ऋग्वेदः सूक्तं ८.७०

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं ८.६९ ऋग्वेदः - मण्डल ८
सूक्तं ८.७०
पुरुहन्मा आङ्गिरसः।
सूक्तं ८.७१ →
दे. इन्द्रः । बृहती, १-६ प्रगाथः ( ), १२ शंकुमती, १३ उष्णिक्, १४ अनुष्टुप्, १५ पुरउष्णिक्


यो राजा चर्षणीनां याता रथेभिरध्रिगुः ।
विश्वासां तरुता पृतनानां ज्येष्ठो यो वृत्रहा गृणे ॥१॥
इन्द्रं तं शुम्भ पुरुहन्मन्नवसे यस्य द्विता विधर्तरि ।
हस्ताय वज्रः प्रति धायि दर्शतो महो दिवे न सूर्यः ॥२॥
नकिष्टं कर्मणा नशद्यश्चकार सदावृधम् ।
इन्द्रं न यज्ञैर्विश्वगूर्तमृभ्वसमधृष्टं धृष्ण्वोजसम् ॥३॥
अषाळ्हमुग्रं पृतनासु सासहिं यस्मिन्महीरुरुज्रयः ।
सं धेनवो जायमाने अनोनवुर्द्यावः क्षामो अनोनवुः ॥४॥
यद्द्याव इन्द्र ते शतं शतं भूमीरुत स्युः ।
न त्वा वज्रिन्सहस्रं सूर्या अनु न जातमष्ट रोदसी ॥५॥
आ पप्राथ महिना वृष्ण्या वृषन्विश्वा शविष्ठ शवसा ।
अस्माँ अव मघवन्गोमति व्रजे वज्रिञ्चित्राभिरूतिभिः ॥६॥
न सीमदेव आपदिषं दीर्घायो मर्त्यः ।
एतग्वा चिद्य एतशा युयोजते हरी इन्द्रो युयोजते ॥७॥
तं वो महो महाय्यमिन्द्रं दानाय सक्षणिम् ।
यो गाधेषु य आरणेषु हव्यो वाजेष्वस्ति हव्यः ॥८॥
उदू षु णो वसो महे मृशस्व शूर राधसे ।
उदू षु मह्यै मघवन्मघत्तय उदिन्द्र श्रवसे महे ॥९॥
त्वं न इन्द्र ऋतयुस्त्वानिदो नि तृम्पसि ।
मध्ये वसिष्व तुविनृम्णोर्वोर्नि दासं शिश्नथो हथैः ॥१०॥
अन्यव्रतममानुषमयज्वानमदेवयुम् ।
अव स्वः सखा दुधुवीत पर्वतः सुघ्नाय दस्युं पर्वतः ॥११॥
त्वं न इन्द्रासां हस्ते शविष्ठ दावने ।
धानानां न सं गृभायास्मयुर्द्विः सं गृभायास्मयुः ॥१२॥
सखायः क्रतुमिच्छत कथा राधाम शरस्य ।
उपस्तुतिं भोजः सूरिर्यो अह्रयः ॥१३॥
भूरिभिः समह ऋषिभिर्बर्हिष्मद्भि स्तविष्यसे ।
यदित्थमेकमेकमिच्छर वत्सान्पराददः ॥१४॥
कर्णगृह्या मघवा शौरदेव्यो वत्सं नस्त्रिभ्य आनयत् ।
अजां सूरिर्न धातवे ॥१५॥


सायणभाष्यम्

अष्टमेऽनुवाक एकादश सूक्तानि । तत्र ‘ यो राजा ' इति पञ्चदशर्चं प्रथम सूक्तम् । अत्रानुक्रमणिका-- ' यो राजा पञ्चोना पुरुहन्मा बार्हतं त्रिप्रगाथाद्युष्णिगनुष्टुप्पुरउष्णिगन्तम्' इति । पुरुहन्मा ऋषिः । स च क्वचित् कथंचिदविशेषितम्' (अनु. २, ३) इति परिभाषयाङ्गिरसः । आद्यातृतीयापञ्चम्यो बृहत्यः। द्वितीयाचतुर्थीषष्ठ्यः सतोबृहत्यः । सप्तम्याद्याः षट् बृहत्यः । त्रयोदश्युष्णिक् चतुर्दश्यनुष्टुप् पञ्चदशी पुरउष्णिगाद्यद्वादशका द्व्यष्टका । ' आद्यश्चेत्पुरउष्णिक्' (अनु. ५.२ ) इति हि तल्लक्षणम् । इन्द्रो देवता। महाव्रते निष्केवल्ये बार्हततृचाशीतावादित एकादशर्चः । तथा च पञ्चमारण्यके सूत्रितं -- यो राजा चर्षणीनामित्येकादश' (ऐ. आ. ५. २. ४) इति ॥


