ऋग्वेदः सूक्तं ८.७४

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं ८.७३ ऋग्वेदः - मण्डल ८
सूक्तं ८.७४
गोपवन आत्रेयः।
सूक्तं ८.७५ →
दे. अग्निः, १३-१५ आर्क्षः श्रुतर्वा। १-१२ अनुष्टुम्मुख प्रगाथः - ( अनुष्टुप् + गायत्र्यौ), १३-१५ अनुष्टुप् ।



विशोविशो वो अतिथिं वाजयन्तः पुरुप्रियम् ।
अग्निं वो दुर्यं वच स्तुषे शूषस्य मन्मभिः ॥१॥
यं जनासो हविष्मन्तो मित्रं न सर्पिरासुतिम् ।
प्रशंसन्ति प्रशस्तिभिः ॥२॥
पन्यांसं जातवेदसं यो देवतात्युद्यता ।
हव्यान्यैरयद्दिवि ॥३॥
आगन्म वृत्रहन्तमं ज्येष्ठमग्निमानवम् ।
यस्य श्रुतर्वा बृहन्नार्क्षो अनीक एधते ॥४॥
अमृतं जातवेदसं तिरस्तमांसि दर्शतम् ।
घृताहवनमीड्यम् ॥५॥
सबाधो यं जना इमेऽग्निं हव्येभिरीळते ।
जुह्वानासो यतस्रुचः ॥६॥
इयं ते नव्यसी मतिरग्ने अधाय्यस्मदा ।
मन्द्र सुजात सुक्रतोऽमूर दस्मातिथे ॥७॥
सा ते अग्ने शंतमा चनिष्ठा भवतु प्रिया ।
तया वर्धस्व सुष्टुतः ॥८॥
सा द्युम्नैर्द्युम्निनी बृहदुपोप श्रवसि श्रवः ।
दधीत वृत्रतूर्ये ॥९॥
अश्वमिद्गां रथप्रां त्वेषमिन्द्रं न सत्पतिम् ।
यस्य श्रवांसि तूर्वथ पन्यम्पन्यं च कृष्टयः ॥१०॥
यं त्वा गोपवनो गिरा चनिष्ठदग्ने अङ्गिरः ।
स पावक श्रुधी हवम् ॥११॥
यं त्वा जनास ईळते सबाधो वाजसातये ।
स बोधि वृत्रतूर्ये ॥१२॥
अहं हुवान आर्क्षे श्रुतर्वणि मदच्युति ।
शर्धांसीव स्तुकाविनां मृक्षा शीर्षा चतुर्णाम् ॥१३॥
मां चत्वार आशवः शविष्ठस्य द्रवित्नवः ।
सुरथासो अभि प्रयो वक्षन्वयो न तुग्र्यम् ॥१४॥
सत्यमित्त्वा महेनदि परुष्ण्यव देदिशम् ।
नेमापो अश्वदातरः शविष्ठादस्ति मर्त्यः ॥१५॥


सायणभाष्यम्

‘विशोविशो वः' इति पञ्चदशर्चं पञ्चमं सूक्तम् । अत्रेयमनुक्रमणिका -–• विशोविशो वः पञ्चोनाग्नेयं त्वनुष्टुम्मुखास्तृचाश्चत्वारोऽन्त्यास्तिस्रोऽनुष्टुभ आर्क्षस्य श्रुतर्वणो दानस्तुतिः' इति । अनुवृत्तेर्गोपवन ऋषिः । आदितस्त्रिषु तृचेषु सर्वाः प्रथमा अनुष्टुभो द्वितीयातृतीये प्राग्वत्सप्रपरिभाषया गायत्र्यौ त्रयोदश्याद्यास्तिस्रोऽनुष्टुभः । अस्योत्तरस्य चाग्निर्देवता । अन्त्यास्तिस्रः श्रुतर्वनाम्नो राज्ञो दानस्तुतिः । व्योमविश्वदेवस्तुत्पञ्चशारदीयेष्विदं सूक्तमाज्यशस्त्रम् । सूत्रितं च-’ विशोविशो वो अतिथिमित्याज्यम्' (आश्व. श्रौ. ९. ८) इति ॥


