ऋग्वेदः सूक्तं ९.८३

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं ९.८२ ऋग्वेदः - मण्डल ९
सूक्तं ९.८३
पवित्र आङ्गिरसः
सूक्तं ९.८४ →
दे. पवमानः सोमः। जगती।


पवित्रं ते विततं ब्रह्मणस्पते प्रभुर्गात्राणि पर्येषि विश्वतः ।
अतप्ततनूर्न तदामो अश्नुते शृतास इद्वहन्तस्तत्समाशत ॥१॥
तपोष्पवित्रं विततं दिवस्पदे शोचन्तो अस्य तन्तवो व्यस्थिरन् ।
अवन्त्यस्य पवीतारमाशवो दिवस्पृष्ठमधि तिष्ठन्ति चेतसा ॥२॥
अरूरुचदुषसः पृश्निरग्रिय उक्षा बिभर्ति भुवनानि वाजयुः ।
मायाविनो ममिरे अस्य मायया नृचक्षसः पितरो गर्भमा दधुः ॥३॥
गन्धर्व इत्था पदमस्य रक्षति पाति देवानां जनिमान्यद्भुतः ।
गृभ्णाति रिपुं निधया निधापतिः सुकृत्तमा मधुनो भक्षमाशत ॥४॥
हविर्हविष्मो महि सद्म दैव्यं नभो वसानः परि यास्यध्वरम् ।
राजा पवित्ररथो वाजमारुहः सहस्रभृष्टिर्जयसि श्रवो बृहत् ॥५॥


सायणभाष्यम्

'पवित्रं ते ' इति पञ्चर्चं षोडशं सूक्तमाङ्गिरसस्य पवित्रस्यार्षं जागतं पवमानसोमदेवताकम् । तथा चानुक्रान्तं-’ पवित्रं ते पवित्रः' इति । अभिष्टव आद्ये ऋचौ वक्तव्ये । सूत्रितं च---’ पवित्रं ते विततं ब्रह्मणस्पत इति द्वे वि यत्पवित्रं धिषणा अतन्वत ' ( आश्व. श्रौ. ४, ६) इति ॥


प॒वित्रं॑ ते॒ वित॑तं ब्रह्मणस्पते प्र॒भुर्गात्रा॑णि॒ पर्ये॑षि वि॒श्वतः॑ ।

अत॑प्ततनू॒र्न तदा॒मो अ॑श्नुते शृ॒तास॒ इद्वहं॑त॒स्तत्समा॑शत ॥१

प॒वित्र॑म् । ते॒ । विऽत॑तम् । ब्र॒ह्म॒णः॒ । प॒ते॒ । प्र॒ऽभुः । गात्रा॑णि । परि॑ । ए॒षि॒ । वि॒श्वतः॑ ।

अत॑प्तऽतनूः । न । तत् । आ॒मः । अ॒श्नु॒ते॒ । शृ॒तासः॑ । इत् । वह॑न्तः । तत् । सम् । आ॒श॒त॒ ॥१

पवित्रम् । ते । विऽततम् । ब्रह्मणः । पते । प्रऽभुः । गात्राणि । परि । एषि । विश्वतः ।

अतप्तऽतनूः । न । तत् । आमः । अश्नुते । शृतासः । इत् । वहन्तः । तत् । सम् । आशत ॥१

हे “ब्रह्मणस्पते मन्त्रस्य स्वामिन् सोम “ते "पवित्रं शोधकमङ्गं "विततं सर्वत्र विस्तृतम् । स “प्रभुः प्रभविता त्वं "गात्राणि पातुरङ्गानि “पर्येषि परिगच्छसि “विश्वतः सर्वतः। तव “तत् पवित्रम् "अतप्ततनूः पयोव्रतादिना असंतप्तगात्रः "आमः अपरिपक्वो "न “अश्नुते न व्याप्नोति । “शृतास "इत् शृता एवं परिपक्वा एव "वहन्तः यागं निर्वहन्तः “तत् पवित्रं "समाशत व्याप्नुवन्ति ।


तपो॑ष्प॒वित्रं॒ वित॑तं दि॒वस्प॒दे शोचं॑तो अस्य॒ तंत॑वो॒ व्य॑स्थिरन् ।

अवं॑त्यस्य पवी॒तार॑मा॒शवो॑ दि॒वस्पृ॒ष्ठमधि॑ तिष्ठंति॒ चेत॑सा ॥२

तपोः॑ । प॒वित्र॑म् । विऽत॑तम् । दि॒वः । प॒दे । शोच॑न्तः । अ॒स्य॒ । तन्त॑वः । वि । अ॒स्थि॒र॒न् ।

