ऐतरेय ब्राह्मणम्/पञ्चिका १ (प्रथम पञ्चिका)

विकिस्रोतः तः
Jump to navigation Jump to search



ऐतरेय ब्राह्मणम्

अग्निर्वै देवानामवमो विष्णुः परमस्तदन्तरेण सर्वा अन्या देवता आग्नावैष्णवम्पुरोळाशं निर्वपन्ति दीक्षणीयमेकादशकपालं सर्वाभ्य एवैनं तद्देवताभ्योऽनन्तरायं निर्वपन्त्यग्निर्वै सर्वा देवता विष्णुः सर्वा देवता एते वै यज्ञस्यान्त्ये तन्वौ यदग्निश्च विष्णुश्च तद्यदाग्नावैष्णवम्पुरोळाशं निर्वपन्त्यन्तत एव तद्देवानृध्नुवन्ति तदाहुर्यदेकादशकपालः पुरोळाशो द्वावग्नाविष्णू कैनयोस्तत्र क्ळ्प्तिः का विभक्तिरित्यष्टाकपाल आग्नेयोऽष्टाक्षरा वै गायत्री गायत्रमग्नेश्छन्दस्त्रिकपालो वैष्णवस्त्रिर्हीदं विष्णुर्व्यक्रमत सैनयोस्तत्र क्लृप्तिः सा विभक्तिर्घृते चरुं निर्वपेत योऽप्रतिष्ठितो मन्येतास्यां वाव स न प्रतितिष्ठति यो न प्रतितिष्ठति तद्यद्घृतं तत्स्त्रियै पयो ये तण्डुलास्ते पुंसस्तन्मिथुनम्मि-थुनेनैवैनं तत्प्रजया पशुभिः प्रजनयति प्रजात्यै प्रजायते प्रजया पशुभिर्य एवं वेदारब्धयज्ञो वा एष आरब्धदेवतो यो दर्शपूर्णमासाभ्यां यजत आमावास्येन वा हविषेष्ट्वा पौर्णमासेन वा तस्मिन्नेव हविषि तस्मिन्बर्हिषि दीक्षेतैषो एका दीक्षा सप्तदश सामिधेनीरनुब्रूयात्सप्तदशो वै प्रजापतिर्द्वादश मासाः पञ्चर्तवो हेमन्तशिशिरयोः समासेन तावान्संवत्सरः संवत्सरः प्रजापतिः प्रजापत्यायतनाभिरेवा ऽऽभी राध्नोति य एवं वेद॥1.1॥


यज्ञो वै देवेभ्य उदक्रामत्तमिष्टिभिः प्रैषमैच्छन्यदिष्टिभिः प्रैषमैच्छंस्तदिष्टीनामिष््टित्वं तमन्वविन्दन्। अनुवित्तयज्ञो राध्नोति य एवं वेद। आहूतयो वै नामैता यदाहुतय एताभिर्वै देवान्यजमानो ह्वयति तदाहुतीनामाहूतित्वम्। ऊतयः खलु वै ता ना याभिर्देवा यजमानस्य हवमायान्ति ये वै पन्थानो याः स्रुतयस्ता वा ऊतयस्त उ एवैतत्स्वर्गयाणा यजमानस्य भवन्ति। तदाहुर्यदन्यो जुहोत्यथ यो॓ऽनु चा ऽऽह यजति च कस्मात्तं होतेत्याचक्षत इति। यद्वाव स तत्र यथाभाजनं देवता अमुमावहामुमावहेत्यावाहयति तदेव होतुर्होतृत्वं होता भवति। होतेत्येनमाचक्षते य एवं वेद॥1.2॥


पुनर्वा एतमृत्विजो गर्भं कुर्वन्ति यं दीक्षयन्ति। अद्भिरभिषिञ्चन्ति। रेतो वा आपः सरेतसमेवैनं तत्कृत्वा दीक्षयन्ति। नवनीतेनाभ्यञ्जन्ति। आज्यं वै देवानां सुरभि घृतं मनुष्याणामायुतं पितॄणां नवनीतं गर्भाणां तद्यन्नवनीतेनाभ्यञ्जन्ति स्वेनैवैनं तद्भागधेयेन समर्धयन्ति। आञ्जन्त्येनम्। तेजो वा एतदक्ष्योर्यदाञ्जनं सतेजसमेवैनं तत्कृत्वा दीक्षयन्ति। एकविंशत्या दर्भपिञ्चूलैः पावयन्ति। शुद्धमेवैनं तत्पूतं दीक्षयन्ति। दीक्षितविमितं प्रपादयन्ति। योनिर्वा एषा दीक्षितस्य यद्दीक्षितविमितं योनिमेवैनं तत्स्वां प्रपादयन्ति। तस्माद्ध्रुवाद्योनेरास्ते च चरति च। तस्माद्धरुवाद्योनेर्गर्भा धीयन्ते च प्र च जायन्ते। तस्माद्दीक्षितं नान्यत्र दीक्षितविमादादित्यो ऽभ्युदियाद्वा ऽभ्यस्तमियाद्वा ऽपि वा ऽभ्याश्रावयेयुः। वाससा प्रोर्णुवन्ति। उल्बं वा एतद्दीक्षितस्य यद्वास उल्बेनैवैनं तत्प्रोर्णुन्ति। कृष्णाजिनमुत्तरं भवति। मुष्टी कुरुते। मुष्टी वै कृत्वा गर्भो ऽन्तः शेते मुष्टी कृत्वा कुमारो जायते तद्यन्मुष्टी कुरुते यज्ञं चैव तत्सर्वाश्च देवता मुष्ट्योः कुरुते। तदाहुर्न पूर्वदीक्षिणः संसवो ऽस्ति परिगृहीतो वा एतस्य यज्ञः परिगृहीता देवता नैतस्या ऽऽर्तिरस्त्यपरदीक्षिण एव यथा तथेति। उन्मुच्य कृष्णाजिनमवभृथमभ्यवैति तस्मान्मुक्ता गर्भा जरायोर्जायन्ते। सहैव वाससा ऽभ्यवैति तस्मात्सहैवोल्बेन कुमारो जायते। ॥1.3॥


त्वमग्ने सप्रथा असि सोम यास्ते मयोभुव इत्याज्यभागयोः पुरोनुवाक्ये अनुब्रूयाद्यः पूर्वमनीजानः स्यात्तस्मै। त्वया यज्ञं वितन्वत इति यज्ञमेवास्मा एतद्वितनोति। अग्निः प्रत्नेन मन्मना सोम गीर्भिष्ट्वा वयमिति यः पूर्वमीजानः स्यात्तस्मै। प्रत्नमिति पूर्वं कर्माभिवदति। तत्तन्ना ऽऽदृत्यम्। अग्निर्वृत्राणि जङ्घन त्वं सोमासि सत्पतिरिति वार्त्रघ्नावेव कुर्यात्। वृत्रं वा एष हन्ति यं यज्ञ उपनमति तस्माद्वार्त्रघ्नावेव कर्तव्यौ। अग्निर्मुखं प्रथमो देवतानामग्निश्च विष्णो तप उत्तमं मह इत्याग्नावैष्णवस्य हविषो याज्यानुवाक्ये भवतः। आग्नावैष्णव्यौ रूपसमृद्धे यतद्वै यज्ञस्य समृद्धं यद्रूपसमृद्धं यत्कर्म क्रियमाणमृगभिवदति। अग्निश्च ह वै विष्णुश्च देवानां दीक्षापालौ तौ दीक्षाया ईशाते तद्यदाग्नावैष्णवं हविर्भवति यौ दीक्षाया ईशाते तौ प्रीतौ दीक्षां प्रयच्छतां यौ दीक्षयितारौ तौ दीक्षयेतामिति। त्रिष्टुभौ भवतः सेन्द्रियत्वाय ॥1.4॥


