ऋग्वेदः सूक्तं ९.६७

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं ९.६६ ऋग्वेदः - मण्डल ९
सूक्तं ९.६७
सप्तर्षयः
सूक्तं ९.६८ →
ऋषयः - सप्तर्षयः(१-३ भरद्वाजो बार्हस्पत्यः, ४-६ कश्यपो मारीचः, ७-९ गोतमो राहूगणः, १०-१२ अत्रिःर्भौमः, १३-१५ विश्वामित्रो गाथिनः, १६-१८ जमदग्निर्भार्गवः, १९-२१ मैत्रावरुणिर्वासिष्ठः, २२-३२ पवित्र आङ्गिरसो वा वसिष्ठो वा उभौ वा)।

दे. पवमानः सोमः, १०-१२ पवमानः पूषा वा, २३-२७ पवमानोऽग्निः, २५ पवमानः सविता वा, २६ पवमानाग्निसवितारः, २७ विश्वे देवा वा, ३१-३२ पावमान्यध्येता। गायत्री, १६-१८ नित्यद्विपदा गायत्री, ३० पुरउष्णिक्, २७, ३१, ३२ अनुष्टुप्।

सप्तर्षि saptarshi


त्वं सोमासि धारयुर्मन्द्र ओजिष्ठो अध्वरे ।
पवस्व मंहयद्रयिः ॥१॥
त्वं सुतो नृमादनो दधन्वान्मत्सरिन्तमः ।
इन्द्राय सूरिरन्धसा ॥२॥
त्वं सुष्वाणो अद्रिभिरभ्यर्ष कनिक्रदत् ।
द्युमन्तं शुष्ममुत्तमम् ॥३॥
इन्दुर्हिन्वानो अर्षति तिरो वाराण्यव्यया ।
हरिर्वाजमचिक्रदत् ॥४॥
इन्दो व्यव्यमर्षसि वि श्रवांसि वि सौभगा ।
वि वाजान्सोम गोमतः ॥५॥
आ न इन्दो शतग्विनं रयिं गोमन्तमश्विनम् ।
भरा सोम सहस्रिणम् ॥६॥
पवमानास इन्दवस्तिरः पवित्रमाशवः ।
इन्द्रं यामेभिराशत ॥७॥
ककुहः सोम्यो रस इन्दुरिन्द्राय पूर्व्यः ।
आयुः पवत आयवे ॥८॥
हिन्वन्ति सूरमुस्रयः पवमानं मधुश्चुतम् ।
अभि गिरा समस्वरन् ॥९॥
अविता नो अजाश्वः पूषा यामनियामनि ।
आ भक्षत्कन्यासु नः ॥१०॥
अयं सोमः कपर्दिने घृतं न पवते मधु ।
आ भक्षत्कन्यासु नः ॥११॥
अयं त आघृणे सुतो घृतं न पवते शुचि ।
आ भक्षत्कन्यासु नः ॥१२॥
वाचो जन्तुः कवीनां पवस्व सोम धारया ।
देवेषु रत्नधा असि ॥१३॥
आ कलशेषु धावति श्येनो वर्म वि गाहते ।
अभि द्रोणा कनिक्रदत् ॥१४॥
परि प्र सोम ते रसोऽसर्जि कलशे सुतः ।
श्येनो न तक्तो अर्षति ॥१५॥
पवस्व सोम मन्दयन्निन्द्राय मधुमत्तमः ॥१६॥
असृग्रन्देववीतये वाजयन्तो रथा इव ॥१७॥
ते सुतासो मदिन्तमाः शुक्रा वायुमसृक्षत ॥१८॥
ग्राव्णा तुन्नो अभिष्टुतः पवित्रं सोम गच्छसि ।
दधत्स्तोत्रे सुवीर्यम् ॥१९॥
एष तुन्नो अभिष्टुतः पवित्रमति गाहते ।
रक्षोहा वारमव्ययम् ॥२०॥
यदन्ति यच्च दूरके भयं विन्दति मामिह ।
पवमान वि तज्जहि ॥२१॥
पवमानः सो अद्य नः पवित्रेण विचर्षणिः ।
यः पोता स पुनातु नः ॥२२॥
यत्ते पवित्रमर्चिष्यग्ने विततमन्तरा ।
ब्रह्म तेन पुनीहि नः ॥२३॥
यत्ते पवित्रमर्चिवदग्ने तेन पुनीहि नः ।
ब्रह्मसवैः पुनीहि नः ॥२४॥
उभाभ्यां देव सवितः पवित्रेण सवेन च ।
मां पुनीहि विश्वतः ॥२५॥
त्रिभिष्ट्वं देव सवितर्वर्षिष्ठैः सोम धामभिः ।
अग्ने दक्षैः पुनीहि नः ॥२६॥
पुनन्तु मां देवजनाः पुनन्तु वसवो धिया ।
विश्वे देवाः पुनीत मा जातवेदः पुनीहि मा ॥२७॥
प्र प्यायस्व प्र स्यन्दस्व सोम विश्वेभिरंशुभिः ।
देवेभ्य उत्तमं हविः ॥२८॥
उप प्रियं पनिप्नतं युवानमाहुतीवृधम् ।
अगन्म बिभ्रतो नमः ॥२९॥
अलाय्यस्य परशुर्ननाश तमा पवस्व देव सोम ।
आखुं चिदेव देव सोम ॥३०॥
यः पावमानीरध्येत्यृषिभिः सम्भृतं रसम् ।
सर्वं स पूतमश्नाति स्वदितं मातरिश्वना ॥३१॥
पावमानीर्यो अध्येत्यृषिभिः सम्भृतं रसम् ।
तस्मै सरस्वती दुहे क्षीरं सर्पिर्मधूदकम् ॥३२॥

