ऋग्वेदः सूक्तं ८.४४

विकिस्रोतः तः
(ऋग्वेद: सूक्तं ८.४४ इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search
← सूक्तं ८.४३ ऋग्वेदः - मण्डल ८
सूक्तं ८.४४
विरूप आङ्गिरसः
सूक्तं ८.४५ →
दे. अग्निः। गायत्री


समिधाग्निं दुवस्यत घृतैर्बोधयतातिथिम् ।
आस्मिन्हव्या जुहोतन ॥१॥
अग्ने स्तोमं जुषस्व मे वर्धस्वानेन मन्मना ।
प्रति सूक्तानि हर्य नः ॥२॥
अग्निं दूतं पुरो दधे हव्यवाहमुप ब्रुवे ।
देवाँ आ सादयादिह ॥३॥
उत्ते बृहन्तो अर्चयः समिधानस्य दीदिवः ।
अग्ने शुक्रास ईरते ॥४॥
उप त्वा जुह्वो मम घृताचीर्यन्तु हर्यत ।
अग्ने हव्या जुषस्व नः ॥५॥
मन्द्रं होतारमृत्विजं चित्रभानुं विभावसुम् ।
अग्निमीळे स उ श्रवत् ॥६॥
प्रत्नं होतारमीड्यं जुष्टमग्निं कविक्रतुम् ।
अध्वराणामभिश्रियम् ॥७॥
जुषाणो अङ्गिरस्तमेमा हव्यान्यानुषक् ।
अग्ने यज्ञं नय ऋतुथा ॥८॥
समिधान उ सन्त्य शुक्रशोच इहा वह ।
चिकित्वान्दैव्यं जनम् ॥९॥
विप्रं होतारमद्रुहं धूमकेतुं विभावसुम् ।
यज्ञानां केतुमीमहे ॥१०॥
अग्ने नि पाहि नस्त्वं प्रति ष्म देव रीषतः ।
भिन्धि द्वेषः सहस्कृत ॥११॥
अग्निः प्रत्नेन मन्मना शुम्भानस्तन्वं स्वाम् ।
कविर्विप्रेण वावृधे ॥१२॥
ऊर्जो नपातमा हुवेऽग्निं पावकशोचिषम् ।
अस्मिन्यज्ञे स्वध्वरे ॥१३॥
स नो मित्रमहस्त्वमग्ने शुक्रेण शोचिषा ।
देवैरा सत्सि बर्हिषि ॥१४॥
यो अग्निं तन्वो दमे देवं मर्तः सपर्यति ।
तस्मा इद्दीदयद्वसु ॥१५॥
अग्निर्मूर्धा दिवः ककुत्पतिः पृथिव्या अयम् ।
अपां रेतांसि जिन्वति ॥१६॥
उदग्ने शुचयस्तव शुक्रा भ्राजन्त ईरते ।
तव ज्योतींष्यर्चयः ॥१७॥
ईशिषे वार्यस्य हि दात्रस्याग्ने स्वर्पतिः ।
स्तोता स्यां तव शर्मणि ॥१८॥
त्वामग्ने मनीषिणस्त्वां हिन्वन्ति चित्तिभिः ।
त्वां वर्धन्तु नो गिरः ॥१९॥
अदब्धस्य स्वधावतो दूतस्य रेभतः सदा ।
अग्नेः सख्यं वृणीमहे ॥२०॥
अग्निः शुचिव्रततमः शुचिर्विप्रः शुचिः कविः ।
शुची रोचत आहुतः ॥२१॥
उत त्वा धीतयो मम गिरो वर्धन्तु विश्वहा ।
अग्ने सख्यस्य बोधि नः ॥२२॥
यदग्ने स्यामहं त्वं त्वं वा घा स्या अहम् ।
स्युष्टे सत्या इहाशिषः ॥२३॥
वसुर्वसुपतिर्हि कमस्यग्ने विभावसुः ।
स्याम ते सुमतावपि ॥२४॥
अग्ने धृतव्रताय ते समुद्रायेव सिन्धवः ।
गिरो वाश्रास ईरते ॥२५॥
युवानं विश्पतिं कविं विश्वादं पुरुवेपसम् ।
अग्निं शुम्भामि मन्मभिः ॥२६॥
यज्ञानां रथ्ये वयं तिग्मजम्भाय वीळवे ।
स्तोमैरिषेमाग्नये ॥२७॥
अयमग्ने त्वे अपि जरिता भूतु सन्त्य ।
तस्मै पावक मृळय ॥२८॥
धीरो ह्यस्यद्मसद्विप्रो न जागृविः सदा ।
अग्ने दीदयसि द्यवि ॥२९॥
पुराग्ने दुरितेभ्यः पुरा मृध्रेभ्यः कवे ।
प्र ण आयुर्वसो तिर ॥३०॥

