रं॑ प्र॒त्नेन॒ मन्म॑ना म॒रुत्व॑न्तं हवामहे ।
अ॒स्य सोम॑स्य पी॒तये॑ ॥६
इन्द्र॑म् । प्र॒त्नेन॑ । मन्म॑ना । म॒रुत्व॑न्तम् । ह॒वा॒म॒हे॒ ।
अ॒स्य । सोम॑स्य । पी॒तये॑ ॥६
इन्द्रम् । प्रत्नेन । मन्मना । मरुत्वन्तम् । हवामहे ।
अस्य । सोमस्य । पीतये ॥६
“मरुत्वन्तम् “इन्द्रं “प्रत्नेन पुराणेन “मन्मना मननीयेन स्तोत्रेण “हवामहे “अस्य “सोमस्य “पीतये पानाय ॥ ॥ २७ ॥
पञ्चमेऽहनि मरुत्वतीये ‘मरुत्वाँ इन्द्र मीढ्वः' इति तृचो निविद्धानीयः । सूत्रितं च- ‘ मरुत्वाँ इन्द्र मीढ्वस्तमिन्द्रं वाजयामसि' (आश्व. श्रौ. ८. ८) इति ॥
म॒रुत्वाँ॑ इन्द्र मीढ्व॒ः पिबा॒ सोमं॑ शतक्रतो ।
अ॒स्मिन्य॒ज्ञे पु॑रुष्टुत ॥७
म॒रुत्वा॑न् । इ॒न्द्र॒ । मी॒ढ्वः॒ । पिब॑ । सोम॑म् । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो ।
अ॒स्मिन् । य॒ज्ञे । पु॒रु॒ऽस्तु॒त॒ ॥७
मरुत्वान् । इन्द्र । मीढ्वः । पिब । सोमम् । शतक्रतो इति शतऽक्रतो ।
अस्मिन् । यज्ञे । पुरुऽस्तुत ॥७
हे "मीढ्वः फलस्य वृष्टेर्वा सेक्तः “शतक्रतो बहुकर्मन् “इन्द्र त्वं “मरुत्वान् “सोमं “पिब “अस्मिन् “यज्ञे हे "पुरुष्टुत बहुभिराहूत ॥
तुभ्येदि॑न्द्र म॒रुत्व॑ते सु॒ताः सोमा॑सो अद्रिवः ।
हृ॒दा हू॑यन्त उ॒क्थिन॑ः ॥८
तुभ्य॑ । इत् । इ॒न्द्र॒ । म॒रुत्व॑ते । सु॒ताः । सोमा॑सः । अ॒द्रि॒ऽवः॒ ।
हृ॒दा । हू॒य॒न्ते॒ । उ॒क्थिनः॑ ॥८
तुभ्य । इत् । इन्द्र । मरुत्वते । सुताः । सोमासः । अद्रिऽवः ।
हृदा । हूयन्ते । उक्थिनः ॥८
हे "अद्रिवः वज्रवन् “इन्द्र "मरुत्वते “तुभ्येत् तुभ्यमेव “सोमासः "सुताः अभिषुताः । ते च "उक्थिनः शस्त्रवन्तः "हृदा मनसा भक्त्या "हूयन्ते त्वदर्थम् ॥
पिबेदि॑न्द्र म॒रुत्स॑खा सु॒तं सोमं॒ दिवि॑ष्टिषु ।
वज्रं॒ शिशा॑न॒ ओज॑सा ॥९
पिब॑ । इत् । इ॒न्द्र॒ । म॒रुत्ऽस॑खा । सु॒तम् । सोम॑म् । दिवि॑ष्टिषु ।
वज्र॑म् । शिशा॑नः । ओज॑सा ॥९
पिब । इत् । इन्द्र । मरुत्ऽसखा । सुतम् । सोमम् । दिविष्टिषु ।
वज्रम् । शिशानः । ओजसा ॥९
हे “इन्द्र "मरुत्सखा त्वं “सुतम् अभिषुतं “सोमं “पिब । किमर्थम् । दिविष्टिषु अस्माकमह्नामभिगमनेषु “दिवः स्वर्गस्य वैषणेषु निमित्तेषु । पीत्वा च “ओजसा बलेन सोमपानजनितेन “वज्रं “शिशानः तीक्ष्णीकुर्वन् । शत्रूञ्जहीति भावः ॥