यो राजा॑ चर्षणी॒नां याता॒ रथे॑भि॒रध्रि॑गुः ।

विश्वा॑सां तरु॒ता पृत॑नानां॒ ज्येष्ठो॒ यो वृ॑त्र॒हा गृ॒णे ॥१

यः । राजा॑ । च॒र्ष॒णी॒नाम् । याता॑ । रथे॑भिः । अध्रि॑ऽगुः ।

विश्वा॑साम् । त॒रु॒ता । पृत॑नानाम् । ज्येष्ठः॑ । यः । वृ॒त्र॒ऽहा । गृ॒णे ॥१

यः । राजा । चर्षणीनाम् । याता । रथेभिः । अध्रिऽगुः ।

विश्वासाम् । तरुता । पृतनानाम् । ज्येष्ठः । यः । वृत्रऽहा । गृणे ॥१

"यः इन्द्रः "चर्षणीनां मनुष्याणां "राजा स्वामी रथैः “याता गन्ता च “अध्रिगुः अधृतगमनोऽन्यैः "विश्वासां "पृतनानां सेनानां “तरुता तारकः । "यः च “ज्येष्ठः गुणैर्ज्यायान् । यश्च "वृत्रहा वृत्रं हतवान् । तं महाभागमिन्द्रं "गृणे स्तौमि ॥


इन्द्रं॒ तं शु॑म्भ पुरुहन्म॒न्नव॑से॒ यस्य॑ द्वि॒ता वि॑ध॒र्तरि॑ ।

हस्ता॑य॒ वज्र॒ः प्रति॑ धायि दर्श॒तो म॒हो दि॒वे न सूर्य॑ः ॥२

इन्द्र॑म् । तम् । शु॒म्भ॒ । पु॒रु॒ऽह॒न्म॒न् । अव॑से । यस्य॑ । द्वि॒ता । वि॒ऽध॒र्तरि॑ ।

हस्ता॑य । वज्रः॑ । प्रति॑ । धा॒यि॒ । द॒र्श॒तः । म॒हः । दि॒वे । न । सूर्यः॑ ॥२

इन्द्रम् । तम् । शुम्भ । पुरुऽहन्मन् । अवसे । यस्य । द्विता । विऽधर्तरि ।

हस्ताय । वज्रः । प्रति । धायि । दर्शतः । महः । दिवे । न । सूर्यः ॥२

हे “पुरुहन्मन् ऋषे त्वं “तम् "इन्द्रं "शुम्भ हविष्प्रदानादिनालंकुरु । किमर्थम् । “अवसे रक्षणाय । एवमात्मानं संबोध्य ब्रवीति । "यस्य तव "विधर्तरि विधारक इन्द्रे “द्विता द्वित्वमस्त्यौग्य्“मनौग्र्यम् । तव शत्रून् हन्तुमुग्रत्वं त्वदनुग्रहायानौग्र्यं चेति द्वैतमस्ति । तत्रौग्र्यचिह्नं दर्शयति । "हस्ताय कराय हननाय शत्रूणां "दर्शतः दर्शनीयः “महः महान् “वज्रः “प्रति “धायि प्रतिनिहितो भवति “दिवे प्रकाशाय दिवसाय वा अथवा दिवि दृश्यमानः "सूर्यः इव ॥


तस्मिन्नेव शस्त्रे ‘नकिष्टम्' इति प्रगाथो वैकल्पिकः स्तोत्रियः । सूत्रितं च - ‘ नकिष्टं कर्मणा नशन्न त्वा बृहन्तो अद्रयः' (आश्व. श्रौ. ७. ४) इति ॥

