ऋग्वेदः सूक्तं ८.४५

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं ८.४४ ऋग्वेदः - मण्डल ८
सूक्तं ८.४५
त्रिशोकः काण्वः।
सूक्तं ८.४६ →
दे. इन्द्रः, १ अग्नीन्द्रौ। गायत्री।
सूर्यः, अग्निः, इन्द्रः, ब्रह्मा, स्कन्दः


आ घा ये अग्निमिन्धते स्तृणन्ति बर्हिरानुषक् ।
येषामिन्द्रो युवा सखा ॥१॥
बृहन्निदिध्म एषां भूरि शस्तं पृथुः स्वरुः ।
येषामिन्द्रो युवा सखा ॥२॥
अयुद्ध इद्युधा वृतं शूर आजति सत्वभिः ।
येषामिन्द्रो युवा सखा ॥३॥
आ बुन्दं वृत्रहा ददे जातः पृच्छद्वि मातरम् ।
क उग्राः के ह शृण्विरे ॥४॥
प्रति त्वा शवसी वदद्गिरावप्सो न योधिषत् ।
यस्ते शत्रुत्वमाचके ॥५॥
उत त्वं मघवञ्छृणु यस्ते वष्टि ववक्षि तत् ।
यद्वीळयासि वीळु तत् ॥६॥
यदाजिं यात्याजिकृदिन्द्रः स्वश्वयुरुप ।
रथीतमो रथीनाम् ॥७॥
वि षु विश्वा अभियुजो वज्रिन्विष्वग्यथा वृह ।
भवा नः सुश्रवस्तमः ॥८॥
अस्माकं सु रथं पुर इन्द्रः कृणोतु सातये ।
न यं धूर्वन्ति धूर्तयः ॥९॥
वृज्याम ते परि द्विषोऽरं ते शक्र दावने ।
गमेमेदिन्द्र गोमतः ॥१०॥
शनैश्चिद्यन्तो अद्रिवोऽश्वावन्तः शतग्विनः ।
विवक्षणा अनेहसः ॥११॥
ऊर्ध्वा हि ते दिवेदिवे सहस्रा सूनृता शता ।
जरितृभ्यो विमंहते ॥१२॥
विद्मा हि त्वा धनंजयमिन्द्र दृळ्हा चिदारुजम् ।
आदारिणं यथा गयम् ॥१३॥
ककुहं चित्त्वा कवे मन्दन्तु धृष्णविन्दवः ।
आ त्वा पणिं यदीमहे ॥१४॥
यस्ते रेवाँ अदाशुरिः प्रममर्ष मघत्तये ।
तस्य नो वेद आ भर ॥१५॥
इम उ त्वा वि चक्षते सखाय इन्द्र सोमिनः ।
पुष्टावन्तो यथा पशुम् ॥१६॥
उत त्वाबधिरं वयं श्रुत्कर्णं सन्तमूतये ।
दूरादिह हवामहे ॥१७॥
यच्छुश्रूया इमं हवं दुर्मर्षं चक्रिया उत ।
भवेरापिर्नो अन्तमः ॥१८॥
यच्चिद्धि ते अपि व्यथिर्जगन्वांसो अमन्महि ।
गोदा इदिन्द्र बोधि नः ॥१९॥
आ त्वा रम्भं न जिव्रयो ररभ्मा शवसस्पते ।
उश्मसि त्वा सधस्थ आ ॥२०॥
स्तोत्रमिन्द्राय गायत पुरुनृम्णाय सत्वने ।
नकिर्यं वृण्वते युधि ॥२१॥
अभि त्वा वृषभा सुते सुतं सृजामि पीतये ।
तृम्पा व्यश्नुही मदम् ॥२२॥
मा त्वा मूरा अविष्यवो मोपहस्वान आ दभन् ।
माकीं ब्रह्मद्विषो वनः ॥२३॥
इह त्वा गोपरीणसा महे मन्दन्तु राधसे ।
सरो गौरो यथा पिब ॥२४॥
या वृत्रहा परावति सना नवा च चुच्युवे ।
ता संसत्सु प्र वोचत ॥२५॥
अपिबत्कद्रुवः सुतमिन्द्रः सहस्रबाह्वे ।
अत्रादेदिष्ट पौंस्यम् ॥२६॥
सत्यं तत्तुर्वशे यदौ विदानो अह्नवाय्यम् ।
व्यानट् तुर्वणे शमि ॥२७॥
तरणिं वो जनानां त्रदं वाजस्य गोमतः ।
समानमु प्र शंसिषम् ॥२८॥
ऋभुक्षणं न वर्तव उक्थेषु तुग्र्यावृधम् ।
इन्द्रं सोमे सचा सुते ॥२९॥
यः कृन्तदिद्वि योन्यं त्रिशोकाय गिरिं पृथुम् ।
गोभ्यो गातुं निरेतवे ॥३०॥
यद्दधिषे मनस्यसि मन्दानः प्रेदियक्षसि ।
मा तत्करिन्द्र मृळय ॥३१॥
दभ्रं चिद्धि त्वावतः कृतं शृण्वे अधि क्षमि ।
जिगात्विन्द्र ते मनः ॥३२॥
तवेदु ताः सुकीर्तयोऽसन्नुत प्रशस्तयः ।
यदिन्द्र मृळयासि नः ॥३३॥
मा न एकस्मिन्नागसि मा द्वयोरुत त्रिषु ।
वधीर्मा शूर भूरिषु ॥३४॥
बिभया हि त्वावत उग्रादभिप्रभङ्गिणः ।
दस्मादहमृतीषहः ॥३५॥
मा सख्युः शूनमा विदे मा पुत्रस्य प्रभूवसो ।
आवृत्वद्भूतु ते मनः ॥३६॥
को नु मर्या अमिथितः सखा सखायमब्रवीत् ।
जहा को अस्मदीषते ॥३७॥
एवारे वृषभा सुतेऽसिन्वन्भूर्यावयः ।
श्वघ्नीव निवता चरन् ॥३८॥
आ त एता वचोयुजा हरी गृभ्णे सुमद्रथा ।
यदीं ब्रह्मभ्य इद्ददः ॥३९॥
भिन्धि विश्वा अप द्विषः परि बाधो जही मृधः ।
वसु स्पार्हं तदा भर ॥४०॥
यद्वीळाविन्द्र यत्स्थिरे यत्पर्शाने पराभृतम् ।
वसु स्पार्हं तदा भर ॥४१॥
यस्य ते विश्वमानुषो भूरेर्दत्तस्य वेदति ।
वसु स्पार्हं तदा भर ॥४२॥