वि॒शोवि॑शो वो॒ अति॑थिं वाज॒यंतः॑ पुरुप्रि॒यं ।

अ॒ग्निं वो॒ दुर्यं॒ वचः॑ स्तु॒षे शू॒षस्य॒ मन्म॑भिः ॥१

वि॒शःऽवि॑शः । वः॒ । अति॑थिम् । वा॒ज॒ऽयन्तः॑ । पु॒रु॒ऽप्रि॒यम् ।

अ॒ग्निम् । वः॒ । दुर्य॑म् । वचः॑ । स्तु॒षे । शू॒षस्य॑ । मन्म॑ऽभिः ॥१

विशःऽविशः । वः । अतिथिम् । वाजऽयन्तः । पुरुऽप्रियम् ।

अग्निम् । वः । दुर्यम् । वचः । स्तुषे । शूषस्य । मन्मऽभिः ॥१

हे अन्य ऋत्विजो यजमानाश्च “वः यूयं “वाजयन्तः अन्नमिच्छन्तः “विशोविशः सर्वस्याः प्रजायाः “अतिथिं पूज्यं “पुरुप्रियं बहुप्रियम् “अग्निं स्तुत्या परिचरतेति शेषः । अहं च “वः युष्मदर्थं “दुर्यं गुहा हितं “वचः “स्तुषे “शूषस्य सुखस्य लाभाय । कैः साधनैः । “मन्मभिः मननीयैः स्तोत्रैः ।।


यं जना॑सो ह॒विष्मं॑तो मि॒त्रं न स॒र्पिरा॑सुतिं ।

प्र॒शंसं॑ति॒ प्रश॑स्तिभिः ॥२

यम् । जना॑सः । ह॒विष्म॑न्तः । मि॒त्रम् । न । स॒र्पिःऽआ॑सुतिम् ।

प्र॒ऽशंस॑न्ति । प्रश॑स्तिऽभिः ॥२

यम् । जनासः । हविष्मन्तः । मित्रम् । न । सर्पिःऽआसुतिम् ।

प्रऽशंसन्ति । प्रशस्तिऽभिः ॥२

“यम् अग्निं “जनासः जना यजमानाः “हविष्मन्तः सन्तः “मित्रं “न मित्रमिवादित्यमिव सखायमिव वा सर्पिरासुतिं सर्पिरासूयते हूयते यस्मिंस्तादृशं “प्रशंसन्ति स्तुवन्ति “प्रशस्तिभिः स्तुतिभिः स्तुव इति शेषः ॥


पन्यां॑सं जा॒तवे॑दसं॒ यो दे॒वता॒त्युद्य॑ता ।

ह॒व्यान्यैर॑यद्दि॒वि ॥३

पन्यां॑सम् । जा॒तऽवे॑दसम् । यः । दे॒वऽता॑ति । उत्ऽय॑ता ।

ह॒व्यानि॑ । ऐर॑यत् । दि॒वि ॥३

पन्यांसम् । जातऽवेदसम् । यः । देवऽताति । उत्ऽयता ।

हव्यानि । ऐरयत् । दिवि ॥३

“पन्यांसम् अतिशयेन स्तोतारं साधु कृतमिति यजमानं स्तुवन्तं “जातवेदसं जातधनं जातविद्यं वा स्तुव इति शेषः । “यः अग्निः “देवताति देवतातौ यज्ञे “उद्यता उद्यतानि “हव्यानि हवींषि “दिवि “ऐरयत् प्रेरयति दिवि देवेभ्यः ॥


आग॑न्म वृत्र॒हंत॑मं॒ ज्येष्ठ॑म॒ग्निमान॑वं ।

यस्य॑ श्रु॒तर्वा॑ बृ॒हन्ना॒र्क्षो अनी॑क॒ एध॑ते ॥४

आ । अ॒ग॒न्म॒ । वृ॒त्र॒हन्ऽत॑मम् । ज्येष्ठ॑म् । अ॒ग्निम् । आन॑वम् ।

यस्य॑ । श्रु॒तर्वा॑ । बृ॒हन् । आ॒र्क्षः । अनी॑के । एध॑ते ॥४

आ । अगन्म । वृत्रहन्ऽतमम् । ज्येष्ठम् । अग्निम् । आनवम् ।

यस्य । श्रुतर्वा । बृहन् । आर्क्षः । अनीके । एधते ॥४

“वृत्रहन्तमं पापानामतिशयेन हन्तारं “ज्येष्ठं प्रशस्यम् “आनवं मनुष्यसंबन्धिनं तेषां हितकारिणम् “अग्निम् “आगन्म आगता वयम् । पूजार्थं बहुवचनम् । “यस्य अग्नेः “अनीके ज्वालासंघे “बृहन् महान् “आर्क्षः ऋक्षपुत्रः “श्रुतर्वा नाम राजा “एधते वर्धते । कर्म करोतीत्यर्थः । तमग्निमागन्मेति समन्वयः । एवं श्रुतर्वाणं भिक्षयागतो गोपवनोऽग्निं स्तौति ॥