गायत्र्यौ स्विष्टकृतः संयाज्ये कुर्वीत तेजस्कामो ब्रह्मवर्चसकामस्तेजो वै ब्रह्मवर्चसं गायत्री तेजस्वी ब्रह्मवर्चसी भवति य एवं विद्वान्गायत्र्यौ कुरुत उष्णिहावायुष्कामः कुर्वीतायुर्वा उष्णिक् सर्वमायुरेति य एवं विद्वानुष्णिहौ कुरुतेऽनुष्टुभौ स्वर्गकामः कुर्वीत द्वयोर्वा अनुष्टुभोश्चतुःषष्टिरक्षराणि त्रय इम ऊर्ध्वा एकविंशा लोका एकविंशत्यैकविंशत्यैवेमाँ ल्लोकान्रोहति स्वर्ग एव लोके चतुःषष्टितमेन प्रतितिष्ठति प्रतितिष्ठति य एवं विद्वाननुष्टुभौ कुरुते बृहत्यौ श्रीकामो यशस्कामः कुर्वीत श्रीर्वै यशश्छन्दसाम्बृहती श्रियमेव यश आ-त्मन्धत्ते य एवं विद्वान्बृहत्यौ कुरुते पङ्क्ती यज्ञकामः कुर्वीत पाङ्क्तो वै यज्ञ उपैनं यज्ञो नमति य एवं विद्वान्पङ्क्ती कुरुते त्रिष्टुभौ वीर्यकामः कुर्वीतौजो वा इन्द्रि यं वीर्यं त्रिष्टुबोजस्वीन्द्रि यवान्वीर्यवान्भवति य एवं विद्वांस्त्रिष्टुभौ कुरुते जगत्यौ पशुकामः कुर्वीत जागता वै पशवः पशुमान्भवति य एवं विद्वाञ्जगत्यौ कुरुते विराजावन्नाद्यकामः कुर्वीतान्नं वै विराट् तस्माद्यस्यैवेह भूयिष्ठमन्नम्भवति स एव भूयिष्ठं लोके विराजति तद्विराजो विराट्त्वं वि स्वेषु राजति श्रेष्ठः स्वानां भवति य एवं वेद॥1.5॥


अथो पञ्चवीर्यं वा एतच्छन्दो यद्विराड् यत्त्रिपदा तेनोष्णिहागाय त्र्?यौ यदस्या एकादशाक्षराणि पदानि तेन त्रिष्टुब्यत्त्रयस्त्रिंशदक्षरा तेनानुष्टुम्न वा एकेनाक्षरेण छन्दांसि वियन्ति न द्वाभ्यां यद्विराट्तत्पञ्चमं सर्वेषां छन्दसां वीर्यमवरुन्द्धे सर्वेषां छन्दसां वीर्यमश्नुते सर्वेषां छन्दसां सायुज्यं सरूपतां सलोकतामश्नु-तेऽन्नादोऽन्नपतिर्भवत्यश्नुते प्रजयान्नाद्यं य एवं विद्वान्विराजौ कुरुते तस्मा-द्विराजावेव कर्तव्ये प्रेद्धो अग्न इमो अग्न इत्येते ऋतं वाव दीक्षा सत्यं दीक्षा तस्माद्दीक्षितेन सत्यमेव वदितव्यमथो खल्वाहुः कोऽर्हति मनुष्यः सर्वं सत्यं वदितुं सत्यसंहिता वै देवा अनृतसंहिता मनुष्या इति विचक्षणवतीं वाचं वदेच् चक्षुर्वै विचक्षणं वि ह्येनेन पश्यतीत्येतद्ध वै मनुष्येषु सत्यं निहितं यच्चक्षुस्तस्मादाचक्षाणमाहुरद्र ?ागिति स यद्यदर्शमित्याहाथास्य श्रद्दधति यद्यु वै स्वयम्पश्यति न बहूनां चनान्येषां श्रद्दधाति तस्माद्विचक्षणवतीमेव वाचं वदेत्सत्योत्तरा हैवास्य वागुदिता भवति भवति॥1.6॥


40

स्वर्गं वा एतेन लोकमुप प्रयन्ति यत्प्रायणीयस्तत्प्रायणीयस्य प्रायणीयत्वं प्राणो वै प्रायणीय उदान उदयनीयः समानो होता भवति समानौ हि प्राणोदानौ प्राणानां क्लृप्त्यै प्राणानां प्रतिप्रज्ञात्यै यज्ञो वै देवेभ्य उदक्रामत्ते देवा न किं चनाशक्नुवन्कर्तुं न प्राजानंस्तेऽब्रुवन्नदितिं त्वयेमं यज्ञं प्रजानामेति सा तथेत्यब्रवीत्सा वै वो वरं वृणा इति वृणीष्वेति सैतमेव वरमवृणीत मत्प्रायणा यज्ञाः सन्तु मदुदयना इति तथेति तस्मादादित्यश्चरुः प्रायणीयो भवत्यादित्य उदयनीयो वरवृतो ह्यस्या अथो एतं वरमवृणीत मयैव प्राचीं दिशं प्रजानाथाग्निना दक्षिणां सोमेन प्रतीचीं सवित्रोदीचीमिति पथ्यां यजति यत्पथ्यां यजति तस्मादसौ पुर उदेति पश्चास्तमेति पथ्यां ह्येषोऽनुसंचरत्यग्निं यजति यदग्निं यजति तस्माद्दक्षिणतोऽग्र ओषधयः पच्यमाना आयन्त्याग्नेय्यो ह्योषधयः सोमं यजति यत्सोमं यजति तस्मात्प्रतीच्योऽप्यापो बह्व्यः स्यन्दन्ते सौम्या ह्यापः सवितारं यजति यत्सवितारं यजति तस्मादुत्तरतः पश्चादयम्भूयिष्ठं पवमानः पवते सवितृप्रसूतो ह्येष एतत्पवत उत्तमामदितिं यजति यदुत्तमामदितिं यजति तस्मादसाविमां वृष्ट्याभ्युनत्त्यभिजिघ्रति पञ्च देवता यजति पाङ्क्तो यज्ञः सर्वा दिशः कल्पन्ते कल्पते यज्ञोऽपि तस्यै जनतायै कल्पते यत्रैवं विद्वान्होता भवति॥1.7॥


यस्तेजो ब्रह्मवर्चमिच्छेत्प्रयाजाहुतिभिः प्राङ् स इयात्तेजोवै ब्रह्मवर्चसं प्राची दिक्। तेजस्वी ब्रह्मवर्चसी भवति य एवं विद्वान्प्राङेति। यो ऽन्नाद्यमिच्छेत्प्रयाजाहुतिभिर्दक्षिणा स इयादन्नादो वा एषो ऽन्नपतिर्यदग्निः। अन्नादो ऽन्नपतिर्भवत्यश्नुते प्रजया ऽन्नाद्यं य एवं विद्वान्दक्षिणैति। यः पशूनिच्छेत्प्रयाजाहुतिभिः प्रत्यङ् स इयात्पशवो वा एते यदापः। पशुमान्भवति य एवं विद्वान्प्रत्यङ्ङेति। यः सोमपीथमिच्छेत्प्रयाजाहुतिभिरुदङ् स इयादुत्तरा ह वै सोमो राजा। प्र सोमपीथमाप्नोति य एवं विद्वानुदङ्ङेति। स्वर्ग्यैवोर्ध्वा दिक्सर्वासु दिक्सर्वासु दिक्षु राध्नोति। सम्यञ्चो वा इमे लोकाः सम्यञ्चो ऽस्मा इमे लोकाः श्रियै दीद्यति य एवं वेद। पथ्यां यजति यत्पथ्यां यजति वाचमेव तद्यज्ञमुखे संभरति। प्राणापानावग्नीषोमौ प्रसवाय सविता प्रतिष्ठित्या अदितिः। पथ्यामेव यजति यत्पथ्यामेव यजति वाचैव तद्यज्ञं पन्थामपि नयति। चक्षुषी एवाग्नीषोमौ प्रसवाय सविता प्रतिष्ठित्या अदितिः। चक्षुषा वै देवा यज्ञं प्राजानंश्चक्षुषा वा एतत्प्रज्ञायते यदप्रज्ञेयं तस्मादपि मुग्धश्चरित्वा यदैवानुष्ठ्या चक्षुषा प्रजानात्यथ प्रजानाति। यद्वै तद्देवा यज्ञं प्राजानन्नस्या वाव तत्प्राजानन्नस्यां समभरन्नस्यै वै यज्ञस्तायते ऽस्यै क्रियते ऽस्यै संभ्रियत इयं ह्यदितिस्तदुत्तमामदितिं यजति यदुत्तमामदितिं यजति यज्ञस्य प्रज्ञात्यै स्वर्गस्य लोकस्यानुक्यात्यै॥1.8॥