सायणभाष्यम्

‘आ घा ये' इति द्विचत्वारिंशदृचं तृतीयं सूक्तम् । अत्रेयमनुक्रमणिका--’आ घ द्विचत्वारिंशत्त्रिशोक आद्याग्नेन्द्री'। अनुक्तगोत्रत्वात् काण्वस्त्रिशोक ऋषिः । ‘ परं गायत्रं प्राग्वत्सप्रेः' इति परिभाषया गायत्री छन्दः । अनुक्तत्वादिन्द्रो देवता । आद्यायास्त्वग्निश्चेन्द्रश्च । महाव्रते निष्केवल्ये गायत्रतृचाशीतावेतत्सूक्तम् । तथैव पञ्चमारण्यके सूत्रितम्-’आ घा ये अग्निमिन्धत आ तू न इन्द्र क्षुमन्तमिति सूक्ते ' ( ऐ. आ. ५. २, ३) इति । तृतीये पर्यायेऽच्छावाकशस्त्र आदितः सप्तदशर्चः । तथैव “ अतिरात्रे' इति खण्डे सूत्र्यते - ’आ घा ये अग्निमिन्धत इति सप्तदश' (आश्व. श्रौ. ६. ४ ) इति । आग्रयण आग्नेन्द्रस्य हविषः ‘आ घा ये' इत्येषानुवाक्या । सूत्रितं च--- ‘आ घा ये अग्निमिन्धते सुकर्माणः सुरुचो देवयन्त इति स्तोत्रम्' (आश्व. श्रौ. २. ९) इति । मैत्रावरुणातिरिक्तोक्थे ‘स्तोत्रमिन्द्राय' इत्याद्याः षडृचो विकल्पेन स्तोत्रियानुरूपाः । सूत्रितं च -- ’तद्वो गाय सुते सचा स्तोत्रमिन्द्राय गायत' (आश्व. श्रौ. ९. ११ ) इति । द्वितीये पर्याये ब्राह्मणाच्छंसिनः ‘अभि त्वा वृषभ ' इति स्तोत्रियस्तृचः । सूत्रितं च - ’अभि त्वा वृषभा सुतेऽभि प्र गोपतिं गिरा' (आश्व. श्रौ. ६. ४ ) इति । चातुर्विशिकेऽहनि प्रातःसवने ‘भिन्धि विश्वाः' इति ब्राह्मणाच्छंसिनः षळहस्तोत्रियः । तथा च सूत्रितं-- भिन्धि विश्वा अप द्विष इति ब्राह्मणाच्छंसिनः' (आश्व. श्रौ. ७. २) इति ॥


आ घा॒ ये अ॒ग्निमिं॑ध॒ते स्तृ॒णंति॑ ब॒र्हिरा॑नु॒षक् ।

येषा॒मिंद्रो॒ युवा॒ सखा॑ ॥१

आ । घ॒ । ये । अ॒ग्निम् । इ॒न्ध॒ते । स्तृ॒णन्ति॑ । ब॒र्हिः । आ॒नु॒षक् ।

येषा॑म् । इन्द्रः॑ । युवा॑ । सखा॑ ॥१

आ । घ । ये । अग्निम् । इन्धते । स्तृणन्ति । बर्हिः । आनुषक् ।

येषाम् । इन्द्रः । युवा । सखा ॥१

"ये ऋषयः “आ “घ आभिमुख्येन खलु “अग्निमिन्धते दीपयन्ति "येषां च "युवा नित्यतरुणः “इन्द्रः "सखा भवति ते "आनुषक् आनुपूर्व्येण “बर्हि: “स्तृणन्ति ।


बृ॒हन्निदि॒ध्म ए॑षां॒ भूरि॑ श॒स्तं पृ॒थुः स्वरुः॑ ।

येषा॒मिंद्रो॒ युवा॒ सखा॑ ॥२

बृ॒हन् । इत् । इ॒ध्मः । ए॒षा॒म् । भूरि॑ । श॒स्तम् । पृ॒थु । स्वरुः॑ ।

येषा॑म् । इन्द्रः॑ । युवा॑ । सखा॑ ॥२

बृहन् । इत् । इध्मः । एषाम् । भूरि । शस्तम् । पृथु । स्वरुः ।

येषाम् । इन्द्रः । युवा । सखा ॥२

“एषाम् ऋषीणाम् "इध्मः "बृहन्नित् महान् खलु "भूरि बहु च “शस्तं स्तोत्रं "स्वरुः च "पृथुः महान् । सिद्धमन्यत् ॥


अयु॑द्ध॒ इद्यु॒धा वृतं॒ शूर॒ आज॑ति॒ सत्व॑भिः ।

येषा॒मिंद्रो॒ युवा॒ सखा॑ ॥३

अयु॑द्धः । इत् । यु॒धा । वृत॑म् । शूरः॑ । आ । अ॒ज॒ति॒ । सत्व॑ऽभिः ।

येषा॑म् । इन्द्रः॑ । युवा॑ । सखा॑ ॥३

अयुद्धः । इत् । युधा । वृतम् । शूरः । आ । अजति । सत्वऽभिः ।

येषाम् । इन्द्रः । युवा । सखा ॥३

तेष्वन्तर्भूतः कश्चित् "अयुद्ध “इत् प्रागयोद्धैव सन् "युधा "वृतं योद्धृभिर्भटैरावृतं शत्रंं “सत्वभिः आत्मीयैर्बलैः "शूरः सन् “आजति नमयति ॥


आ बुं॒दं वृ॑त्र॒हा द॑दे जा॒तः पृ॑च्छ॒द्वि मा॒तरं॑ ।

क उ॒ग्राः के ह॑ शृण्विरे ॥४

आ । बु॒न्दम् । वृ॒त्र॒ऽहा । द॒दे॒ । जा॒तः । पृ॒च्छ॒त् । वि । मा॒तर॑म् ।

के । उ॒ग्राः । के । ह॒ । शृ॒ण्वि॒रे॒ ॥४

आ । बुन्दम् । वृत्रऽहा । ददे । जातः । पृच्छत् । वि । मातरम् ।

के । उग्राः । के । ह । शृण्विरे ॥४

“जातः उत्पन्नः "वृत्रहा इन्द्रः “बुन्दम् इषुम् । तथा च यास्कः-- बुन्द इषुर्भवति' (निरु. ६. ३२) इति । “आ “ददे । आदाय च इषुम् "उग्राः उद्गूर्णबलाः “के “के च “श्रृण्विरे वीर्येण विश्रुता इति स्वमातरं "वि “पृच्छत् अप्राक्षीत् ॥


प्रति॑ त्वा शव॒सी व॑दद्गि॒रावप्सो॒ न यो॑धिषत् ।

यस्ते॑ शत्रु॒त्वमा॑च॒के ॥५

प्रति॑ । त्वा॒ । श॒व॒सी । व॒द॒त् । गि॒रौ । अप्सः॑ । न । यो॒धि॒ष॒त् ।

यः । ते॒ । श॒त्रु॒ऽत्वम् । आ॒ऽच॒के ॥५

प्रति । त्वा । शवसी । वदत् । गिरौ । अप्सः । न । योधिषत् ।

यः । ते । शत्रुऽत्वम् । आऽचके ॥५

हे इन्द्र “त्वा त्वां “शवसी बलवती माता “प्रति "वदत् प्रत्यवोचत् । "यस्ते “शत्रुत्वमाचके कामयते सः "गिरौ पर्वते "अप्सो "न दर्शनीयो गज इव "योधिषत् योधयति ॥ ॥ ४२ ॥