सायणभाष्यम्

त्वं सोमासि' इति द्वात्रिंशदृचं सप्तमं सूक्तम् । आद्यतृचस्य बार्हस्पत्यो भरद्वाज ऋषिः । द्वितीयस्य मारीचः कश्यपः । तृतीयस्य राहूगणो गोतमः । चतुर्थस्य भौमोऽत्रिः । पञ्चमस्य गाथिनो विश्वामित्रः । षष्ठस्य भार्गवो जमदग्निः । सप्तमस्य मैत्रावरुणिर्वसिष्ठः । सूक्तशेषस्याङ्गिरसः पवित्रो वसिष्ठो वोभौ वा समुदितावृषी । ‘ पवस्व सोम मन्दयन् ' इत्याद्यास्तिस्रो द्विपदा गायत्र्यः । अलाय्यस्य' इत्येषा त्रिंशी पुरउष्णिक् आद्यद्वादशकद्व्यष्टकवती सप्तविंश्येकत्रिंशीद्वात्रिंश्यस्तिस्रोऽनुष्टुभः । शिष्टा गायत्र्यः । ‘ अविता नो अजाश्वः' इत्याद्यास्तिस्रः पवमानपूषदेवत्याः पवमानसोमदेवताका वा । ‘ यत्ते पवित्रमर्चिषि' इत्याद्याः पञ्चर्चः पवमानाग्निदेवत्याः । आसां पञ्चानां मध्ये उभाभ्यां देव सवितः' इति तृतीया पवमानसवितृदेवताका वा । चतुर्थी त्रिभिष्ट्वं देव सवितः इत्येषा विकल्पेन पवमानाग्निसवितृदेवताका । ‘पुनन्तु माम्' इत्येषा विकल्पेन वैश्वदेवी । ‘ यः पवमानीरध्येति' इत्यादिके द्वे पवमानमण्डलाध्येतृस्तुतिप्रतिपादिके। अतः सैव देवता । शिष्टाः सर्वाः पवमानसोमदेवताकाः । तथा चानुक्रम्यते-’ त्वं सोमासि द्वात्रिंशद्भरद्वाजः कश्यपो गोतमोऽत्रिर्विश्वामित्रो जमदग्निर्वसिष्ठ इति ह तृचाः सप्त ऋषयः शेषे पवित्रो वसिष्ठो वोभौ वा पवस्व सोम तिस्रो नित्यद्विपदा गायत्र्योऽविता नस्तिस्रः पौष्ण्यो वा यत्ते पवित्रं पञ्चाग्नेय्यः सावित्र्यग्निसावित्री वैश्वदेवी वासामन्त्यास्त्रिंशी पुरउष्णिक् सप्तविंश्यनुष्टुबन्त्ये च ते पावमान्यध्येतृस्तुती' इति । गतः सूक्तविनियोगः ॥


त्वं सो॑मासि धार॒युर्म॒न्द्र ओजि॑ष्ठो अध्व॒रे ।

पव॑स्व मंह॒यद्र॑यिः ॥१

त्वम् । सो॒म॒ । अ॒सि॒ । धा॒र॒युः । म॒न्द्रः । ओजि॑ष्ठः । अ॒ध्व॒रे ।

पव॑स्व । मं॒ह॒यत्ऽर॑यिः ॥१

त्वम् । सोम । असि । धारयुः । मन्द्रः । ओजिष्ठः । अध्वरे ।

पवस्व । मंहयत्ऽरयिः ॥१

हे “सोम अभिषूयमाण पवमान “मन्द्रः मादयितृतमः “ओजिष्ठः ओजस्वितमः “त्वम् “अध्वरे हिंसारहितेऽस्मदीये यज्ञे “धारयुः अभिषवणधाराकामः “असि भवसि । ततस्त्वं “मंहयद्रयिः स्तोतृभ्यः प्रदीयमानधनः सन् "पवस्व द्रोणकलशे ग्रहादिषु दशापवित्रेण पूतो भव । यद्वा । धारयुः । ‘ तद्वदर्थे भाष्यते' इति मत्वर्थीयो युः । स हे सोम त्वं धारावानिव ततः पवस्वेति संबन्धः ॥


त्वं सु॒तो नृ॒माद॑नो दध॒न्वान्म॑त्स॒रिन्त॑मः ।

इन्द्रा॑य सू॒रिरन्ध॑सा ॥२

त्वम् । सु॒तः । नृ॒ऽमाद॑नः । द॒ध॒न्वान् । म॒त्स॒रिन्ऽत॑मः ।

इन्द्रा॑य । सू॒रिः । अन्ध॑सा ॥२

त्वम् । सुतः । नृऽमादनः । दधन्वान् । मत्सरिन्ऽतमः ।

इन्द्राय । सूरिः । अन्धसा ॥२

हे सोम “नृमादनः नॄणां कर्मणो नेतॄणामृत्विजां मादयिता अत एव “दधन्वान् तेभ्यो धनानि धारयन् प्रयच्छन् यद्वा यज्ञस्य धारकः “सूरिः प्राज्ञः “सुतः अस्माभिरभिषुतः “त्वम् “अन्धसा हवीरूपेणान्नेन सह “इन्द्राय “मत्सरिन्तमः तस्यातिशयेन मदकारी भव । ‘नाद्धस्य ' इति नकारः ॥


त्वं सु॑ष्वा॒णो अद्रि॑भिर॒भ्य॑र्ष॒ कनि॑क्रदत् ।

द्यु॒मन्तं॒ शुष्म॑मुत्त॒मम् ॥३

त्वम् । सु॒स्वा॒नः । अद्रि॑ऽभिः । अ॒भि । अ॒र्ष॒ । कनि॑क्रदत् ।

द्यु॒ऽमन्त॑म् । शुष्म॑म् । उ॒त्ऽत॒मम् ॥३

त्वम् । सुस्वानः । अद्रिऽभिः । अभि । अर्ष । कनिक्रदत् ।

द्युऽमन्तम् । शुष्मम् । उत्ऽतमम् ॥३

हे पवमान सोम “अद्रिभिः ग्रावभिः “सुष्वाणः सुन्वानोऽभिषूयमाणः “त्वं “कनिक्रदत् भृशं शब्दं कुर्वन् “अभ्यर्ष कलशं पात्राणि वा अभिगच्छ । तथा “द्युमन्तं दीप्तियुक्तम् “उत्तमं “शुष्मं शत्रूणां शोषकं बलं च प्राप्नुहि । यद्वा । एकवाक्यतया योजनीयः। सूयमानस्त्वं बलमभिगच्छेति । ‘ कदि क्रदि' आह्वाने । क्रदेर्यङ्लुकि नलोपोऽभ्यासस्य निगागमश्च ‘दाधर्तिदर्धर्ति' इति सूत्रेण सर्वं निपात्यते । तस्माच्छतृप्रत्ययः । ‘ अभ्यस्तानामादिः' इति स्वरः ॥


