ऋग्वेदः सूक्तं ८.१६

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं ८.१५ ऋग्वेदः - मण्डल ८
सूक्तं ८.१६
इरिम्बिठिः काण्वः।
सूक्तं ८.१७ →
दे. इन्द्रः । गायत्री ।


प्र सम्राजं चर्षणीनामिन्द्रं स्तोता नव्यं गीर्भिः ।
नरं नृषाहं मंहिष्ठम् ॥१॥
यस्मिन्नुक्थानि रण्यन्ति विश्वानि च श्रवस्या ।
अपामवो न समुद्रे ॥२॥
तं सुष्टुत्या विवासे ज्येष्ठराजं भरे कृत्नुम् ।
महो वाजिनं सनिभ्यः ॥३॥
यस्यानूना गभीरा मदा उरवस्तरुत्राः ।
हर्षुमन्तः शूरसातौ ॥४॥
तमिद्धनेषु हितेष्वधिवाकाय हवन्ते ।
येषामिन्द्रस्ते जयन्ति ॥५॥
तमिच्च्यौत्नैरार्यन्ति तं कृतेभिश्चर्षणयः ।
एष इन्द्रो वरिवस्कृत् ॥६॥
इन्द्रो ब्रह्मेन्द्र ऋषिरिन्द्रः पुरू पुरुहूतः ।
महान्महीभिः शचीभिः ॥७॥
स स्तोम्यः स हव्यः सत्यः सत्वा तुविकूर्मिः ।
एकश्चित्सन्नभिभूतिः ॥८॥
तमर्केभिस्तं सामभिस्तं गायत्रैश्चर्षणयः ।
इन्द्रं वर्धन्ति क्षितयः ॥९॥
प्रणेतारं वस्यो अच्छा कर्तारं ज्योतिः समत्सु ।
सासह्वांसं युधामित्रान् ॥१०॥
स नः पप्रिः पारयाति स्वस्ति नावा पुरुहूतः ।
इन्द्रो विश्वा अति द्विषः ॥११॥
स त्वं न इन्द्र वाजेभिर्दशस्या च गातुया च ।
अच्छा च नः सुम्नं नेषि ॥१२॥


सायणभाष्यम्

‘प्र सम्राजम्' इति द्वादशर्चं चतुर्थं सूक्तमिरिम्बिठिनाम्नः काण्वस्यार्षं गायत्रमैन्द्रम् । अनुक्रम्यते हि-' प्र सम्राजं द्वादशेरिम्बिठिः' इति । अतिरात्रे द्वितीये पर्यायेऽच्छावाकशस्त्र एतत्सूक्तम् । सूत्रितं च- ‘ प्र सम्राजमुप क्रमस्वा भर' (आश्व. श्रौ. ६. ४ ) इति । महाव्रतेऽपि निष्केवल्य एतदादिके द्वे सूक्ते उपरितनस्यान्त्यं द्वृचं वर्जयित्वा । तथैव पञ्चमारण्यके सूत्रितं-- प्र सम्राजं चर्षणीनामिति सूक्ते उत्तरस्योत्तमे उद्धरति' (ऐ. आ. ५. २. ५) इति ॥


प्र स॒म्राजं॑ चर्षणी॒नामिन्द्रं॑ स्तोता॒ नव्यं॑ गी॒र्भिः ।

नरं॑ नृ॒षाहं॒ मंहि॑ष्ठम् ॥१

प्र । स॒म्ऽराज॑म् । च॒र्ष॒णी॒नाम् । इन्द्र॑म् । स्तो॒त॒ । नव्य॑म् । गीः॒ऽभिः ।

नर॑म् । नृ॒ऽसह॑म् । मंहि॑ष्ठम् ॥१

प्र । सम्ऽराजम् । चर्षणीनाम् । इन्द्रम् । स्तोत । नव्यम् । गीःऽभिः ।

नरम् । नृऽसहम् । मंहिष्ठम् ॥१

“चर्षणीनां मनुष्याणां मध्ये “सम्राजं सम्यग्राजमानं यद्वा मनुष्याणामधीश्वरम् "इन्द्रं हे स्तोतारः “प्र “स्तोत प्रकर्षेण स्तुत । कीदृशम् । "गीर्भिः स्तुतिभिः "नव्यं स्तुत्यं "नरं नेतारं "नृषाहं नृणां शत्रुमनुष्याणामभिभवितारं "मंहिष्ठं दातृतमम् ॥