सायणभाष्यम्

‘समिधाग्निम् ' इति त्रिंशदृचं द्वितीयं सूक्तमाङ्गिरसस्य विरूपस्यार्षं प्राग्वत्सप्रपरिभाषया गायत्रमाग्नेयम् । तथा चानुक्रम्यते - ’समिधाग्निं त्रिंशत्' इति । प्रातरनुवाके गायत्रे छन्दस्याश्विनशस्त्रे चेदं विनियुक्तम् । महाव्रते ‘ समिधाग्निम्' इत्याद्याश्चतस्रः सामिधेन्यः । तथा च पञ्चमारण्यके सूत्रितं - समिधाग्निमिति चतस्रो वैश्वकर्मण ऋषभः' (ऐ. आ. ५. १. १) इति । आतिथ्यायां ‘ समिधाग्निम्' इत्येषा प्रथमाज्यभागस्यानुवाक्या । सूत्रितं च - समिधाग्निं दुवस्यता प्यायस्व समेतु ते ' (आश्व. श्रौ. ४. ५) इति । अमावास्यायां प्रथमाज्यभागस्यानुवाक्या । सूत्रितं च -- वृधन्वन्तावमावास्यायामग्निः प्रत्नेन मन्मना' (आश्व. श्रौ. १. ५) इति । दर्शपूर्णमासयोराग्नेयस्यानुवाक्या ‘अग्निमूर्धा' इत्येषा । सूत्रितं च – 'अग्निर्मूर्धा भुवो यज्ञस्य' (आश्व. श्रौ. १. ६ ) इति । मूर्धन्वद्गुणस्याग्नेरप्येषैवानुवाक्या । सूत्रितं च-- नित्ये मूर्धन्व' इति । पवमानेष्टिषु द्वितीयस्यामिष्टावग्नेः शुचेरनुवाक्या 'अग्निः शुचिव्रततमः' इत्येषा । सूत्रितं च--' अग्निः शुचिव्रततम उदग्ने शुचयस्तव' (आश्व. श्रौ. २. १) इति ॥


स॒मिधा॒ग्निं दु॑वस्यत घृ॒तैर्बो॑धय॒ताति॑थिं ।

आस्मि॑न्ह॒व्या जु॑होतन ॥१

स॒म्ऽइधा॑ । अ॒ग्निम् । दु॒व॒स्य॒त॒ । घृ॒तैः । बो॒ध॒य॒त॒ । अति॑थिम् ।

आ । अ॒स्मि॒न् । ह॒व्या । जु॒हो॒त॒न॒ ॥१

सम्ऽइधा । अग्निम् । दुवस्यत । घृतैः । बोधयत । अतिथिम् ।

आ । अस्मिन् । हव्या । जुहोतन ॥१

हे ऋत्विजः "अतिथिम् अतिथिवत् प्रियम् "अग्निं "समिधा दुवस्यत परिचरत । “घृतैः दीप्तिसाधनैराज्यैः “बोधयत च । "अस्मिन् समिद्धेऽग्नौ "हव्या हवींषि "आ जुहोतन आजुहुत च ।


अग्ने॒ स्तोमं॑ जुषस्व मे॒ वर्ध॑स्वा॒नेन॒ मन्म॑ना ।

प्रति॑ सू॒क्तानि॑ हर्य नः ॥२

अग्ने॑ । स्तोम॑म् । जु॒ष॒स्व॒ । मे॒ । वर्ध॑स्व । अ॒नेन॑ । मन्म॑ना ।

प्रति॑ । सु॒ऽउ॒क्तानि॑ । ह॒र्य॒ । नः॒ ॥२

अग्ने । स्तोमम् । जुषस्व । मे । वर्धस्व । अनेन । मन्मना ।

प्रति । सुऽउक्तानि । हर्य । नः ॥२

हे "अग्ने मे आङ्गिरसस्य मम "स्तोमं स्तोत्रं "जुषस्व सेवस्व । "अनेन "मन्मना मननीयेन स्तोत्रेण "वर्धस्व च । “नः अस्माकं "सूक्तानि “प्रति "हर्य कामय च ॥


अ॒ग्निं दू॒तं पु॒रो द॑धे हव्य॒वाह॒मुप॑ ब्रुवे ।

दे॒वाँ आ सा॑दयादि॒ह ॥३

अ॒ग्निम् । दू॒तम् । पु॒रः । द॒धे॒ । ह॒व्य॒ऽवाह॑म् । उप॑ । ब्रु॒वे॒ ।

दे॒वान् । आ । सा॒द॒या॒त् । इ॒ह ॥३

अग्निम् । दूतम् । पुरः । दधे । हव्यऽवाहम् । उप । ब्रुवे ।

देवान् । आ । सादयात् । इह ॥३

"दूतं देवानां "हव्यवाहं हविषां वोढारं च "अग्निं "पुरो "दधे पुरस्करोमि। “उप “ब्रुवे उपस्तौमि च । सोऽग्निः "इह यज्ञे "देवान् "आ “सादयत् आसादयतु ।।