48

देवविशः कल्पयितव्या इत्याहुस्ताः कल्पमाना अनु मनुष्यविशः कल्पन्त इति सर्वा विशः कल्पन्ते कल्पते यज्ञोऽपि तस्यै जनतायै कल्पते यत्रैवं विद्वान्होता भवति स्वस्ति नः पथ्यासु धन्वस्वित्यन्वाह स्वस्त्यप्सु वृजने स्वर्वति स्वस्ति नः पुत्रकृथेषु योनिषु स्वस्ति राये मरुतो दधातनेति मरुतो वै देवानां विशस्ता एवैतद्यज्ञमुखेऽचीक्लृपत्सर्वैश्छन्दोभिर्यजेदित्याहुः सर्वैर्वै छन्दोभिरिष्ट्वा देवाः स्वर्गं लोकमजयंस्तथैवैतद्यजमानः सर्वैश्छन्दोभिरिष्ट्वा स्वर्गं लोकं जयति स्वस्ति नः पथ्यासु धन्वसु स्वस्तिरिद्धि प्रपथे श्रेष्ठेति पथ्यायाः स्वस्तेस्त्रिष्टुभावग्ने नय सुपथा राये अस्माना देवानामपि पन्थामगन्मेत्यग्नेस्त्रिष्टुभौ त्वं सोम प्र चिकितो मनीषा या ते धामानि दिवि या पृथिव्यामिति सोमस्य त्रिष्टुभावा विश्वदेवं सत्पतिं य इमा विश्वा जातानीति सवितुर्गायत्र्यौ सुत्रामाणं पृथिवीं द्यामनेहसं महीमू षु मातरं सुव्रतानामित्यदितेर्जगत्यावेतानि वाव सर्वाणि छन्दांसि गायत्रं त्रैष्टुभं जागतमन्वन्यान्येतानि हि यज्ञे प्रतमामिव क्रियन्ते। एतैर्ह वा अस्य च्छन्दोभिर्यजतः सर्वैश्छन्दोभिरिष्टं भवति य एवं वेद॥1.9॥।


53

ता वा एताः प्रवत्यो नेतृमत्यः पथिमत्यः स्वस्तिमत्य एतस्य हविषो याज्यानुवाक्या एताभिर्वा इष्ट्वा देवाः स्वर्गं लोकमजयंस्तथैवैतद्यजमान एताभिरिष्ट्वा स्वर्गं लोकं जयति। तासु पदमस्ति स्वस्ति राये मरुतो दधातनेति मरुतो ह वै देवविशोऽन्तरिक्षभाजनास्तेभ्यो ह योऽनिवेद्य स्वर्गं लोकमेतीश्वरा हैनं नि व रोद्धोर्वि वा मथितोः स अदाह स्वस्ति राये मरुतो दधातनेति तम्मरुद्भ्यो देवविड्भ्यो यजमानं निवेदयति न ह वा एनं मरुतो देवविशः स्वर्गं लोकं यन्तं निरुन्धते न विमथ्नते स्वस्ति हैनमत्यर्जन्ति स्वर्गं लोकमभि य एवं वेद विराजावेतस्य हविषः स्विष्टकृतः संयाज्ये स्यातां ये त्रयस्त्रिंशदक्षरे सेदग्निरग्नीँ रत्यस्त्वन्यान्सेदग्निर्यो वनुष्यतो निपातीत्येते विराड्भ्यां वा इष्ट्वा देवाः स्वर्गं लोकमजयंस्तथैवैतद्यजमानो विराड्भ्यामिष्ट्वा स्वर्गं लोकं जयति ते त्रयस्त्रिंशदक्षरे भवतस्त्रयस्त्रिंशद्वै देवा अष्टौ वसव एकादश रुद्रा द्वादशादित्याः प्रजापतिश्च वषट्कारश्च तत्प्रथमे यज्ञमुखे देवता अक्षरभाजः करोत्यक्षरेणाक्षरेणैव तद्देवतां प्रीणाति देवपात्रेणैव तदेवतास्तर्पयति॥1.10॥


प्रयाजवदननुयाजं कर्तव्यं प्रायणीयमित्याहुर्हीनमिव वा एतदीङ्खितमिव यत्प्रायणीयस्यानुयाजा इति। तत्तन्नाऽऽदृत्यं प्रयाजवदेवानुयाजवत्कर्तव्यम्। प्राणा वै प्रयाजाः प्रजाऽनुयाजा यत्प्रयाजानन्तरियात् प्राणांस्तद्यजमानस्यान्तरियाद् यदनुयाजानन्तरियात्प्रजां तद्यजमानस्यान्तरियात्। तस्मात्प्रयाजवदेवानुयाजवत्कर्तव्यम्। पत्नीर्न संयाजयेत्संस्थितयजुर्न जुहुयात्। तावतैव यज्ञोऽसंस्थितः। प्रायणीयस्य निष्कासं निदध्यात्तमुदयनीयेनाभिनिर्वपेद्यज्ञस्य संतत्यै यज्ञस्याव्यवच्छेदाय। अथो खलु यस्यामेव स्थाल्यां प्रायणीयं निर्वपेत्तस्यामुदयनीयं निर्वपेत्तावतैव यज्ञः संततोऽव्यवच्छिन्नो भवति। अमुष्मिन्वा एतेन लोके राध्नुवन्ति नास्मिन्नित्याहुर् यत्प्रायणीयमिति प्रायणीयमिति निर्वपन्ति प्रायणीयमिति चरन्ति प्रयन्त्येवास्माल्लोकाद्यजमाना । अविद्ययैव तदाहुर्व्यतिषजेद् याज्यानुवाक्याः। या प्रायणीयस्य पुरोनुवाक्यास्ता उदयनीयस्य याज्याः कुर्याद्या उदयनीयस्य पुरोनुवाक्यास्ताः प्रायणीयस्य याज्याः कुर्यात् तद्व्यतिषजत्युभयोर्लोकयोर् ऋद्ध्या उभयोर्लोकयोः प्रतिष्ठित्या उभयोर्लोकयोर् ऋध्नोत्युभयोर्लोकयोः प्रतितिष्ठति। प्रतितिष्ठति य एवं वेद। आदित्यश्चरुः प्रायणीयो भवत्यादित्य उदयनीयो यज्ञस्य धृत्यै यज्ञस्य बर्सनद्ध्यै यज्ञस्याप्रस्रंसाय। तद्यथैवाद इति स्माऽऽह तेजन्या उभयतो ऽन्तयोरप्रस्रंसाय बर्सौ नह्यत्येवमेवैतद् यज्ञस्योभयतो ऽन्तयोरप्रस्रंसाय बर्सौ नह्यति यदादित्यश्चरुः प्रायणीयो भवत्यादित्य उदयनीयः। पथ्ययैवेतः स्वस्त्या प्रयन्ति पथ्यां स्वस्तिमभ्युद्यन्ति स्वस्तयेवेतः प्रयन्ति स्वस्त्युद्यन्ति स्वस्त्युद्यन्ति॥॥1.11॥


प्राच्यां वै दिशि देवाः सोमं राजानमक्रीणंस्तस्मात्प्राच्यां दिशि क्रीयते। तं त्रयोदशान्मासादक्रीणंस् तस्मात्त्रयोदशो मासो नानुविद्यते न वै सोमविक्रय्यनुविद्यते पापो हि सोमविक्रयी। तस्य क्रीतस्य मनुष्यानभ्युपावर्तमानस्य दिशो वीर्याणीन्द्रियाणि व्युदसीदंस्तान्येकयर्चा ऽवारुरुत्सन्त तानि नाशक्नुवंस्तानि द्वाभ्यां तानि तिसृभिस्तानि चतसृभिस्तानि पञ्चभिस्तानि षड्भिस्तानि सप्तभिर्नैवावारुन्धत तान्यष्टाभिरवारुन्धताष्टाभिराश्नुवत यदष्टाभिरवारुन्धताष्टाभिराश्नुत तदष्टानामष्टत्वम्। अश्नुते यद्यत्कामयते य एवं वेद। तस्मादेतेषु कर्मस्वष्टावनूच्यन्त इन्द्रियाणां वीर्याणामवरुद्ध्यै॥1.12॥