उ॒त त्वं म॑घवंछृणु॒ यस्ते॒ वष्टि॑ व॒वक्षि॒ तत् ।

यद्वी॒ळया॑सि वी॒ळु तत् ॥६

उ॒त । त्वम् । म॒घ॒ऽव॒न् । शृ॒णु॒ । यः । ते॒ । वष्टि॑ । व॒वक्षि॑ । तत् ।

यत् । वी॒ळया॑सि । वी॒ळु । तत् ॥६

उत । त्वम् । मघऽवन् । शृणु । यः । ते । वष्टि । ववक्षि । तत् ।

यत् । वीळयासि । वीळु । तत् ॥६

“उत अपि च हे "मघवन् "त्वं "शृणु अस्मदीयां स्तुतिम् । "ते त्वत्तो यत् “वष्टि कामयते स्तोता “तत् "ववक्षि तस्मै तत् वहसि । किंच त्वं "यत् “वीळयासि दृढीकरोषि तत् "वीळु तत् दृढमेव सर्वत्र भवति ।।


यदा॒जिं यात्या॑जि॒कृदिंद्रः॑ स्वश्व॒युरुप॑ ।

र॒थीत॑मो र॒थीनां॑ ॥७

यत् । आ॒जिम् । याति॑ । आ॒जि॒ऽकृत् । इन्द्रः॑ । स्व॒श्व॒ऽयुः । उप॑ ।

र॒थिऽत॑मः । र॒थिना॑म् ॥७

यत् । आजिम् । याति । आजिऽकृत् । इन्द्रः । स्वश्वऽयुः । उप ।

रथिऽतमः । रथिनाम् ॥७

“यत् यदा "आजिकृत् युद्धकृत् "इन्द्रः "स्वश्वयुः कल्याणमश्वमिच्छन् "आजिं युद्धम् "उप "याति तदा “रथीतमः अतिशयेन रथी भवति । "रथीनां सर्वान् रथिनश्च जयतीति शेषः । ।


वि षु विश्वा॑ अभि॒युजो॒ वज्रि॒न्विष्व॒ग्यथा॑ वृह ।

भवा॑ नः सु॒श्रव॑स्तमः ॥८

वि । सु । विश्वाः॑ । अ॒भि॒ऽयुजः॑ । वज्रि॑न् । विष्व॑क् । यथा॑ । वृ॒ह॒ ।

भव॑ । नः॒ । सु॒श्रवः॑ऽतमः ॥८

वि । सु । विश्वाः । अभिऽयुजः । वज्रिन् । विष्वक् । यथा । वृह ।

भव । नः । सुश्रवःऽतमः ॥८

हे "वज्रिन् त्वं "विश्वाः सर्वाः "अभियुजः अभियोक्त्रीः प्रजाः "यथा “विष्वक् भवन्ति तथा "सु सुष्ठु "वि "वृह । "नः अस्माकं "सुश्रवस्तमः शोभनान्नवत्तमश्च "भव ॥


अ॒स्माकं॒ सु रथं॑ पु॒र इंद्रः॑ कृणोतु सा॒तये॑ ।

न यं धूर्वं॑ति धू॒र्तयः॑ ॥९

अ॒स्माक॑म् । सु । रथ॑म् । पु॒रः । इन्द्रः॑ । कृ॒णो॒तु॒ । सा॒तये॑ ।

न । यम् । धूर्व॑न्ति । धू॒र्तयः॑ ॥९

अस्माकम् । सु । रथम् । पुरः । इन्द्रः । कृणोतु । सातये ।

न । यम् । धूर्वन्ति । धूर्तयः ॥९

“यम् इन्द्रं "धूर्तयः हिंसकाः "न “धूर्वन्ति न हिंसन्ति सः "इन्द्रः "अस्माकं "सातये अभीष्टलाभाय "सु "रथं कल्याणं रथं "पुरः "कृणोतु पुरस्करोतु ।।


वृ॒ज्याम॑ ते॒ परि॒ द्विषोऽरं॑ ते शक्र दा॒वने॑ ।

ग॒मेमेदिं॑द्र॒ गोम॑तः ॥१०

वृ॒ज्याम॑ । ते॒ । परि॑ । द्विषः॑ । अर॑म् । ते॒ । श॒क्र॒ । दा॒वने॑ ।

ग॒मेम॑ । इत् । इ॒न्द्र॒ । गोऽम॑तः ॥१०

वृज्याम । ते । परि । द्विषः । अरम् । ते । शक्र । दावने ।

गमेम । इत् । इन्द्र । गोऽमतः ॥१०

हे शक्र “इन्द्र याचमाना वयं "ते तव "द्विषः द्वेष्टॄन् "परि "वृज्याम नोपगच्छेम । किंतु "ते तव “गोमतः पशुमतः "दावने अभीष्टदानाय "अरं पर्याप्तं “गमेमेत् गच्छेमैव ॥ ॥४३॥


शनै॑श्चि॒द्यंतो॑ अद्रि॒वोऽश्वा॑वंतः शत॒ग्विनः॑ ।

वि॒वक्ष॑णा अने॒हसः॑ ॥११

शनैः॑ । चि॒त् । यन्तः॑ । अ॒द्रि॒ऽवः॒ । अश्व॑ऽवन्तः । श॒त॒ऽग्विनः॑ ।

वि॒वक्ष॑णाः । अ॒ने॒हसः॑ ॥११

शनैः । चित् । यन्तः । अद्रिऽवः । अश्वऽवन्तः । शतऽग्विनः ।

विवक्षणाः । अनेहसः ॥११

हे "अद्रिवः वज्रिन् वयं "शनैः मन्दं मन्दं "यन्तः गच्छन्तः "अश्वावन्तः अश्ववन्तः "शतग्विनः बहुधनाः “विवक्षणाः वोढव्यं वहन्तः "अनेहसः उपद्रवरहिताश्च सन्तो गमेमेदिति संबन्धः ।।


ऊ॒र्ध्वा हि ते॑ दि॒वेदि॑वे स॒हस्रा॑ सू॒नृता॑ श॒ता ।

ज॒रि॒तृभ्यो॑ वि॒मंह॑ते ॥१२

ऊ॒र्ध्वा । हि । ते॒ । दि॒वेऽदि॑वे । स॒हस्रा॑ । सू॒नृता॑ । श॒ता ।

ज॒रि॒तृऽभ्यः॑ । वि॒ऽमंह॑ते ॥१२

ऊर्ध्वा । हि । ते । दिवेऽदिवे । सहस्रा । सूनृता । शता ।

जरितृऽभ्यः । विऽमंहते ॥१२

हे इन्द्र “ते तव “जरितृभ्यः स्तोतृभ्यः "सहस्रा सहस्राणि “शता शतानि च “ऊर्ध्वा ऊर्ध्वानि मुख्यानि "सूनृता सूनृतानि साधनानि “दिवेदिवे अन्वहं "विमंहते यजमानः प्रयच्छति । मंहतिर्दानकर्मा ।।।


