ऋग्वेदः सूक्तं ९.५४

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं ९.५३ ऋग्वेदः - मण्डल ९
सूक्तं ९.५४
अवत्सारः काश्यपः।
सूक्तं ९.५५ →
दे. पवमानः सोमः। गायत्री।


अस्य प्रत्नामनु द्युतं शुक्रं दुदुह्रे अह्रयः ।
पयः सहस्रसामृषिम् ॥१॥
अयं सूर्य इवोपदृगयं सरांसि धावति ।
सप्त प्रवत आ दिवम् ॥२॥
अयं विश्वानि तिष्ठति पुनानो भुवनोपरि ।
सोमो देवो न सूर्यः ॥३॥
परि णो देववीतये वाजाँ अर्षसि गोमतः ।
पुनान इन्दविन्द्रयुः ॥४॥


सायणभाष्यम्

अस्य प्रत्नाम्' इति चतुर्ऋचं त्रिंशं सूक्तम् । ऋष्याद्याः पूर्ववत् । ‘ अस्य प्रत्नाम्' इत्यनुक्रान्तम् । उक्तो विनियोगः ॥


अ॒स्य प्र॒त्नामनु॒ द्युतं॑ शु॒क्रं दु॑दुह्रे॒ अह्र॑यः ।

पयः॑ सहस्र॒सामृषिं॑ ॥१

अ॒स्य । प्र॒त्नाम् । अनु॑ । द्युत॑म् । शु॒क्रम् । दु॒दु॒ह्रे॒ । अह्र॑यः ।

पयः॑ । स॒ह॒स्र॒ऽसाम् । ऋषि॑म् ॥

अस्य । प्रत्नाम् । अनु । द्युतम् । शुक्रम् । दुदुह्रे । अह्रयः ।

पयः । सहस्रऽसाम् । ऋषिम् ॥

“अस्य सोमस्य “प्रत्नां पुराणां “द्युतं द्योतमानां तनुम् “अनु “शुक्रं दीप्तं “सहस्रसाम् अभिलषितस्यापरिमितस्य दातारम् “ऋषिम् अतीन्द्रियस्य कर्मफलस्य द्रष्टारं “पयः पातव्यं रसम् “अह्रयः कवयः “दुदुहे दुहन्ति ॥


अ॒यं सूर्य॑ इवोप॒दृग॒यं सरां॑सि धावति ।

स॒प्त प्र॒वत॒ आ दिवं॑ ॥२

अ॒यम् । सूर्यः॑ऽइव । उ॒प॒ऽदृक् । अ॒यम् । सरां॑सि । धा॒व॒ति॒ ।

स॒प्त । प्र॒ऽवतः॑ । आ । दिव॑म् ॥

अयम् । सूर्यःऽइव । उपऽदृक् । अयम् । सरांसि । धावति ।

सप्त । प्रऽवतः । आ । दिवम् ॥

“अयं सोमः “सूर्यइव यथा सूर्यः सर्वस्य लोकस्योपद्रष्टा तद्वत् कर्मणाम् “उपदृक् उपद्रष्टा । अपि च "अयं सोमः “सरांसि । त्रिंशदुक्थपात्राणीति केचिद्वर्णयन्ति । अपरे तु त्रिंशदहोरात्राणि सरांसीति । तानि “धावति गच्छति । तथा च यास्कः-’ तत्रैतद्याज्ञिका वेदयन्ते त्रिंशदुक्थपात्राणि माध्यंदिने सवन एकदेवतानि तान्येतस्मिन्काल एकेन प्रतिधानेन पिबन्ति तान्यत्र सरांस्युच्यन्ते । त्रिंशदपरपक्षस्याहोरात्रास्त्रिंशत्पूर्वपक्षस्येति नैरुक्ताः' (निरु. ५ . ११ ) इति । अपि चायं सोमः “दिवम् अधिकृत्य “सप्त “प्रवतः सप्त नदीः “आ तिष्ठति ॥


अ॒यं विश्वा॑नि तिष्ठति पुना॒नो भुव॑नो॒परि॑ ।

सोमो॑ दे॒वो न सूर्यः॑ ॥३

अ॒यम् । विश्वा॑नि । ति॒ष्ठ॒ति॒ । पु॒ना॒नः । भुव॑ना । उ॒परि॑ ।

सोमः॑ । दि॒वः । न । सूर्यः॑ ॥

अयम् । विश्वानि । तिष्ठति । पुनानः । भुवना । उपरि ।

सोमः । दिवः । न । सूर्यः ॥

“पुनानः पूयमानः “अयं “सोमः “विश्वानि सर्वाणि “भुवना भुवनानि सर्वेषां भुवनानाम् “उपरि “तिष्ठति । तत्र दृष्टान्तमाह । “देवो “न “सूर्यः । यथा सूर्यो देवः सर्वेषां भुवनानामुपरि तिष्ठति तद्वदयं सोमोऽपीत्यर्थः ॥