70

सोमाय क्रीताय प्रोह्यमाणायानुब्रूहीत्याहाध्वर्युर्भद्रादभि श्रेयः प्रेहीत्यन्वाहायं वाव लोको भद्रस्तस्मादसावेव लोकः श्रेयान्स्वर्गमेव तल्लोकं यजमानं गमयति बृहस्पतिः पुरएता ते अस्त्विति ब्रह्म वै बृहस्पतिर्ब्रह्मैवास्मा एतत्पुरोगवमकः न वै ब्रह्मण्वद्रि ष्यत्यथेमव स्य वर आ पृथिव्या इति देवयजनं वै वरम्पृथिव्यै देवयजन एवैनं तदवसाययत्यारे शत्रून्कृणुहि सर्ववीर इति द्विषन्तमेवास्मै तत्पाप्मानम्भ्रातृव्यमपबाधतेऽधरम्पादयति सोम यास्ते मयोभुव इति तृचं सौम्यं गायत्रमन्वाह सोमे राजनि प्रोह्यमाणे स्वयैवैनं तद्देवतया स्वेन छन्दसा समर्धयति सर्वे नन्दन्ति यशसागतेनेत्यन्वाह यशो वै सोमो राजा सर्वो ह वा एतेन क्रीयमाणेन नन्दति यश्च यज्ञे लप्स्यमानो भवति यश्च न सभासाहेन सख्या सखाय इत्येष वै ब्राह्मणानां सभासाहः सखा यत्सोमो राजा किल्बिषस्पृदित्येष उ एव किल्बिषस्पृद्यो वै भवति यः श्रेष्ठतामश्नुते स किल्बिषम्भवति तस्मादाहुर्मानुवोचो मा प्रचारीः किल्बिषं नु मा यातयन्निति पितुषणिरित्यन्नं वै पितु दक्षिणा वै पितु तामेनेन सनोत्यन्नसनिमेवैनं तत्करोत्यरं हितो भवति वाजिनायेतीन्द्रि यं वै वीर्यं वाजिनमाजरसं हास्मै वाजिनं नापछिद्यते य एवं वेदागन्देव इत्यन्वाहागतो हि स तर्हि भवत्यृतुभिर्वर्धतु क्षयमित्यृतवो वै सोमस्य राज्ञो राजभ्रातरो यथा मनुष्यस्य तैरेवैनं तत्सहागमयति दधातु नः सविता सुप्रजामिषमित्याशिषमाशास्ते स नः क्षपाभिरहभिश्च जिन्वत्वित्यहानि वा अहानि रात्रयः क्षपा अहोरात्रैरेवास्मा एतामाशिषमाशास्ते प्रजावन्तं रयिमस्मे समिन्वत्वित्याशिषमेवाशास्ते या ते धामानि हविषा यजन्तीत्यन्वाह ता ते विश्वा परिभूरस्तु यज्ञं गयस्फानः प्रतरणः सुवीर इति गवां नः स्फावयिता प्रतारयितैधीत्येव तदाहावीरहा प्र चरा सोम दुर्यानिति गृहा वै दुर्या बिभ्यति वै सोमाद्राज्ञ आयतो यजमानस्य गृहाः स यदेतामन्वाह शान्त्यैवैनं तच्छमयति सोऽस्य शान्तो न प्रजां न पशून्हिनस्तीमां धियं शिक्षमाणस्य देवेति वारुण्य परिदधाति वरुणदेवत्यो वा एष तावद्यावदुपनद्धो यावत्परिश्रितानि प्रपद्यते स्वयैवैनं तद्देवतया स्वेन छन्दसा समर्धयति शिक्षमाणस्य देवेति शिक्षते वा एष यो यजते क्रतुं दक्षं वरुण संशिशाधीति वीर्यम्प्रज्ञानं वरुण सं शिशाधीत्येव तदाह ययाति विश्वा दुरितातरेम सुतर्माणमधि नावं रुहेमेति यज्ञो वै सुतर्मा नौः कृष्णाजिनं वै सुतर्मा नौर्वाग्वै सुतर्मा नौर्वाचमेव तदारुह्य तया स्वर्गं लोकमभि संतरति ता एता अष्टावन्वाह रूपसमृद्धा एतद्वै यज्ञस्य समृद्धं यद्रू पसमृद्धं यत्कर्म क्रियमाणमृगभिवदति तासां त्रिः प्रथमामन्वाह त्रिरुत्तमां ता द्वादश सम्पद्यन्ते द्वादश वै मासाः संवत्सरः संवत्सरः प्रजापतिः प्रजापत्यायतनाभिरेवाभी राध्नोति य एवं वेद त्रिः प्रथमां त्रिरुत्तमामन्वाह यज्ञस्यैव तद्बर्सौ नह्यति स्थेम्ने बलायाविस्रंसाय॥1.13॥


अन्यतरतोऽनड्वान्युक्तः स्यादन्यतरो विमुक्तोऽथ राजानमुपावहरेयुः। यदुभयोर्विमुक्तयोरुपावहरेयुः पितृदेवत्यं राजानं कुर्युः। यदद्युक्तयोरयोगक्षेमः प्रजा विन्देत्ताः प्रजाः परिप्लवेरन्। योऽनड्वान्विमुक्तः तच्छालासदां प्रजानां रूपं यो युक्तस्तच्च क्रियाणां ते ये युक्तेऽन्ये विमुक्तेऽन्य उपावहरन्त्युभावेव ते क्षेमयोगौ कल्पयन्ति। देवासुरा वा एषु लोकेषु समयतन्त त एतस्यां प्राच्यां दिश्ययतन्त तांस्ततोऽसुरा अजयंस्ते दक्षिणस्यां दिश्ययतन्त तांस्ततोऽसुरा अजयंस्ते प्रतीच्यां दिश्ययतन्त तांस्ततोऽसुरा अजयंस्त उदीच्यां प्राच्यां दिश्ययतन्त ते ततो न पराजयन्त। सैषा दिगपराजिता। तस्मादेतस्यां दिशि यतेत वा यातयेद्वेश्वरो हानृणाकर्तोः। ते देवा अब्रुवन्नराजतया वै नो जयन्ति। राजानं करवामहा इति। तथेति। ते सोमं राजानमकुर्वंस्ते सोमेन राज्ञा सर्वा दिशोऽजयन्नेष वै सोमराजा यो यजते। प्राचि तिष्ठत्यादधति तेन प्राचीं दिशं जयति। तं दक्षिणा परिवहन्ति तेन दक्षिणां दिशं जयति। तं दक्षिणा परिवहन्ति देन दक्षिणां दिशं जयति। तं प्रत्यञ्चमावर्तयन्ति तेन प्रतीचीं दिशं जयति। तमुदीचस्तिष्ठत उपावहरन्ति तेनोदीचीं दिशं जयति सोमेन राज्ञा। सर्वा दिशो जयति य एवं वेद ॥1.14॥ 80


हविरातिथ्यं निरुप्यते सोमे राजन्यागते सोमो वै राजा यजमानस्य गृहानागछति तस्मा एतद्धविरातिथ्यं निरुप्यते तदातिथ्यस्यातिथ्यत्वं नवकपालो भवति नव वै प्राणाः प्राणानां क्लृप्त्यै प्राणानाम्प्रतिप्रज्ञात्यै वैष्णवो भवति विष्णुर्वै यज्ञः स्वयैवैनं तद्देवतया स्वेन छन्दसा समर्धयति सर्वाणि वाव छन्दांसि च पृष्ठानि च सोमं राजानं क्रीतमन्वायन्ति यावन्तः खलु वै राजानमनुयन्ति तेभ्यः सर्वेभ्य आतिथ्यं क्रियतेऽग्निम्मन्थन्ति सोमे राजन्यागते तद्यथैवादो मनुष्यराज आगतेऽन्यस्मिन्वार्हत्युक्षाणं वा वेहतं वा क्षदन्त एवमेवास्मा एतत्क्षदन्ते यदग्निं मन्थन्त्यग्निर्हि देवानां पशुः॥1.15॥


