ऋग्वेदः सूक्तं ९.११३

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं ९.११२ ऋग्वेदः - मण्डल ९
सूक्तं ९.११३
कश्यपो मारीचः
सूक्तं ९.११४ →
दे. पवमानः सोमः। पङ्क्तिः।
मण्डल ९

सूक्तं ९.१

सूक्तं ९.२

सूक्तं ९.३

सूक्तं ९.४

सूक्तं ९.५

सूक्तं ९.६

सूक्तं ९.७

सूक्तं ९.८

सूक्तं ९.९

सूक्तं ९.१०

सूक्तं ९.११

सूक्तं ९.१२

सूक्तं ९.१३

सूक्तं ९.१४

सूक्तं ९.१५

सूक्तं ९.१६

सूक्तं ९.१७

सूक्तं ९.१८

सूक्तं ९.१९

सूक्तं ९.२०

सूक्तं ९.२१

सूक्तं ९.२२

सूक्तं ९.२३

सूक्तं ९.२४

सूक्तं ९.२५

सूक्तं ९.२६

सूक्तं ९.२७

सूक्तं ९.२८

सूक्तं ९.२९

सूक्तं ९.३०

सूक्तं ९.३१

सूक्तं ९.३२

सूक्तं ९.३३

सूक्तं ९.३४

सूक्तं ९.३५

सूक्तं ९.३६

सूक्तं ९.३७

सूक्तं ९.३८

सूक्तं ९.३९

सूक्तं ९.४०

सूक्तं ९.४१

सूक्तं ९.४२

सूक्तं ९.४३

सूक्तं ९.४४

सूक्तं ९.४५

सूक्तं ९.४६

सूक्तं ९.४७

सूक्तं ९.४८

सूक्तं ९.४९

सूक्तं ९.५०

सूक्तं ९.५१

सूक्तं ९.५२

सूक्तं ९.५३

सूक्तं ९.५४

सूक्तं ९.५५

सूक्तं ९.५६

सूक्तं ९.५७

सूक्तं ९.५८

सूक्तं ९.५९

सूक्तं ९.६०

सूक्तं ९.६१

सूक्तं ९.६२

सूक्तं ९.६३

सूक्तं ९.६४

सूक्तं ९.६५

सूक्तं ९.६६

सूक्तं ९.६७

सूक्तं ९.६८

सूक्तं ९.६९

सूक्तं ९.७०

सूक्तं ९.७१

सूक्तं ९.७२

सूक्तं ९.७३

सूक्तं ९.७४

सूक्तं ९.७५

सूक्तं ९.७६

सूक्तं ९.७७

सूक्तं ९.७८

सूक्तं ९.७९

सूक्तं ९.८०

सूक्तं ९.८१

सूक्तं ९.८२

सूक्तं ९.८३

सूक्तं ९.८४

सूक्तं ९.८५

सूक्तं ९.८६

सूक्तं ९.८७

सूक्तं ९.८८

सूक्तं ९.८९

सूक्तं ९.९०

सूक्तं ९.९१

सूक्तं ९.९२

सूक्तं ९.९३

सूक्तं ९.९४

सूक्तं ९.९५

सूक्तं ९.९६

सूक्तं ९.९७

सूक्तं ९.९८

सूक्तं ९.९९

सूक्तं ९.१००

सूक्तं ९.१०१

सूक्तं ९.१०२

सूक्तं ९.१०३

सूक्तं ९.१०४

सूक्तं ९.१०५

सूक्तं ९.१०६

सूक्तं ९.१०७

सूक्तं ९.१०८

सूक्तं ९.१०९

सूक्तं ९.११०

सूक्तं ९.१११

सूक्तं ९.११२

सूक्तं ९.११३

सूक्तं ९.११४


शर्यणावति सोममिन्द्रः पिबतु वृत्रहा ।
बलं दधान आत्मनि करिष्यन्वीर्यं महदिन्द्रायेन्दो परि स्रव ॥१॥
आ पवस्व दिशां पत आर्जीकात्सोम मीढ्वः ।
ऋतवाकेन सत्येन श्रद्धया तपसा सुत इन्द्रायेन्दो परि स्रव ॥२॥
पर्जन्यवृद्धं महिषं तं सूर्यस्य दुहिताभरत् ।