अ॒मृतं॑ जा॒तवे॑दसं ति॒रस्तमां॑सि दर्श॒तं ।

घृ॒ताह॑वन॒मीड्यं॑ ॥५

अ॒मृत॑म् । जा॒तऽवे॑दसम् । ति॒रः । तमां॑सि । द॒र्श॒तम् ।

घृ॒तऽआ॑हवनम् । ईड्य॑म् ॥५

अमृतम् । जातऽवेदसम् । तिरः । तमांसि । दर्शतम् ।

घृतऽआहवनम् । ईड्यम् ॥५

स एवागत्य स्तौति । “अमृतम् अमरणं “जातवेदसं जाततेजआद्युपलक्षणधनं “तमांसि “तिरः “दर्शतं नाशयन्तमित्यर्थः। “घृताहवनम् । घृतमाहूयते यत्र तम् । “ईड्यं स्तुत्यम्। ईदृशमागन्मेति संबन्धः ॥ ॥ २१ ॥


स॒बाधो॒ यं जना॑ इ॒मे॒३॒॑ऽग्निं ह॒व्येभि॒रीळ॑ते ।

जुह्वा॑नासो य॒तस्रु॑चः ॥६

स॒ऽबाधः॑ । यम् । जनाः॑ । इ॒मे । अ॒ग्निम् । ह॒व्येभिः॑ । ईळ॑ते ।

जुह्वा॑नासः । य॒तऽस्रु॑चः ॥६

सऽबाधः । यम् । जनाः । इमे । अग्निम् । हव्येभिः । ईळते ।

जुह्वानासः । यतऽस्रुचः ॥६

“इमे "सबाधः बाधसहिता अध्वर्य्वादयः “यम् “अग्निं “हव्येभिः हविर्भिः “ईळते स्तुवन्ति । कीदृशा जनाः। "जुह्वानासः यागं कुर्वाणाः "यतस्रुचः तदर्थं धृतस्रुग्दण्डाः । तमागन्मेति समन्वयः ॥


इ॒यं ते॒ नव्य॑सी म॒तिरग्ने॒ अधा॑य्य॒स्मदा ।

मंद्र॒ सुजा॑त॒ सुक्र॒तोऽमू॑र॒ दस्माति॑थे ॥७

इ॒यम् । ते॒ । नव्य॑सी । म॒तिः । अग्ने॑ । अधा॑यि । अ॒स्मत् । आ ।

मन्द्र॑ । सुऽजा॑त । सुक्र॑तो॒ इति॒ सुऽक्र॑तो । अमू॑र । दस्म॑ । अति॑थे ॥७

इयम् । ते । नव्यसी । मतिः । अग्ने । अधायि । अस्मत् । आ ।

मन्द्र । सुऽजात । सुक्रतो इति सुऽक्रतो । अमूर । दस्म । अतिथे ॥७

हे “अग्ने “इयम् इदानीं क्रियमाणा “नव्यसी नवतरा स्तुतिः “ते तव स्वभूता "अस्मत् अस्मासु “अधायि धृताभूत् । वयं तव स्तुतिं कुर्म इत्यर्थः । हे “मन्द्र मोदमान "सुजात शोभनजनन “सुक्रतो शोभनकर्मन् "अमूर अमूढ “दस्म दर्शनीय “अतिथे अतिथिवत् पूज्य इत्यग्नेर्विशेषणानि ॥


सा ते॑ अग्ने॒ शंत॑मा॒ चनि॑ष्ठा भवतु प्रि॒या ।

तया॑ वर्धस्व॒ सुष्टु॑तः ॥८

सा । ते॒ । अ॒ग्ने॒ । शम्ऽत॑मा । चनि॑ष्ठा । भ॒व॒तु॒ । प्रि॒या ।

तया॑ । व॒र्ध॒स्व॒ । सुऽस्तु॑तः ॥८

सा । ते । अग्ने । शम्ऽतमा । चनिष्ठा । भवतु । प्रिया ।

तया । वर्धस्व । सुऽस्तुतः ॥८

हे “अग्ने “सा अस्माभिः क्रियमाणा स्तुतिः “शंतमा अत्यन्तं सुखकरा “चनिष्ठा अतिशयेनान्नवती “ते तव “प्रिया “भवतु । “तया स्तुत्या “सुष्टुतः सुष्ठु स्तुतः सन् “वर्धस्व प्रवृद्धो भव ॥