यस्मि॑न्नु॒क्थानि॒ रण्य॑न्ति॒ विश्वा॑नि च श्रव॒स्या॑ ।

अ॒पामवो॒ न स॑मु॒द्रे ॥२

यस्मि॑न् । उ॒क्थानि॑ । रण्य॑न्ति । विश्वा॑नि । च॒ । श्र॒व॒स्या॑ ।

अ॒पाम् । अवः॑ । न । स॒मु॒द्रे ॥२

यस्मिन् । उक्थानि । रण्यन्ति । विश्वानि । च । श्रवस्या ।

अपाम् । अवः । न । समुद्रे ॥२

“यस्मिन् इन्द्रे "उक्थानि शस्त्राणि “रण्यन्ति रमन्ते "विश्वानि सर्वाणि "श्रवस्या श्रवस्थानि श्रवणीयानि हविर्लक्षणान्यन्नानि "च रमन्ते । तत्र दृष्टान्तः । "समुद्रे उदधौ “अपाम् उदकानाम् “अवो “न । अवति गच्छतीत्यवस्तरङ्गजालम् । तद्यथा समुद्रेऽन्तर्भवति तथा रण्यन्तीत्यर्थः ॥


तं सु॑ष्टु॒त्या वि॑वासे ज्येष्ठ॒राजं॒ भरे॑ कृ॒त्नुम् ।

म॒हो वा॒जिनं॑ स॒निभ्य॑ः ॥३

तम् । सु॒ऽस्तु॒त्या । आ । वि॒वा॒से॒ । ज्ये॒ष्ठ॒ऽराज॑म् । भरे॑ । कृ॒त्नुम् ।

म॒हः । वा॒जिन॑म् । स॒निऽभ्यः॑ ॥३

तम् । सुऽस्तुत्या । आ । विवासे । ज्येष्ठऽराजम् । भरे । कृत्नुम् ।

महः । वाजिनम् । सनिऽभ्यः ॥३

“तम् इन्द्रं "सुष्टुत्या शोभनया स्तुत्या "आ "विवासे परिचरामि । कीदृशम् । "ज्येष्ठराजं ज्येष्ठेषु प्रशस्यतमेषु देवेषु मध्ये राजमानम् । राजतेः ‘सत्सूद्विष' इति क्विप् । “भरे संग्रामे "महः महतो वृत्रवधादेः "कृत्नुं कर्तारं "वाजिनम् अन्नवन्तं बलवन्तं वा । किमर्थम् । "सनिभ्यः धनेभ्यः । धनलाभायेत्यर्थः ।।


यस्यानू॑ना गभी॒रा मदा॑ उ॒रव॒स्तरु॑त्राः ।

ह॒र्षु॒मन्त॒ः शूर॑सातौ ॥४

यस्य॑ । अनू॑नाः । ग॒भी॒राः । मदाः॑ । उ॒रवः॑ । तरु॑त्राः ।

ह॒र्षु॒ऽमन्तः॑ । शूर॑ऽसातौ ॥४

यस्य । अनूनाः । गभीराः । मदाः । उरवः । तरुत्राः ।

हर्षुऽमन्तः । शूरऽसातौ ॥४

"यस्य इन्द्रस्य “मदाः सोमपानजनिताः "अनूनाः अन्यूनाः "गभीराः गाम्भीर्योपेताः “उरवः विस्तीर्णाः “तरुत्राः शत्रूणां तारकाः "शूरसातौ शूरसंभजनीये संग्रामे "हर्षुमन्तः हर्षयुक्ताः संग्रामोत्सुका भवन्ति । तमिन्द्रमिति पूर्वयोत्तरया वा संबन्धः ॥