तं गन्धर्वाः प्रत्यगृभ्णन्तं सोमे रसमादधुरिन्द्रायेन्दो परि स्रव ॥३॥
ऋतं वदन्नृतद्युम्न सत्यं वदन्सत्यकर्मन् ।
श्रद्धां वदन्सोम राजन्धात्रा सोम परिष्कृत इन्द्रायेन्दो परि स्रव ॥४॥
सत्यमुग्रस्य बृहतः सं स्रवन्ति संस्रवाः ।
सं यन्ति रसिनो रसाः पुनानो ब्रह्मणा हर इन्द्रायेन्दो परि स्रव ॥५॥
यत्र ब्रह्मा पवमान छन्दस्यां वाचं वदन् ।
ग्राव्णा सोमे महीयते सोमेनानन्दं जनयन्निन्द्रायेन्दो परि स्रव ॥६॥
यत्र ज्योतिरजस्रं यस्मिँल्लोके स्वर्हितम् ।
तस्मिन्मां धेहि पवमानामृते लोके अक्षित इन्द्रायेन्दो परि स्रव ॥७॥
यत्र राजा वैवस्वतो यत्रावरोधनं दिवः ।
यत्रामूर्यह्वतीरापस्तत्र माममृतं कृधीन्द्रायेन्दो परि स्रव ॥८॥
यत्रानुकामं चरणं त्रिनाके त्रिदिवे दिवः ।
लोका यत्र ज्योतिष्मन्तस्तत्र माममृतं कृधीन्द्रायेन्दो परि स्रव ॥९॥
यत्र कामा निकामाश्च यत्र ब्रध्नस्य विष्टपम् ।
स्वधा च यत्र तृप्तिश्च तत्र माममृतं कृधीन्द्रायेन्दो परि स्रव ॥१०॥
यत्रानन्दाश्च मोदाश्च मुदः प्रमुद आसते ।
कामस्य यत्राप्ताः कामास्तत्र माममृतं कृधीन्द्रायेन्दो परि स्रव ॥११॥

सायणभाष्यम्

‘शर्यणावति' इत्येकादशर्चं दशमं सूक्तं मारीचस्य कश्यपस्यार्षम् । पूर्वत्र ‘हि' इत्युक्तत्वादिदमुत्तरं च पाङ्क्तम् । पवमानसोमदेवताकम् । तथा चानुक्रम्यते- शर्यणावत्येकादश कश्यपः' इति । गतो विनियोगः ॥


श॒र्य॒णाव॑ति॒ सोम॒मिन्द्रः॑ पिबतु वृत्र॒हा ।

बलं॒ दधा॑न आ॒त्मनि॑ करि॒ष्यन्वी॒र्यं॑ म॒हदिन्द्रा॑येन्दो॒ परि॑ स्रव ॥

शर्यणाऽवति । सोम॑म् । इन्द्रः । पिबतु । वृत्रऽहा।।

बलम् । दधानः । आत्मनि । करिष्यन् । वीर्यम् । महत् । इन्द्राय । इन्दो इति । परि । स्रव ।।१।।

“शर्यणावति । शर्यणावन्नाम कुरुक्षेत्रस्य जघनार्धे सरः । तत्र स्थितं सोमं “वृत्रहा "इन्द्रः “पिबतु । कीदृशः । “आत्मनि “बलं दधानः बलं निदधानः अत एव “महत् "वीर्यं करिष्यन् शत्रून् प्रति । तस्मात् “इन्द्रायेन्दो “परि स्रव ॥


आ प॑वस्व दिशां पत आर्जी॒कात्सो॑म मीढ्वः ।

ऋ॒त॒वा॒केन॑ स॒त्येन॑ श्र॒द्धया॒ तप॑सा सु॒त इन्द्रा॑येन्दो॒ परि॑ स्रव ॥

आ। पवस्व । दिशाम् । पते । आर्जीकात् । सोम। मीढ्वः ।।

ऋतऽवाकेन । सत्येन । श्रद्धया । तपसा । सुतः । इन्द्राय । इन्दो इति । परि । स्रव ।। २ ।।