वि॒द्मा हि त्वा॑ धनंज॒यमिंद्र॑ दृ॒ळ्हा चि॑दारु॒जं ।

आ॒दा॒रिणं॒ यथा॒ गयं॑ ॥१३

वि॒द्म । हि । त्वा॒ । ध॒न॒म्ऽज॒यम् । इन्द्र॑ । दृ॒ळ्हा । चि॒त् । आ॒ऽरु॒जम् ।

आ॒दा॒रिण॑म् । यथा॑ । गय॑म् ॥१३

विद्म । हि । त्वा । धनम्ऽजयम् । इन्द्र । दृळ्हा । चित् । आऽरुजम् ।

आदारिणम् । यथा । गयम् ॥१३

हे "इन्द्र “त्वा त्वां “धनंजयं धनानां जेतारं "दृढा "चित् दृढानामपि शत्रूणाम् "आरुजम् आभिमुख्येन भङ्क्तारम् "आदारिणम् आदर्तारं च "यथा “गयं गृहमिवोपद्रवेभ्यो रक्षकं च “विद्म जानीम ॥


क॒कु॒हं चि॑त्त्वा कवे॒ मंदं॑तु धृष्ण॒विंद॑वः ।

आ त्वा॑ प॒णिं यदीम॑हे ॥१४

क॒कु॒हम् । चि॒त् । त्वा॒ । क॒वे॒ । मन्द॑न्तु । धृ॒ष्णो॒ इति॑ । इन्द॑वः ।

आ । त्वा॒ । प॒णिम् । यत् । ईम॑हे ॥१४

ककुहम् । चित् । त्वा । कवे । मन्दन्तु । धृष्णो इति । इन्दवः ।

आ । त्वा । पणिम् । यत् । ईमहे ॥१४

हे "कवे क्रान्तकर्मन् “धृष्णो धर्षकेन्द्र “यत् यदा “पणिं पणमानं “त्वा त्वाम् “आ आभिमुख्येन "ईमहे अभीष्टं याचामहे तदा “ककुहम्' उच्छ्रितं "त्वा त्वाम् "इन्दवः “चित् सोमा अपि “मन्दन्तु मादयन्तु ।।


यस्ते॑ रे॒वाँ अदा॑शुरिः प्रम॒मर्ष॑ म॒घत्त॑ये ।

तस्य॑ नो॒ वेद॒ आ भ॑र ॥१५

यः । ते॒ । रे॒वान् । अदा॑शुरिः । प्र॒ऽम॒मर्ष॑ । म॒घत्त॑ये ।

तस्य॑ । नः॒ । वेदः॑ । आ । भ॒र॒ ॥१५

यः । ते । रेवान् । अदाशुरिः । प्रऽममर्ष । मघत्तये ।

तस्य । नः । वेदः । आ । भर ॥१५

हे इन्द्र "मघत्तये धनदानाय "ते तुभ्यं "यः पुमान् "रेवान् धनवान् सन् "अदाशुरिः अदानशीलः “प्रममर्ष अभ्यसूयति "तस्य पुंसः "वेदः धनं "नः अस्मभ्यम् "आ “भर आहर ॥ ॥ ४४ ।।


इ॒म उ॑ त्वा॒ वि च॑क्षते॒ सखा॑य इंद्र सो॒मिनः॑ ।

पु॒ष्टावं॑तो॒ यथा॑ प॒शुं ॥१६

इ॒मे । ऊं॒ इति॑ । त्वा॒ । वि । च॒क्ष॒ते॒ । सखा॑यः । इ॒न्द्र॒ । सो॒मिनः॑ ।

पु॒ष्टऽव॑न्तः । यथा॑ । प॒शुम् ॥१६

इमे । ऊं इति । त्वा । वि । चक्षते । सखायः । इन्द्र । सोमिनः ।

पुष्टऽवन्तः । यथा । पशुम् ॥१६

हे "इन्द्र “त्वा त्वां “सोमिनः अभिषुतसोमाः "सखायः “इम "उ इम एव खल्वस्मदीया जनाः "पुष्टावन्तः संभृतघासाः "यथा "पशुं पशुमिव "वि “चक्षते विपश्यन्ति ।


उ॒त त्वाब॑धिरं व॒यं श्रुत्क॑र्णं॒ संत॑मू॒तये॑ ।

दू॒रादि॒ह ह॑वामहे ॥१७

उ॒त । त्वा॒ । अब॑धिरम् । व॒यम् । श्रुत्ऽक॑र्णम् । सन्त॑म् । ऊ॒तये॑ ।

दू॒रात् । इ॒ह । ह॒वा॒म॒हे॒ ॥१७

उत । त्वा । अबधिरम् । वयम् । श्रुत्ऽकर्णम् । सन्तम् । ऊतये ।

दूरात् । इह । हवामहे ॥१७

"उत अपि च हे इन्द्र “अबधिरम् अनुपहतश्रोत्रेन्द्रियमत एव “श्रुत्कर्णं श्रवणपरकर्णं "सन्तं “त्वा त्वां "वयं त्रिशोकाः “इह यज्ञे “ऊतये रक्षणाय "दूरात् "हवामहे ह्वयामः ॥


यच्छु॑श्रू॒या इ॒मं हवं॑ दु॒र्मर्षं॑ चक्रिया उ॒त ।

भवे॑रा॒पिर्नो॒ अंत॑मः ॥१८

यत् । शु॒श्रु॒याः । इ॒मम् । हव॑म् । दुः॒ऽमर्ष॑म् । च॒क्रि॒याः॒ । उ॒त ।

भवेः॑ । आ॒पिः । नः॒ । अन्त॑मः ॥१८

यत् । शुश्रुयाः । इमम् । हवम् । दुःऽमर्षम् । चक्रियाः । उत ।

भवेः । आपिः । नः । अन्तमः ॥१८

हे इन्द्र "यत् यदि "इमम् अस्मदीयं "हवम् आह्वानं "शुश्रुयाः शृणुयाः तर्हि "दुर्मर्षं शत्रूणां दुःसहं बलं "चक्रियाः कुर्याः । "उत अपि च "नः अस्माकम् "अन्तमः अन्तिकतमः “आपिः बन्धुः "भवेः ॥


यच्चि॒द्धि ते॒ अपि॒ व्यथि॑र्जग॒न्वांसो॒ अम॑न्महि ।

गो॒दा इदिं॑द्र बोधि नः ॥१९

यत् । चि॒त् । हि । ते॒ । अपि॑ । व्यथिः॑ । ज॒ग॒न्वांसः॑ । अम॑न्महि ।

गो॒ऽदाः । इत् । इ॒न्द्र॒ । बो॒धि॒ । नः॒ ॥१९

यत् । चित् । हि । ते । अपि । व्यथिः । जगन्वांसः । अमन्महि ।

गोऽदाः । इत् । इन्द्र । बोधि । नः ॥१९

“अपि “चित् अपि च हे "इन्द्र "ते तुभ्यं "यत् यदा हि "व्यथिः दारिद्र्येण व्यथिताः “जगन्वांसः गन्तारो वयम् "अमन्महि विष्टुमः तदा “नः अस्माकं "गोदा “इत् गवां दातैव भवामीति “बोधि बुध्यस्व ।।