इन्दु॑र्हिन्वा॒नो अ॑र्षति ति॒रो वारा॑ण्य॒व्यया॑ ।

हरि॒र्वाज॑मचिक्रदत् ॥४

इन्दुः॑ । हि॒न्वा॒नः । अ॒र्ष॒ति॒ । ति॒रः । वारा॑णि । अ॒व्यया॑ ।

हरिः॑ । वाज॑म् । अ॒चि॒क्र॒द॒त् ॥४

इन्दुः । हिन्वानः । अर्षति । तिरः । वाराणि । अव्यया ।

हरिः । वाजम् । अचिक्रदत् ॥४

“हिन्वानः ग्रावभि: प्रेर्यमाणोऽभिषूयमाणः “इन्दुः सोमः “अव्यया अविमयान्यवीनां स्वभूतानि “वाराणि वालानि । पवित्राणीत्यर्थः। तानि “तिरः तिरस्कृत्य व्यवधाय “अर्षति गच्छति । प्रभूतं निर्गच्छतीत्यर्थः। सोऽयं “हरिः हरितवर्णः सोमः “वाजम् अन्नम् “अचिक्रदत् शब्दयति । त्वया सह इन्द्रमहमाह्वयामीत्यर्थः॥


इन्दो॒ व्यव्य॑मर्षसि॒ वि श्रवां॑सि॒ वि सौभ॑गा ।

वि वाजा॑न्सोम॒ गोम॑तः ॥५

इन्दो॒ इति॑ । वि । अव्य॑म् । अ॒र्ष॒सि॒ । वि । श्रवां॑सि । वि । सौभ॑गा ।

वि । वाजा॑न् । सो॒म॒ । गोऽम॑तः ॥५

इन्दो इति । वि । अव्यम् । अर्षसि । वि । श्रवांसि । वि । सौभगा ।

वि । वाजान् । सोम । गोऽमतः ॥५

हे “इन्दो सोम “अव्यम् अविवाले भवं पवित्रं “वि “अर्षसि विविधं धाराभिर्गच्छसि । किंच “श्रवांसि हवीरूपाण्यन्नानि च “वि गच्छसि। तथा “सौभगा । सुभगस्य भावः सौभगम् । सुभगशब्द उद्गात्रादिषु पठ्यते । तस्योत्तरपदवृद्धिर्नेष्यते । सौभगानि धनानि विविधं प्राप्नोषि। तथा हे “सोम “गोमतः पशुमन्ति “वाजान् बलानि च विविधं प्राप्नुहि। तानि सर्वाण्यस्माकं प्रापयेत्यभिप्रायः ॥ ॥ १३ ॥


आ न॑ इन्दो शत॒ग्विनं॑ र॒यिं गोम॑न्तम॒श्विन॑म् ।

भरा॑ सोम सह॒स्रिण॑म् ॥६

आ । नः॒ । इ॒न्दो॒ इति॑ । श॒त॒ऽग्विन॑म् । र॒यिम् । गोऽम॑न्तम् । अ॒श्विन॑म् ।

भर॑ । सो॒म॒ । स॒ह॒स्रिण॑म् ॥६

आ । नः । इन्दो इति । शतऽग्विनम् । रयिम् । गोऽमन्तम् । अश्विनम् ।

भर । सोम । सहस्रिणम् ॥६

हे “इन्दो पात्रेषु क्षरन् हे “सोम “नः अस्मभ्यम् “आ “भर संपादय देहि । किमिति उच्यते । “शतग्विनम् । शतं गावो यस्य स शतगुः । तद्वन्तं “गोमन्तं प्रशस्तपशुमन्तम् “अश्विनम् अश्वयुक्तं “सहस्रिणं सहस्रसंख्याकं “रयिं धनं पुत्रं वा आ भर ।।


पव॑मानास॒ इन्द॑वस्ति॒रः प॒वित्र॑मा॒शवः॑ ।

इन्द्रं॒ यामे॑भिराशत ॥७

पव॑मानासः । इन्द॑वः । ति॒रः । प॒वित्र॑म् । आ॒शवः॑ ।

इन्द्र॑म् । यामे॑भिः । आ॒श॒त॒ ॥७

पवमानासः । इन्दवः । तिरः । पवित्रम् । आशवः ।

इन्द्रम् । यामेभिः । आशत ॥७

“पवित्रम् ऊर्णास्तुकेन निर्मितं दशापवित्रं “तिरः तिरस्कृत्य व्यवधायकं कृत्वा “पवमानासः कलशं प्रति बहुधाराः क्षरन्तः “आशवः क्षिप्रंमदकारिणश्चमसादीन् व्याप्नुवन्तो वा “इन्दवः सोमाः “यामेभिः स्वीयैर्गमनैः “इन्द्रम् “आशत व्याप्नुवन्ति ॥


क॒कु॒हः सो॒म्यो रस॒ इन्दु॒रिन्द्रा॑य पू॒र्व्यः ।

आ॒युः प॑वत आ॒यवे॑ ॥८

क॒कु॒हः । सो॒म्यः । रसः॑ । इन्दुः॑ । इन्द्रा॑य । पू॒र्व्यः ।

आ॒युः । प॒व॒ते॒ । आ॒यवे॑ ॥८

ककुहः । सोम्यः । रसः । इन्दुः । इन्द्राय । पूर्व्यः ।

आयुः । पवते । आयवे ॥८

“ककुहः । सोमः सर्वकर्मकारयितृत्वेन सर्वेषां समुच्छ्रितोऽतिशयितो भवति । सोऽयं “पूर्व्यः पूर्वैः कृतोऽभिषुतः पूर्वं प्रातःकाले कृतो वा “आयुः इन्द्रमभिगन्ता “इन्दुः पात्रेषु क्षरन् “सोम्यः । ‘ मये च ' ( पा. सू. ४. ४. १३८ ) इति यप्रत्ययः। सोममयः “रसः “आयवे सर्वत्र गन्त्रे “इन्द्राय “पवते कलशेषु पवित्रेण पूतो भवति । यद्वा । इन्द्रार्थमभिमुखं गच्छति । पवतिर्गतिकर्मा ॥


हि॒न्वन्ति॒ सूर॒मुस्र॑य॒ः पव॑मानं मधु॒श्चुत॑म् ।

अ॒भि गि॒रा सम॑स्वरन् ॥९

हि॒न्वन्ति॑ । सूर॑म् । उस्र॑यः । पव॑मानम् । म॒धु॒ऽश्चुत॑म् ।

अ॒भि । गि॒रा । सम् । अ॒स्व॒र॒न् ॥९

हिन्वन्ति । सूरम् । उस्रयः । पवमानम् । मधुऽश्चुतम् ।

अभि । गिरा । सम् । अस्वरन् ॥९

“उस्रयः कर्मकरणार्थमितस्ततः संचरन्त्योऽङ्गुलयः “मधुश्चुतं मदकरस्य रसस्य च्यावयितारं “सूरं सुवीर्यं सर्वस्य यागादिकर्मणि प्रेरकं “पवमानं सोमं “हिन्वन्ति अभिषवार्थं संप्रेरयन्ति । ततः स्तोतारः “गिरा स्तुत्या तमेनम् “अभि “समस्वरन् सम्यगभिष्टुवन्ति ।।