उत्ते॑ बृ॒हंतो॑ अ॒र्चयः॑ समिधा॒नस्य॑ दीदिवः ।

अग्ने॑ शु॒क्रास॑ ईरते ॥४

उत् । ते॒ । बृ॒हन्तः॑ । अ॒र्चयः॑ । स॒म्ऽइ॒धा॒नस्य॑ । दी॒दि॒ऽवः॒ ।

अग्ने॑ । शु॒क्रासः॑ । ई॒र॒ते॒ ॥४

उत् । ते । बृहन्तः । अर्चयः । सम्ऽइधानस्य । दीदिऽवः ।

अग्ने । शुक्रासः । ईरते ॥४

हे "दीदिवः दीप्त “अग्ने "समिधानस्य समिध्यमानस्य “ते तव "बृहन्तः महान्तः “शुक्रासः ज्वलन्तः "अर्चयः दीप्तयः "उत् "ईरते ॥


उप॑ त्वा जु॒ह्वो॒३॒॑ मम॑ घृ॒ताची॑र्यंतु हर्यत ।

अग्ने॑ ह॒व्या जु॑षस्व नः ॥५

उप॑ । त्वा॒ । जु॒ह्वः॑ । मम॑ । घृ॒ताचीः॑ । य॒न्तु॒ । ह॒र्य॒त॒ ।

अग्ने॑ । ह॒व्या । जु॒ष॒स्व॒ । नः॒ ॥५

उप । त्वा । जुह्वः । मम । घृताचीः । यन्तु । हर्यत ।

अग्ने । हव्या । जुषस्व । नः ॥५

हे "हर्यत कामयमान "अग्ने "मम मदीयाः “घृताचीः घृतमञ्चन्त्यः "जुह्वः स्रुचः “त्वा त्वाम् "उप "यन्तु । "नः अस्माकं "हव्या हव्यानि "जुषस्व सेवस्व च ॥ ॥ ३६ ।।


मं॒द्रं होता॑रमृ॒त्विजं॑ चि॒त्रभा॑नुं वि॒भाव॑सुं ।

अ॒ग्निमी॑ळे॒ स उ॑ श्रवत् ॥६

म॒न्द्रम् । होता॑रम् । ऋ॒त्विज॑म् । चि॒त्रऽभा॑नुम् । वि॒भाऽव॑सुम् ।

अ॒ग्निम् । ई॒ळे॒ । सः । ऊं॒ इति॑ । श्र॒व॒त् ॥६

मन्द्रम् । होतारम् । ऋत्विजम् । चित्रऽभानुम् । विभाऽवसुम् ।

अग्निम् । ईळे । सः । ऊं इति । श्रवत् ॥६

“मन्द्रं मादनं “होतारं देवानामाह्वातारम् “ऋत्विजम् ऋतौ यष्टव्यं “चित्रभानुं चित्रदीप्तिं “विभावसुं दीप्तिधनम् "अग्निम् ईळे स्तौमि । "सः अग्निः “श्रवत् अस्मदीयां स्तुतिं शृणोत्वेव ॥


प्र॒त्नं होता॑र॒मीड्यं॒ जुष्ट॑म॒ग्निं क॒विक्र॑तुं ।

अ॒ध्व॒राणा॑मभि॒श्रियं॑ ॥७

प्र॒त्नम् । होता॑रम् । ईड्य॑म् । जुष्ट॑म् । अ॒ग्निम् । क॒विऽक्र॑तुम् ।

अ॒ध्व॒राणा॑म् । अ॒भि॒ऽश्रिय॑म् ॥७

प्रत्नम् । होतारम् । ईड्यम् । जुष्टम् । अग्निम् । कविऽक्रतुम् ।

अध्वराणाम् । अभिऽश्रियम् ॥७

“प्रत्नं पुराणं "होतारं देवानामाह्वातारम् "ईड्यं स्तुत्यं "जुष्टं प्रीतं सेवितं वा "कविक्रतुं क्रान्तकर्माणम् "अध्वराणां यज्ञानाम् "अभिश्रियम् अभिश्रयितारमीड्यम् "अग्निम् ईळे स्तौमि ॥


जु॒षा॒णो अं॑गिरस्तमे॒मा ह॒व्यान्या॑नु॒षक् ।

अग्ने॑ य॒ज्ञं न॑य ऋतु॒था ॥८

जु॒षा॒णः । अ॒ङ्गि॒रः॒ऽत॒म॒ । इ॒मा । ह॒व्यानि॑ । आ॒नु॒षक् ।

अग्ने॑ । य॒ज्ञम् । न॒य॒ । ऋ॒तु॒ऽथा ॥८

जुषाणः । अङ्गिरःऽतम । इमा । हव्यानि । आनुषक् ।

अग्ने । यज्ञम् । नय । ऋतुऽथा ॥८

हे "अङ्गिरस्तम अङ्गिरसां श्रेष्ठ "अग्ने “इमा इमान्यस्मदीयानि “हव्यानि हवींषि “आनुषक् अनुषक्तं यथा भवति तथा “जुषाणः सेवमानो भव । “ऋतुथा काले काले "यज्ञं च "नय ॥