अव॑न्ति । अ॒स्य॒ । प॒वि॒तार॑म् । आ॒शवः॑ । दि॒वः । पृ॒ष्ठम् । अधि॑ । ति॒ष्ठ॒न्ति॒ । चेत॑सा ॥२

तपोः । पवित्रम् । विऽततम् । दिवः । पदे । शोचन्तः । अस्य । तन्तवः । वि । अस्थिरन् ।

अवन्ति । अस्य । पवितारम् । आशवः । दिवः । पृष्ठम् । अधि । तिष्ठन्ति । चेतसा ॥२

“तपोः शत्रूणां तापकस्य सोमस्य "पवित्रं शोधकमङ्गं तेजो वा “दिवस्पदे द्युलोकस्य उच्छ्रिते स्थाने “विततं विस्तृतम् । तृतीयस्यामितो दिवि सोम आसीत्' (तै. ब्रा. ३. २. १. १) इति ब्राह्मणम् । "अस्य “तन्तवः अंशवः “शोचन्तः दीप्यमानाः “व्यस्थिरन् विविधं तिष्ठन्ति । पृथिव्यां हविर्धाने वा । "अस्य सोमस्य “आशवः शीघ्रगामिनो रसाः “अवन्ति रक्षन्ति । कम् । “पवितारं पावयितारम् । यजमानमवन्ति रक्षन्ति होमद्वारा पश्चाद्धुताः "दिवः द्युलोकस्य “पृष्ठं पृष्ठभागमुन्नतदेशं “चेतसा बुद्ध्या देवगमनेच्छावत्या "अधि “तिष्ठन्ति आश्रयन्ते ॥


अभिष्टवे ' अरूरुचत् ' इत्येषावपनीया । सूत्रितं च-’ ईळे द्यावापृथिवी इति प्रागुत्तमाया अरूरुचदुषसः पृश्निरग्रिय इत्यावपेत' (आश्व. श्रौ. ४. ६ ) इति ॥

अरू॑रुचदु॒षसः॒ पृश्नि॑रग्रि॒य उ॒क्षा बि॑भर्ति॒ भुव॑नानि वाज॒युः ।

मा॒या॒विनो॑ ममिरे अस्य मा॒यया॑ नृ॒चक्ष॑सः पि॒तरो॒ गर्भ॒मा द॑धुः ॥३

अरू॑रुचत् । उ॒षसः॑ । पृश्निः॑ । अ॒ग्रि॒यः । उ॒क्षा । बि॒भ॒र्ति॒ । भुव॑नानि । वा॒ज॒ऽयुः ।

मा॒या॒ऽविनः॑ । म॒मि॒रे॒ । अ॒स्य॒ । मा॒यया॑ । नृ॒ऽचक्ष॑सः । पि॒तरः॑ । गर्भ॑म् । आ । द॒धुः॒ ॥३

अरूरुचत् । उषसः । पृश्निः । अग्रियः । उक्षा । बिभर्ति । भुवनानि । वाजऽयुः ।

मायाऽविनः । ममिरे । अस्य । मायया । नृऽचक्षसः । पितरः । गर्भम् । आ । दधुः ॥३

“उषसः संबन्धी “पृश्निः आदित्यः । ‘पृश्निरादित्यो भवति प्राश्नुत एनं वर्णः' (निरु. २.१४ ) इति निरुक्तम्। "अग्रियः मुख्यः सोऽयं सोमः "अरूरुचत् रोचयति । सः "उक्षा जलस्य सेक्ता “बिभर्ति पुष्णात्युदकेन “भुवनानि भूतजातानि “वाजयुः तेषामन्नमिच्छन् । "मायाविनः। माया प्रज्ञा । प्रज्ञावन्तो देवाः "अस्य सोमस्य “मायया प्रज्ञया "ममिरे निर्मान्ति । सोमस्यैकैकांशपानेन जातबला अग्न्यादयः स्वस्वव्यापारेण जगत्सृजन्तीत्यर्थः । तथास्य मायया "नृचक्षसः नॄणां द्रष्टारः "पितरः पालका देवा अङ्गिरसः पितरो वा गर्भमा “दधुः धारयन्ति । ओषधीषु वात्र सूर्यात्मा सोमः स्तूयते सूर्यरश्म्यनुगमाधीनवर्धनाच्चन्द्रस्य । अयमुषसः पृश्निः सवितारूरुचत् रोचयति सर्वं रोचते वा । शिष्टं समानम्। तत्संबन्धिनो नृचक्षसो नॄणां द्रष्टारः पितरो जगद्रक्षका रश्मयो गर्भमादधुर्वृष्ट्यर्थम् ॥