हे "दिशां “पते प्राच्यादीनां दिशां प्रकाशकत्वेन स्वामिन् हे "मीढ्वः कामानां सेक्तर्हे “सोम "आर्जीकात् । ऋजीकानामदूरभव आर्जीको जनपदः । तस्मात् "आ “पवस्व अस्मद्यज्ञं प्रत्यागच्छ । यद्वा । आर्जीकादृजोरकुटिलात् पवित्रात् क्षर। कीदृशः । “ऋतवाकेन ऋतस्य वचनेन "सत्येन । सत्यर्तयोरल्पो भेदो द्रष्टव्यः । “श्रद्धया “तपसा युक्तैर्दीक्षितैः “सुतः अभिषुतस्त्वं पवस्व ॥


प॒र्जन्य॑वृद्धं महि॒षं तं सूर्य॑स्य दुहि॒ताभ॑रत् ।

तं ग॑न्ध॒र्वाः प्रत्य॑गृभ्ण॒न्तं सोमे॒ रस॒माद॑धु॒रिन्द्रा॑येन्दो॒ परि॑ स्रव ॥

पर्जन्यऽवृद्धम् । महिषम् । तम् । सूर्यस्य । दुहिता । आ । अभरत् ।

तम् । गन्धर्वाः । प्रति । अगृभ्णन् । तम् । सोमे । रसम् । आ । अदधुः ।। इन्द्राय । इन्दो इति । परि । स्रव ॥ ३ ॥

“सूर्यस्य “दुहिता श्रद्धा नाम । ‘श्रद्धा वै सूर्यस्य दुहिता' (श. ब्रा. १२. ७. ३. ११) इति वाजसनेयकम्। सा “पर्जन्यवृद्धं पर्जन्यवत् समर्थम् । यद्वा । पर्जन्येन तत्कार्यत्वेनोदकेन प्रवृद्धम्। "महिषं महान्तं पूज्यं वा “तं सोमम् आभरत् आहरत्। द्युलोकादाहृतवती । “तम् आहियमाणं सोमं “गन्धर्वाः विश्वावसुप्रभृतयः प्रत्यगृभ्णन् प्रत्यगृह्णन् । प्रतिगृहीतवन्तः। दृग्रहोर्भः । ततो गन्धर्वाः प्रतिगृहीतं “रसं “सोमे प्रत्यक्षम् आदधुः । दधातेर्लङि । तस्मात् “परि "स्रव ॥ ।


ऋ॒तं वद॑न्नृतद्युम्न स॒त्यं वद॑न्सत्यकर्मन् ।

श्र॒द्धां वद॑न्सोम राजन्धा॒त्रा सो॑म॒ परि॑ष्कृत॒ इन्द्रा॑येन्दो॒ परि॑ स्रव ॥

ऋतम् । वदन् । ऋतऽद्युम्न । सत्यम् । वदन् । सत्यऽकर्मन् ।

श्रद्धाम् । वदन् । सोम । राजन् । धात्रा । सोम। परिऽकृतः । इन्द्राय । इन्दो इति । परि । स्रव।।४।।

हे “ऋतद्युम्न ऋतेन द्योतमान सत्ययशस्क वा "सत्यकर्मन् यथार्थकर्मन् हे "सोम अभिषूयमाण “राजन् सर्वेषां यज्ञनिष्पादकत्वेन स्वामिन् हे सोम “ऋतं यज्ञं “वदन् "सत्यं वदन् उच्चारयन् “श्रद्धां यजमानानामात्मनोपेक्षितां “वदन् “धात्रा कर्मणां धारकेण देवानां पोषकेण वा यजमानेन “परिष्कृतः अलंकृतस्त्वम् “इन्द्राय “परि "स्रव । ‘संपर्युपेभ्यः' इति भूषणार्थे करोतेः सुट् ॥


स॒त्यमु॑ग्रस्य बृह॒तः सं स्र॑वन्ति संस्र॒वाः ।

सं य॑न्ति र॒सिनो॒ रसाः॑ पुना॒नो ब्रह्म॑णा हर॒ इन्द्रा॑येन्दो॒ परि॑ स्रव ॥

सत्यम्ऽउग्रस्य । बृहतः । सम् । स्रवन्ति । सम्ऽस्रवाः ।।

सम् । यन्ति । रसिनः । रसाः । पुनानः । ब्रह्मणा । हरे । इन्द्राय । इन्दो इति । परि ।स्रव ॥५॥