85

अग्नये मथ्यमानायानुब्रूहीत्याहाध्वर्युरभि त्वा देवा सवितरिति सावित्रीमन्वाह तदाहुर्यदग्नये मथ्यमानायानु वाचाहाथ कस्मात्सावित्रीमन्वाहेति सविता वै प्रसवानामीशे सवितृप्रसूता एवैनं तन्मन्थन्ति तस्मात्सावित्रीमन्वाह मही द्यौः पृथिवी च न इति द्यावापृथिवीयामन्वाह तदाहुर्यदग्नये मथ्यमानायानु वा-चाहाथ कस्माद्द्यावापृथिवीयामन्वाहेति द्यावापृथिवीभ्यां वा एतं जातं देवाः पर्यगृह्णंस्ताभ्यामेवाद्यापि परिगृहीतस्तस्माद्द्यावापृथिवीयामन्वाह त्वामग्ने पुष्करादधीति तृचमाग्नेयं गायत्रमन्वाहाग्नौ मथ्यमाने स्वयैवैनं तद्देवतया स्वेन छन्दसा समर्धयत्यथर्वा निरमन्थतेति रूपसमृद्धं एतद्वै यज्ञस्य समृद्धं यद्रू पसमृद्धं यत्कर्म क्रियमाणमृगभिवदति स यदि न जायेत यदि चिरं जायेत राक्षोघ्न्यो गाय त्र्?योऽनूच्या अग्ने हंसि न्यत्रिणमित्येता रक्षसामपहत्यै रक्षांसि वा एनं तर्ह्यालभन्ते यर्हि न जायते यर्हि चिरं जायते स यद्येकस्यामेवानूक्तायां जायेत यदि द्वयोरथो त ब्रुवन्तु जन्तव इति जाताय जातवतीमभिरूपा-मनुब्रूयाद्यद्यज्ञेऽभिरूपं तत्समृद्ध आ यं हस्ते न खादिनमिति हस्ताभ्यां ह्येन मन्थन्ति शिशुं जातमिति शिशुरिव वा एष प्रथमजातो यदग्निर्न बिभ्रति विशामग्निं स्वध्वरमिति यद्वै देवानां नेति तदेषामोमिति प्र देवं देववीतये भरता वसुवित्तममिति प्रह्रियमाणायाभिरूपा यद्यज्ञेऽभिरूपं तत्समृद्धमास्वे योनौ नि षीदत्वित्येष ह वा अस्य स्वो योनिर्यदग्निरग्नेरा जातं जातवेदसीति जात इतरो जातवेदा इतरः प्रियं शिशीतातिथिमित्येष ह वा अस्य प्रियो-ऽतिथिर्यदग्निरग्नेः स्योन आ गृहप्तिमिति शान्त्यामेवैनं तद्दधात्यग्निनाग्निः समिध्यते कविर्गृहपतिर्युवा हव्यवाद्जुह्वास्य इत्यभिरूपा यद्यज्ञेऽभिरूपं तत्समृद्धं त्वं ह्यग्ने अग्निना विप्रो विप्रेण सन्सतेति विप्र इतरो विप्र?ः सनु इतरः सन्नितरः सखा सख्या समिध्यस इत्येष ह वा अस्य स्वः सखा यदग्निरग्नेस्तम्मर्जयन्त सुक्रतुम्पुरोयावानमाजिषु स्वेषु क्षयेषु वाजिनमिति एष ह वा अस्य स्वः क्षयो यदग्निरग्नेर्यज्ञेन यज्ञमयजन्त देवा इत्युत्तमया परिदधाति यज्ञेन वै तद्देवा यज्ञमयजन्त यदग्निनाग्निमयजन्त ते स्वर्गं लोकमायंस्तानि धर्माणि प्रथमान्यासन्ते ह नाकम्महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवा इति छन्दांसि वै साध्या देवास्तेऽग्रेऽग्निनाग्निमयजन्त ते स्वर्गं लोकमायन्नादि-त्याश्चैवेहासन्नङ्गिरसश्च तेऽग्रेऽग्निनाग्निमयजन्त ते स्वर्गं लोकमायन्सैषा स्व-र्ग्याहुतिर्यदग्न्याहुतिर्यदि ह व अप्यब्राह्मणोक्तो यदि दुरुक्तोक्तो यजतेऽथ हैषाहुतिर्गछत्येव देवान्न पाप्मना संसृज्यते गछत्यस्याहुतिर्देवान्नास्याहुतिः पाप्मना संसृज्यते य एवं वेद ता एतास्त्रयोदशान्वाह रूपसमृद्धा एतद्वै यज्ञस्य समृद्धं यद्रू पसमृद्धं यत्कर्म क्रियमाणमृगभिवदति तासां त्रिः प्रथमामन्वाह त्रिरुत्तमां ताः सप्तदश सम्पद्यन्ते सप्तदशो वै प्रजापतिर्द्वादश मासाः पञ्चर्तवस्तावान्संवत्सरः संवत्सरः प्रजापतिः प्रजापत्यायतनाभिरेवाभी राध्नोति य एवं वेद त्रिः प्रथमां त्रिरुत्तमामन्वाह यज्ञस्यैव तद्बर्सौ नह्यति स्थेम्ने बलायाविस्रंसाय॥1.16॥


91

समिधाग्निं दुवस्यता प्यायस्व समेतु त इत्याज्यभागयोः पुरोनुवाक्ये भवत आतिथ्यवत्यौ रूपसमृद्धे एतद्वै यज्ञस्य समृधं यद्रू पसमृद्धं यत्कर्म क्रियमाणमृगभिवदति सैषाग्नेय्यतिथिमती न सौम्यातिथिमत्यस्ति यत्सौम्यातिथिमती स्याच्छश्वत्सा स्यादेतत्त्वेवैषातिथिमति यदापीनवती यदा वा अतिथिम्परिवेविषत्यापीन इव वै स तर्हि भवति तयोर्जुषाणेनैव यजतीदं विष्णुर्वि चक्रमे तदस्य प्रियमभि पाथो अश्यामिति वैष्णव्यौ त्रिपदामनूच्य चतुष्पदया यजति सप्त पदानि भवन्ति शिरो व एतद्यज्ञस्य यदातिथ्यं सप्त वै शीर्षन्प्राणाः शीर्षन्नेव तत्प्राणान्दधाति होतारं चित्ररथमध्वरस्य प्रप्राय-मग्निर्भरतस्य शृण्व इति स्विष्टकृतः संयाज्ये भवत आतिथ्यवत्यौ रूपसमृद्धे एतद्वै यज्ञस्य समृद्धं यद्रू पसमृद्धं यत्कर्म क्रियमाणमृगभिवदति त्रिष्टुभौ भवतः सेन्द्रि यत्वाये ळान्तम्भवतीळान्तेन वा एतेन देवा अराध्नुवन्यदातिथ्यं तस्मा-दिळान्तमेव कर्तव्यम्प्रयाजानेवात्र यजन्ति नानुयाजान्प्राणा वै प्रयाजानु-याजास्ते य इमे शीर्षन्प्राणास्ते प्रयाजा येऽवाञ्चस्तेऽनुयाजाः स योऽत्रानुया-जान्यजेद्यथेमान्प्राणानालुप्य शीर्षन्धित्सेत्तादृक्तदतिरिक्तं तत्समु वा इमे प्राणा विद्रे ये चेमे ये चेमे तद्यदेवात्र प्रयाजान्यजन्ति नानुयाजांस्तत्र स काम उपाप्तो योऽनुयाजेषु॥1.17॥


यज्ञो वै देवेभ्य उदक्रामन्न वोऽहमन्नं भविष्यामीति नेति देवा अब्रुवन्नन्नमेव नो भविष्यसीति तं देवा विमेथिरे सहैभ्यो विहृतो न प्रबभूव ते होचुर्देवा न वै न इत्थं विहृतोऽलं भविष्यति हन्तेमं यज्ञं संभरामेति तथेति तं संजभ्रुः। तं संभृत्योचुरश्निनाविमं भिषज्यतमित्यश्विनौ वै देवानां भिषजावश्विनावध्वर्यू तस्मादध्वर्यू घर्मं संभरतः। तं संभृत्याऽऽहतुर्ब्रह्मन् प्रवर्ग्येण प्रचरिष्यामो होतरभिष्टुहीति॥1.18॥


ब्रह्म जज्ञानं प्रथमं पुरस्तादिति प्रतिपद्यते ब्रह्म वै बृहस्पतिर्ब्रह्मणैवैनं तद्भिषज्यति। इयं पित्रे राष्ट्र्येत्यग्र इति वाग्वै राष्ट्री वाचमेवास्मिंस्तद्दधाति। महान्मही अस्तभायद्विजात इति ब्राह्मणस्पत्या ब्रह्म वै बृहस्पतिर्ब्रह्मणैवैनं तद्भिषज्यति। अभि त्यं देवं सवितारमोण्योरिति सावित्री प्राणो वै सविता प्राणमेवास्मिंस्तद्दधाति। संसीदस्व महाँ असीत्येवैनं समसादयन्। अञ्जन्ति यं प्रथयन्तो न विप्रा इत्यज्यमानायाभिरूपा यद्यज्ञेऽभिरूपं तत्समृद्धम्। पतङ्गमक्तमसुरस्य मायया यो नः सनुत्यो अभिदासदग्ने भवा नो अग्ने सुमना उपेताविति द्वे द्वे अभिरूपे यद्यज्ञेऽभिरूपं तत्समृद्धम्। कृणुष्व पाजः प्रसितिं न पृथ्वीमिति पञ्च राक्षोघ्न्यो रक्षसामपहत्यै। परि त्वा गिर्वणो गिरोऽधि द्वयोरदधा उक्थ्यं वचः शुक्रं ते अन्यद्यजतं ते अन्यदपश्यं गोपामनिपद्यमानमिति चतस्र एकपातिन्यः। ता एकविंशतिर्भवन्ति। एकविंशोऽयं पुरुषो दश हस्त्या अङ्गुलयो दश पाद्या आत्मैकविंशस्तमिममात्मानमेकविंशं संस्कुरुते॥1.19॥


स्रक्वे द्रप्सस्य धमतः समस्वरन्निति नव पावमान्यो नव वै प्राणाः प्राणानेवास्मिंस्तद्दधाति। अयं वेनश्चोदयत्पृश्निगर्भा। वेनोऽस्माद्वा ऊर्ध्वा अन्ये प्राणा वेनन्त्यवाञ्चोऽन्ये तस्माद्वेनः प्राणो वा अयं सन्नाभेरिति तस्मान्नाभिस्तन्नाभेर्नाभित्वं प्राणमेवास्मिंस्तद्दधाति। पवित्रं ते विततं ब्रह्मणस्पते तपोष्पवित्रं विततं दिवस्पदे वियत्पवित्रं धिषणा अतन्वतेति पूतवन्तः प्राणास्त इमेऽवाञ्चो रेतस्यो मूत्र्यः पुरीष्या इत्येतानेवास्मिंस्तद्दधाति ॥1.20॥ 110