नकि॒ष्टं कर्म॑णा नश॒द्यश्च॒कार॑ स॒दावृ॑धम् ।

इन्द्रं॒ न य॒ज्ञैर्वि॒श्वगू॑र्त॒मृभ्व॑स॒मधृ॑ष्टं धृ॒ष्ण्वो॑जसम् ॥३

नकिः॑ । तम् । कर्म॑णा । न॒श॒त् । यः । च॒कार॑ । स॒दाऽवृ॑धम् ।

इन्द्र॑म् । न । य॒ज्ञैः । वि॒श्वऽगू॑र्तम् । ऋभ्व॑सम् । अधृ॑ष्टम् । धृ॒ष्णुऽओ॑जसम् ॥३

नकिः । तम् । कर्मणा । नशत् । यः । चकार । सदाऽवृधम् ।

इन्द्रम् । न । यज्ञैः । विश्वऽगूर्तम् । ऋभ्वसम् । अधृष्टम् । धृष्णुऽओजसम् ॥३

“तं जनमन्यो मर्षको जनः "कर्मणा हननादिव्यापारेण "नकिः "नशत् नैव व्याप्नोति । “यः “इन्द्रं "चकार इन्द्रमेवानुकूलं "यज्ञैः साधनैः । कीदृशमिन्द्रम् । "सदावृधं सदा वर्धकं "विश्वगूर्त सर्वैः स्तुत्यम् "ऋभ्वसं महान्तम् "अधृष्टम् अन्यैः “धृष्ण्वोजसं धर्षकबलम् ॥


अषा॑ळ्हमु॒ग्रं पृत॑नासु सास॒हिं यस्मि॑न्म॒हीरु॑रु॒ज्रय॑ः ।

सं धे॒नवो॒ जाय॑माने अनोनवु॒र्द्याव॒ः क्षामो॑ अनोनवुः ॥४

अषा॑ळ्हम् । उ॒ग्रम् । पृत॑नासु । स॒स॒हिम् । यस्मि॑न् । म॒हीः । उ॒रु॒ऽज्रयः॑ ।

सम् । धे॒नवः॑ । जाय॑माने । अ॒नो॒न॒वुः॒ । द्यावः॑ । क्षामः॑ । अ॒नो॒न॒वुः॒ ॥४

अषाळ्हम् । उग्रम् । पृतनासु । ससहिम् । यस्मिन् । महीः । उरुऽज्रयः ।

सम् । धेनवः । जायमाने । अनोनवुः । द्यावः । क्षामः । अनोनवुः ॥४

"अषाळ्हम् असोढम् “उग्रम् उद्गूर्णबलं "पृतनासु शत्रुसेनासु "सासहिम् अभिभवितारं स्तौमीत्यर्थः । "यस्मिन् इन्द्रे “जायमाने “महीः महत्यः “उरुज्रयः बहुवेगाः “धेनवः हविरादिना प्रीणयित्र्यः प्रजा गाव एव वा "सम् "अनोनवुः समस्तुवन् । न केवलं धेनव एव अपि तु "द्यावः द्युलोकाः “क्षामः पृथिव्यश्च सम् "अनोनवुः । तत्रत्याः सर्वे प्राणिनो नमन्त इत्यर्थः। ‘ त्रिवृतो लोकाः (ऐ. ब्रा. २. १७) इति श्रुतेर्बहुवचनम् ॥


तृतीयेऽहनि निष्केवल्ये वैरूपसामपक्षे ‘यद्द्यावः' इति प्रगाथः स्तोत्रियः । सूत्रितं च -- ‘यद्याव इन्द्र ते शतं यदिन्द्र यावतस्त्वमिति प्रगाथौ स्तोत्रियानुरूपौ' (आश्व. श्रौ. ७. १०) इति ॥

यद्द्याव॑ इन्द्र ते श॒तं श॒तं भूमी॑रु॒त स्युः ।

न त्वा॑ वज्रिन्स॒हस्रं॒ सूर्या॒ अनु॒ न जा॒तम॑ष्ट॒ रोद॑सी ॥५

यत् । द्यावः॑ । इ॒न्द्र॒ । ते॒ । श॒तम् । श॒तम् । भूमीः॑ । उ॒त । स्युरिति॒ स्युः ।