आ त्वा॑ रं॒भं न जिव्र॑यो रर॒भ्मा श॑वसस्पते ।

उ॒श्मसि॑ त्वा स॒धस्थ॒ आ ॥२०

आ । त्वा॒ । र॒म्भम् । न । जिव्र॑यः । र॒र॒भ्म । श॒व॒सः॒ । प॒ते॒ ।

उ॒श्मसि॑ । त्वा॒ । स॒धऽस्थे॑ । आ ॥२०

आ । त्वा । रम्भम् । न । जिव्रयः । ररभ्म । शवसः । पते ।

उश्मसि । त्वा । सधऽस्थे । आ ॥२०

हे "शवसस्पते बलस्य पते “त्वा त्वां वयं “जिव्रयः क्षीणा वृद्धाः "रम्भं "न दण्डमिव “ररभ्म रभामहे । तथा च यास्कः-’आरभामहे वा जीर्णा इव दण्डम् ' (निरु. ३. २१) इति । अपि च “त्वा त्वां "सधस्थे यज्ञे "उश्मसि कामयामहे ॥ ॥ ४५ ॥


स्तो॒त्रमिंद्रा॑य गायत पुरुनृ॒म्णाय॒ सत्व॑ने ।

नकि॒र्यं वृ॑ण्व॒ते यु॒धि ॥२१

स्तो॒त्रम् । इन्द्रा॑य । गा॒य॒त॒ । पु॒रु॒ऽनृ॒म्णाय॑ । सत्व॑ने ।

नकिः॑ । यम् । वृ॒ण्व॒ते । यु॒धि ॥२१

स्तोत्रम् । इन्द्राय । गायत । पुरुऽनृम्णाय । सत्वने ।

नकिः । यम् । वृण्वते । युधि ॥२१

"यम् इन्द्रं "युधि युद्धे "नकिः "वृण्वते केऽपि न वारयन्ति तस्मै "सत्वने दानशीलाय “पुरुनृम्णाय बहुधनाय "इन्द्राय "स्तोत्रं "गायत पठत ॥


अ॒भि त्वा॑ वृषभा सु॒ते सु॒तं सृ॑जामि पी॒तये॑ ।

तृं॒पा व्य॑श्नुही॒ मदं॑ ॥२२

अ॒भि । त्वा॒ । वृ॒ष॒भ॒ । सु॒ते । सु॒तम् । सृ॒जा॒मि॒ । पी॒तये॑ ।

तृ॒म्प । वि । अ॒श्नु॒हि॒ । मद॑म् ॥२२

अभि । त्वा । वृषभ । सुते । सुतम् । सृजामि । पीतये ।

तृम्प । वि । अश्नुहि । मदम् ॥२२

हे "वृषभ इन्द्र “त्वा त्वां "सुते सोमेऽभिषुते सति "सुतम् अभिषुतं सोमं "पीतये पानाय “अभि "सृजामि । "तृम्प तृप्य "मदं मदकरं “व्यश्नुहि च ॥


मा त्वा॑ मू॒रा अ॑वि॒ष्यवो॒ मोप॒हस्वा॑न॒ आ द॑भन् ।

माकीं॑ ब्रह्म॒द्विषो॑ वनः ॥२३

मा । त्वा॒ । मू॒राः । अ॒वि॒ष्यवः॑ । मा । उ॒प॒ऽहस्वा॑नः । आ । द॒भ॒न् ।

माकी॑म् । ब्र॒ह्म॒ऽद्विषः॑ । व॒नः॒ ॥२३

मा । त्वा । मूराः । अविष्यवः । मा । उपऽहस्वानः । आ । दभन् ।

माकीम् । ब्रह्मऽद्विषः । वनः ॥२३

हे इन्द्र “त्वा त्वां "मूराः मूरका मूढा मनुष्याः "अविष्यवः पालनकामाः "मा “आ “दभन्’ मा हिंसन्तु। "उपहस्वानः उपहसनपराश्च “मा भवन्तु । “ब्रह्मद्विषः ब्राह्मणानां द्वेष्टॄन् “माकीं “वनः मा भजेथाः ।।


इ॒ह त्वा॒ गोप॑रीणसा म॒हे मं॑दंतु॒ राध॑से ।

सरो॑ गौ॒रो यथा॑ पिब ॥२४

इ॒ह । त्वा॒ । गोऽप॑रीणसा । म॒हे । म॒न्द॒न्तु॒ । राध॑से ।

सरः॑ । गौ॒रः । यथा॑ । पि॒ब॒ ॥२४

इह । त्वा । गोऽपरीणसा । महे । मन्दन्तु । राधसे ।

सरः । गौरः । यथा । पिब ॥२४

हे इन्द्र “त्वा त्वाम् "इह यज्ञे "गोपरीणसा गव्येन पयसा संमिश्रितेन सोमेन “महे महते “राधसे धनाय “मन्दन्तु मनुष्या मादयन्तु । त्वं च तं सोमं "यथा “गौरः मृगः “सरः पिबति तथा “पिब ।


या वृ॑त्र॒हा प॑रा॒वति॒ सना॒ नवा॑ च चुच्यु॒वे ।

ता सं॒सत्सु॒ प्र वो॑चत ॥२५

या । वृ॒त्र॒ऽहा । प॒रा॒ऽवति॑ । सना॑ । नवा॑ । च॒ । चु॒च्यु॒वे ।

ता । सं॒सत्ऽसु॑ । प्र । वो॒च॒त॒ ॥२५

या । वृत्रऽहा । पराऽवति । सना । नवा । च । चुच्युवे ।

ता । संसत्ऽसु । प्र । वोचत ॥२५

“वृत्रहा इन्द्रः "परावति दूरे "या यानि “सना सनातनानि "नवा नवानि नूतनानि "च धनानि "चुच्युवे प्रेरितवान् तानि धनानि “संसत्सु यज्ञेषु सभासु वा “प्र “वोचत प्रबूते विद्वज्जनः ॥ ॥ ४६ ॥


अपि॑बत्क॒द्रुवः॑ सु॒तमिंद्रः॑ स॒हस्र॑बाह्वे ।

अत्रा॑देदिष्ट॒ पौंस्यं॑ ॥२६

अपि॑बत् । क॒द्रुवः॑ । सु॒तम् । इन्द्रः॑ । स॒हस्र॑ऽबाह्वे ।

अत्र॑ । अ॒दे॒दि॒ष्ट॒ । पौंस्य॑म् ॥२६

अपिबत् । कद्रुवः । सुतम् । इन्द्रः । सहस्रऽबाह्वे ।

अत्र । अदेदिष्ट । पौंस्यम् ॥२६

“इन्द्रः "कद्रुवः कद्रुनामकस्यर्षेः संबन्धिनं "सुतम् अभिषुतं सोमम् "अपिबत् पीतवान् । “सहस्रबाह्वे सहस्रबाहोः शत्रूंश्चाहन्निति शेषः । "अत्र अस्मिन्नवसरे “पौंस्यम् इन्द्रस्य वीर्यम् “अदेदिष्ट अदीप्यत ।।