सा द्यु॒म्नैर्द्यु॒म्निनी॑ बृ॒हदुपो॑प॒ श्रव॑सि॒ श्रवः॑ ।

दधी॑त वृत्र॒तूर्ये॑ ॥९

सा । द्यु॒म्नैः । द्यु॒म्निनी॑ । बृ॒हत् । उप॑ऽउप । श्रव॑सि । श्रवः॑ ।

दधी॑त । वृ॒त्र॒ऽतूर्ये॑ ॥९

सा । द्युम्नैः । द्युम्निनी । बृहत् । उपऽउप । श्रवसि । श्रवः ।

दधीत । वृत्रऽतूर्ये ॥९

“सा अस्माभिः क्रियमाणा स्तुतिः “द्युम्नैः द्योतमानैरन्नैः अस्मभ्यं प्रदेयैः “द्युम्निनी अन्नवती “श्रवसि पूर्वस्मिन् विद्यमानेऽन्ने पुनरपि "बृहत् महत् “श्रवः अन्नम् “उपोप “दधीत पुनरुपरि धारयतु । कुत्रेति उच्यते । “वृत्रतूर्ये संग्रामे । शत्रोः संबन्धीति यावत् ॥


अश्व॒मिद्गां र॑थ॒प्रां त्वे॒षमिंद्रं॒ न सत्प॑तिं ।

यस्य॒ श्रवां॑सि॒ तूर्व॑थ॒ पन्यं॑पन्यं च कृ॒ष्टयः॑ ॥१०

अश्व॑म् । इत् । गाम् । र॒थ॒ऽप्राम् । त्वे॒षम् । इन्द्र॑म् । न । सत्ऽप॑तिम् ।

यस्य॑ । श्रवां॑सि । तूर्व॑थ । पन्य॑म्ऽपन्यम् । च॒ । कृ॒ष्टयः॑ ॥१०

अश्वम् । इत् । गाम् । रथऽप्राम् । त्वेषम् । इन्द्रम् । न । सत्ऽपतिम् ।

यस्य । श्रवांसि । तूर्वथ । पन्यम्ऽपन्यम् । च । कृष्टयः ॥१०

“गां गन्तारम् “अश्वमित् । इच्छब्द इवार्थे। अश्वमिव । तं यथा स्तुवते तथेत्यर्थः। “रथप्रां रथानामस्मदीयानां पूरयितारं धनैः तथा “त्वेषं दीप्तमग्निं “सत्पतिं सतां पालकम् “इन्द्रं “न इन्द्रमिवेमं “कृष्टयः मनुष्याः परिचरतेति शेषः । “यस्य अग्नेर्बलेन “श्रवांसि अन्नानि शत्रुसंबन्धीनि "तूर्वथ तथा “पन्यंपन्यं “च यद्यत् स्तुत्यं धनमस्ति तदपि तूर्वथ हिंस्थ ।। ॥ २२ ॥


यं त्वा॑ गो॒पव॑नो गि॒रा चनि॑ष्ठदग्ने अंगिरः ।

स पा॑वक श्रुधी॒ हवं॑ ॥११

यम् । त्वा॒ । गो॒पव॑नः । गि॒रा । चनि॑ष्ठत् । अ॒ग्ने॒ । अ॒ङ्गि॒रः॒ ।

सः । पा॒व॒क॒ । श्रु॒धि॒ । हव॑म् ॥११

यम् । त्वा । गोपवनः । गिरा । चनिष्ठत् । अग्ने । अङ्गिरः ।

सः । पावक । श्रुधि । हवम् ॥११

हे “अग्ने “यं “त्वा त्वां “गोपवनः ऋषिः “गिरा स्तुत्या "चनिष्ठत् अतिशयेनान्नप्रदातारमकरोत् “सः तादृशाग्ने “अङ्गिरः सर्वत्र गन्तरङ्गिरसां मध्य एक वा "पावक शोधक “हवं गोपवनस्य “श्रुधि शृणु ॥