न । त्वा॒ । व॒ज्रि॒न् । स॒हस्र॑म् । सूर्याः॑ । अनु॑ । न । जा॒तम् । अ॒ष्ट॒ । रोद॑सी॒ इति॑ ॥५

यत् । द्यावः । इन्द्र । ते । शतम् । शतम् । भूमीः । उत । स्युरिति स्युः ।

न । त्वा । वज्रिन् । सहस्रम् । सूर्याः । अनु । न । जातम् । अष्ट । रोदसी इति ॥५

हे “इन्द्र "ते तव प्रतिमानार्थं "यत् यदि "द्यावः द्युलोकाः "स्युः तथापि नाश्नुवन्ति । “उत अपि च "भूमीः भूम्यस्ते तव मूर्तिप्रतिबिम्बाय “शतं स्युः तथापि नाश्नुवन्ति । हे "वज्रिन् “त्वा त्वां "सहस्रं सूर्याः अगणिता अपि सूर्याः “न “अनु भवन्ति । न प्रकाशयन्तीत्यर्थः। ‘न तत्र सूर्यो भाति' ( क. उ. ५. १५) इति श्रुतेः । किं बहुना । "जातं पूर्वमुत्पन्नं किंचन “न “अष्ट नाश्नुते । तथा "रोदसी द्यावापृथिव्यौ नाश्नुवाते । सर्वेभ्योऽतिरिच्यस इत्यर्थः। ‘ज्यायान्पृथिव्या ज्यायानन्तरिक्षाज्ज्यायान्दिवो ज्यायानेभ्यो लोकेभ्यः' (छा. उ. ३. १४. ३) इति श्रुतेः ॥ ॥ ८ ॥


आ प॑प्राथ महि॒ना वृष्ण्या॑ वृष॒न्विश्वा॑ शविष्ठ॒ शव॑सा ।

अ॒स्माँ अ॑व मघव॒न्गोम॑ति व्र॒जे वज्रि॑ञ्चि॒त्राभि॑रू॒तिभि॑ः ॥६

आ । प॒प्रा॒थ॒ । म॒हि॒ना । वृष्ण्या॑ । वृ॒ष॒न् । विश्वा॑ । श॒वि॒ष्ठ॒ । शव॑सा ।

अ॒स्मान् । अ॒व॒ । म॒घ॒ऽव॒न् । गोऽम॑ति । व्र॒जे । वज्रि॑न् । चि॒त्राभिः॑ । ऊ॒तिऽभिः॑ ॥६

आ । पप्राथ । महिना । वृष्ण्या । वृषन् । विश्वा । शविष्ठ । शवसा ।

अस्मान् । अव । मघऽवन् । गोऽमति । व्रजे । वज्रिन् । चित्राभिः । ऊतिऽभिः ॥६

हे "वृषन् अभिमतवर्षकेन्द्र त्वम् "आ "पप्राथ आपूरयसि व्याप्नोषि । कानि। "विश्वा सर्वाणि "वृष्ण्या वर्षकाणि बलानि शत्रुसंबन्धीनि । केन साधनेन । "महिना महता “शवसा बलेन स्वीयेन । अथवा वृष्ण्येत्येतच्छवोविशेषणम्। तथा सति अभिमतवर्षकेण महता बलेनास्मदीयानि बलानि पूरयसीत्यर्थः । अथ तथा कृत्वा “अस्मान् "गोमति बहुभिर्गोभिर्युक्ते “व्रजे शत्रुसंबन्धिनि निमित्ते सत्यस्मान् "अव हे वज्रिन् वज्रयुक्तेन्द्र। कैः साधनैः। "चित्राभिः नानाविधैः “ऊतिभिः रक्षणैरिति ॥