स॒त्यं तत्तु॒र्वशे॒ यदौ॒ विदा॑नो अह्नवा॒य्यं ।

व्या॑नट् तु॒र्वणे॒ शमि॑ ॥२७

स॒त्यम् । तत् । तु॒र्वशे॑ । यदौ॑ । विदा॑नः । अ॒ह्न॒वा॒य्यम् ।

वि । आ॒न॒ट् । तु॒र्वणे॑ । शमि॑ ॥२७

सत्यम् । तत् । तुर्वशे । यदौ । विदानः । अह्नवाय्यम् ।

वि । आनट् । तुर्वणे । शमि ॥२७

“तुर्वशे राज्ञि “यदौ च यदुनामके च राज्ञि “तत् प्रसिद्धं यागादिलक्षणं “शमि कर्म । शची शमी' इति कर्मनामसु पाठात् । "सत्यं परमार्थं "विदानः जानंस्तयोः प्रीत्यर्थम् अह्नवाय्यम् अह्नवाय्यनामकं तयोः शत्रुं “तुर्वणे संग्रामे “व्यानट् व्याप्तवान् ।।


त॒रणिं॑ वो॒ जना॑नां त्र॒दं वाज॑स्य॒ गोम॑तः ।

स॒मा॒नमु॒ प्र शं॑सिषं ॥२८

त॒रणि॑म् । वः॒ । जना॑नाम् । त्र॒दम् । वाज॑स्य । गोऽम॑तः ।

स॒मा॒नम् । ऊं॒ इति॑ । प्र । शं॒सि॒ष॒म् ॥२८

तरणिम् । वः । जनानाम् । त्रदम् । वाजस्य । गोऽमतः ।

समानम् । ऊं इति । प्र । शंसिषम् ॥२८

हे अस्मदीयाः पुरुषाः "वः युष्माकं "जनानां पुत्रपौत्रादीनां “तरणिं तारकं "त्रदं शत्रूणां तर्दयितारं "गोमतः पशुमतोऽन्नस्य दातारं चेन्द्रं "समानमु साधारणमेव “प्र “शंसिषं स्तौमि ।।


ऋ॒भु॒क्षणं॒ न वर्त॑व उ॒क्थेषु॑ तुग्र्या॒वृधं॑ ।

इंद्रं॒ सोमे॒ सचा॑ सु॒ते ॥२९

ऋ॒भु॒क्षण॑म् । न । वर्त॑वे । उ॒क्थेषु॑ । तु॒ग्र्य॒ऽवृध॑म् ।

इन्द्र॑म् । सोमे॑ । सचा॑ । सु॒ते ॥२९

ऋभुक्षणम् । न । वर्तवे । उक्थेषु । तुग्र्यऽवृधम् ।

इन्द्रम् । सोमे । सचा । सुते ॥२९

“ऋभुक्षणं महान्तं "तुग्र्यावृधम् उदकस्य वर्धयितारम् । “तुग्र्या बुर्बुरम्' इत्युदकनामसु पाठात् । "इन्द्रं "सोमे “सचा स्तोत्रेण सह "सुते अभिषुते सति “उक्थेषु शस्त्रेषु वर्तवे धनं वरितुं प्रशंसामीति शेषः । "न इति संप्रत्यर्थे ।


यः कृं॒तदिद्वि यो॒न्यं त्रि॒शोका॑य गि॒रिं पृ॒थुं ।

गोभ्यो॑ गा॒तुं निरे॑तवे ॥३०

यः । कृ॒न्तत् । इत् । वि । यो॒न्यम् । त्रि॒ऽशोका॑य । गि॒रिम् । पृ॒थुम् ।

गोभ्यः॑ । गा॒तुम् । निःऽए॑तवे ॥३०

यः । कृन्तत् । इत् । वि । योन्यम् । त्रिऽशोकाय । गिरिम् । पृथुम् ।

गोभ्यः । गातुम् । निःऽएतवे ॥३०

"यः "इत् य एवेन्द्रः "योन्यम् उदकनिर्गमनद्वारं "पृथुं विस्तीर्णं “गिरिं मेघम्। 'गिरिः व्रजः । इति मेघनामसु पाठात् । "त्रिशोकाय त्रिशोकनामर्ष्यर्थं “वि “कृन्तत् व्यच्छिनत् सः "गोभ्यः गमनवद्भ्य उदकेभ्यः "निरेतवे निर्गमनाय “गातुं भूमिम् । ‘भूमिः गातुः' इति तन्नामसु पाठात् । मार्गमित्यर्थः । करोतीति शेषः ॥ ॥ ४७ ॥


यद्द॑धि॒षे म॑न॒स्यसि॑ मंदा॒नः प्रेदिय॑क्षसि ।

मा तत्क॑रिंद्र मृ॒ळय॑ ॥३१

यत् । द॒धि॒षे । म॒न॒स्यसि॑ । म॒न्दा॒नः । प्र । इत् । इय॑क्षसि ।

मा । तत् । कः॒ । इ॒न्द्र॒ । मृ॒ळय॑ ॥३१

यत् । दधिषे । मनस्यसि । मन्दानः । प्र । इत् । इयक्षसि ।

मा । तत् । कः । इन्द्र । मृळय ॥३१

हे “इन्द्र "मन्दानः मोदमानस्त्वं "यत् शुभं वस्तु "दधिषे धारयसि यच्च "मनस्यसि पूजयसि यदपि च “प्रेदियक्षसि प्रयच्छस्येव “तत् सर्वं “मा “कः किं नाकार्षीः । अस्माकं कृतवानेव । किंचास्मान् "मृळय सुखय ॥


द॒भ्रं चि॒द्धि त्वाव॑तः कृ॒तं शृ॒ण्वे अधि॒ क्षमि॑ ।

जिगा॑त्विंद्र ते॒ मनः॑ ॥३२

द॒भ्रम् । चि॒त् । हि । त्वाऽव॑तः । कृ॒तम् । शृ॒ण्वे । अधि॑ । क्षमि॑ ।

जिगा॑तु । इ॒न्द्र॒ । ते॒ । मनः॑ ॥३२

दभ्रम् । चित् । हि । त्वाऽवतः । कृतम् । शृण्वे । अधि । क्षमि ।

जिगातु । इन्द्र । ते । मनः ॥३२

हे “इन्द्र “त्वावतः त्वत्सदृशस्य "दभ्रं "चित् अल्पमपि "कृतं कर्म "अधि “क्षमि क्षमायाम् । अधीति सप्तम्यर्थानुवादः । "शृण्वे विश्रुतं भवति हि । तथा सति “ते तव “मनः "जिगातु मयि गच्छतु ॥


तवेदु॒ ताः सु॑की॒र्तयोऽस॑न्नु॒त प्रश॑स्तयः ।

यदिं॑द्र मृ॒ळया॑सि नः ॥३३

तव॑ । इत् । ऊं॒ इति॑ । ताः । सु॒ऽकी॒र्तयः॑ । अस॑न् । उ॒त । प्रऽश॑स्तयः ।

यत् । इ॒न्द्र॒ । मृ॒ळया॑सि । नः॒ ॥३३

तव । इत् । ऊं इति । ताः । सुऽकीर्तयः । असन् । उत । प्रऽशस्तयः ।

यत् । इन्द्र । मृळयासि । नः ॥३३

हे इन्द्र त्वं "नः अस्मान् "यत् याभिः "मृळयासि सुखयसि “ताः "सुकीर्तयः शोभनाख्यातयः “तवेत् तवैव "असन् भवेयुः । "उत अपि च ताः "प्रशस्तयः स्तुतयश्च तवैव भवेयुः ॥