स॒मि॒धा॒न उ॑ संत्य॒ शुक्र॑शोच इ॒हा व॑ह ।

चि॒कि॒त्वांदैव्यं॒ जनं॑ ॥९

स॒म्ऽइ॒धा॒नः । ऊं॒ इति॑ । स॒न्त्य॒ । शुक्र॑ऽशोचे । इ॒ह । आ । व॒ह॒ ।

चि॒कि॒त्वान् । दैव्य॑म् । जन॑म् ॥९

सम्ऽइधानः । ऊं इति । सन्त्य । शुक्रऽशोचे । इह । आ । वह ।

चिकित्वान् । दैव्यम् । जनम् ॥९

हे "सन्त्य भजनशील "शुक्रशोचे ज्वलद्दीप्ते त्वं "समिधान "उ समिध्यमान एव "दैव्यं देवसंबन्धिनं "जनं "चिकित्वान् जानन् "इह यज्ञे "आ "वह ॥


विप्रं॒ होता॑रम॒द्रुहं॑ धू॒मके॑तुं वि॒भाव॑सुं ।

य॒ज्ञानां॑ के॒तुमी॑महे ॥१०

विप्र॑म् । होता॑रम् । अ॒द्रुह॑म् । धू॒मऽके॑तुम् । वि॒भाऽव॑सुम् ।

य॒ज्ञाना॑म् । के॒तुम् । ई॒म॒हे॒ ॥१०

विप्रम् । होतारम् । अद्रुहम् । धूमऽकेतुम् । विभाऽवसुम् ।

यज्ञानाम् । केतुम् । ईमहे ॥१०

"विप्रं मेधाविनं "होतारं देवानामाह्वातारम् "अद्रुहम् अद्रोग्धारं “धूमकेतुं धूमध्वजं “विभावसुं दीप्तिधनं "यज्ञानां "केतुं पताकास्थानीयमग्निम् "ईमहे अभीष्टं याचामहे ॥ ॥ ३७ ॥


अग्ने॒ नि पा॑हि न॒स्त्वं प्रति॑ ष्म देव॒ रीष॑तः ।

भिं॒धि द्वेषः॑ सहस्कृत ॥११

अग्ने॑ । नि । पा॒हि॒ । नः॒ । त्वम् । प्रति॑ । स्म॒ । दे॒व॒ । रिष॑तः ।

भि॒न्धि । द्वेषः॑ । स॒हः॒ऽकृ॒त॒ ॥११

अग्ने । नि । पाहि । नः । त्वम् । प्रति । स्म । देव । रिषतः ।

भिन्धि । द्वेषः । सहःऽकृत ॥११

हे "सहस्कृत बलेन कृत "देव दीप्त “अग्ने "रिषतः हिंसकान् "नः अस्मान् "प्रति "नि "पाहि प्रतिरक्ष । "स्म इति पूरणः । "द्वेषः द्विषः शत्रूंश्च "भिन्धि विदारय ॥


अ॒ग्निः प्र॒त्नेन॒ मन्म॑ना॒ शुंभा॑नस्त॒न्वं१॒॑ स्वां ।

क॒विर्विप्रे॑ण वावृधे ॥१२

अ॒ग्निः । प्र॒त्नेन॑ । मन्म॑ना । शुम्भा॑नः । त॒न्व॑म् । स्वाम् ।

क॒विः । विप्रे॑ण । व॒वृ॒धे॒ ॥१२

अग्निः । प्रत्नेन । मन्मना । शुम्भानः । तन्वम् । स्वाम् ।

कविः । विप्रेण । ववृधे ॥१२

“कविः क्रान्तकर्मा “अग्निः “प्रत्नेन पुराणेन "मन्मना मननीयेन स्तोत्रेण "स्वां स्वकीयां “तन्वं तनुमङ्गं “शुम्भानः शोभयन् "विप्रेण मेधाविना स्तोत्रा “ववृधे प्रवृद्धो भवति ॥


ऊ॒र्जो नपा॑त॒मा हु॑वे॒ऽग्निं पा॑व॒कशो॑चिषं ।

अ॒स्मिन्य॒ज्ञे स्व॑ध्व॒रे ॥१३

ऊ॒र्जः । नपा॑तम् । आ । हु॒वे॒ । अ॒ग्निम् । पा॒व॒कऽशो॑चिषम् ।

अ॒स्मिन् । य॒ज्ञे । सु॒ऽअ॒ध्व॒रे ॥१३

ऊर्जः । नपातम् । आ । हुवे । अग्निम् । पावकऽशोचिषम् ।

अस्मिन् । यज्ञे । सुऽअध्वरे ॥१३

“ऊर्जः अन्नस्य "नपातं पुत्रं "पावकशोचिषं शोधकदीप्तिम् "अग्निं "स्वध्वरे असुरैरत्यन्तमहिंस्ये “अस्मिन् "यज्ञे "आ "हुवे आह्वयामि ॥