न सी॒मदे॑व आप॒दिषं॑ दीर्घायो॒ मर्त्य॑ः ।

एत॑ग्वा चि॒द्य एत॑शा यु॒योज॑ते॒ हरी॒ इन्द्रो॑ यु॒योज॑ते ॥७

न । सी॒म् । अदे॑वः । आ॒प॒त् । इष॑म् । दी॒र्घा॒यो॒ इति॑ दीर्घऽआयो । मर्त्यः॑ ।

एत॑ऽग्वा । चि॒त् । यः । एत॑शा । यु॒योज॑ते । हरी॒ इति॑ । इन्द्रः॑ । यु॒योज॑ते ॥७

न । सीम् । अदेवः । आपत् । इषम् । दीर्घायो इति दीर्घऽआयो । मर्त्यः ।

एतऽग्वा । चित् । यः । एतशा । युयोजते । हरी इति । इन्द्रः । युयोजते ॥७

हे "दीर्घायो नित्येन्द्र सः "अदेवः इन्द्राख्यदेवरहितः “मर्त्यः मरणधर्मा मनुष्यः "सीं सर्वम् "इषम् अन्नं "न “आपत् न प्राप्नोति । "यः मर्त्योऽस्येन्द्रस्य “एतग्वा “चित् । एतवर्णावेवाश्वौ भवतोऽभिमतदेशगमनाय । "एतशा एतशावश्वौ "युयोजते योजयति रथे यज्ञं गन्तुम् । यश्च “इन्द्रः "हरी "युयोजते तं न यः स्तौति । स न प्राप्नोतीति समन्वयः ॥


तं वो॑ म॒हो म॒हाय्य॒मिन्द्रं॑ दा॒नाय॑ स॒क्षणि॑म् ।

यो गा॒धेषु॒ य आर॑णेषु॒ हव्यो॒ वाजे॒ष्वस्ति॒ हव्य॑ः ॥८

तम् । वः॒ । म॒हः । म॒हाय्य॑म् । इन्द्र॑म् । दा॒नाय॑ । स॒क्षणि॑म् ।

यः । गा॒धेषु॑ । यः । आ॒ऽअर॑णेषु । हव्यः॑ । वाजे॑षु । अस्ति॑ । हव्यः॑ ॥८

तम् । वः । महः । महाय्यम् । इन्द्रम् । दानाय । सक्षणिम् ।

यः । गाधेषु । यः । आऽअरणेषु । हव्यः । वाजेषु । अस्ति । हव्यः ॥८

हे ऋत्विजः "महः महान्तः "वः यूयं "तं "महाय्यं पूज्यम् "इन्द्र "दानाय “सक्षणिं सचमानं परिचरतेति शेषः । "यः इन्द्रः “गाधेषु उदकेषु “हव्यः "अस्ति आह्वातव्यो भवति । “यः च "आरणेषु गन्तव्येषु निम्नेषूदकेषु स्थलेषु वा हव्योऽस्ति । तथा “वाजेषु संग्रामेषु जयाय "हव्यः ह्वातव्योऽस्ति भवति ॥


उदू॒ षु णो॑ वसो म॒हे मृ॒शस्व॑ शूर॒ राध॑से ।

उदू॒ षु म॒ह्यै म॑घवन्म॒घत्त॑य॒ उदि॑न्द्र॒ श्रव॑से म॒हे ॥९

उत् । ऊं॒ इति॑ । सु । नः॒ । व॒सो॒ इति॑ । म॒हे । मृ॒शस्व॑ । शू॒र॒ । राध॑से ।

उत् । ऊं॒ इति॑ । सु । म॒ह्यै । म॒घ॒ऽव॒न् । म॒घत्त॑ये । उत् । इ॒न्द्र॒ । श्रव॑से । म॒हे ॥९

उत् । ऊं इति । सु । नः । वसो इति । महे । मृशस्व । शूर । राधसे ।

उत् । ऊं इति । सु । मह्यै । मघऽवन् । मघत्तये । उत् । इन्द्र । श्रवसे । महे ॥९

हे "वसो वासयितः “शूर इन्द्र त्वं "नः अस्मान् "सु सुष्ठु "उदु "मृशस्व उन्मृशस्वैव । उत्थापय । किमर्थम्। "महे महते "राधसे अन्नाय । तथा हे शूर "मघवन् इन्द्र “उत् मृशस्व "मह्यै महते मघत्तये धनदानाय । तथा “उत् मृशस्व “इन्द्र "महे महत्यै “श्रवसे कीर्त्यै ॥