113

गणानां त्वा गणपतिं हवामह इति ब्राह्मणस्पत्यम्ब्रह्म वै बृहस्पतिर्ब्रह्मणैवैनम्तद्भिषज्यति प्रथश्च यस्य सप्रथश्च नामेति घर्मतन्वः सतनुमेवैनं तत्सरूपं करोति रथंतरमाजभारा वसिष्ठः भरद्वाजो बृहदा चक्रे अग्नेरिति बृहद्रथंतरवन्तमेवैनं तत्करोत्यपश्यं त्वा मनसा चेकितानमिति प्रजावान्प्राजापत्यः प्रजामेवास्मिंस्तद्दधाति का राधद्धोत्राश्विना वामिति नव विछन्दसस्तदेतद्यज्ञस्यान्तस्त्यं विक्षुद्रमिव व अन्तस्त्यमणीय इव च स्थवीय इव च तस्मादेता विछन्दसो भवन्त्येताभिर्हाश्विनोः कक्षीवान्प्रियं धामो-पागछत्स परमं लोकमजयदुपाश्विनोः प्रियं धाम गछति जयति परमं लोकं य एवं वेदाभात्यग्निरुषसामनीकमिति सूक्तम्पीपिवांसमश्विना घर्ममछेत्यभिरूपं यद्यज्ञेऽभिरूपं तत्समृद्धं तदु त्रैष्टुभं वीर्यं वै त्रिष्टुब्वीर्यमेवास्मिंस्तद्दधाति ग्रावाणेव तदिदर्थं जरेथे इति सूक्तमक्षी इव कर्णाविव नासेवेत्यङ्गसमाख्यायमेवास्मिंस्तदिन्द्रियाणि दधाति तदु त्रैष्टुभं वीर्यं वै त्रिष्टुब्वीर्यमेवास्मिंस्तद्दधातीळे द्यावापृथिवी पूर्वचित्तय इति सूक्तमग्निं घर्मं सुरुचं यामन्निष्टय इत्यभिरूपं यद्यज्ञेऽभिरूपं तत्समृद्धं तदु जागतं जागता वै पशवः पशूनेवास्मिंस्तद्दधाति याभिरमुमावतं याभिरमुमावतमित्येतावतो होत्राश्विनौ कामान्ददृशतुस्तानेवास्मिंस्तद्दधाति तैरेवैनं तत्समर्धयत्यरूरुचदुषसः पृश्निरग्रिय इति रुचितवती रुचमेवास्मिंस्तद्दधाति द्युभिरक्तुभिः परि पातम-स्मानित्युत्तमया परिदधात्यरिष्टेभिरश्विना सौभगेभिः तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौरित्येतैरेवैनं तत्कामैः समर्धयतीति नु पूर्वं पटलम्॥1.21॥


118

अथोत्तरमुप ह्वये सुदुघां धेनुमेतां हिङ्कृण्वती वसुपत्नी वसूनामभि त्वा देव सवितः समी वत्सं न मातृभिः सं वत्स इव मातृभिर्यस्ते स्तनः शशयो यो मयोभूर्गौरमीमेदनु वत्सम्मिषन्तं नमसेदुप सीदत संजानाना उप सीदन्नभिज्ञ्वा दशभिर्विवस्वतो दुहन्ति सप्तैकां समिद्धो अग्निरश्विना समिद्धो अग्नि-र्वृषणारतिर्दिवस्तदु प्रयक्षतममस्य कर्म त्मन्वन्नभो दुह्यते घृतम्पय उत्तिष्ठ ब्रह्मणस्पतेऽधुक्षत्पिप्युषीमिषमुप द्र व पयसा गोधुगोषमा सुते सिञ्चत श्रियमा नूनमश्विनोरृषिः समु त्ये महतीरप इत्येकविंशतिरभिरूपा यद्यज्ञेऽभिरूपं तत्समृद्धमुदु ष्य देवः सविता हिरण्ययेत्यनूथिष्ठति प्रैतु ब्रह्मणस्पतिरित्यनुप्रैति गन्धर्व इत्था पदमस्य रक्षतीति खरमवेक्षते नाके सुपर्णमुप यत्पतन्तमि-त्युपविशति तप्तो वां घर्मो नक्षति स्वहोतो भा पिबतमश्विनेति पूर्वाह्णे यजत्यग्ने वीहीत्यनुवषट्करोति स्विष्टकृद्भाजनं यदुस्रियास्वाहुतं घृतम्पयो स्य पिबतमश्विनेत्यपराह्णे यजत्यग्ने वीहीत्यनुवषट्करोति स्विष्टकृद्भाजनं त्रयाणां ह वै हविषां स्विष्टकृते न समवद्यन्ति सोमस्य घर्मस्य वाजिनस्येति स यदनु-वषट्करोत्यग्नेरेव स्विष्टकृतोऽनन्तरित्यै विश्वा आशा दक्षिणसादिति ब्रह्मा जपति स्वाहाकृतः शुचिर्देवेषु घर्मः समुद्र ?ादूर्मिमुदियर्ति वेनो द्र प्सः समुद्र मभि यज्जिगाति सखे सखायमभ्या वव्रित्स्वो र्ध्व ऊ षु ण ऊतय ऊर्ध्वो नः पाह्यंहगस्तं घेमित्था नमस्विन इत्यभिरूपा यद्यज्ञेऽभिरूपं तत्समृद्धम्पावक-शोचे तव हि क्षयम्परीति भक्षमाकाङ्क्षते हुतं हविर्मधु हविरिन्द्र तमेऽग्नावश्याम ते देव घर्म मधुमतः पितुमतो वाजवतोऽङ्गिरस्वतो नमस्ते अस्तु मा मा हिंसीरिति घर्मस्य भक्षयति श्येनो न योनिं सदनं धिया कृतमा यस्मिन्सप्त वासवा इति संसाद्यमानायान्वाह हविर्हविष्मो महि सद्म दैव्यमिति यदह-रुत्सादयिष्यन्तो भवन्ति सूयवसाद्भगवती हि भूया इत्युत्तमया परिदधाति तदेतद्देवमिथुनं यद्घर्मः स यो घर्मस्तच्छिश्नं यौ शफौ तौ शफौ योपयमनी ते श्रोणिकपाले यत्पयस्तद्रे तस्तदिदमग्नौ देवयोन्याम्प्रजनने रेतः सिच्यतेऽग्निर्वै देवयोनिः सोऽग्नेर्देवयोन्या आहुतिभ्यः सम्भवत्यृङ्मयो यजुर्मयः साममयो वेदमयो ब्रह्ममयोऽमृतमयः सम्भूय देवता अप्येति य एवं वेद यश्चैवं विद्वानेतेन यज्ञक्रतुना यजते॥1.22॥


देवासुरा वा एषु लोकेषु समयतन्त ते वा असुरा इमानेव लोकान्पुरोऽकुर्वत यथौजीयांसो बलीयांस एवं ते वा अयस्मयीमेवेमामकुर्वत रजतामन्तरिक्षं हरिणीं दिवं ते तथेमाँल्लोकान्पुरोऽकुर्वत ते देवा अब्रुवन्पुरो वा इमेऽसुरा इमाँल्लोकानक्रत पुर इमाँल्लोकान्प्रतिकरवामहा इति तथेति ते सद एवास्याः प्रत्यकुर्वताऽऽग्नीध्रमन्तरिक्षाद्धविर्धाने दिवस्ते तथेमाँल्लोकान्पुरः प्रत्यकुर्वत। ते देवा अब्रुवन्नुपसद उपायामोपसदा वै महापुरं जयन्तीति तथेति ते यामेव प्रथमामुपसदमुपायंस्तयैवैनानस्माँल्लोकादनुदन्त यां द्वितीयां तयाऽन्तरिक्षाद्यां तृतीयां तया दिवस्तांस्तथैभ्यो लोकेभ्योऽनुदन्त। ते वा एभ्यो लोकेभ्यो नुत्ता असुरा ऋतूनश्रयन्त ते देवा अब्रुवन्नुपसद एवोपायामेति तथेति त इमास्तिस्रः सतीरुपसदो द्विर्द्विरेकैकामुपायंस्ताः षट् समपद्यन्त षड् वा ऋतवस्तान्वा ऋतवस्तान्वा ऋतुभ्योऽनुदन्त। ते वा ऋतुभ्यो नुत्ता असुरा मासानश्रयन्त ते देवा अब्रुवन्नुपसद एवोपायामेति तथेति त इमाः षट् सतीरुपसदो द्विर्द्विरेकैकामुपायंस्ता द्वादश समपद्यन्त द्वादश वै मासास्तान्वै मासेभ्योऽनुदन्त। ते वै मासेभ्यो नुत्ता असुरा अर्धमासानश्रयन्त ते देवा अब्रुवन्नुपसद एवोपायामेति तथेति त इमा द्वादश सतीरुपसदो द्विर्द्विरेकैकामुपायंस्ताश्चतुर्विंशतिः समपद्यन्त चतुर्विंशतिर्वा अर्धमासास्तान्वा अर्धमासेभ्योऽनुदन्त। ते वा अर्धमासेभ्यो नुत्ता असुरा अहोरात्रे अश्रयन्त ते देवा अब्रुवन्नुपसदावेवोपायामेति तथेति ते यामेव पूर्वाह्ण उपसदमुपायंस्तयैवैनानह्नोऽनुदन्त यामपराह्णे तया रात्रेस्तांस्तथोभाभ्यामहोरात्राभ्यामन्तरायन्। तस्मात्सुपूर्वाह्ण एव पूर्वयोपसदा प्रचरितव्यं स्वपराह्णेऽपरया तावन्तमेव तद्द्विषते लोकं परिशिनष्टि॥1.23॥ (4.6)