अभिष्टवे खरमवेक्षमाणः ‘ गन्धर्व इत्था' इत्येतां पठेत् । सूत्रितं च-’ गन्धर्व इत्था पदमस्य रक्षतीति खरमवेक्ष्य ' ( आश्व. श्रौ. ४. ७) इति ॥

गं॒ध॒र्व इ॒त्था प॒दम॑स्य रक्षति॒ पाति॑ दे॒वानां॒ जनि॑मा॒न्यद्भु॑तः ।

गृ॒भ्णाति॑ रि॒पुं नि॒धया॑ नि॒धाप॑तिः सु॒कृत्त॑मा॒ मधु॑नो भ॒क्षमा॑शत ॥४

ग॒न्ध॒र्वः । इ॒त्था । प॒दम् । अ॒स्य॒ । र॒क्ष॒ति॒ । पाति॑ । दे॒वाना॑म् । जनि॑मानि । अद्भु॑तः ।

गृ॒भ्णाति॑ । रि॒पुम् । नि॒ऽधया॑ । नि॒धाऽप॑तिः । सु॒कृत्ऽत॑माः । मधु॑नः । भ॒क्षम् । आ॒श॒त॒ ॥४

गन्धर्वः । इत्था । पदम् । अस्य । रक्षति । पाति । देवानाम् । जनिमानि । अद्भुतः ।

गृभ्णाति । रिपुम् । निऽधया । निधाऽपतिः । सुकृत्ऽतमाः । मधुनः । भक्षम् । आशत ॥४

“गन्धर्वः उदकानां स्तुतीनां वा धारक आदित्यः "अस्य सोमस्य “पदं स्थानं द्युसंबन्धि “इत्था सत्यं "रक्षति । सोऽयं सोमः “देवानां "जनिमानि जन्मानि । देवानित्यर्थः । "पाति रक्षति “अद्भुतः महान् । किंचायं "रिपुम् अस्मद्वैरिणं “निधया। निधा पाश्या । पाशसमूहेन “गृभ्णाति गृह्णाति । "निधापतिः पाशसमूहस्वामी । तस्यास्य "मधुनः मधुररसस्य “भक्षं "सुकृत्तमाः अतिशयेन सुकृतकर्तार एव "आशत प्राप्नुवन्ति ॥


अन्तिमे प्रवर्ग्ये परिधानीयायाः पूर्वं ‘हविर्हविष्मः' इत्येषावपनीया। सूत्रितं च- उत्तमे प्रागुत्तमाया हविर्हविष्मो महि सद्म दैव्यमित्यावपेत' (आश्व. श्रौ. ४. ७) इति ।

ह॒विर्ह॑विष्मो॒ महि॒ सद्म॒ दैव्यं॒ नभो॒ वसा॑नः॒ परि॑ यास्यध्व॒रं ।

राजा॑ प॒वित्र॑रथो॒ वाज॒मारु॑हः स॒हस्र॑भृष्टिर्जयसि॒ श्रवो॑ बृ॒हत् ॥५

ह॒विः । ह॒वि॒ष्मः॒ । महि॑ । सद्म॑ । दैव्य॑म् । नभः॑ । वसा॑नः । परि॑ । या॒सि॒ । अ॒ध्व॒रम् ।

राजा॑ । प॒वित्र॑ऽरथः । वाज॑म् । आ । अ॒रु॒हः॒ । स॒हस्र॑ऽभृष्टिः । ज॒य॒सि॒ । श्रवः॑ । बृ॒हत् ॥५