तमिद्धने॑षु हि॒तेष्व॑धिवा॒काय॑ हवन्ते ।

येषा॒मिन्द्र॒स्ते ज॑यन्ति ॥५

तम् । इत् । धने॑षु । हि॒तेषु॑ । अ॒धि॒ऽवा॒काय॑ । ह॒व॒न्ते॒ ।

येषा॑म् । इन्द्रः॑ । ते । ज॒य॒न्ति॒ ॥५

तम् । इत् । धनेषु । हितेषु । अधिऽवाकाय । हवन्ते ।

येषाम् । इन्द्रः । ते । जयन्ति ॥५

“धनेषु "हितेषु शत्रुषु निहितेषु प्राप्तव्येषु सत्सु "तमित् तं पूर्वोक्तगुणमेवेन्द्रम् "अधिवाकाय अधिवचनाय पक्षपातवचनाय "हवन्ते स्तोतार आह्वयन्ति । तत्र च "येषां पक्षे “इन्द्रः वर्तते "ते एव "जयन्ति । जयेन तानि धनानि लभन्ते नान्ये ॥


तमिच्च्यौ॒त्नैरार्य॑न्ति॒ तं कृ॒तेभि॑श्चर्ष॒णय॑ः ।

ए॒ष इन्द्रो॑ वरिव॒स्कृत् ॥६

तम् । इत् । च्यौ॒त्नैः । आर्य॑न्ति । तम् । कृ॒तेभिः॑ । च॒र्ष॒णयः॑ ।

ए॒षः । इन्द्रः॑ । व॒रि॒वः॒ऽकृत् ॥६

तम् । इत् । च्यौत्नैः । आर्यन्ति । तम् । कृतेभिः । चर्षणयः ।

एषः । इन्द्रः । वरिवःऽकृत् ॥६

“तमित् तमेवेन्द्रं “च्यौत्नैः बलकरैः स्तोत्रैः "आर्यन्ति आर्यमभिज्ञमीश्वरं कुर्वन्ति । “चर्षणयः मनुष्याः कृतैः कर्मभिश्चार्यन्ति । "एषः एवंगुणकः "इन्द्रः "वरिवस्कृत् धनस्य कर्ता भवति स्तोतॄणाम् ॥ ॥ २० ॥


इन्द्रो॑ ब्र॒ह्मेन्द्र॒ ऋषि॒रिन्द्र॑ः पु॒रू पु॑रुहू॒तः ।

म॒हान्म॒हीभि॒ः शची॑भिः ॥७

इन्द्रः॑ । ब्र॒ह्मा । इन्द्रः॑ । ऋषिः॑ । इन्द्रः॑ । पु॒रु । पु॒रु॒ऽहू॒तः ।

म॒हान् । म॒हीभिः॑ । शची॑भिः ॥७

इन्द्रः । ब्रह्मा । इन्द्रः । ऋषिः । इन्द्रः । पुरु । पुरुऽहूतः ।

महान् । महीभिः । शचीभिः ॥७

अयम् "इन्द्रः “ब्रह्मा परिवृढः सर्वेभ्योऽधिकः । स एव “इन्द्रः “ऋषिः द्रष्टा सर्वस्यार्थजातस्य। सः "इन्द्रः "पुरु बहुलं “पुरुहूतः बहुभिराहूतश्च "महीभिः महतीभिः "शचीभिः क्रियाभिर्वृत्रवधादिरूपाभिः "महान् प्रभूतो भवति ।


स स्तोम्य॒ः स हव्य॑ः स॒त्यः सत्वा॑ तुविकू॒र्मिः ।

एक॑श्चि॒त्सन्न॒भिभू॑तिः ॥८

सः । स्तोम्यः॑ । सः । हव्यः॑ । स॒त्यः । सत्वा॑ । तु॒वि॒ऽकू॒र्मिः ।

एकः॑ । चि॒त् । सन् । अ॒भिऽभू॑तिः ॥८

सः । स्तोम्यः । सः । हव्यः । सत्यः । सत्वा । तुविऽकूर्मिः ।

एकः । चित् । सन् । अभिऽभूतिः ॥८

"सः पूर्वोक्त इन्द्रः "स्तोम्यः स्तोमार्हः स्तुत्यर्हः। "सः एव “हव्यः ह्वातव्यश्च "सत्यः सत्सु साधुरवितथस्वभावो वा "सत्वा शत्रूणामवसादयिता "तुविकूर्मिः बहुकर्मा । यत एवमतः कारणात् "एकश्चित्सन् असहायोऽपि भवन् "अभिभूतिः शत्रूणामभिभविता तिरस्कर्ता भवति ।।