अ॒वि॒ता नो॑ अ॒जाश्वः॑ पू॒षा याम॑नियामनि ।

आ भ॑क्षत्क॒न्या॑सु नः ॥१०

अ॒वि॒ता । नः॒ । अ॒जऽअ॑श्वः । पू॒षा । याम॑निऽयामनि ।

आ । भ॒क्ष॒त् । क॒न्या॑सु । नः॒ ॥१०

अविता । नः । अजऽअश्वः । पूषा । यामनिऽयामनि ।

आ । भक्षत् । कन्यासु । नः ॥१०

“अजाश्वः । ‘अजाः पूष्णः' इत्युक्तत्वादजा एवाश्वा वाहनानि यस्य स तथोक्तः । सः “पूषा एतन्नामको देवः “यामनियामनि सर्वस्मिन् गमने भौमदिव्यलक्षणे “नः अस्माकम् “अविता पालयिता भवतु । किंच “कन्यासु कमनीयास्वभिमतासु स्त्रीषु “नः अस्मान् “आ “भक्षत् आभजतु । अस्माकं कन्याः प्रयच्छत्वित्यर्थः । भजः सेवार्थाल्लेटि सिप्यडागमे रूपम् । यद्वा । अजाश्वोऽजवाहनः पूषा सर्वस्य पोषयिता सोमो यामनियामनि । यायते प्राप्यते देवैरत्रेति याम यज्ञः । तत्र यज्ञे नोऽस्माकमविता रक्षिता भवतु । तथा कन्यासु स्त्रीष्विष्टास्वस्माना भक्षत् प्रापयतु ॥ ॥ १४ ॥


अ॒यं सोमः॑ कप॒र्दिने॑ घृ॒तं न प॑वते॒ मधु॑ ।

आ भ॑क्षत्क॒न्या॑सु नः ॥११

अ॒यम् । सोमः॑ । क॒प॒र्दिने॑ । घृ॒तम् । न । प॒व॒ते॒ । मधु॑ ।

आ । भ॒क्ष॒त् । क॒न्या॑सु । नः॒ ॥११

अयम् । सोमः । कपर्दिने । घृतम् । न । पवते । मधु ।

आ । भक्षत् । कन्यासु । नः ॥११

“कपर्दिने कल्याणमुकुटवते सोमाय पूष्णे वा तदर्थम् “अयं मादयिताभिषुतोऽस्मदीयः “सोमः “पवते च गच्छति । तं प्राप्नोति । तत्र दृष्टान्तः। “घृतं “न "मधु मादकं हवीरूपं घृतं यथा सोमं पूषणं वा गच्छति तद्वत् । ततः सः “कन्यासु अस्मानागमयत् ॥


अ॒यं त॑ आघृणे सु॒तो घृ॒तं न प॑वते॒ शुचि॑ ।

आ भ॑क्षत्क॒न्या॑सु नः ॥१२

अ॒यम् । ते॒ । आ॒घृ॒णे॒ । सु॒तः । घृ॒तम् । न । प॒व॒ते॒ । शुचि॑ ।

आ । भ॒क्ष॒त् । क॒न्या॑सु । नः॒ ॥१२

अयम् । ते । आघृणे । सुतः । घृतम् । न । पवते । शुचि ।

आ । भक्षत् । कन्यासु । नः ॥१२

हे “आघृणे । 'घृ क्षरणदीप्त्योः । सर्वतो दीप्यमान पवमान पूषन् वा “ते त्वदर्थं “सुतः अभिषुतः “अयं सोमः “पवते त्वदभिमुखमागच्छति । यद्वा । त्वदर्थं पात्रेषु पवित्रेण पूतो भवति क्षरति वा । तत्र दृष्टान्तः। “घृतं “न “शुचि । शुद्धं घृतं यथा त्वां प्राप्नोति तद्वत् । ततस्त्वमभिलषितान्यस्माकं देहीति ॥


वा॒चो ज॒न्तुः क॑वी॒नां पव॑स्व सोम॒ धार॑या ।

दे॒वेषु॑ रत्न॒धा अ॑सि ॥१३

वा॒चः । ज॒न्तुः । क॒वी॒नाम् । पव॑स्व । सो॒म॒ । धार॑या ।

दे॒वेषु॑ । र॒त्न॒ऽधाः । अ॒सि॒ ॥१३

वाचः । जन्तुः । कवीनाम् । पवस्व । सोम । धारया ।

देवेषु । रत्नऽधाः । असि ॥१३

हे “सोम “कवीनां क्रान्तप्रज्ञानां स्तोतॄणां “वाचो “जन्तुः स्तुतेर्जनयिता । यद्वा । मेधाविनां मध्ये त्वमेव वाचं जनयसि । अत्यन्तं वाग्मी त्वं “धारया “पवस्व द्रोणकलशं ग्रहांश्च प्राप्नुहि । तत इन्द्रादिदेवेषु “रत्नधाः रमणशीलस्य सोमस्य निधाता “असि भवसि । अथवा । देवेषु स्तोत्रकारिषु कर्म कुर्वाणेषु वास्मासु रत्नस्य कनकादेर्दाता भवसि । ।


ग्रावस्तोत्रे गाणगारिमतेनाभिरूपकरणे कलशेषु सोम आसिच्यमाने वक्तव्यस्य तृचस्य ‘आ कलशेषु' इत्यादिके द्वितीयातृतीये । सूत्रितं च---’ आ कलशेषु धावति श्येन वर्म वि गाहत इति द्वे' (आश्व. श्रौ. ५. १२) इति ॥

आ क॒लशे॑षु धावति श्ये॒नो वर्म॒ वि गा॑हते ।

अ॒भि द्रोणा॒ कनि॑क्रदत् ॥१४

आ । क॒लशे॑षु । धा॒व॒ति॒ । श्ये॒नः । वर्म॑ । वि । गा॒ह॒ते॒ ।

अ॒भि । द्रोणा॑ । कनि॑क्रदत् ॥१४

आ । कलशेषु । धावति । श्येनः । वर्म । वि । गाहते ।

अभि । द्रोणा । कनिक्रदत् ॥१४

ऋत्विभिरभिषिच्यमानः कश्चित्सोमः “कलशेषु सोमाधारेषु द्रोणकलशेषु “आ “धावति सर्वतो गच्छति । “श्येनः । लुप्तोपममेतत् । यथा श्येनः “वर्म वरणीयं कुलायं “वि “गाहते प्रविशति तद्वत् । “कनिक्रदत् अत्यन्तं शब्दं कुर्वन् “द्रोणा द्रोणकलशानभिगच्छति च । यद्वा । द्रोणाधवनीयपूतभृत्संज्ञकाभिप्रायम् । एकः सिच्यमानः सोमो द्रोणं प्रति शब्दायमानः प्रथमं गच्छति । ततः पश्चात् पात्रद्वयमिति ॥