स नो॑ मित्रमह॒स्त्वमग्ने॑ शु॒क्रेण॑ शो॒चिषा॑ ।

दे॒वैरा स॑त्सि ब॒र्हिषि॑ ॥१४

सः । नः॒ । मि॒त्र॒ऽम॒हः॒ । त्वम् । अग्ने॑ । शु॒क्रेण॑ । शो॒चिषा॑ ।

दे॒वैः । आ । स॒त्सि॒ । ब॒र्हिषि॑ ॥१४

सः । नः । मित्रऽमहः । त्वम् । अग्ने । शुक्रेण । शोचिषा ।

देवैः । आ । सत्सि । बर्हिषि ॥१४

हे "मित्रमहः मित्राणां पूजनीय "अग्ने "सः “त्वं "शुक्रेण ज्वलता "शोचिषा तेजसा "देवैः सह “बर्हिषि यज्ञे "आ "सत्सि आसीद ॥


यो अ॒ग्निं त॒न्वो॒३॒॑ दमे॑ दे॒वं मर्तः॑ सप॒र्यति॑ ।

तस्मा॒ इद्दी॑दय॒द्वसु॑ ॥१५

यः । अ॒ग्निम् । त॒न्वः॑ । दमे॑ । दे॒वम् । मर्तः॑ । स॒प॒र्यति॑ ।

तस्मै॑ । इत् । दी॒द॒य॒त् । वसु॑ ॥१५

यः । अग्निम् । तन्वः । दमे । देवम् । मर्तः । सपर्यति ।

तस्मै । इत् । दीदयत् । वसु ॥१५

"यः "मर्तः मनुष्यः "दमे गृहे "अग्निं "देवं "तन्वः धनस्य प्राप्त्यर्थमिति शेषः । ‘भोजनं तना' इति धननामसु पाठात् । "सपर्यति परिचरति “तस्मा "इत् तस्मा एव "वसु धनं दीदयत्। सोऽग्निः प्रयच्छति ॥ ॥ ३८ ॥


अ॒ग्निर्मू॒र्धा दि॒वः क॒कुत्पतिः॑ पृथि॒व्या अ॒यं ।

अ॒पां रेतां॑सि जिन्वति ॥१६

अ॒ग्निः । मू॒र्धा । दि॒वः । क॒कुत् । पतिः॑ । पृ॒थि॒व्याः । अ॒यम् ।

अ॒पाम् । रेतां॑सि । जि॒न्व॒ति॒ ॥१६

अग्निः । मूर्धा । दिवः । ककुत् । पतिः । पृथिव्याः । अयम् ।

अपाम् । रेतांसि । जिन्वति ॥१६

"मूर्धा देवानां श्रेष्ठः "दिवः द्युलोकस्य "ककुत् उच्छ्रितः "पृथिव्याः च "पतिः "अयम् “अग्निः “अपां "रेतांसि स्थावरजङ्गमात्मकानि भूतानि जिन्वति प्रीणयति ।।


उद॑ग्ने॒ शुच॑य॒स्तव॑ शु॒क्रा भ्राजं॑त ईरते ।

तव॒ ज्योतीं॑ष्य॒र्चयः॑ ॥१७

उत् । अ॒ग्ने॒ । शुच॑यः । तव॑ । शु॒क्राः । भ्राज॑न्तः । ई॒र॒ते॒ ।

तव॑ । ज्योतीं॑षि । अ॒र्चयः॑ ॥१७

उत् । अग्ने । शुचयः । तव । शुक्राः । भ्राजन्तः । ईरते ।

तव । ज्योतींषि । अर्चयः ॥१७

हे "अग्ने ते "तव "शुचयः निर्मलाः “शुक्राः शुक्लवर्णाः “भ्राजन्तः दीप्यमानाः "अर्चयः प्रभाः "तव "ज्योतींषि तेजांसि “उत् "ईरते प्रेरयन्ति ॥


ईशि॑षे॒ वार्य॑स्य॒ हि दा॒त्रस्या॑ग्ने॒ स्व॑र्पतिः ।

स्तो॒ता स्यां॒ तव॒ शर्म॑णि ॥१८

ईशि॑षे । वार्य॑स्य । हि । दा॒त्रस्य॑ । अ॒ग्ने॒ । स्वः॑ऽपतिः ।

स्तो॒ता । स्या॒म् । तव॑ । शर्म॑णि ॥१८

ईशिषे । वार्यस्य । हि । दात्रस्य । अग्ने । स्वःऽपतिः ।

स्तोता । स्याम् । तव । शर्मणि ॥१८

हे "अग्ने "स्वर्पतिः स्वर्गस्य स्वामी त्वं “वार्यस्य वरणीयस्य “दात्रस्य दातव्यस्य धनस्य “ईशिषे ईश्वरोऽसि । "शर्मणि सुखे निमित्ते "तव "स्तोता "स्यां भवेयम् ॥