तम॒र्केभि॒स्तं साम॑भि॒स्तं गा॑य॒त्रैश्च॑र्ष॒णय॑ः ।

इन्द्रं॑ वर्धन्ति क्षि॒तय॑ः ॥९

तम् । अ॒र्केभिः॑ । तम् । साम॑ऽभिः । तम् । गा॒य॒त्रैः । च॒र्ष॒णयः॑ ।

इन्द्र॑म् । व॒र्ध॒न्ति॒ । क्षि॒तयः॑ ॥९

तम् । अर्केभिः । तम् । सामऽभिः । तम् । गायत्रैः । चर्षणयः ।

इन्द्रम् । वर्धन्ति । क्षितयः ॥९

“चर्षणयः द्रष्टारो मन्त्राणां “क्षितयः मनुष्याः "तं इन्द्रम् "अर्केभिः अर्चनसाधनैर्यजूरूपैर्मन्त्रैः "वर्धन्ति वर्धयन्ति । तथोद्गातारः "सामभिः गानविशिष्टैर्मन्त्रैः "तं वर्धयन्ति । तथा "गायत्रैः गायत्र्यादिच्छन्दोयुक्तैः शस्त्ररूपैरप्रगीतैर्मन्त्रैः “तम् एव "इन्द्रं होतारो वर्धयन्ति ।।


प्र॒णे॒तारं॒ वस्यो॒ अच्छा॒ कर्ता॑रं॒ ज्योति॑ः स॒मत्सु॑ ।

सा॒स॒ह्वांसं॑ यु॒धामित्रा॑न् ॥१०

प्र॒ऽने॒तार॑म् । वस्यः॑ । अच्छ॑ । कर्ता॑रम् । ज्योतिः॑ । स॒मत्ऽसु॑ ।

स॒स॒ह्वांस॑म् । यु॒धा । अ॒मित्रा॑न् ॥१०

प्रऽनेतारम् । वस्यः । अच्छ । कर्तारम् । ज्योतिः । समत्ऽसु ।

ससह्वांसम् । युधा । अमित्रान् ॥१०

“वस्यः वसीयः प्रशस्तं वसु धनम् "अच्छ आभिमुख्येन “प्रणेतारं प्रापयितारं "समत्सु संग्रामेषु शत्रुनिरसनेन "ज्योतिः प्रकाशं जयलक्षणं "कर्तारं करणशीलम् । करोतेस्ताच्छीलिकस्तृन् । कुत इत्यत आह । "युधा युद्धेन "अमित्रान् शत्रून् “ससह्वांसम् अभिभूतवन्तम् । एवंगुणकमिन्द्रं वर्धयन्तीति शेषः ।


स न॒ः पप्रि॑ः पारयाति स्व॒स्ति ना॒वा पु॑रुहू॒तः ।

इन्द्रो॒ विश्वा॒ अति॒ द्विष॑ः ॥११

सः । नः॒ । पप्रिः॑ । पा॒र॒या॒ति॒ । स्व॒स्ति । ना॒वा । पु॒रु॒ऽहू॒तः ।

इन्द्रः॑ । विश्वा॑ । अति॑ । द्विषः॑ ॥११

सः । नः । पप्रिः । पारयाति । स्वस्ति । नावा । पुरुऽहूतः ।

इन्द्रः । विश्वा । अति । द्विषः ॥११

“पप्रिः प्राता पूरयिता “पुरुहूतः बहुभिराहूतः "सः "इन्द्रः "विश्वाः सर्वाः "द्विषः द्वेष्ट्रीः प्रजाः "नः अस्मान् "नावा तरणसाधनेन "स्वस्ति क्षेमेण "अति "पारयाति अतिपारयतु ॥