128

जितयो वै नामैता यदुपसदोऽसपत्नां वा एताभिर्देवा विजितिं व्यजयन्तासपत्नां विजितिं विजयते य एवं वेद यां देवा एषु लोकेषु यामृतुषु यां मासेषु यामर्धमासेषु यामहोरात्रयोर्विजितिं व्यजयन्त तां विजितिं विजयते य एवं वेद ते देवा अबिभयुरस्माकं विप्रेमाणमन्विदमसुरा आभविष्यन्तीति ते व्युत्क्रम्यामन्त्रयन्ताग्निर्वसुभिरुदक्रामदिन्द्रो रुद्रैर्वरुण आदित्यैर्बृहस्पतिर्विश्वैर्देवैस्ते तथा व्युत्क्रम्यामन्त्रयन्त तेऽब्रुवन्हन्त या एव न इमाः प्रियतमास्तन्वस्ता अस्य वरुणस्य राज्ञो गृहे संनिदधामहै ताभिरेव नः स न संगच्छातै यो न एतदतिक्रामाद्य आलुलोभयिषादिति तथेति ते वरुणस्य राज्ञो गृहे तनूः संन्यदधत ते यद्वरुणस्य राज्ञो गृहे तनूः संन्यदधत तत्तानूनप्त्रमभवत्तत्तानूनप्त्रस्य तानूनप्त्रत्वं तस्मादाहुर्न सतानूनप्त्रिणे द्रोग्धव्यमिति तस्माद्विदमसुरा नान्वाभवन्ति॥1.24॥


133

शिरो वा एतद्यज्ञस्य यदातिथ्यं ग्रीवा उपसदः समानबर्हिषी भवतः समानं हि शिरोग्रीवमिषुं वा एतां देवाः समस्कुर्वत यदुपसदस्तस्या अग्निरनीकमासीत्सोमः शल्यो विष्णुस्तेजनं वरुणः पर्णानि तामाज्यधन्वानो व्यसृजंस्तया पुरो भिन्दन्त आयंस्तस्मादेता आज्यहविषो भवन्ति चतुरोऽग्रे स्तनान्व्रतमुपैत्युपसत्सु चतुःसंधिर्हीषुरनीकं शल्यस्तेजनं पर्णानि त्रीन्स्तनान्व्रतमुपैत्युपसत्सु त्रिषंधिर्हीषुरनीकं शल्यस्तेजनं द्वौ स्तनौ व्रतमुपैत्युपसत्सु द्विषंधिर्हीषुः शल्यश्च ह्येव तेजनं चैकं स्तनं व्रतमुपैत्युपसत्स्वेका ह्येवेषुरित्याख्यायत एकया वीर्यं क्रियते परो वरीयांसो वा इमे लोका अर्वागंहीयांसः परस्तादर्वाचीरुपसद उपैत्येषामेव लोकानामभिजित्या उपसद्याय मीळ्हुष इमां मे अग्ने समिधमिमामुपसदं वनेरिति तिस्रस्तिस्रः सामिधेन्यो रूपसमृद्धा एतद्वै यज्ञस्य समृद्धं यद्रूपसमृद्धं यत्कर्म क्रियमाणमृगभिवदति जघ्निवतीर्याज्यानुवाक्याः कुर्यादग्निर्वृत्राणि जङ्घनद्य उग्र इव शर्यहा त्वं सोमासि सत्पतिर्गयस्फानो अमीवहेदं विष्णुर्वि चक्रमे त्रीणि पदा वि चक्रम इत्येता विपर्यस्ताभिरपराह्णे यजति घ्नन्तो वा एताभिर्देवाः पुरो भिन्दन्त आयन्यदुपसदः सच्छन्दसः कर्तव्या न विच्छन्दसो यद्विच्छन्दसः कुर्याद्ग्रीवासु तद्गण्डं दध्यादीश्वरो ग्लावो जनितोस्तस्मात्सच्छन्दस एव कर्तव्या न विच्छन्दसस्तदु ह स्माहोपाविर्जानश्रुतेय उपसदां किल वै तद्ब्राह्मणे यस्मादप्यश्लीलस्य श्रोत्रियस्य मुखं व्येव ज्ञायते तृप्तमिव रेभतीवेत्याज्यहविषो ह्युपसदो ग्रीवासु मुखमध्याहितं तस्माद्ध स्म तदाह॥1.25॥


138

देववर्म वा एतद्यत्प्रयाजाश्चानुयाजाश्चाप्रयाजमननुयाजम्भवतीष्वै संशित्या अप्रतिशराय सकृदतिक्रम्याश्रावयति यज्ञस्याभिक्रान्त्या अनपक्रमाय तदाहुः क्रूरमिव वा एतत्सोमस्य राज्ञोऽन्ते चरन्ति यदस्य घृतेनान्ते चरन्ति घृतेन हि वज्रेणेन्द्रो वृत्रमहंस्तद्यदंशुरंशुष्टे देव सोमाप्यायतामिन्द्रायैकधनविद आ तुभ्यमिन्द्रः प्यायतामा त्वमिन्द्राय प्यायस्वा प्याययास्मान्सखीन्सन्या मेधया स्वस्ति ते देव सोम सुत्यामुदृचमशीयेति राजानमाप्याययन्ति यदेवास्य तत्क्रूरमिवान्ते चरन्ति तदेवास्यैतेनाप्यययन्त्यथो एनं वर्धयन्त्येव द्यावा-पृथिव्योर्वा एष गर्भो यत्सोमो राजा तददेष्टा राय एष्टा वामानि प्रेषे भगाय ऋतमृतवादिभ्यो नमो दिवे नमः पृथिव्या इति प्रस्तरे निह्नवते द्यावापृथिवीभ्यामेव तं नस्कुर्वन्त्यथो एने वर्धयन्त्येव वर्धयन्त्येव॥1.26॥


सोमो वै राजा गन्धर्वेष्वासीत्तं देवाश्च ऋषयश्चाभ्यध्यायन्कथमयमस्मान्सोमो राजाऽऽगच्छेदिति सा वागब्रवीत्स्त्रीकामा वै गन्धर्वा मयैव स्त्रिया भूतया पणध्वमिति नेति देवा अब्रुवन्कथं वयं त्वदृते स्यामेति साऽब्रवीत्क्रीणीतैव यर्हि वाव वो मयाऽर्थो भविता तर्ह्येव वोऽहं पुनरागन्ताऽस्मीति तथेति तया महानग्न्या भूतया सोमं राजानमक्रीणन्। तामनुकृतिमस्कन्नां वत्सतरीमाजन्ति सोमक्रयणीं तया सोमं राजानं क्रीणन्ति। तां पुनर्निष्क्रीणीयात्पुनर्हि सा तानागच्छत्। तस्मादुपांशु वाचा चरितव्यं सोमे राजनि क्रीते गन्धर्वेषु हि तर्हि वाग्भवति साऽग्नावेव प्रणीयमाने पुनरागच्छति॥1.27॥ (5.1)