यं त्वा॒ जना॑स॒ ईळ॑ते स॒बाधो॒ वाज॑सातये ।

स बो॑धि वृत्र॒तूर्ये॑ ॥१२

यम् । त्वा॒ । जना॑सः । ईळ॑ते । स॒ऽबाधः॑ । वाज॑ऽसातये ।

सः । बो॒धि॒ । वृ॒त्र॒ऽतूर्ये॑ ॥१२

यम् । त्वा । जनासः । ईळते । सऽबाधः । वाजऽसातये ।

सः । बोधि । वृत्रऽतूर्ये ॥१२

हे अग्ने “यं “त्वा त्वां “जनासः जनाः स्तोतारो वा “वाजसातये अन्नस्य लाभाय “सबाधः निर्बन्धरूपबाधोपेताः सन्तः “ईळते स्तुवन्ति “सः त्वं “वृत्रतूर्ये वैरिनाशनाय पापक्षयाय वा “बोधि बुध्यस्व । अथवा वृत्रतूर्ये संग्रामे बोधि ।।


अ॒हं हु॑वा॒न आ॒र्क्षे श्रु॒तर्व॑णि मद॒च्युति॑ ।

शर्धां॑सीव स्तुका॒विनां॑ मृ॒क्षा शी॒र्षा च॑तु॒र्णां ॥१३

अ॒हम् । हु॒वा॒नः । आ॒र्क्षे । श्रु॒तर्व॑णि । म॒द॒ऽच्युति॑ ।

शर्धां॑सिऽइव । स्तु॒का॒ऽविना॑म् । मृ॒क्षा । शी॒र्षा । च॒तु॒र्णाम् ॥१३

अहम् । हुवानः । आर्क्षे । श्रुतर्वणि । मदऽच्युति ।

शर्धांसिऽइव । स्तुकाऽविनाम् । मृक्षा । शीर्षा । चतुर्णाम् ॥१३

“अहम् ऋषिः "हुवानः हूयमानो यज्ञदिदृक्षार्थं “श्रुतर्वणि एतन्नाम्नि राजनि “मदच्युति शत्रूणां मदस्य च्यावयितरि “स्तुकाविनाम् । स्तुकाविन ऊर्णायवः । स्तुकः केशसंघातः । तद्वतां “शर्धांसीव उच्छ्रितानि लोमानीव तानि यथा स्पृशन्ति तद्वत् "वृक्षा वृक्षाणि । वृश्च्यन्त इति वृक्षाः केशाः । तद्वन्ति वृक्षाणि "शीर्षा शीर्षाणि शिरांसि । केषाम् । "चतुर्णां श्रुतर्वणा प्रदत्तानामश्वानां शिरांस्युन्मृजामीति शेषः । अथवा वृक्षा वृक्षेण । व्रश्चनसाधनत्वाद्वृक्षो हस्तः । तेनोन्मृजामि ॥


मां च॒त्वार॑ आ॒शवः॒ शवि॑ष्ठस्य द्रवि॒त्नवः॑ ।

सु॒रथा॑सो अ॒भि प्रयो॒ वक्ष॒न्वयो॒ न तुग्र्यं॑ ॥१४

माम् । च॒त्वारः॑ । आ॒शवः॑ । शवि॑ष्ठस्य । द्र॒वि॒त्नवः॑ ।

सु॒ऽरथा॑सः । अ॒भि । प्रयः॑ । वक्ष॑न् । वयः॑ । न । तुग्र्य॑म् ॥१४

माम् । चत्वारः । आशवः । शविष्ठस्य । द्रवित्नवः ।

सुऽरथासः । अभि । प्रयः । वक्षन् । वयः । न । तुग्र्यम् ॥१४

"मां “शविष्ठस्य अतिशयेनान्नवतः श्रुतर्वणो राज्ञः संबन्धिनः “चत्वारः “आशवः अश्वाः “द्रवित्नवः गमनशीलाः “सुरथासः शोभनरथा अश्वाः “प्रयः अन्नं शत्रूणां प्रति “अभि “वक्षन् अभिवहन्ति । "वयो’ “न “तुग्र्यम्। भुज्युं यथाश्विभ्यां प्रेरिताश्चतस्रो नावः स्वगृहं प्रापयन् तद्वदिति ॥