त्वाम॑ग्ने मनी॒षिण॒स्त्वां हि॑न्वंति॒ चित्ति॑भिः ।

त्वां व॑र्धंतु नो॒ गिरः॑ ॥१९

त्वाम् । अ॒ग्ने॒ । म॒नी॒षिणः॑ । त्वाम् । हि॒न्व॒न्ति॒ । चित्ति॑ऽभिः ।

त्वाम् । व॒र्ध॒न्तु॒ । नः॒ । गिरः॑ ॥१९

त्वाम् । अग्ने । मनीषिणः । त्वाम् । हिन्वन्ति । चित्तिऽभिः ।

त्वाम् । वर्धन्तु । नः । गिरः ॥१९

हे "अग्ने "त्वां "मनीषिणः मनस ईश्वराः स्तोतारः स्तुतिभिः स्तुवन्तीति शेषः । किंच "त्वाम् एव "चित्तिभिः कर्मभिः “हिन्वन्ति प्रणयन्ति । "नः अस्माकं "गिरः स्तुतयः “त्वाम् एव “वर्धन्तु वर्धयन्तु ।।


अद॑ब्धस्य स्व॒धाव॑तो दू॒तस्य॒ रेभ॑तः॒ सदा॑ ।

अ॒ग्नेः स॒ख्यं वृ॑णीमहे ॥२०

अद॑ब्धस्य । स्व॒धाऽव॑तः । दू॒तस्य॑ । रेभ॑तः । सदा॑ ।

अ॒ग्नेः । स॒ख्यम् । वृ॒णी॒म॒हे॒ ॥२०

अदब्धस्य । स्वधाऽवतः । दूतस्य । रेभतः । सदा ।

अग्नेः । सख्यम् । वृणीमहे ॥२०

हे अग्ने "अदब्धस्य केनाप्यहिंसितस्य "स्वधावतः बलवतः "दूतस्य देवानां "रेभतः देवान् स्तुवतस्तव "सख्यं "सदा वयं "वृणीमहे ॥ ॥ ३९ ॥


अ॒ग्निः शुचि॑व्रततमः॒ शुचि॒र्विप्रः॒ शुचिः॑ क॒विः ।

शुची॑ रोचत॒ आहु॑तः ॥२१

अ॒ग्निः । शुचि॑व्रतऽतमः । शुचिः॑ । विप्रः॑ । शुचिः॑ । क॒विः ।

शुचिः॑ । रो॒च॒ते॒ । आऽहु॑तः ॥२१

अग्निः । शुचिव्रतऽतमः । शुचिः । विप्रः । शुचिः । कविः ।

शुचिः । रोचते । आऽहुतः ॥२१

“शुचिव्रततमः अतिशयेन शुद्धकर्मा “शुचिः शुद्ध एवं "विप्रः मेधावी "शुचिः शुद्धः सन्नेव "कविः क्रान्तकर्मा “शुचिः एव "आहुतः "अग्निः "रोचते प्रकाशते ।।


उ॒त त्वा॑ धी॒तयो॒ मम॒ गिरो॑ वर्धंतु वि॒श्वहा॑ ।

अग्ने॑ स॒ख्यस्य॑ बोधि नः ॥२२

उ॒त । त्वा॒ । धी॒तयः॑ । मम॑ । गिरः॑ । व॒र्ध॒न्तु॒ । वि॒श्वहा॑ ।

अग्ने॑ । स॒ख्यस्य॑ । बो॒धि॒ । नः॒ ॥२२

उत । त्वा । धीतयः । मम । गिरः । वर्धन्तु । विश्वहा ।

अग्ने । सख्यस्य । बोधि । नः ॥२२

"उत अपि च हे "अग्ने "त्वा त्वां "मम “धीतयः कर्माणि "गिरः स्तुतयश्च "विश्वहा सर्वदा “वर्धन्तु वर्धयन्तु । "नः अस्माकं "सख्यस्य सख्यं सखिकर्म स्तुत्यादिकं “बोधि बुध्यस्व ॥


यद॑ग्ने॒ स्याम॒हं त्वं त्वं वा॑ घा॒ स्या अ॒हं ।

स्युष्टे॑ स॒त्या इ॒हाशिषः॑ ॥२३

यत् । अ॒ग्ने॒ । स्याम् । अ॒हम् । त्वम् । त्वम् । वा॒ । घ॒ । स्याः । अ॒हम् ।

स्युः । ते॒ । स॒त्याः । इ॒ह । आ॒ऽशिषः॑ ॥२३

यत् । अग्ने । स्याम् । अहम् । त्वम् । त्वम् । वा । घ । स्याः । अहम् ।

स्युः । ते । सत्याः । इह । आऽशिषः ॥२३

हे "अग्ने "यत् यदि "अहं "त्वं बहुधनः “स्यां भवेयं "त्वं “वा “घ त्वं वा खलु "अहं दरिद्रः स्तोता "स्याः भवेः ततस्तव “आशिषः आशासनानि “इह अस्मद्विषये “सत्याः सत्यानि “स्युः भवेयुः ॥