परि॒ प्र सो॑म ते॒ रसोऽस॑र्जि क॒लशे॑ सु॒तः ।

श्ये॒नो न त॒क्तो अ॑र्षति ॥१५

परि॑ । प्र । सो॒म॒ । ते॒ । रसः॑ । अस॑र्जि । क॒लशे॑ । सु॒तः ।

श्ये॒नः । न । त॒क्तः । अ॒र्ष॒ति॒ ॥१५

परि । प्र । सोम । ते । रसः । असर्जि । कलशे । सुतः ।

श्येनः । न । तक्तः । अर्षति ॥१५

हे “सोम “कलशेषु द्रोणाभिधानेषु “सुतः अभिषुतः “ते तव “रसः परि “प्र “असर्जि परितो ग्रहेषु चमसेषु च प्रसृष्टो विभक्तो भवति । कथमिव । “श्येनो “न “तक्तः । तकिर्गतिकर्मा । गमनशीलः श्येनः पक्षी यथा सर्वत्र “अर्षति गच्छति तद्वत् । यद्वा । यथा श्येनः सर्वतो गन्ता तद्वत्तक्तः पात्रेषु गतः सोमोऽर्षति इन्द्रादिदेवानागच्छतु । अर्तेर्लेटि सिपि वा रूपम् । पूर्वम् ‘ऋषी गतौ ' इत्यस्माल्लटि शपि रूपम् ॥ ॥ १५ ॥


पव॑स्व सोम म॒न्दय॒न्निन्द्रा॑य॒ मधु॑मत्तमः ॥१६

पव॑स्व । सो॒म॒ । म॒न्दय॑न् । इन्द्रा॑य । मधु॑मत्ऽतमः ॥१६

पवस्व । सोम । मन्दयन् । इन्द्राय । मधुमत्ऽतमः ॥१६

हे सोम मधुमत्तमः अतिशयेन मधुररसवांस्त्वं “मन्दयन् मादयिता भवन् । यद्वा । “इन्द्राय। ‘ क्रियाग्रहणं कर्तव्यम्' इति संप्रदानम् । इन्द्रं मोदमानः सन् "पवस्व इन्द्रार्थमागच्छ ॥


असृ॑ग्रन्दे॒ववी॑तये वाज॒यन्तो॒ रथा॑ इव ॥१७

असृ॑ग्रन् । दे॒वऽवी॑तये । वा॒ज॒ऽयन्तः॑ । रथाः॑ऽइव ॥१७

असृग्रन् । देवऽवीतये । वाजऽयन्तः । रथाःऽइव ॥१७

एतेऽभिषुताः सोमाः “वाजयन्तः सन्तः “देववीतये देवानां पानाय “असृग्रन् विसृज्यन्ते ऋत्विग्भिः प्रदीयन्ते । तत्र दृष्टान्तः । “रथाइव । वाजयन्तः शत्रुधनानि बलानि वा स्वामिन इच्छन्तो रथा देववीतये देवानां गमनाय यथा विसृज्यन्ते तद्वत् ॥


ते सु॒तासो॑ म॒दिन्त॑माः शु॒क्रा वा॒युम॑सृक्षत ॥१८

ते । सु॒तासः॑ । म॒दिन्ऽत॑माः । शु॒क्राः । वा॒युम् । अ॒सृ॒क्ष॒त॒ ॥१८

ते । सुतासः । मदिन्ऽतमाः । शुक्राः । वायुम् । असृक्षत ॥१८

“मदिन्तमाः अतिशयेन मादयितारः “शुक्राः दीप्यमानाः सुता अभिषुताः "ते सोमाः “वायुं शब्दम् "असृक्षत असृजन् अकार्षुः । यद्वा वायुमेव सोमपानार्थमसृजन् । सोमेषु सुतेषु सत्सु वायुस्तत्पानार्थमागच्छति खलु ॥


ग्राव्णा॑ तु॒न्नो अ॒भिष्टु॑तः प॒वित्रं॑ सोम गच्छसि ।

दध॑त्स्तो॒त्रे सु॒वीर्य॑म् ॥१९

ग्राव्णा॑ । तु॒न्नः । अ॒भिऽस्तु॑तः । प॒वित्र॑म् । सो॒म॒ । ग॒च्छ॒सि॒ ।

दध॑त् । स्तो॒त्रे । सु॒ऽवीर्य॑म् ॥१९

ग्राव्णा । तुन्नः । अभिऽस्तुतः । पवित्रम् । सोम । गच्छसि ।

दधत् । स्तोत्रे । सुऽवीर्यम् ॥१९

हे “सोम “ग्राव्णा “तुन्नः अभिपीडितोऽभिषुतस्त्वं स्तोतृभिः “अभिष्टुतः सन् "पवित्रं “गच्छसि प्राप्नोषि । किं कुर्वन् । “स्तोत्रे स्तोत्रकारिणे जनाय “सुवीर्यं शोभनवीर्योपेतं धनादिकं “दधत् विदधत् प्रयच्छन् ।।


ए॒ष तु॒न्नो अ॒भिष्टु॑तः प॒वित्र॒मति॑ गाहते ।

र॒क्षो॒हा वार॑म॒व्यय॑म् ॥२०

ए॒षः । तु॒न्नः । अ॒भिऽस्तु॑तः । प॒वित्र॑म् । अति॑ । गा॒ह॒ते॒ ।

र॒क्षः॒ऽहा । वार॑म् । अ॒व्यय॑म् ॥२०

एषः । तुन्नः । अभिऽस्तुतः । पवित्रम् । अति । गाहते ।

रक्षःऽहा । वारम् । अव्ययम् ॥२०

“तुन्नः । तुद व्यथने । ग्रावभिरभिव्यथितः सुतः अत एव सर्वैः “अभिष्टुतः “एषः अस्मदीयः सोमः “रक्षोहा कर्मविघ्नकारिणां रक्षसां पापानां वा हन्ताभवत् । “अव्ययम् अविमयमव्यवयवभूतं “वारं वालं तेन कृतं “पवित्रं दशापवित्रम् “अति अतिक्रम्य “गाहते द्रोणकलशं प्रविशति ॥ ॥१६॥