त्वं न॑ इन्द्र ऋत॒युस्त्वा॒निदो॒ नि तृ॑म्पसि ।

मध्ये॑ वसिष्व तुविनृम्णो॒र्वोर्नि दा॒सं शि॑श्नथो॒ हथै॑ः ॥१०

त्वम् । नः॒ । इ॒न्द्र॒ । ऋ॒त॒ऽयुः । त्वा॒ऽनिदः॑ । नि । तृ॒म्प॒सि॒ ।

मध्ये॑ । व॒सि॒ष्व॒ । तु॒वि॒ऽनृ॒म्ण॒ । ऊ॒र्वोः । नि । दा॒सम् । शि॒श्न॒थः॒ । हथैः॑ ॥१०

त्वम् । नः । इन्द्र । ऋतऽयुः । त्वाऽनिदः । नि । तृम्पसि ।

मध्ये । वसिष्व । तुविऽनृम्ण । ऊर्वोः । नि । दासम् । शिश्नथः । हथैः ॥१०

हे “इन्द्र “ऋतयुः यज्ञकामः “त्वं “नः अस्मान् “त्वानिदः । त्वां यो निन्दति सः । अयजनमेव निन्दा तव । तस्मादयष्टुः सकाशात् "नि नितरां “तृम्पसि प्रीणयसि । तस्य धनमपहृत्येति भावः । एवं संतर्प्य हे "तुविनृम्ण प्रभूतधन स त्वं तव “ऊर्वोः “मध्ये अस्मान् "वसिष्व । ऊरुभ्यामाच्छादय रक्षार्थम् । “दासम् उपक्षपयितारमस्मद्द्वेषिणं पापं वा “हथैः हननैः “नि "शिश्नथः मारयसि । अथवा त्वद्विरोधिनं दासमसुरं नि शिश्नथो हननैः ॥ ॥ ९ ॥


अ॒न्यव्र॑त॒ममा॑नुष॒मय॑ज्वान॒मदे॑वयुम् ।

अव॒ स्वः सखा॑ दुधुवीत॒ पर्व॑तः सु॒घ्नाय॒ दस्युं॒ पर्व॑तः ॥११

अ॒न्यऽव्र॑तम् । अमा॑नुषम् । अय॑ज्वानम् । अदे॑वऽयुम् ।

अव॑ । स्वः । सखा॑ । दु॒धु॒वी॒त॒ । पर्व॑तः । सु॒ऽघ्नाय॑ । दस्यु॑म् । पर्व॑तः ॥११

अन्यऽव्रतम् । अमानुषम् । अयज्वानम् । अदेवऽयुम् ।

अव । स्वः । सखा । दुधुवीत । पर्वतः । सुऽघ्नाय । दस्युम् । पर्वतः ॥११

हे इन्द्र अन्यव्रतं व्यतिरिक्तकर्माणम् अत एव "अमानुषं मानुषाणामिन्द्रयाजिनामप्रियम् “अयज्वानम् अयष्टारम् "अदेवयुम् अदेवकर्मिणं पापिनं "स्वः स्वर्गात् "अव "दुधुवीत । अवचालयेदित्यर्थः । कः । “सखा “पर्वतः तव सखिभूतः पर्वत ऋषिः । यद्यप्यन्यं देवमिष्ट्वा स्वर्गं प्राप्नोति सः तथापि पातयति ऋषिः । न केवलं धूननमात्रमपि तु "सुघ्नाय सुष्ठु हन्त्रे मृत्यवे "दस्युम् उक्तलक्षणं "पर्वतः प्रेरयतीति शेषः । अत इन्द्रमेवावश्यं यजध्वमिति शेषः ॥


त्वं न॑ इन्द्रासां॒ हस्ते॑ शविष्ठ दा॒वने॑ ।

धा॒नानां॒ न सं गृ॑भायास्म॒युर्द्विः सं गृ॑भायास्म॒युः ॥१२

त्वम् । नः॒ । इ॒न्द्र॒ । आ॒सा॒म् । हस्ते॑ । श॒वि॒ष्ठ॒ । दा॒वने॑ ।

धा॒नाना॑म् । न । सम् । गृ॒भा॒य॒ । अ॒स्म॒ऽयुः । द्विः । सम् । गृ॒भा॒य॒ । अ॒स्म॒ऽयुः ॥१२