वसु॒र्वसु॑पति॒र्हि क॒मस्य॑ग्ने वि॒भाव॑सुः ।

स्याम॑ ते सुम॒तावपि॑ ॥२४

वसुः॑ । वसु॑ऽपतिः । हि । क॒म् । असि॑ । अ॒ग्ने॒ । वि॒भाऽव॑सुः ।

स्याम॑ । ते॒ । सु॒ऽम॒तौ । अपि॑ ॥२४

वसुः । वसुऽपतिः । हि । कम् । असि । अग्ने । विभाऽवसुः ।

स्याम । ते । सुऽमतौ । अपि ॥२४

हे "अग्ने त्वं "विभावसुः दीप्तिधनः “वसुपतिः धनपतिः "वसुः वासयिता च “असि भवसि “हि यस्मादतो वयम् "अपि "ते तव "सुमतौ अनुग्रहबुद्धौ "स्याम भवेम ।।


अग्ने॑ धृ॒तव्र॑ताय ते समु॒द्राये॑व॒ सिंध॑वः ।

गिरो॑ वा॒श्रास॑ ईरते ॥२५

अग्ने॑ । धृ॒तऽव्र॑ताय । ते॒ । स॒मु॒द्राय॑ऽइव । सिन्ध॑वः ।

गिरः॑ । वा॒श्रासः॑ । ई॒र॒ते॒ ॥२५

अग्ने । धृतऽव्रताय । ते । समुद्रायऽइव । सिन्धवः ।

गिरः । वाश्रासः । ईरते ॥२५

हे "अग्ने “धृतव्रताय धृतकर्मणे "ते तुभ्यं “वाश्रासः वाशनशीलाः "गिरः मम स्तुतयः “सिन्धवः नद्यः "समुद्रायेव यथा समुद्राय तथा “ईरते प्रवर्तन्ते ॥ ॥ ४० ॥ ।


युवा॑नं वि॒श्पतिं॑ क॒विं वि॒श्वादं॑ पुरु॒वेप॑सं ।

अ॒ग्निं शुं॑भामि॒ मन्म॑भिः ॥२६

युवा॑नम् । वि॒श्पति॑म् । क॒विम् । वि॒श्व॒ऽअद॑म् । पु॒रु॒ऽवेप॑सम् ।

अ॒ग्निम् । शु॒म्भा॒मि॒ । मन्म॑ऽभिः ॥२६

युवानम् । विश्पतिम् । कविम् । विश्वऽअदम् । पुरुऽवेपसम् ।

अग्निम् । शुम्भामि । मन्मऽभिः ॥२६

“युवानं नित्यतरुणं “विश्पतिं विशां पतिं "कविं क्रान्तकर्माणं “विश्वादं सर्वस्य हविषोऽत्तारं "पुरुवेपसं बहुकर्माणम् । ‘वेशः वेपः' इति कर्मनामसु पाठात् । "अग्निं मन्मभिः मननीयैः स्तोत्रैः। “शुम्भामि शोभयामि ॥


य॒ज्ञानां॑ र॒थ्ये॑ व॒यं ति॒ग्मजं॑भाय वी॒ळवे॑ ।

स्तोमै॑रिषेमा॒ग्नये॑ ॥२७

य॒ज्ञाना॑म् । र॒थ्ये॑ । व॒यम् । ति॒ग्मऽज॑म्भाय । वी॒ळवे॑ ।

स्तोमैः॑ । इ॒षे॒म॒ । अ॒ग्नये॑ ॥२७

यज्ञानाम् । रथ्ये । वयम् । तिग्मऽजम्भाय । वीळवे ।

स्तोमैः । इषेम । अग्नये ॥२७

“यज्ञानां "रथ्ये नेत्रे "तिग्मजम्भाय तीक्ष्णज्वालाय “वीळवे बलवते "अग्नये "स्तोमैः स्तोत्रैः “वयम् आङ्गिरसाः “इषेम स्तुतिं कर्तुमिच्छेम ॥


अ॒यम॑ग्ने॒ त्वे अपि॑ जरि॒ता भू॑तु संत्य ।

तस्मै॑ पावक मृळय ॥२८

अ॒यम् । अ॒ग्ने॒ । त्वे इति॑ । अपि॑ । ज॒रि॒ता । भू॒तु॒ । स॒न्त्य॒ ।

तस्मै॑ । पा॒व॒क॒ । मृ॒ळ॒य॒ ॥२८

अयम् । अग्ने । त्वे इति । अपि । जरिता । भूतु । सन्त्य ।

तस्मै । पावक । मृळय ॥२८

हे "पावक शोधक "सन्त्य भजनीय "अग्ने “त्वे "अपि त्वय्यपि “अयम् अस्मदीयो जनः "जरिता स्तोता "भूतु भवतु । "तस्मै जरित्रे "मृळय सुखमुत्पादय । तं सुखय वा ॥