“सत्यमुग्रस्य संग्रामे सत्येन शत्रूणामुद्गारयितुः । यद्वा उद्गूर्णसत्यस्य । यद्वा । यथार्थभूतमुद्गूर्णं बलं यस्य तस्य । पृषोदरादित्वाद्रूपसिद्धिः। “बृहतः महतः सोमस्य तव “संस्रवाः सम्यक्स्रवणशीला' धाराः "सं "स्रवन्ति सम्यक् गच्छन्ति । किंच "रसिनः रसवतस्तव स्वभूताः “रसाः “सं "यन्ति संगच्छन्ते । तस्माद्धे “हरे हरितवर्ण सोम “ब्रह्मणा ब्राह्मणेन मन्त्रेण वा “पुनानः पूयमानः स त्वमिन्द्रार्थं “परि "स्रव ॥ ॥ २६ ॥


यत्र॑ ब्र॒ह्मा प॑वमान छन्द॒स्यां॒३॒॑ वाचं॒ वद॑न् ।

ग्राव्णा॒ सोमे॑ मही॒यते॒ सोमे॑नान॒न्दं ज॒नय॒न्निन्द्रा॑येन्दो॒ परि॑ स्रव ॥

यत्र । ब्रह्मा । पवमान । छन्दस्याम् । वाचम् । वदन् ।

ग्राव्णा । सोमे । महीयते । सोमेन । आऽनन्दम् । जनयन्। इन्द्राय । इन्दो इति। परि । स्रव॥६॥

हे “पवमान पूयमान सोम त्वदर्थं “छन्दस्यां सप्तच्छन्दोभिः कृतां तेषु भवां “वाचं स्तुतिं वदन् उच्चारयन् “सोमे सोमाभिषवार्थं "ग्राव्णा अभिषवं कुर्वता युक्तस्तेनाभिषुतेन “सोमेन देवानाम् "आनन्दं संतोषं “जनयन् उत्पादयन् “ब्रह्मा ब्राह्मणः “यत्र यस्मिन् देशे “महीयते देवैः पूज्यते तत्र हे सोम स्वं “परि “स्रव ॥


यत्र॒ ज्योति॒रज॑स्रं॒ यस्मिँ॑ल्लो॒के स्व॑र्हि॒तम् ।

तस्मि॒न्मां धे॑हि पवमाना॒मृते॑ लो॒के अक्षि॑त॒ इन्द्रा॑येन्दो॒ परि॑ स्रव ॥

यत्र । ज्योतिः । अजस्रम् । यस्मिन् । लोके । स्वः । हितम् ।

तस्मिन् । माम् । धेहि । पवमान । अमृते । लोके । अक्षिते । इन्द्राय । इन्दो इति । परि । स्रव ॥७॥

हे “पवमान “यत्र यस्मिँल्लोके “ज्योतिः सर्वं तेजः “अजस्रं सर्वदाविनश्वरं वर्तते । यस्मिन् च “लोके “स्वः आदित्याख्यं ज्योतिः “हितं निहितमस्ति । “तस्मिन् "अमृते मरणधर्मरहिते अत एव "अक्षिते अक्षीणे “लोके मां सोमाभिषवं कुर्वन्तं "धेहि निधेहि । तस्मात् मामुत्तमलोकं प्रापयितुं त्वम् इन्द्राय "पंरि “स्रव ॥


यत्र॒ राजा॑ वैवस्व॒तो यत्रा॑व॒रोध॑नं दि॒वः ।

यत्रा॒मूर्य॒ह्वती॒राप॒स्तत्र॒ माम॒मृतं॑ कृ॒धीन्द्रा॑येन्दो॒ परि॑ स्रव ॥

यत्र । राजा । वैवस्वतः । यत्र । अवरोधनम् । दिवः ।।

यत्र । अमूः । यहृतीः । आपः । तत्र। माम्। अमृतम् । कृधि। इन्द्राय । इन्दो इति । परि । स्रव ॥८॥

“यत्र यस्मिँल्लोके वैवस्वतः विवस्वत्पुत्रः "राजा भवति । “यत्र च लोके “दिवः आदित्यस्य “अवरोधनं भूतानां प्रवेशनम् । किंच यत्र लोके यह्वती: महत्यः “अमूः इमा गङ्गाद्याः "आपः। तिष्ठन्ति । तत्र तादृशे लोके “माममृतं मरणधर्मरहितं कृधि कुरु । मम देवत्वं प्रापयेत्यर्थः । ततः कारणात् “परि “स्रव ॥