यदन्ति॒ यच्च॑ दूर॒के भ॒यं वि॒न्दति॒ मामि॒ह ।

पव॑मान॒ वि तज्ज॑हि ॥२१

यत् । अन्ति॑ । यत् । च॒ । दू॒र॒के । भ॒यम् । वि॒न्दति॑ । माम् । इ॒ह ।

पव॑मान । वि । तत् । ज॒हि॒ ॥२१

यत् । अन्ति । यत् । च । दूरके । भयम् । विन्दति । माम् । इह ।

पवमान । वि । तत् । जहि ॥२१

हे "पवमान पूयमान पुनान वा सोम “यत् “भयम् “अन्ति अन्तिके तथा “यञ्च भयं “दूरके अतिदूरे देशे अथवा “इह अस्मिन् प्रदेशेऽपि भयं “मां “विन्दति लभते प्राप्नोति “तत् भयं त्वं “वि “जहि विशेषेण नाशय । यद्वा । इहेति यज्ञोऽयं लोको वा । अस्मिन् क्रियमाणे यज्ञेऽस्मिँल्लोके वा यद्भयं व्याप्नोति तन्नाशयेत्यर्थः ॥


पव॑मान॒ः सो अ॒द्य नः॑ प॒वित्रे॑ण॒ विच॑र्षणिः ।

यः पो॒ता स पु॑नातु नः ॥२२

पव॑मानः । सः । अ॒द्य । नः॒ । प॒वित्रे॑ण । विऽच॑र्षणिः ।

यः । पो॒ता । सः । पु॒ना॒तु॒ । नः॒ ॥२२

पवमानः । सः । अद्य । नः । पवित्रेण । विऽचर्षणिः ।

यः । पोता । सः । पुनातु । नः ॥२२

“सः तादृशः प्रसिद्धः “विचर्षणिः सर्वस्य द्रष्टा “पवमानः “अद्य इदानीमेव “पवित्रेण पापशोधकेन तेजसा “नः अस्मान् “पुनातु पापरहितान् करोतु ॥


पवित्रेष्ट्यां प्रथमाज्यभागस्य याज्या ‘ यत्ते पवित्रम् ' इत्येषा । सूत्रितं च -- यत्ते पवित्रमर्चिष्या कलशेषु धावतीति पवित्र इत्येते ( आश्व. श्रौ. २. १२ ) इति ॥

यत्ते॑ प॒वित्र॑म॒र्चिष्यग्ने॒ वित॑तम॒न्तरा ।

ब्रह्म॒ तेन॑ पुनीहि नः ॥२३

यत् । ते॒ । प॒वित्र॑म् । अ॒र्चिषि॑ । अग्ने॑ । विऽत॑तम् । अ॒न्तः । आ ।

ब्रह्म॑ । तेन॑ । पु॒नी॒हि॒ । नः॒ ॥२३

यत् । ते । पवित्रम् । अर्चिषि । अग्ने । विऽततम् । अन्तः । आ ।

ब्रह्म । तेन । पुनीहि । नः ॥२३

हे पवमानगुणविशिष्ट “अग्ने “ते त्वदीयं “पवित्रं शोधकं “यत् स्वतेजः “अर्चिषि सौरवैद्युतादितेजसि “अन्तः मध्ये “आ “विततम् आविस्तृतं विद्यते । यद्वा । हे अग्ने ते तव स्वभूतेऽर्चिषि तेजस्यन्तर्मध्ये यत्पवित्रं शुद्धयुत्पादकं सामर्थ्यमस्ति । “तेन तादृशेन तेजसा “ब्रह्म पुत्रादिवर्धनकारि “नः शरीरं “पुनीहि पापरहितं पूतं कुरु ।


यत्ते॑ प॒वित्र॑मर्चि॒वदग्ने॒ तेन॑ पुनीहि नः ।

ब्र॒ह्म॒स॒वैः पु॑नीहि नः ॥२४

यत् । ते॒ । प॒वित्र॑म् । अ॒र्चि॒ऽवत् । अग्ने॑ । तेन॑ । पु॒नी॒हि॒ । नः॒ ।

ब्र॒ह्म॒ऽस॒वैः । पु॒नी॒हि॒ । नः॒ ॥२४

यत् । ते । पवित्रम् । अर्चिऽवत् । अग्ने । तेन । पुनीहि । नः ।

ब्रह्मऽसवैः । पुनीहि । नः ॥२४

हे अग्ने “पवित्रं शोधकम् “अर्चिवत् अर्चिर्वत् । ‘ छन्दसीरः' इति मतुपो वत्वम् । सौरादितेजोयुक्तं “ते त्वदीयं “यत् तेजो विद्यते “तेन स्वीयेनैव तेजसा “नः अस्मान् “पुनीहि पूतान् कुरु । किंच “ब्रह्मसवैः ब्राह्मणकर्तृकसोमाभिषवैः । यद्वा । ब्रह्म सोमः । तस्याभिषवैः नोऽस्मान् पुनीहि ॥


उ॒भाभ्यां॑ देव सवितः प॒वित्रे॑ण स॒वेन॑ च ।

मां पु॑नीहि वि॒श्वतः॑ ॥२५

उ॒भाभ्या॑म् । दे॒व॒ । स॒वि॒तः॒ । प॒वित्रे॑ण । स॒वेन॑ । च॒ ।

माम् । पु॒नी॒हि॒ । वि॒श्वतः॑ ॥२५

उभाभ्याम् । देव । सवितः । पवित्रेण । सवेन । च ।

माम् । पुनीहि । विश्वतः ॥२५

हे “सवितः सर्वस्य प्रेरक हे “देव द्योतमान सोम त्वं “पवित्रेण पापशोधकेन त्वदीयेन तेजसा “सवेन सोसाभिषवेण “च एताभ्याम् “उभाभ्यां “विश्वतः सर्वतः “मां “पुनीहि पूतं कुरु ॥ ॥१७॥


त्रि॒भिष्ट्वं दे॑व सवित॒र्वर्षि॑ष्ठैः सोम॒ धाम॑भिः ।

अग्ने॒ दक्षैः॑ पुनीहि नः ॥२६

त्रि॒ऽभिः । त्वम् । दे॒व॒ । स॒वि॒तः॒ । वर्षि॑ष्ठैः । सो॒म॒ । धाम॑ऽभिः ।

अग्ने॑ । दक्षैः॑ । पु॒नी॒हि॒ । नः॒ ॥२६

त्रिऽभिः । त्वम् । देव । सवितः । वर्षिष्ठैः । सोम । धामऽभिः ।

अग्ने । दक्षैः । पुनीहि । नः ॥२६

हे “देव स्तुत्य दीप्यमान वा हे “सवितः सर्वस्य स्वस्वकर्मणि चोदयितर्हे “सोम पवमानगुणविशिष्ट हे “अग्ने “त्वं “वर्षिष्ठैः वृद्धतमैः अत एव “दक्षैः सामर्थ्यवद्भिः “त्रिभिः “धामभिः शरीरैः अग्निवायुसूर्यात्मकैस्त्रिभिः शरीरैः “नः अस्मान् “पुनीहि परिशुद्धान् कुरु ॥