150 अग्नये प्रणीयमानायानुब्रूहीत्याहाध्वर्युः प्र देवं देव्या धिया भरता जातवेदसम्हव्य नो वक्षदानुषगिति गायात्रीम्ब्राह्मणस्यानुब्रूयाद्गायत्रो वै ब्राह्मणस्तेजो वै ब्रह्मवर्चसं गायत्री तेजसैवैनं तद्ब्रह्मवर्चसेन समर्धयतीमम्महे विदथ्याय शूषमिति त्रिष्टुभं राजन्यस्यानुब्रूयात्त्रैष्टुभो वै राजन्य ओजो वा इन्द्रि यं वीर्यं त्रिष्टुबोजसैवैनं तदिन्द्रि येण वीर्येण समर्धयति शश्वत्कृत्व ईड्याय प्र जभ्रुरिति स्वानामेवैनं तच्छ्रैष्ठ्यं गमायति शृणोतु नो दम्येभिरनीकैः शृणोत्वग्निर्दिव्यैरजस्र इत्याजरसं हास्मिन्नजस्रो दीदाय य एवं वेदायमिह प्रथमो धायि धातृभिरिति जगतीं वैश्यस्यानुब्रूयाज् जागतो वै वैश्यो जागताः पशवः पशुभिरेवैनं तत्समर्धयाति वनेषु चित्रं विभ्वं विशेविश इत्यभिरूपा यद्यज्ञेऽभिरूपं तत्समृद्धमयमु ष्य प्र देवयुरित्यनुष्टुब्बि वाचं विसृजते वाग्वा अनुष्टुब्वाच्येव तद्वाचं विसृजतेऽयमु ष्य इति यदाहायमु स्यागमं या पुरा गन्धर्वेष्ववात्समित्येव तद्वाक्प्रब्रूतेऽयमग्निरुरुष्यतीत्ययं वा अग्निरुरुष्यत्यमृ-तादिव जन्मन इत्यमृतत्वमेवास्मिंस्तद्दधाति सहसश्चित्सहीयान्देवो जीवातवे कृत इति देवो ह्येष एतज्जीवातवे कृतो यदग्निरिळायास्त्वा पदे वयं नाभा पृथिव्या अधीत्येतद्वा इळायास्पदं यदुत्तरवेदीनाभिर्जातवेदो नि धीमहीति निधास्यन्तो ह्येनम्भवन्त्यग्ने हव्याय वोळ्हव इति हव्यं हि वक्ष्यौ भवत्यग्ने विश्वेभिः स्वनीक देवैरूर्णावन्तम्प्रथमः सीद योनिमिति विश्वाइरेवैनं तद्देवैः सहासादयति कुलायिनं घृतवन्तां सवित्र इति कुलायमिव ह्येतद्यज्ञे क्रियते यत्पैतुदारवाः परिधयो गुल्गुलूर्णास्तुकाः सुगन्धितेजनानीति यज्नां नय यजमानाय साध्विति यज्ञमेव तदृजुधा प्रतिष्ठापयति सीद होतः स्व उ लोके चिकित्वानित्यग्निर्वै देवानां होता तस्यैष स्वो लोको यदुत्तरवेदीनाभिः सादया यज्ञं सुकृतस्य योनाविति यजमानो वै यज्ञो यजमानायैवैतामाशिषमाशास्ते देवावीर्देवान्हविषा यजास्यग्ने बृहद्यजमाने वयो धा इति प्राणो वै वयः प्राणमेव तद्यजमाने दधाति नि होता होतृषदने विदान इत्यग्निर्वै देवानां होता तस्यैतद्धोतृषदनं यदुत्तरवेदीनाभिस्त्वेषो दीदिवाँ असदत्सुदक्ष इत्यासन्नो हि स तर्हि भवत्यदब्धव्रतप्रमतिर्वसिष्ठ इत्यग्निर्वै देवानां वसिष्ठः सहस्रम्भरः शुचिजिह्वो अग्निरित्येषा ह वा अस्य सहस्रम्भरता यदेनमेकं सन्तम्बहुधा विहरन्ति प्र ह वै साहस्रम्पोषमाप्नोति य एवं वेद त्वं दूतस्त्वमु नः परस्पा इत्युत्तमया परिदधाति त्वं वस्य आ वृषभ प्रणेता अग्ने तोकस्य नस्तने तनूनामप्रयुछन्दीद्यद्बोधि गोपा इत्यग्निर्वै देवानां गोपा अग्निमेव तत्सर्वतो गोप्तारम्परिदत्त आत्मने च यजमानाय च यत्रैवं विद्वानेतया परिदधात्यथो संवत्सरीणामेवैतां स्वस्तिं कुरुते ता एता अष्टावन्वाह रूपसमृधा एतद्वै यज्ञस्य समृद्धं यद्रू पसमृद्धं यत्कर्म क्रियमाणमृगभिवदति तासां त्रिः प्रथमामन्वाह त्रिरुत्तमां ता द्वादश सम्पद्यन्ते द्वादस वै मासाः संवत्सरः संवत्सरः प्रजापतिः प्रजापत्यायतनाभिरेवाभी राध्नोति य एवं वेद त्रिः प्रथमां त्रिरुत्तमामन्वाह यज्ञस्य तद्बर्सौ नह्यति स्थेम्ने बलायाविस्रंसाय॥1.28॥


155

हविर्धानाभ्याम्प्रोह्यमाणाभ्यामनुब्रूहीत्याहाध्वर्युर्युजे वाम्ब्रह्म पूर्व्यं नमोभि-रित्यन्वाह ब्रह्मणा वा एते देवा अयुञ्जत यद्धविर्धाने ब्रह्मणैवैने एतद्युङ्क्ते न वै ब्रह्मण्वद्रि ष्यति प्रेतां यज्ञस्य शम्भुवेति तृचं द्यावापृथिवीयमन्वाह तदाहु-र्यद्धविर्धानाभ्याम्प्रोह्यमाणाभ्यामनु वाचाहाथ कस्मात्तृचं द्यावापृथिवीयम-न्वाहेति द्यावापृथिवी वै देवानां हविर्धाने आस्तां ते उ एवाद्यापि हविर्धाने ते हीदमन्तरेण सर्वं हविर्यदिदं किंच तस्मात्तृचं द्यावापृथिवीयमन्वाह यमे इव यतमाने यदैतमिति यमे इव ह्येते यतमाने प्रबाहुगितः प्र वाम्भरन्मानुषा देवयन्त इति देवयन्तो ह्येने मानुषाः प्रभरन्त्या सीदतं स्वमु लोकं विदाने स्वासस्थे भवतमिन्दवे न इति सोमो वै राजेन्दुः सोमायैवैने एतद्र ?ाज्ञ आसदे-ऽचीक्लृपदधि द्वयोरदधा उक्थ्यं वच इति द्वयोर्ह्येतत्तृतीयं छदिरधिनिधीयत उक्थ्यं वच इति यदाह यज्ञियं वै कर्मोक्थ्यं वचो यज्ञमेवैतेन समर्धयति यतस्रुचा मिथुउआ या सपर्यतः असंयत्तो व्रते ते क्षेति पुष्यतीति यदेवादः पूर्वं यत्तवत्पदमाह तदेवैतेन शान्त्या शमयति भद्र ?ा शक्तिर्यजमानाय सुन्वत इत्याशिषमाशास्ते विश्वा रूपाणि प्रति मुञ्चते कविरिति विश्वरूपामन्वाह स रराट्यामीक्षमाणोऽनुब्रूयाद्विश्वमिव हि रूपं रराट्याः शुक्लमिव च कृष्णमिव च विश्वं रूपमवरुन्द्ध आत्मने च यजमानाय च यत्रैवं विद्वानेतां ररा-ट्यामीक्षमाणोऽन्वाह परि त्वा गिर्वणो गिर इत्युत्तमया परिदधाति स यदैव हविर्धाने सम्परिश्रिते मन्येताथ परिदध्यादनग्नम्भावुका ह होतुश्च यजमानस्य च भार्या भवन्ति यत्रैवं विद्वानेतया हविर्धानयोः सम्परिश्रितयोः परिदधाति यजुषा वा एते परिश्रीयेते यद्धविर्धाने यजुषैवैने एतत्परिश्रयन्ति तौ यदैवाध्वर्युश्च प्रतिप्रस्थाता चोभयतो मेथ्यौ निहन्यातामथ परिदध्यादत्र हि ते सम्परिश्रिते भवतस्ता एता अष्टावन्वाह रूपसमृद्धा एतद्वै यज्ञस्य समृद्धं यद्रू पसमृद्धं यत्कर्म क्रियमाणमृगभिवदति तासां त्रिः प्रथमामन्वाह त्रिरुत्तमां ता द्वादश सम्पद्यन्ते द्वादश वै मासाः संवत्सरः संवत्सरः प्रजापतिः प्रजापत्यायतनाभिरेवाभी राध्नोति य एवं वेद त्रिः प्रथमां त्रिरुत्तमामन्वाह यज्ञस्यैव तद्बर्सौ नह्यति स्थेम्ने बलायाविस्रंसाय॥1.29॥