धीरो॒ ह्यस्य॑द्म॒सद्विप्रो॒ न जागृ॑विः॒ सदा॑ ।

अग्ने॑ दी॒दय॑सि॒ द्यवि॑ ॥२९

धीरः॑ । हि । असि॑ । अ॒द्म॒ऽसत् । विप्रः॑ । न । जागृ॑विः । सदा॑ ।

अग्ने॑ । दी॒दय॑सि । द्यवि॑ ॥२९

धीरः । हि । असि । अद्मऽसत् । विप्रः । न । जागृविः । सदा ।

अग्ने । दीदयसि । द्यवि ॥२९

हे अग्ने त्वं “धीरः "असि “हि भवसि खलु' । "अद्मसत् हविषि सीदन् "विप्रो “न मेधावीव “जागृविः प्रजानां हितकरणे जागरणशीलोऽसि । "सदा “द्यवि अन्तरिक्षे "दीदयसि दीव्यसि च ॥


पु॒राग्ने॑ दुरि॒तेभ्यः॑ पु॒रा मृ॒ध्रेभ्यः॑ कवे ।

प्र ण॒ आयु॑र्वसो तिर ॥३०

पु॒रा । अ॒ग्ने॒ । दुः॒ऽइ॒तेभ्यः॑ । पु॒रा । मृ॒ध्रेभ्यः॑ । क॒वे॒ ।

प्र । नः॒ । आयुः॑ । व॒सो॒ इति॑ । ति॒र॒ ॥३०

पुरा । अग्ने । दुःऽइतेभ्यः । पुरा । मृध्रेभ्यः । कवे ।

प्र । नः । आयुः । वसो इति । तिर ॥३०

हे "वसो वासक "कवे क्रान्तकर्मन् "अग्ने "दुरितेभ्यः पापेभ्यः "पुरा “मृध्रेभ्यः हिंसकेभ्यश्च “पुरा । यदा दुरितानि शत्रवश्चास्मान् हिंसितुमुद्युञ्जते ततः प्रागेवेत्यर्थः । "नः अस्माकम् “आयुः “प्र “तिर वर्धय ॥ ॥ ४१ ॥

मण्डल ८

सूक्तं ८.१

सूक्तं ८.२

सूक्तं ८.३

सूक्तं ८.४

सूक्तं ८.५

सूक्तं ८.६

सूक्तं ८.७

सूक्तं ८.८

सूक्तं ८.९

सूक्तं ८.१०

सूक्तं ८.११

सूक्तं ८.१२

सूक्तं ८.१३

सूक्तं ८.१४

सूक्तं ८.१५

सूक्तं ८.१६

सूक्तं ८.१७

सूक्तं ८.१८

सूक्तं ८.१९

सूक्तं ८.२०

सूक्तं ८.२१

सूक्तं ८.२२

सूक्तं ८.२३

सूक्तं ८.२४

सूक्तं ८.२५

सूक्तं ८.२६

सूक्तं ८.२७

सूक्तं ८.२८

सूक्तं ८.२९

सूक्तं ८.३०

सूक्तं ८.३१

सूक्तं ८.३२

सूक्तं ८.३३

सूक्तं ८.३४

सूक्तं ८.३५

सूक्तं ८.३६

सूक्तं ८.३७

सूक्तं ८.३८

सूक्तं ८.३९

सूक्तं ८.४०

सूक्तं ८.४१

सूक्तं ८.४२

सूक्तं ८.४३

सूक्तं ८.४४

सूक्तं ८.४५

सूक्तं ८.४६

सूक्तं ८.४७

सूक्तं ८.४८

सूक्तं ८.४९

सूक्तं ८.५०

सूक्तं ८.५१

सूक्तं ८.५२

सूक्तं ८.५३

सूक्तं ८.५४

सूक्तं ८.५५

सूक्तं ८.५६

सूक्तं ८.५७

सूक्तं ८.५८

सूक्तं ८.५९

सूक्तं ८.६०

सूक्तं ८.६१

सूक्तं ८.६२

सूक्तं ८.६३

सूक्तं ८.६४

सूक्तं ८.६५

सूक्तं ८.६६

सूक्तं ८.६७

सूक्तं ८.६८

सूक्तं ८.६९

सूक्तं ८.७०

सूक्तं ८.७१

सूक्तं ८.७२

सूक्तं ८.७३

सूक्तं ८.७४

सूक्तं ८.७५

सूक्तं ८.७६

सूक्तं ८.७७

सूक्तं ८.७८

सूक्तं ८.७९

सूक्तं ८.८०

सूक्तं ८.८१

सूक्तं ८.८२

सूक्तं ८.८३

सूक्तं ८.८४

सूक्तं ८.८५

सूक्तं ८.८६

सूक्तं ८.८७

सूक्तं ८.८८

सूक्तं ८.८९

सूक्तं ८.९०

सूक्तं ८.९१

सूक्तं ८.९२

सूक्तं ८.९३

सूक्तं ८.९४

सूक्तं ८.९५

सूक्तं ८.९६

सूक्तं ८.९७

सूक्तं ८.९८

सूक्तं ८.९९

सूक्तं ८.१००

सूक्तं ८.१०१

सूक्तं ८.१०२

सूक्तं ८.१०३

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_८.४४&oldid=208932" इत्यस्माद् पुनः प्राप्तिः