स॒त्यमित्त्वा॑ महेनदि॒ परु॒ष्ण्यव॑ देदिशं ।

नेमा॑पो अश्व॒दात॑रः॒ शवि॑ष्ठादस्ति॒ मर्त्यः॑ ॥१५

स॒त्यम् । इत् । त्वा॒ । म॒हे॒ऽन॒दि॒ । परु॑ष्णि । अव॑ । दे॒दि॒श॒म् ।

न । ई॒म् । आ॒पः॒ । अ॒श्व॒ऽदात॑रः । शवि॑ष्ठात् । अ॒स्ति॒ । मर्त्यः॑ ॥१५

सत्यम् । इत् । त्वा । महेऽनदि । परुष्णि । अव । देदिशम् ।

न । ईम् । आपः । अश्वऽदातरः । शविष्ठात् । अस्ति । मर्त्यः ॥१५

हे “महेनदि “परुष्णि एतन्नामिके “त्वा त्वां “सत्यमित् सत्यमेव “अव “देदिशम् आदिशामि वदामि । नद्याकारेण संबोध्यापः संबोधयति । हे “आपः "ईम् अस्मात् "शविष्ठात् बलवत्तमाच्छ्रुतर्वणोऽधिकः कश्चित् “अश्वदातरः अश्वानां दातृतमः “मर्त्यः “न “अस्ति । परुष्ण्यास्तीरे राज्ञोऽश्वमेधप्रतिग्रहात्तां संबोध्य ब्रूते ॥ ॥ २३ ॥

मण्डल ८

सूक्तं ८.१

सूक्तं ८.२

सूक्तं ८.३

सूक्तं ८.४

सूक्तं ८.५

सूक्तं ८.६

सूक्तं ८.७

सूक्तं ८.८

सूक्तं ८.९

सूक्तं ८.१०

सूक्तं ८.११

सूक्तं ८.१२

सूक्तं ८.१३

सूक्तं ८.१४

सूक्तं ८.१५

सूक्तं ८.१६

सूक्तं ८.१७

सूक्तं ८.१८

सूक्तं ८.१९

सूक्तं ८.२०

सूक्तं ८.२१

सूक्तं ८.२२

सूक्तं ८.२३

सूक्तं ८.२४

सूक्तं ८.२५

सूक्तं ८.२६

सूक्तं ८.२७

सूक्तं ८.२८

सूक्तं ८.२९

सूक्तं ८.३०

सूक्तं ८.३१

सूक्तं ८.३२

सूक्तं ८.३३

सूक्तं ८.३४

सूक्तं ८.३५

सूक्तं ८.३६

सूक्तं ८.३७

सूक्तं ८.३८

सूक्तं ८.३९

सूक्तं ८.४०

सूक्तं ८.४१

सूक्तं ८.४२

सूक्तं ८.४३

सूक्तं ८.४४

सूक्तं ८.४५

सूक्तं ८.४६

सूक्तं ८.४७

सूक्तं ८.४८

सूक्तं ८.४९

सूक्तं ८.५०

सूक्तं ८.५१

सूक्तं ८.५२

सूक्तं ८.५३

सूक्तं ८.५४

सूक्तं ८.५५

सूक्तं ८.५६

सूक्तं ८.५७

सूक्तं ८.५८

सूक्तं ८.५९

सूक्तं ८.६०

सूक्तं ८.६१

सूक्तं ८.६२

सूक्तं ८.६३

सूक्तं ८.६४

सूक्तं ८.६५

सूक्तं ८.६६

सूक्तं ८.६७

सूक्तं ८.६८

सूक्तं ८.६९

सूक्तं ८.७०

सूक्तं ८.७१

सूक्तं ८.७२

सूक्तं ८.७३

सूक्तं ८.७४

सूक्तं ८.७५

सूक्तं ८.७६

सूक्तं ८.७७

सूक्तं ८.७८

सूक्तं ८.७९

सूक्तं ८.८०

सूक्तं ८.८१

सूक्तं ८.८२

सूक्तं ८.८३

सूक्तं ८.८४

सूक्तं ८.८५

सूक्तं ८.८६

सूक्तं ८.८७

सूक्तं ८.८८

सूक्तं ८.८९

सूक्तं ८.९०

सूक्तं ८.९१

सूक्तं ८.९२

सूक्तं ८.९३

सूक्तं ८.९४

सूक्तं ८.९५

सूक्तं ८.९६

सूक्तं ८.९७

सूक्तं ८.९८

सूक्तं ८.९९

सूक्तं ८.१००

सूक्तं ८.१०१

सूक्तं ८.१०२

सूक्तं ८.१०३

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_८.७४&oldid=209015" इत्यस्माद् पुनः प्राप्तिः