ऋग्वेदः सूक्तं ९.१

विकिस्रोतः तः
Jump to navigation Jump to search
ऋग्वेदः - मण्डल ९
सूक्तं ९.१
मधुच्छन्दा वैश्वामित्रः
सूक्तं ९.२ →
दे. पवमानः सोमः। गायत्री


स्वादि॑ष्ठया॒ मदि॑ष्ठया॒ पव॑स्व सोम॒ धार॑या ।
इन्द्रा॑य॒ पात॑वे सु॒तः ॥१॥
र॒क्षो॒हा वि॒श्वच॑र्षणिर॒भि योनि॒मयो॑हतम्!
द्रुणा॑ सधस्थमासदत् ॥२॥
वरिवोधातमो भव मंहिष्ठो वृत्रहन्तमः ।
पर्षि राधो मघोनाम् ॥३॥
अभ्यर्ष महानां देवानां वीतिमन्धसा ।
अभि वाजमुत श्रवः ॥४॥
त्वामच्छा चरामसि तदिदर्थं दिवेदिवे ।
इन्दो त्वे न आशसः ॥५॥
पुनाति ते परिस्रुतं सोमं सूर्यस्य दुहिता ।
वारेण शश्वता तना ॥६॥
तमीमण्वीः समर्य आ गृभ्णन्ति योषणो दश ।
स्वसारः पार्ये दिवि ॥७॥
तमीं हिन्वन्त्यग्रुवो धमन्ति बाकुरं दृतिम् ।
त्रिधातु वारणं मधु ॥८॥
अभीममघ्न्या उत श्रीणन्ति धेनवः शिशुम् ।
सोममिन्द्राय पातवे ॥९॥
अस्येदिन्द्रो मदेष्वा विश्वा वृत्राणि जिघ्नते ।
शूरो मघा च मंहते ॥१०॥


सायणभाष्यम्

ऋग्वेदसंहिता

श्रीमत्सायणाचार्यविरचितभाष्यसमेता

॥ अथ नवमं मण्डलम् ॥

नवमे मण्डले सप्तानुवाकाः । तत्र प्रथमेऽनुवाके चतुर्विंशतिसंख्याकानि सूक्तानि । तत्र ‘ स्वादिष्ठया' इति दशर्चं प्रथमं सूक्तम् । अत्रानुक्रम्यते--- स्वादिष्ठया दश मधुच्छन्दाः' इति । वैश्वामित्रो मधुच्छन्दा ऋषिः । प्राग्वत्सप्रीयपरिभाषया गायत्री छन्दः । ‘ नवमं मण्डलं पावमानं सौम्यम्' (अनु.) इति वचनात् पवमानगुणविशिष्टः सोमो देवता । ग्रावस्तोत्रेऽर्बुदसूक्तस्य प्रागुत्तमाया इदमादिकं सर्वं पावमानं विकल्पेनावपनीयम् । सूत्रितं च---’ प्रैते वदन्त्वित्यर्बुदं प्रागुत्तमाया आ व ऋञ्जसे प्र वो ग्रावाण इति सूक्तयोरन्तरोपरिष्टात्पुरस्ताद्वा पावमानीरोप्य यथार्थमा वा ग्रहग्रहणात् ' ( आश्व. श्रौ. ५, १२) इति । उपाकर्मणि मण्डलादिग्रहण आद्या ! सूत्रं पूर्वमेवोदाहृतम् ॥


स्वादि॑ष्ठया॒ मदि॑ष्ठया॒ पव॑स्व सोम॒ धार॑या ।

इन्द्रा॑य॒ पात॑वे सु॒तः ॥ १

स्वादि॑ष्ठया । मदि॑ष्ठया । पव॑स्व । सो॒म॒ । धार॑या ।

इन्द्रा॑य । पात॑वे । सु॒तः ॥१

स्वादिष्ठया । मदिष्ठया । पवस्व । सोम । धारया ।

इन्द्राय । पातवे । सुतः ॥१

हे सोम “इन्द्राय “पातवे पातुं “सुतः अभिषुतः त्वं स्वादिष्ठया स्वादुतमया “मदिष्ठया अतिशयेन मादयित्र्या “धारया “पवस्व क्षर ॥