पु॒नन्तु॒ मां दे॑वज॒नाः पु॒नन्तु॒ वस॑वो धि॒या ।

विश्वे॑ देवाः पुनी॒त मा॒ जात॑वेदः पुनी॒हि मा॑ ॥२७

पु॒नन्तु॑ । माम् । दे॒व॒ऽज॒नाः । पु॒नन्तु॑ । वस॑वः । धि॒या ।

विश्वे॑ । दे॒वाः॒ । पु॒नी॒त । मा॒ । जात॑ऽवेदः । पु॒नी॒हि । मा॒ ॥२७

पुनन्तु । माम् । देवऽजनाः । पुनन्तु । वसवः । धिया ।

विश्वे । देवाः । पुनीत । मा । जातऽवेदः । पुनीहि । मा ॥२७

“देवजनाः । देवानां जनः प्रादुर्भावो येषां यज्ञेष्विति देवजना यजमानाः । यद्वा इन्द्रादिदेवगणाः । “मां “पुनन्तु परिपूतं कुर्वन्तु । तथा “वसवः वासका देवा: “धिया आत्मीयेन कर्मणा माँ “पुनन्तु । अथ प्रत्यक्षः । हे “विश्वे “देवाः सर्वे देवाः “मा मां “पुनीत पूतं कुरुत । हे “जातवेदः जातानि भूतजातानि वेत्तीति यद्वा जातप्रज्ञ हे अग्ने “मा मां “पुनीहि ॥


प्र प्या॑यस्व॒ प्र स्य॑न्दस्व॒ सोम॒ विश्वे॑भिरं॒शुभिः॑ ।

दे॒वेभ्य॑ उत्त॒मं ह॒विः ॥२८

प्र । प्या॒य॒स्व॒ । प्र । स्य॒न्द॒स्व॒ । सोम॑ । विश्वे॑भिः । अं॒शुऽभिः॑ ।

दे॒वेभ्यः॑ । उ॒त्ऽत॒मम् । ह॒विः ॥२८

प्र । प्यायस्व । प्र । स्यन्दस्व । सोम । विश्वेभिः । अंशुऽभिः ।

देवेभ्यः । उत्ऽतमम् । हविः ॥२८

हे “सोम “प्र “प्यायस्व अस्मान् प्रकर्षेण वर्धयः । यद्वा देवान् सोमेन वर्धय । किंच “विश्वेभिरंशुभिः सर्वैस्त्वदीयैरंशुभिः “देवेभ्यः देवार्थम् “उत्तमं प्रशस्ततमं “हविः सोमरूपं “प्र “स्यन्दस्व कलशादीन् प्रति प्रस्रव । प्रयच्छेति यावत् ॥


अग्नीषोमप्रणयने ‘उप प्रियम्' इत्येषा । सूत्रितं च--- उप प्रियं पनिप्नतमित्यर्धर्च आरमेत् । (आश्व. श्रौ. ४. १०) इति ।।

उप॑ प्रि॒यं पनि॑प्नतं॒ युवा॑नमाहुती॒वृध॑म् ।

अग॑न्म॒ बिभ्र॑तो॒ नमः॑ ॥२९

उप॑ । प्रि॒यम् । पनि॑प्नतम् । युवा॑नम् । आ॒हु॒ति॒ऽवृध॑म् ।

अग॑न्म । बिभ्र॑तः । नमः॑ ॥२९

उप । प्रियम् । पनिप्नतम् । युवानम् । आहुतिऽवृधम् ।

अगन्म । बिभ्रतः । नमः ॥२९

“प्रियं सर्वस्य प्रीणयितारं “पनिप्नतम् अत्यन्तं शब्दायमानं “युवानं तरुणम् “आहुतिवृधम् आहुतिभिर्वर्धनीयं पवमानं वयं “नमः हविर्नमस्कारं वा “बिभ्रतः धारयन्तः सन्तः “उप “अगन्म उपगच्छेम । गमेर्लुङि ‘ मन्त्रे घस' ' इति च्लेर्लुकि सति ‘म्वोश्च' इति नकारः। पनिप्नतम् । पनेः स्तुत्यर्थस्य यङ्लुकि रूपम्। दाधर्ति दर्धर्ति' इति सूत्रे इतिकरणस्य प्रदर्शनार्थत्वादत्राभ्यासस्य निगागम उपधालोपश्च निपात्यते ॥


अ॒लाय्य॑स्य पर॒शुर्न॑नाश॒ तमा प॑वस्व देव सोम ।

आ॒खुं चि॑दे॒व दे॑व सोम ॥३०

अ॒लाय्य॑स्य । प॒र॒शुः । न॒ना॒श॒ । तम् । आ । प॒व॒स्व॒ । दे॒व॒ । सो॒म॒ ।

आ॒खुम् । चि॒त् । ए॒व । दे॒व॒ । सो॒म॒ ॥३०

अलाय्यस्य । परशुः । ननाश । तम् । आ । पवस्व । देव । सोम ।

आखुम् । चित् । एव । देव । सोम ॥३०

“अलाय्यस्य । अर्तेरौणादिक आय्यप्रत्ययः । कपिलकादित्वाल्लत्वम्। अभिगमनशीलस्य शत्रोः “परशुः छेदकः पवमानः “तम् एव शत्रुं “ननाश नाशयतु नास्मानपापान् । ततो हे "देव दीप्यमान “सोम “आ “पवस्व अस्मदाभिमुख्येन गच्छ। किंच हे “देव द्योतमान स्तुत्य वा हे “सोम “आखुं “चित् ।' खनु अवदारणे' । सर्वस्याहन्तारमपि “तं शत्रुम् “एव बाधस्व नास्मानपापानिति ॥