त्वम् । नः । इन्द्र । आसाम् । हस्ते । शविष्ठ । दावने ।

धानानाम् । न । सम् । गृभाय । अस्मऽयुः । द्विः । सम् । गृभाय । अस्मऽयुः ॥१२

हे "शविष्ठ बलवन् "इन्द्र “त्वं नः अस्मभ्यं "दावने प्रदानाय “आसां गवाम् । कर्मणि षष्ठी । एता गाः “हस्ते "गृभाय गृहाण । ग्रहणे दृष्टान्तः । “धानानां "न । धाना भृष्टयवाः । अत्रापि कर्मणि षष्ठी । धाना यथा संगृह्णाति तद्वद्गृहाण । कीदृशस्त्वम् । "अस्मयुः अस्मान् कामयमानः । गृहीत्वा च "अस्मयुः सन् "द्विः "सं "गृभाय । पुनर्द्विवारं संगृहाण ।।


सखा॑य॒ः क्रतु॑मिच्छत क॒था रा॑धाम श॒रस्य॑ ।

उप॑स्तुतिं भो॒जः सू॒रिर्यो अह्र॑यः ॥१३

सखा॑यः । क्रतु॑म् । इ॒च्छ॒त॒ । क॒था । रा॒धा॒म॒ । श॒रस्य॑ ।

उप॑ऽस्तुतिम् । भो॒जः । सू॒रिः । यः । अह्र॑यः ॥१३

सखायः । क्रतुम् । इच्छत । कथा । राधाम । शरस्य ।

उपऽस्तुतिम् । भोजः । सूरिः । यः । अह्रयः ॥१३

हे "सखायः ऋत्विजोऽध्वर्य्वादयः "क्रतुं कर्म इन्द्रसंबन्धिनम् "इच्छत कर्तुम् । हे सखायः “शरस्य । ‘शॄ हिंसायाम्' । हिंसकस्येन्द्रस्य "कथा कथं "राधाम साधयाम । किम् । उपस्तुतिं स्तोत्रम् । "यः इन्द्रः “भोजः शत्रूणां भोजयिता "सूरिः प्रेरकः "अह्रयः अनवनतः शत्रूणामिति ॥


भूरि॑भिः समह॒ ऋषि॑भिर्ब॒र्हिष्म॑द्भिः स्तविष्यसे ।

यदि॒त्थमेक॑मेक॒मिच्छर॑ व॒त्सान्प॑रा॒दद॑ः ॥१४

भूरि॑ऽभिः । स॒म॒ह॒ । ऋषि॑ऽभिः । ब॒र्हिष्म॑त्ऽभिः । स्त॒वि॒ष्य॒से॒ ।

यत् । इ॒त्थम् । एक॑म्ऽएकम् । इत् । शर॑ । व॒त्सान् । प॒रा॒ऽददः॑ ॥१४

भूरिऽभिः । समह । ऋषिऽभिः । बर्हिष्मत्ऽभिः । स्तविष्यसे ।

यत् । इत्थम् । एकम्ऽएकम् । इत् । शर । वत्सान् । पराऽददः ॥१४

हे इन्द्र "समह समानपूज। सर्वैः पूज्येत्यर्थः। "भूरिभिः बहुभिः “ऋषिभिः अतीन्द्रियज्ञैर्ऋत्विग्भिः "बर्हिष्मद्भिः यागवद्भिः “स्तविष्यसे स्तूयसे। "यत् य इन्द्रः "इत्थमेकमेकमित् एकमेकमेव वत्समित्येवं बहून् "वत्सान् स्तोतृभ्यः "पराददः प्रयच्छसि। हे "शर हिंसक शत्रोः । अत्र वत्सशब्दो वत्समातॄणां गवामुपलक्षकः । गाः प्रयच्छसीति ॥


क॒र्ण॒गृह्या॑ म॒घवा॑ शौरदे॒व्यो व॒त्सं न॑स्त्रि॒भ्य आन॑यत् ।

अ॒जां सू॒रिर्न धात॑वे ॥१५

क॒र्ण॒ऽगृह्य॑ । म॒घऽवा॑ । शौ॒र॒ऽदे॒व्यः । व॒त्सम् । नः॒ । त्रि॒ऽभ्यः । आ । अ॒न॒य॒त् ।