चतुर्विंशेऽहनि प्रातःसवने ब्राह्मणाच्छंसिशस्त्रे ‘उत्तिष्ठन्' इति तृचः षळहस्तोत्रियः । सूत्रितं च - उत्तिष्ठन्नोजसा सह भिन्धि विश्वा अप द्विष इति ब्राह्मणाच्छंसिनः ' (आश्व. श्रौ. ७. २) इति ॥
उ॒त्तिष्ठ॒न्नोज॑सा स॒ह पी॒त्वी शिप्रे॑ अवेपयः ।
सोम॑मिन्द्र च॒मू सु॒तम् ॥१०
उ॒त्ऽतिष्ठ॑न् । ओज॑सा । स॒ह । पी॒त्वी । शिप्रे॒ इति॑ । अ॒वे॒प॒यः॒ ।
सोम॑म् । इ॒न्द्र॒ । च॒मू इति॑ । सु॒तम् ॥१०
उत्ऽतिष्ठन् । ओजसा । सह । पीत्वी । शिप्रे इति । अवेपयः ।
सोमम् । इन्द्र । चमू इति । सुतम् ॥१०
हे “इन्द्र त्वं “पीत्वी पीत्वा “ओजसा बलेन “सह "उत्तिष्ठन् “शिप्रे हनू “अवेपयः अकम्पयः । मदावेशादिति भावः । किं पीत्वा । "चमू चम्वोरधिषवणफलकयोः “सुतं सोमम् ॥
अनु॑ त्वा॒ रोद॑सी उ॒भे क्रक्ष॑माणमकृपेताम् ।
इन्द्र॒ यद्द॑स्यु॒हाभ॑वः ॥११
अनु॑ । त्वा॒ । रोद॑सी॒ इति॑ । उ॒भे इति॑ । क्रक्ष॑माणम् । अ॒कृ॒पे॒ता॒म् ।
इन्द्र॑ । यत् । द॒स्यु॒ऽहा । अभ॑वः ॥११
अनु । त्वा । रोदसी इति । उभे इति । क्रक्षमाणम् । अकृपेताम् ।
इन्द्र । यत् । दस्युऽहा । अभवः ॥११
हे “इन्द्र "क्रक्षमाणं शत्रून् विलिखन्तं “त्वा त्वाम् “उभे “रोदसी उभे अपि द्यावापृथिव्यौ “अनु “अकृपेताम् अनुकल्पयेताम् । “यत् यदा “दस्युहा “अभवः भवसि तदा ॥
वाच॑म॒ष्टाप॑दीम॒हं नव॑स्रक्तिमृत॒स्पृश॑म् ।
इन्द्रा॒त्परि॑ त॒न्वं॑ ममे ॥१२
वाच॑म् । अ॒ष्टाऽप॑दीम् । अ॒हम् । नव॑ऽस्रक्तिम् । ऋ॒त॒ऽस्पृश॑म् ।
इन्द्रा॑त् । परि॑ । त॒न्व॑म् । म॒मे॒ ॥१२
वाचम् । अष्टाऽपदीम् । अहम् । नवऽस्रक्तिम् । ऋतऽस्पृशम् ।
इन्द्रात् । परि । तन्वम् । ममे ॥१२
“अष्टापदीम् । अष्टाभिर्दिग्भिर्विदिग्भिः साष्टापदी । "नवस्रक्तिम् उपरि स्थितेनादित्येन नवस्रक्तिम् । आसु दिक्षु व्याप्तमित्यर्थः । “ऋतस्पृशं यज्ञस्पृशं “वाचं स्तुतिम् “अहं परिपूर्णत् “इन्द्रात् “तन्वं तनुं न्यूनां सती “परि “ममे । अन्यूनेयत्तां करोमीत्यर्थः । कार्येस्न् न स्वरूपं स्तुत्या विषयीकर्तुमशक्यत्वादिति भावः ॥ ॥ २८ ॥
मण्डल ८ | ||||||
---|---|---|---|---|---|---|