र॒क्षो॒हा वि॒श्वच॑र्षणिर॒भि योनि॒मयो॑हतम् ।

द्रुणा॑ स॒धस्थ॒मास॑दत् ॥ २

र॒क्षः॒ऽहा । वि॒श्वऽच॑र्षणिः । अ॒भि । योनि॑म् । अयः॑ऽहतम् ।

द्रुणा॑ । स॒धऽस्थ॑म् । आ । अ॒स॒द॒त् ॥२

रक्षःऽहा । विश्वऽचर्षणिः । अभि । योनिम् । अयःऽहतम् ।

द्रुणा । सधऽस्थम् । आ । असदत् ॥२

“रक्षोहा रक्षसां हन्ता “विश्वचर्षणिः विश्वस्य द्रष्टा सोमः अयोहतं हिरण्येन हतम् । तथा च ब्राह्मणं - ’ हिरण्यपाणिरभिषुणोति' इति । “द्रुणा द्रोणकलशेनाधिषवणफलकाभ्यां वा “सधस्थं सहस्थानं “योनिम् अभिषवस्थानम् "अभि “आसदत् अभ्यासीदति ॥


व॒रि॒वो॒धात॑मो भव॒ मंहि॑ष्ठो वृत्र॒हन्त॑मः ।

पर्षि॒ राधो॑ म॒घोना॑म् ॥ ३

व॒रि॒वः॒ऽधात॑मः । भ॒व॒ । मंहि॑ष्ठः । वृ॒त्र॒हन्ऽत॑मः ।

पर्षि॑ । राधः॑ । म॒घोना॑म् ॥३

वरिवःऽधातमः । भव । मंहिष्ठः । वृत्रहन्ऽतमः ।

पर्षि । राधः । मघोनाम् ॥३

हे सोम त्वं “वरिवोधातसः अतिशयेन धनानां दाता “भव । वेदो वरिवः' इति धननामसु पाठात् । “मंहिष्ठः दातृतमश्च भव । सर्वदातृत्वमत्रोच्यत इत्यपुनरुक्तिः । “वृत्रहन्तमः अतिशयेन शत्रूणां हन्ता भव । किंच “मघोनां धनवतां शत्रूणां “राधः धनं च “पर्षि अस्मभ्यं प्रयच्छ ।।


अ॒भ्य॑र्ष म॒हानां॑ दे॒वानां॑ वी॒तिमन्ध॑सा ।

अ॒भि वाज॑मु॒त श्रव॑ः ॥ ४

अ॒भि । अ॒र्ष॒ । म॒हाना॑म् । दे॒वाना॑म् । वी॒तिम् । अन्ध॑सा ।

अ॒भि । वाज॑म् । उ॒त । श्रवः॑ ॥४

अभि । अर्ष । महानाम् । देवानाम् । वीतिम् । अन्धसा ।

अभि । वाजम् । उत । श्रवः ॥४

हे सोम त्वं “महानां महतां देवानां “वीतिं यज्ञम् “अन्धसा धानाद्यन्नेन सह “अभ्यर्ष अभिगच्छ । "उत अपि चाभिगच्छंस्त्वं “वाजं बलं “श्रवः अन्नं चाभिगमयास्मानित्यर्थः ॥


त्वामच्छा॑ चरामसि॒ तदिदर्थं॑ दि॒वेदि॑वे ।

इन्दो॒ त्वे न॑ आ॒शस॑ः ॥ ५

त्वाम् । अच्छ॑ । च॒रा॒म॒सि॒ । तत् । इत् । अर्थ॑म् । दि॒वेऽदि॑वे ।

इन्दो॒ इति॑ । त्वे इति॑ । नः॒ । आ॒ऽशसः॑ ॥५

त्वाम् । अच्छ । चरामसि । तत् । इत् । अर्थम् । दिवेऽदिवे ।

इन्दो इति । त्वे इति । नः । आऽशसः ॥५

हे "इन्दो यागेषु क्लिद्यमान सोम “त्वामच्छ त्वां प्रति “चरामसि वयं चरामः। “दिवेदिवे प्रतिदिनमस्माकं “तदित् तदेव त्वत्परिचरणमेव “अर्थं कार्यं नान्यत्कार्यमस्ति । “नः अस्माकम् “आशसः आशंसनान्यपि “त्वे त्वय्येव नान्यत्र ॥ ॥ १६ ॥


पु॒नाति॑ ते परि॒स्रुतं॒ सोमं॒ सूर्य॑स्य दुहि॒ता ।

वारे॑ण॒ शश्व॑ता॒ तना॑ ॥ ६

पु॒नाति॑ । ते॒ । प॒रि॒ऽस्रुत॑म् । सोम॑म् । सूर्य॑स्य । दु॒हि॒ता ।

वारे॑ण । शश्व॑ता । तना॑ ॥६

पुनाति । ते । परिऽस्रुतम् । सोमम् । सूर्यस्य । दुहिता ।

वारेण । शश्वता । तना ॥६

हे सोम “ते तव “परिस्रुतं क्षरन्तं “सोमं सोमरसं “सूर्यस्य "दुहिता श्रद्धा देवी “वारेण वालेन “शश्वता शाश्वतेन “तना विस्तृतेन “पुनाति । तथा च वाजसनेयिन आमनन्ति-: श्रद्धा वै सूर्यस्य दुहिता श्रद्धा ह्येनं पुनाति' इति ॥