अ॒जाम् । सू॒रिः । न । धात॑वे ॥१५

कर्णऽगृह्य । मघऽवा । शौरऽदेव्यः । वत्सम् । नः । त्रिऽभ्यः । आ । अनयत् ।

अजाम् । सूरिः । न । धातवे ॥१५

अयं "मघवा इन्द्रः "त्रिभ्यः हिंसकेभ्यः सकाशात् "शौरदेव्यः । दीव्यन्ति क्रीडन्त इति देवा योद्धारः। शूराश्च ते देवाश्च शूरदेवाः । तेषां हितं शौरदेवं युद्धम्। तत्संबन्धिन्यो गाः। युद्धे शत्रून् हत्वा तत्संबन्धिन्य इत्यर्थः । ताः “वत्सं "न । नेति चार्थे। वत्ससहिता अस्मभ्यं "कर्णगृह्य कर्णे गृहीत्वा “आनयत् आनयतु । "सूरिर्न प्रेरकः स्वामीव “धातवे पानाय "अजां यथा स आनयति कर्णे गृहीत्वा तद्वदिति ॥ ॥ १० ॥

मण्डल ८

सूक्तं ८.१

सूक्तं ८.२

सूक्तं ८.३

सूक्तं ८.४

सूक्तं ८.५

सूक्तं ८.६

सूक्तं ८.७

सूक्तं ८.८

सूक्तं ८.९

सूक्तं ८.१०

सूक्तं ८.११

सूक्तं ८.१२

सूक्तं ८.१३

सूक्तं ८.१४

सूक्तं ८.१५

सूक्तं ८.१६

सूक्तं ८.१७

सूक्तं ८.१८

सूक्तं ८.१९

सूक्तं ८.२०

सूक्तं ८.२१

सूक्तं ८.२२

सूक्तं ८.२३

सूक्तं ८.२४

सूक्तं ८.२५

सूक्तं ८.२६

सूक्तं ८.२७

सूक्तं ८.२८

सूक्तं ८.२९

सूक्तं ८.३०

सूक्तं ८.३१

सूक्तं ८.३२

सूक्तं ८.३३

सूक्तं ८.३४

सूक्तं ८.३५

सूक्तं ८.३६

सूक्तं ८.३७

सूक्तं ८.३८

सूक्तं ८.३९

सूक्तं ८.४०

सूक्तं ८.४१

सूक्तं ८.४२

सूक्तं ८.४३

सूक्तं ८.४४

सूक्तं ८.४५

सूक्तं ८.४६

सूक्तं ८.४७

सूक्तं ८.४८

सूक्तं ८.४९

सूक्तं ८.५०

सूक्तं ८.५१

सूक्तं ८.५२

सूक्तं ८.५३

सूक्तं ८.५४

सूक्तं ८.५५

सूक्तं ८.५६

सूक्तं ८.५७

सूक्तं ८.५८

सूक्तं ८.५९

सूक्तं ८.६०

सूक्तं ८.६१

सूक्तं ८.६२

सूक्तं ८.६३

सूक्तं ८.६४

सूक्तं ८.६५

सूक्तं ८.६६

सूक्तं ८.६७

सूक्तं ८.६८

सूक्तं ८.६९

सूक्तं ८.७०

सूक्तं ८.७१

सूक्तं ८.७२

सूक्तं ८.७३

सूक्तं ८.७४

सूक्तं ८.७५

सूक्तं ८.७६

सूक्तं ८.७७

सूक्तं ८.७८

सूक्तं ८.७९

सूक्तं ८.८०

सूक्तं ८.८१

सूक्तं ८.८२

सूक्तं ८.८३

सूक्तं ८.८४

सूक्तं ८.८५

सूक्तं ८.८६

सूक्तं ८.८७

सूक्तं ८.८८

सूक्तं ८.८९

सूक्तं ८.९०

सूक्तं ८.९१

सूक्तं ८.९२

सूक्तं ८.९३

सूक्तं ८.९४

सूक्तं ८.९५

सूक्तं ८.९६

सूक्तं ८.९७

सूक्तं ८.९८

सूक्तं ८.९९

सूक्तं ८.१००

सूक्तं ८.१०१

सूक्तं ८.१०२

सूक्तं ८.१०३

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_८.७०&oldid=192772" इत्यस्माद् पुनः प्राप्तिः