परि॑ णो दे॒ववी॑तये॒ वाजाँ॑ अर्षसि॒ गोम॑तः ।

पु॒ना॒न इं॑दविंद्र॒युः ॥४

परि॑ । नः॒ । दे॒वऽवी॑तये । वाजा॑न् । अ॒र्ष॒सि॒ । गोऽम॑तः ।

पु॒ना॒नः । इ॒न्दो॒ इति॑ । इ॒न्द्र॒ऽयुः ॥

परि । नः । देवऽवीतये । वाजान् । अर्षसि । गोऽमतः ।

पुनानः । इन्दो इति । इन्द्रऽयुः ॥

हे “इन्दो सोम “इन्द्रयुः इन्द्रकामः “पुनानः पूयमानस्त्वं “नः अस्माकं “देववीतये यज्ञाय “गोमत: गोयुक्तानि “वाजान् अन्नानि “परि “अर्षसि परितः क्षरेत्यर्थः ॥ ॥ ११ ॥


मण्डल ९

सूक्तं ९.१

सूक्तं ९.२

सूक्तं ९.३

सूक्तं ९.४

सूक्तं ९.५

सूक्तं ९.६

सूक्तं ९.७

सूक्तं ९.८

सूक्तं ९.९

सूक्तं ९.१०

सूक्तं ९.११

सूक्तं ९.१२

सूक्तं ९.१३

सूक्तं ९.१४

सूक्तं ९.१५

सूक्तं ९.१६

सूक्तं ९.१७

सूक्तं ९.१८

सूक्तं ९.१९

सूक्तं ९.२०

सूक्तं ९.२१

सूक्तं ९.२२

सूक्तं ९.२३

सूक्तं ९.२४

सूक्तं ९.२५

सूक्तं ९.२६

सूक्तं ९.२७

सूक्तं ९.२८

सूक्तं ९.२९

सूक्तं ९.३०

सूक्तं ९.३१

सूक्तं ९.३२

सूक्तं ९.३३

सूक्तं ९.३४

सूक्तं ९.३५

सूक्तं ९.३६

सूक्तं ९.३७

सूक्तं ९.३८

सूक्तं ९.३९

सूक्तं ९.४०

सूक्तं ९.४१

सूक्तं ९.४२

सूक्तं ९.४३

सूक्तं ९.४४

सूक्तं ९.४५

सूक्तं ९.४६

सूक्तं ९.४७

सूक्तं ९.४८

सूक्तं ९.४९

सूक्तं ९.५०

सूक्तं ९.५१

सूक्तं ९.५२

सूक्तं ९.५३

सूक्तं ९.५४

सूक्तं ९.५५

सूक्तं ९.५६

सूक्तं ९.५७

सूक्तं ९.५८

सूक्तं ९.५९

सूक्तं ९.६०

सूक्तं ९.६१

सूक्तं ९.६२

सूक्तं ९.६३

सूक्तं ९.६४

सूक्तं ९.६५

सूक्तं ९.६६

सूक्तं ९.६७

सूक्तं ९.६८

सूक्तं ९.६९

सूक्तं ९.७०

सूक्तं ९.७१

सूक्तं ९.७२

सूक्तं ९.७३

सूक्तं ९.७४

सूक्तं ९.७५

सूक्तं ९.७६

सूक्तं ९.७७

सूक्तं ९.७८

सूक्तं ९.७९

सूक्तं ९.८०

सूक्तं ९.८१

सूक्तं ९.८२

सूक्तं ९.८३

सूक्तं ९.८४

सूक्तं ९.८५

सूक्तं ९.८६

सूक्तं ९.८७

सूक्तं ९.८८

सूक्तं ९.८९

सूक्तं ९.९०

सूक्तं ९.९१

सूक्तं ९.९२

सूक्तं ९.९३

सूक्तं ९.९४

सूक्तं ९.९५

सूक्तं ९.९६

सूक्तं ९.९७

सूक्तं ९.९८

सूक्तं ९.९९

सूक्तं ९.१००

सूक्तं ९.१०१

सूक्तं ९.१०२

सूक्तं ९.१०३

सूक्तं ९.१०४

सूक्तं ९.१०५

सूक्तं ९.१०६

सूक्तं ९.१०७

सूक्तं ९.१०८

सूक्तं ९.१०९

सूक्तं ९.११०

सूक्तं ९.१११

सूक्तं ९.११२

सूक्तं ९.११३

सूक्तं ९.११४

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_९.५४&oldid=182149" इत्यस्माद् पुनः प्राप्तिः