स त्वं न॑ इन्द्र॒ वाजे॑भिर्दश॒स्या च॑ गातु॒या च॑ ।

अच्छा॑ च नः सु॒म्नं ने॑षि ॥१२

सः । त्वम् । नः॒ । इ॒न्द्र॒ । वाजे॑भिः । द॒श॒स्य । च॒ । गा॒तु॒ऽय । च॒ ।

अच्छ॑ । च॒ । नः॒ । सु॒म्नम् । ने॒षि॒ ॥१२

सः । त्वम् । नः । इन्द्र । वाजेभिः । दशस्य । च । गातुऽय । च ।

अच्छ । च । नः । सुम्नम् । नेषि ॥१२

हे “इन्द्र “सः तादृशः "त्वम् "नः अस्मभ्यं "वाजेभिः बलैः "दशस्य "च धनं प्रयच्छ च । दशस्यतिर्दानकर्मा । “गातुय “च मार्गमस्मभ्यमिच्छ च । गातुशब्दात् छन्दसि परेच्छायाम्। इति क्यच् । न च्छन्दस्यपुत्रस्य ' इति दीर्घनिषेधः । तथा “नः अस्मान् "सुम्नं सुखं च "अच्छ “नेषि अभिप्रापय ॥ ॥ २१ ।।

मण्डल ८

सूक्तं ८.१

सूक्तं ८.२

सूक्तं ८.३

सूक्तं ८.४

सूक्तं ८.५

सूक्तं ८.६

सूक्तं ८.७

सूक्तं ८.८

सूक्तं ८.९

सूक्तं ८.१०

सूक्तं ८.११

सूक्तं ८.१२

सूक्तं ८.१३

सूक्तं ८.१४

सूक्तं ८.१५

सूक्तं ८.१६

सूक्तं ८.१७

सूक्तं ८.१८

सूक्तं ८.१९

सूक्तं ८.२०

सूक्तं ८.२१

सूक्तं ८.२२

सूक्तं ८.२३

सूक्तं ८.२४

सूक्तं ८.२५

सूक्तं ८.२६

सूक्तं ८.२७

सूक्तं ८.२८

सूक्तं ८.२९

सूक्तं ८.३०

सूक्तं ८.३१

सूक्तं ८.३२

सूक्तं ८.३३

सूक्तं ८.३४

सूक्तं ८.३५

सूक्तं ८.३६

सूक्तं ८.३७

सूक्तं ८.३८

सूक्तं ८.३९

सूक्तं ८.४०

सूक्तं ८.४१

सूक्तं ८.४२

सूक्तं ८.४३

सूक्तं ८.४४

सूक्तं ८.४५

सूक्तं ८.४६

सूक्तं ८.४७

सूक्तं ८.४८

सूक्तं ८.४९

सूक्तं ८.५०

सूक्तं ८.५१

सूक्तं ८.५२

सूक्तं ८.५३

सूक्तं ८.५४

सूक्तं ८.५५

सूक्तं ८.५६

सूक्तं ८.५७

सूक्तं ८.५८

सूक्तं ८.५९

सूक्तं ८.६०

सूक्तं ८.६१

सूक्तं ८.६२

सूक्तं ८.६३

सूक्तं ८.६४

सूक्तं ८.६५

सूक्तं ८.६६

सूक्तं ८.६७

सूक्तं ८.६८

सूक्तं ८.६९

सूक्तं ८.७०

सूक्तं ८.७१

सूक्तं ८.७२

सूक्तं ८.७३

सूक्तं ८.७४

सूक्तं ८.७५

सूक्तं ८.७६

सूक्तं ८.७७

सूक्तं ८.७८

सूक्तं ८.७९

सूक्तं ८.८०

सूक्तं ८.८१

सूक्तं ८.८२

सूक्तं ८.८३

सूक्तं ८.८४

सूक्तं ८.८५

सूक्तं ८.८६

सूक्तं ८.८७

सूक्तं ८.८८

सूक्तं ८.८९

सूक्तं ८.९०

सूक्तं ८.९१

सूक्तं ८.९२

सूक्तं ८.९३

सूक्तं ८.९४

सूक्तं ८.९५

सूक्तं ८.९६

सूक्तं ८.९७

सूक्तं ८.९८

सूक्तं ८.९९

सूक्तं ८.१००

सूक्तं ८.१०१

सूक्तं ८.१०२

सूक्तं ८.१०३

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_८.१६&oldid=191086" इत्यस्माद् पुनः प्राप्तिः