मा न॒ एक॑स्मि॒न्नाग॑सि॒ मा द्वयो॑रु॒त त्रि॒षु ।

वधी॒र्मा शू॑र॒ भूरि॑षु ॥३४

मा । नः॒ । एक॑स्मिन् । आग॑सि । मा । द्वयोः॑ । उ॒त । त्रि॒षु ।

वधीः॑ । मा । शू॒र॒ । भूरि॑षु ॥३४

मा । नः । एकस्मिन् । आगसि । मा । द्वयोः । उत । त्रिषु ।

वधीः । मा । शूर । भूरिषु ॥३४

हे “शूर इन्द्र “नः अस्मान् “एकस्मिन्नागसि अपराधे “मा “वधीः मा हिंसीः । “द्वयोः आगसोरपि “मा वधीः । “उत अपि च “त्रिषु आगःस्वपि “मा हिंसीः । “भूरिषु असंख्यातेष्वप्यागःसु मा च वधीः ॥


बि॒भया॒ हि त्वाव॑त उ॒ग्राद॑भिप्रभं॒गिणः॑ ।

द॒स्माद॒हमृ॑ती॒षहः॑ ॥३५

बि॒भय॑ । हि । त्वाऽव॑तः । उ॒ग्रात् । अ॒भि॒ऽप्र॒भ॒ङ्गिनः॑ ।

द॒स्मात् । अ॒हम् । ऋ॒ति॒ऽसहः॑ ॥३५

बिभय । हि । त्वाऽवतः । उग्रात् । अभिऽप्रभङ्गिनः ।

दस्मात् । अहम् । ऋतिऽसहः ॥३५

हे इन्द्र “त्वावतः त्वत्सदृशात् "उग्रात् उद्गूर्णात् अभिप्रभङ्गिणः शत्रूणामभिप्रहर्तुः “दस्मात् पापानामुपक्षपयितुः “ऋतीषहः शत्रुकृतां हिंसां सहतः “अहं “बिभय “हि ॥ ॥ ४८ ॥


मा सख्युः॒ शून॒मा वि॑दे॒ मा पु॒त्रस्य॑ प्रभूवसो ।

आ॒वृत्व॑द्भूतु ते॒ मनः॑ ॥३६

मा । सख्युः॑ । शून॑म् । आ । वि॒दे॒ । मा । पु॒त्रस्य॑ । प्र॒भु॒व॒सो॒ इति॑ प्रभुऽवसो ।

आ॒ऽवृत्व॑त् । भू॒तु॒ । ते॒ । मनः॑ ॥३६

मा । सख्युः । शूनम् । आ । विदे । मा । पुत्रस्य । प्रभुवसो इति प्रभुऽवसो ।

आऽवृत्वत् । भूतु । ते । मनः ॥३६

हे “प्रभूवसो प्रभूतधनेन्द्र “ते तव “सख्युः “शूनं वृद्धं “मा “आ “विदे मावेदयामि । “पुत्रस्य अपि शूनं “मा विदे। तव “मनः अस्मासु “आवृत्वत् आवर्तनवत् "भूतु भवतु । पुनःपुनः सुखं करोत्वित्यर्थः ।।


को नु म॑र्या॒ अमि॑थितः॒ सखा॒ सखा॑यमब्रवीत् ।

ज॒हा को अ॒स्मदी॑षते ॥३७

कः । नु । म॒र्याः॒ । अमि॑थितः । सखा॑ । सखा॑यम् । अ॒ब्र॒वी॒त् ।

ज॒हा । कः । अ॒स्मत् । ई॒ष॒ते॒ ॥३७

कः । नु । मर्याः । अमिथितः । सखा । सखायम् । अब्रवीत् ।

जहा । कः । अस्मत् । ईषते ॥३७

“को “नु कः खलु हे “मर्याः मनुष्याः "अमिथितः । मेथतिराक्रोशकर्मा । अनाक्रुष्ट इन्द्रादन्यः “सखा “सखायं प्रति “जहा अहं कं जघान “कः को वा “अस्मत् अस्मत्तो भीतः “ईषते पलायत इति “अब्रवीत् वदति । इन्द्र एवैतादृशस्य वचनस्य वक्तेत्यभिप्रायः । तथा च यास्कः- मेथतिराक्रोशकर्मा। अपापकं जघान कमहं जातु कोऽस्मद्भीतः पलायते ' (निरु. ४. २) इति । ‘मा न एकस्मिन्नागसि' इत्यादिकया श्रुत्या नूनमृषिमिन्द्र आजहारेत्यर्षिर्विस्मयत इति ।


ए॒वारे॑ वृषभा सु॒तेऽसि॑न्व॒न्भूर्या॑वयः ।

श्व॒घ्नीव॑ नि॒वता॒ चर॑न् ॥३८

ए॒वारे॑ । वृ॒ष॒भ॒ । सु॒ते । असि॑न्वन् । भूरि॑ । आ॒व॒यः॒ ।

श्व॒घ्नीऽइ॑व । नि॒ऽवता॑ । चर॑न् ॥३८

एवारे । वृषभ । सुते । असिन्वन् । भूरि । आवयः ।

श्वघ्नीऽइव । निऽवता । चरन् ॥३८

हे “वृषभ कामानां वर्षकेन्द्र “एवारे । एवारो नाम कश्चित् । तस्मिन् “सुते अभिषुते सोमे सति “भूरि बहूनि धनानि "असिन्वन् न बध्नन् “श्वघ्नी । श्वघ्नी कितवः । तथा च यास्कः - ’श्वघ्नी कितवो भवति स्वं हन्ति---' (निरु. ५, २२ )॥


आ त॑ ए॒ता व॑चो॒युजा॒ हरी॑ गृभ्णे सु॒मद्र॑था ।

यदीं॑ ब्र॒ह्मभ्य॒ इद्ददः॑ ॥३९

आ । ते॒ । ए॒ता । व॒चः॒ऽयुजा॑ । हरी॒ इति॑ । गृ॒भ्णे॒ । सु॒मत्ऽर॑था ।

यत् । ई॒म् । ब्र॒ह्मऽभ्यः॑ । इत् । ददः॑ ॥३९

आ । ते । एता । वचःऽयुजा । हरी इति । गृभ्णे । सुमत्ऽरथा ।

यत् । ईम् । ब्रह्मऽभ्यः । इत् । ददः ॥३९

“ते तव “सुमद्रथा कल्याणरथौ “वचोयुजा मन्त्रेण युज्यमानौ “एता एतौ “हरी अश्वौ “आ “गृभ्णे । अस्मदभिमुखं यातुं हस्ताभ्यामाकर्षामीत्यर्थः । “यत् यस्मात् त्वं “ब्रह्मभ्य “इत् ब्राह्मणेभ्य एव “ईम् इदं धनं “ददः ददासि ॥