यत्रा॑नुका॒मं चर॑णं त्रिना॒के त्रि॑दि॒वे दि॒वः ।

लो॒का यत्र॒ ज्योति॑ष्मन्त॒स्तत्र॒ माम॒मृतं॑ कृ॒धीन्द्रा॑येन्दो॒ परि॑ स्रव ॥

यत्र । अनुऽकामम् । चरणम् । त्रिऽनाके । त्रिऽदिवे । दिवः ।

लोकाः। यत्र । ज्योतिष्मन्तः । तत्र । माम् । अमृतम् । कृधि । इन्द्राय । इन्दो इति । परि स्रव॥९॥

“यत्र “त्रिदिवे तृतीयस्थां दिवि द्युलोके “त्रिनाके । तत्राधरमध्यमोत्तमभावेन त्रीणि स्थानानि सन्ति । तत्र तृतीये नाके उत्तमे स्थाने “दिवः आदित्यस्य “अनुकामं कामानुगुणं “चरणम् अस्ति । किंच “यत्र यस्मिँल्लोके “लोकाः "ज्योतिष्मन्तः ज्योतिर्युक्तास्तिष्ठन्ति । “तत्र तादृशे लोके माममृतं “कृधि । यथा ममोत्तमलोको भवति तथा त्वम् “इन्द्राय "परि “स्रव ॥


यत्र॒ कामा॑ निका॒माश्च॒ यत्र॑ ब्र॒ध्नस्य॑ वि॒ष्टप॑म् ।

स्व॒धा च॒ यत्र॒ तृप्ति॑श्च॒ तत्र॒ माम॒मृतं॑ कृ॒धीन्द्रा॑येन्दो॒ परि॑ स्रव ॥

यत्र । कामाः । निऽकामाः । च । यत्र । ब्रध्नस्य । विष्टपम्।

स्वधा । च । यत्र । तृप्तिः । च । तत्र । माम् । अमृतम् । कृधि । इन्द्राय । इन्दो इति।परि । स्रव॥१०॥

“यत्र यस्मिँल्लोके कामाः काम्यमाना देवाः “निकामाः नितरामवश्यं प्रार्थ्यमाना इन्द्रादयः “च विद्यन्ते । यद्वा कामा निकामा अभिलाषा निकामाश्च यत्र विद्यन्ते । “यत्र लोके “ब्रध्नस्य सर्वेषां प्रज्ञापकस्य । यद्वा । सूर्येण विना कर्माणि न घटन्त इति सर्वेषां कर्मणां मूलभूतस्यादित्यस्य “विष्टपं सहस्थानं यत्र विद्यते तत्र लोके । “स्वधा अन्नं स्वधाकारेण वा दत्तमन्नं “तृप्तिः तर्पणं हर्षणं हर्षः “च “यत्र विद्यते “तत्र लोके “माममृतं कृधि ॥


यत्रा॑न॒न्दाश्च॒ मोदा॑श्च॒ मुदः॑ प्र॒मुद॒ आस॑ते ।

काम॑स्य॒ यत्रा॒प्ताः कामा॒स्तत्र॒ माम॒मृतं॑ कृ॒धीन्द्रा॑येन्दो॒ परि॑ स्रव ॥

यत्र । आऽनन्दाः । च । मोदः । च । मुदः । प्रऽमुदः । आसते ।

कामस्य । यत्र । आप्ताः । कामाः । तत्र । माम् । अमृतम् । कृधि । इन्द्राय । इन्दो इति । परि । स्रव ॥ ११ ॥

यत्र यस्मिँल्लोके आनन्दादयः “आसते । तेषामल्पो भेदो द्रष्टव्यः । “यत्र च लोके “कामस्य काम्यमानस्य देवस्य सर्वे “कामाः। “आप्ताः प्राप्त भवन्ति “तत्र “माममृतं “कृधि । एतत्तु त्वया विना न घटत इति हे सोम एवं “परि “स्रव ॥ ॥ २७ ॥


"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_९.११३&oldid=151658" इत्यस्माद् पुनः प्राप्तिः