हविः । हविष्मः । महि । सद्म । दैव्यम् । नभः । वसानः । परि । यासि । अध्वरम् ।

राजा । पवित्रऽरथः । वाजम् । आ । अरुहः । सहस्रऽभृष्टिः । जयसि । श्रवः । बृहत् ॥५

हे "हविष्मः । हविरित्युदकनाम । उदकवन् सोम हविभूतं “नभः । उदकनामैतत् । उदकरसमित्यर्थः। “वसानः आच्छादयन् "महि महत् "दैव्यं “सद्म यागगृहं “परि “यासि परिगच्छसि “अध्वरं निर्वोढुम् । किंच हे सोम “राजा “पवित्ररथः च "वाजं संग्रामम् "आरुहः आरोहसि । यद्वा । तत्र तत्र संग्रामवाचकेन शब्देन यज्ञव्यवहारदर्शनादत्र वाजो यज्ञाख्यसंग्रामः । तमारुहः । यथा कश्चिद्राजा रथमारुह्य स्वस्थानं प्रविशति तद्वदिति भावः । किंच सहस्रभृष्टिः बहुभ्रंशः । अपरिमितगमन इत्यर्थः । अथवा भृष्टिरायुधम् । असंख्यातायुधः सन् । "बृहत् "श्रवः महदन्नं “जयसि अस्माकम् ॥ ॥ ८ ॥

मण्डल ९

सूक्तं ९.१

सूक्तं ९.२

सूक्तं ९.३

सूक्तं ९.४

सूक्तं ९.५

सूक्तं ९.६

सूक्तं ९.७

सूक्तं ९.८

सूक्तं ९.९

सूक्तं ९.१०

सूक्तं ९.११

सूक्तं ९.१२

सूक्तं ९.१३

सूक्तं ९.१४

सूक्तं ९.१५

सूक्तं ९.१६

सूक्तं ९.१७

सूक्तं ९.१८

सूक्तं ९.१९

सूक्तं ९.२०

सूक्तं ९.२१

सूक्तं ९.२२

सूक्तं ९.२३

सूक्तं ९.२४

सूक्तं ९.२५

सूक्तं ९.२६

सूक्तं ९.२७

सूक्तं ९.२८

सूक्तं ९.२९

सूक्तं ९.३०

सूक्तं ९.३१

सूक्तं ९.३२

सूक्तं ९.३३

सूक्तं ९.३४

सूक्तं ९.३५

सूक्तं ९.३६

सूक्तं ९.३७

सूक्तं ९.३८

सूक्तं ९.३९

सूक्तं ९.४०

सूक्तं ९.४१

सूक्तं ९.४२

सूक्तं ९.४३

सूक्तं ९.४४

सूक्तं ९.४५

सूक्तं ९.४६

सूक्तं ९.४७

सूक्तं ९.४८

सूक्तं ९.४९

सूक्तं ९.५०

सूक्तं ९.५१

सूक्तं ९.५२

सूक्तं ९.५३

सूक्तं ९.५४

सूक्तं ९.५५

सूक्तं ९.५६

सूक्तं ९.५७

सूक्तं ९.५८

सूक्तं ९.५९

सूक्तं ९.६०

सूक्तं ९.६१

सूक्तं ९.६२

सूक्तं ९.६३

सूक्तं ९.६४

सूक्तं ९.६५

सूक्तं ९.६६

सूक्तं ९.६७

सूक्तं ९.६८

सूक्तं ९.६९

सूक्तं ९.७०

सूक्तं ९.७१

सूक्तं ९.७२

सूक्तं ९.७३

सूक्तं ९.७४

सूक्तं ९.७५

सूक्तं ९.७६

सूक्तं ९.७७

सूक्तं ९.७८

सूक्तं ९.७९

सूक्तं ९.८०

सूक्तं ९.८१

सूक्तं ९.८२

सूक्तं ९.८३

सूक्तं ९.८४

सूक्तं ९.८५

सूक्तं ९.८६

सूक्तं ९.८७

सूक्तं ९.८८

सूक्तं ९.८९

सूक्तं ९.९०

सूक्तं ९.९१

सूक्तं ९.९२

सूक्तं ९.९३

सूक्तं ९.९४

सूक्तं ९.९५

सूक्तं ९.९६

सूक्तं ९.९७

सूक्तं ९.९८

सूक्तं ९.९९

सूक्तं ९.१००

सूक्तं ९.१०१

सूक्तं ९.१०२

सूक्तं ९.१०३

सूक्तं ९.१०४

सूक्तं ९.१०५

सूक्तं ९.१०६

सूक्तं ९.१०७

सूक्तं ९.१०८

सूक्तं ९.१०९

सूक्तं ९.११०

सूक्तं ९.१११

सूक्तं ९.११२

सूक्तं ९.११३

सूक्तं ९.११४

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_९.८३&oldid=208672" इत्यस्माद् पुनः प्राप्तिः