भिं॒धि विश्वा॒ अप॒ द्विषः॒ परि॒ बाधो॑ ज॒ही मृधः॑ ।

वसु॑ स्पा॒र्हं तदा भ॑र ॥४०

भि॒न्धि । विश्वाः॑ । अप॑ । द्विषः॑ । परि॑ । बाधः॑ । ज॒हि । मृधः॑ ।

वसु॑ । स्पा॒र्हम् । तत् । आ । भ॒र॒ ॥४०

भिन्धि । विश्वाः । अप । द्विषः । परि । बाधः । जहि । मृधः ।

वसु । स्पार्हम् । तत् । आ । भर ॥४०

हे इन्द्र त्वं “विश्वाः सर्वाः “द्विषः द्वेष्ट्रीः शत्रुसेनाः "अप “भिन्धि विदारय । “बाधः हिंसित्रीः “मृधः संग्रामान् । 'स्पृधः मृधः' इति संग्रामनामसु पाठात् । “परि “जहि हिन्धि। अतस्तासां "स्पार्हं स्पृहणीयं “तत् प्रसिद्धं “वसु “आ “भर अस्मभ्यमाहर ।।


यद्वी॒ळाविं॑द्र॒ यत्स्थि॒रे यत्पर्शा॑ने॒ परा॑भृतं ।

वसु॑ स्पा॒र्हं तदा भ॑र ॥४१

यत् । वी॒ळौ । इ॒न्द्र॒ । यत् । स्थि॒रे । यत् । पर्शा॑ने । परा॑ऽभृतम् ।

वसु॑ । स्पा॒र्हम् । तत् । आ । भ॒र॒ ॥४१

यत् । वीळौ । इन्द्र । यत् । स्थिरे । यत् । पर्शाने । पराऽभृतम् ।

वसु । स्पार्हम् । तत् । आ । भर ॥४१

हे “इन्द्र त्वया च "वीळौ दृढे परैः कम्पयितुमशक्ये “यत् धनं “पराभृतं विन्यस्तं “यत् च “स्थिरे स्वयमचले पराभृतं “यत् चापि "पर्शाने विमर्शनक्षमे पराभृतं “तत् “स्पार्हं "वसु “आ “भर ॥


यस्य॑ ते वि॒श्वमा॑नुषो॒ भूरे॑र्द॒त्तस्य॒ वेद॑ति ।

वसु॑ स्पा॒र्हं तदा भ॑र ॥४२

यस्य॑ । ते॒ । वि॒श्वऽमा॑नुषः । भूरेः॑ । द॒त्तस्य॑ । वेद॑ति ।

वसु॑ । स्पा॒र्हम् । तत् । आ । भ॒र॒ ॥४२

यस्य । ते । विश्वऽमानुषः । भूरेः । दत्तस्य । वेदति ।

वसु । स्पार्हम् । तत् । आ । भर ॥४२

हे इन्द्र “ते त्वया । विभक्तिव्यत्ययः । "दत्तस्य दत्तं "भूरेः बहु यस्य यद्धनम् । कर्मणि षष्ठी । “विश्वमानुषः सर्वो मनुष्यः “वेदति जानाति “तत् "स्पार्हं स्पृहणीयं "वसु “आ “भर ॥ ॥ ४९ ॥


वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन् ।।

पुमर्थाँश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ॥

इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरबुक्कभूपालसाम्राज्यधुरंधरेण सायणाचार्येण विरचिते माधवीये वेदार्थप्रकाशे ऋक्संहिताभाष्ये षष्ठाष्टके तृतीयोऽध्यायः ॥

मण्डल ८

सूक्तं ८.१

सूक्तं ८.२

सूक्तं ८.३

सूक्तं ८.४

सूक्तं ८.५

सूक्तं ८.६

सूक्तं ८.७

सूक्तं ८.८

सूक्तं ८.९

सूक्तं ८.१०

सूक्तं ८.११

सूक्तं ८.१२

सूक्तं ८.१३

सूक्तं ८.१४

सूक्तं ८.१५

सूक्तं ८.१६

सूक्तं ८.१७

सूक्तं ८.१८

सूक्तं ८.१९

सूक्तं ८.२०

सूक्तं ८.२१

सूक्तं ८.२२

सूक्तं ८.२३

सूक्तं ८.२४

सूक्तं ८.२५

सूक्तं ८.२६

सूक्तं ८.२७

सूक्तं ८.२८

सूक्तं ८.२९

सूक्तं ८.३०

सूक्तं ८.३१

सूक्तं ८.३२

सूक्तं ८.३३

सूक्तं ८.३४

सूक्तं ८.३५

सूक्तं ८.३६

सूक्तं ८.३७

सूक्तं ८.३८

सूक्तं ८.३९

सूक्तं ८.४०

सूक्तं ८.४१

सूक्तं ८.४२

सूक्तं ८.४३

सूक्तं ८.४४

सूक्तं ८.४५

सूक्तं ८.४६

सूक्तं ८.४७

सूक्तं ८.४८

सूक्तं ८.४९

सूक्तं ८.५०

सूक्तं ८.५१

सूक्तं ८.५२

सूक्तं ८.५३

सूक्तं ८.५४

सूक्तं ८.५५

सूक्तं ८.५६

सूक्तं ८.५७

सूक्तं ८.५८

सूक्तं ८.५९

सूक्तं ८.६०

सूक्तं ८.६१

सूक्तं ८.६२

सूक्तं ८.६३

सूक्तं ८.६४

सूक्तं ८.६५

सूक्तं ८.६६

सूक्तं ८.६७

सूक्तं ८.६८

सूक्तं ८.६९

सूक्तं ८.७०

सूक्तं ८.७१

सूक्तं ८.७२

सूक्तं ८.७३

सूक्तं ८.७४

सूक्तं ८.७५

सूक्तं ८.७६

सूक्तं ८.७७

सूक्तं ८.७८

सूक्तं ८.७९

सूक्तं ८.८०

सूक्तं ८.८१

सूक्तं ८.८२

सूक्तं ८.८३

सूक्तं ८.८४

सूक्तं ८.८५

सूक्तं ८.८६

सूक्तं ८.८७

सूक्तं ८.८८

सूक्तं ८.८९

सूक्तं ८.९०

सूक्तं ८.९१

सूक्तं ८.९२

सूक्तं ८.९३

सूक्तं ८.९४

सूक्तं ८.९५

सूक्तं ८.९६

सूक्तं ८.९७

सूक्तं ८.९८

सूक्तं ८.९९

सूक्तं ८.१००

सूक्तं ८.१०१

सूक्तं ८.१०२

सूक्तं ८.१०३

[सम्पाद्यताम्]

८.४५.३७

सामान्यवाचिनः शब्दा विशेषे स्थापिताः क्वचित् । पलायने यथा वृत्तिः को नु मर्या इतीषते ।।बृहद्देवता २.१०९।।

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_८.४५&oldid=208933" इत्यस्माद् पुनः प्राप्तिः