यः पा॑वमा॒नीर॒ध्येत्यृषि॑भि॒ः सम्भृ॑तं॒ रस॑म् ।

सर्वं॒ स पू॒तम॑श्नाति स्वदि॒तं मा॑त॒रिश्व॑ना ॥३१

यः । पा॒व॒मा॒नीः । अ॒धि॒ऽएति॑ । ऋषि॑ऽभिः । सम्ऽभृ॑तम् । रस॑म् ।

सर्व॑म् । सः । पू॒तम् । अ॒श्ना॒ति॒ । स्व॒दि॒तम् । मा॒त॒रिश्व॑ना ॥३१

यः । पावमानीः । अधिऽएति । ऋषिऽभिः । सम्ऽभृतम् । रसम् ।

सर्वम् । सः । पूतम् । अश्नाति । स्वदितम् । मातरिश्वना ॥३१

“यः जनः “पावमानीः पवमानदेवताकाः सर्वा ऋचः तद्रूपम् “ऋषिभिः सूक्तद्रष्टृभिर्मधुच्छन्दःप्रभृतिभिः “संभृतं संपादितं “रसं वेदरसभूतं सारं सूक्तसंघम् “अध्येति अधीते “सः जनः “सर्वं भोज्यजातं “पूतं परिशुद्धमेव अश्नाति । परिपूतं पापरहितमन्नं भक्षयति । कथमस्य पूतत्वं तत्राह । स्वस्याशनात्प्रागेव “मातरिश्वना । मातर्यन्तरिक्षे श्वसितीति मातरिश्वा वायुः । स च वायुः पवित्रमेव । पवित्रेण वायुना "स्वदितं स्वादूकृतं परिपूतमेवान्नं पश्चात् स नरोऽश्नाति ॥


पा॒व॒मा॒नीर्यो अ॒ध्येत्यृषि॑भि॒ः सम्भृ॑तं॒ रस॑म् ।

तस्मै॒ सर॑स्वती दुहे क्षी॒रं स॒र्पिर्मधू॑द॒कम् ॥३२

पा॒व॒मा॒नीः । यः । अ॒धि॒ऽएति॑ । ऋषि॑ऽभिः । सम्ऽभृ॑तम् । रस॑म् ।

तस्मै॑ । सर॑स्वती । दु॒हे॒ । क्षी॒रम् । स॒र्पिः । मधु॑ । उ॒द॒कम् ॥३२

पावमानीः । यः । अधिऽएति । ऋषिऽभिः । सम्ऽभृतम् । रसम् ।

तस्मै । सरस्वती । दुहे । क्षीरम् । सर्पिः । मधु । उदकम् ॥३२

“यः ब्राह्मणः “पावमानीः पवमानदेवताका ऋचः तदात्मकम् “ऋषिभिः मधुच्छन्दआदिभिः । “संभृतं “रसं वेदसारं सूक्तसंघम् “अध्येति अधीते “तस्मै पवमानाध्ययनं कुर्वते जनाय "सरस्वती सर्वत्र सरणवती वाग्देवता “क्षीरं यज्ञसाधनभूतं पयः “सर्पिः तादृशं घृतं “मधु मदकरम् “उदकं सोमं “दुहे स्वयमेव दोग्धि। एनं नरं यागादिपरं वेदशास्त्रविदं करोतीत्यर्थः । दुह प्रपूरणे । कर्मकर्तरि ‘न दुहस्नुनमां यक्चिणौ ' इति यकः प्रतिषेधः । ‘लोपस्त आत्मनेपदेषु' इति तलोपः॥ ॥१८॥ ॥३॥

मण्डल ९

सूक्तं ९.१

सूक्तं ९.२

सूक्तं ९.३

सूक्तं ९.४

सूक्तं ९.५

सूक्तं ९.६

सूक्तं ९.७

सूक्तं ९.८

सूक्तं ९.९

सूक्तं ९.१०

सूक्तं ९.११

सूक्तं ९.१२

सूक्तं ९.१३

सूक्तं ९.१४

सूक्तं ९.१५

सूक्तं ९.१६

सूक्तं ९.१७

सूक्तं ९.१८

सूक्तं ९.१९

सूक्तं ९.२०

सूक्तं ९.२१

सूक्तं ९.२२

सूक्तं ९.२३

सूक्तं ९.२४

सूक्तं ९.२५

सूक्तं ९.२६

सूक्तं ९.२७

सूक्तं ९.२८

सूक्तं ९.२९

सूक्तं ९.३०

सूक्तं ९.३१

सूक्तं ९.३२

सूक्तं ९.३३

सूक्तं ९.३४

सूक्तं ९.३५

सूक्तं ९.३६

सूक्तं ९.३७

सूक्तं ९.३८

सूक्तं ९.३९

सूक्तं ९.४०

सूक्तं ९.४१

सूक्तं ९.४२

सूक्तं ९.४३

सूक्तं ९.४४

सूक्तं ९.४५

सूक्तं ९.४६

सूक्तं ९.४७

सूक्तं ९.४८

सूक्तं ९.४९

सूक्तं ९.५०

सूक्तं ९.५१

सूक्तं ९.५२

सूक्तं ९.५३

सूक्तं ९.५४

सूक्तं ९.५५

सूक्तं ९.५६

सूक्तं ९.५७

सूक्तं ९.५८

सूक्तं ९.५९

सूक्तं ९.६०

सूक्तं ९.६१

सूक्तं ९.६२

सूक्तं ९.६३

सूक्तं ९.६४

सूक्तं ९.६५

सूक्तं ९.६६

सूक्तं ९.६७

सूक्तं ९.६८

सूक्तं ९.६९

सूक्तं ९.७०

सूक्तं ९.७१

सूक्तं ९.७२

सूक्तं ९.७३

सूक्तं ९.७४

सूक्तं ९.७५

सूक्तं ९.७६

सूक्तं ९.७७

सूक्तं ९.७८

सूक्तं ९.७९

सूक्तं ९.८०

सूक्तं ९.८१

सूक्तं ९.८२

सूक्तं ९.८३

सूक्तं ९.८४

सूक्तं ९.८५

सूक्तं ९.८६

सूक्तं ९.८७

सूक्तं ९.८८

सूक्तं ९.८९

सूक्तं ९.९०

सूक्तं ९.९१

सूक्तं ९.९२

सूक्तं ९.९३

सूक्तं ९.९४

सूक्तं ९.९५

सूक्तं ९.९६

सूक्तं ९.९७

सूक्तं ९.९८

सूक्तं ९.९९

सूक्तं ९.१००

सूक्तं ९.१०१

सूक्तं ९.१०२

सूक्तं ९.१०३

सूक्तं ९.१०४

सूक्तं ९.१०५

सूक्तं ९.१०६

सूक्तं ९.१०७

सूक्तं ९.१०८

सूक्तं ९.१०९

सूक्तं ९.११०

सूक्तं ९.१११

सूक्तं ९.११२

सूक्तं ९.११३

सूक्तं ९.११४

[सम्पाद्यताम्]

९.६७.१३-१५ विश्वामित्र उपरि टिप्पणी

९.६७.१६-१८ जमदग्नि उपरि टिप्पणी

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_९.६७&oldid=208655" इत्यस्माद् पुनः प्राप्तिः