तमी॒मण्वी॑ः सम॒र्य आ गृ॒भ्णन्ति॒ योष॑णो॒ दश॑ ।

स्वसा॑र॒ः पार्ये॑ दि॒वि ॥ ७

तम् । ई॒म् । अण्वीः॑ । स॒ऽम॒र्ये । आ । गृ॒भ्णन्ति॑ । योष॑णः । दश॑ ।

स्वसा॑रः । पार्ये॑ । दि॒वि ॥७

तम् । ईम् । अण्वीः । सऽमर्ये । आ । गृभ्णन्ति । योषणः । दश ।

स्वसारः । पार्ये । दिवि ॥७

"समर्ये समनुष्ये यज्ञे “पार्ये “दिवि सौत्येऽहनि “योषणः स्त्रियः “स्वसारः स्वयं सरन्त्यो दशसंख्याकाः “अण्वीः अण्व्योऽङ्गुलयः । ‘अग्रुवः अण्व्यः' इत्यङ्गुलिनामसु पाठात् । “तमीं तमेनं सोमम् "आ "गृभ्णन्ति आगृह्णन्ति ॥


तमीं॑ हिन्वन्त्य॒ग्रुवो॒ धम॑न्ति बाकु॒रं दृति॑म् ।

त्रि॒धातु॑ वार॒णं मधु॑ ॥ ८

तम् । ई॒म् । हि॒न्व॒न्ति॒ । अ॒ग्रुवः॑ । धम॑न्ति । बा॒कु॒रम् । दृति॑म् ।

त्रि॒ऽधातु॑ । वा॒र॒णम् । मधु॑ ॥८

तम् । ईम् । हिन्वन्ति । अग्रुवः । धमन्ति । बाकुरम् । दृतिम् ।

त्रिऽधातु । वारणम् । मधु ॥८

“तमीम् एनं सोमम् “अग्रुवः अङ्गुलयः “हिन्वन्ति अभिषवदेशं प्रति प्रेरयन्ति । प्रेरयित्वा च “बाकुरं भासमानं “दृतिं दृतिसदृशांशुमेनं सोमं “धमन्ति अभिषुण्वन्ति । यद्यपि धमतिरभिषवकर्मा न भवति तथाप्यौचित्यादत्राभिषवपरो भविष्यति । तदेतत् सोमात्मकं “मधु वस्तु “त्रिधातु त्रिस्थानम् । द्रोणकलश आधवनीयः पूतभृदिति त्रिधातवः । “वारणं शत्रूणां वारकं च भवति ॥


अ॒भी॒३॒॑ममघ्न्या॑ उ॒त श्री॒णन्ति॑ धे॒नव॒ः शिशु॑म् ।

सोम॒मिन्द्रा॑य॒ पात॑वे ॥ ९

अ॒भि । इ॒मम् । अघ्न्याः॑ । उ॒त । श्री॒णन्ति॑ । धे॒नवः॑ । शिशु॑म् ।

सोम॑म् । इन्द्रा॑य । पात॑वे ॥९

अभि । इमम् । अघ्न्याः । उत । श्रीणन्ति । धेनवः । शिशुम् ।

सोमम् । इन्द्राय । पातवे ॥९

“उत अपि च “इमम् एनं “शिशुं बालं “सोमम् “अघ्न्याः अस्तब्धाः अहन्तव्याः “धेनवः गावः “इन्द्राय “पातवे पातुम् “अभि “श्रीणन्ति । स्वकीयेन पयसा संस्कुर्वन्तीत्यर्थः ॥


अ॒स्येदिन्द्रो॒ मदे॒ष्वा विश्वा॑ वृ॒त्राणि॑ जिघ्नते ।

शूरो॑ म॒घा च॑ मंहते ॥ १०

अ॒स्य । इत् । इन्द्रः॑ । मदे॑षु । आ । विश्वा॑ । वृ॒त्राणि॑ । जि॒घ्न॒ते॒ ।

शूरः॑ । म॒घा । च॒ । मं॒ह॒ते॒ ॥१०

अस्य । इत् । इन्द्रः । मदेषु । आ । विश्वा । वृत्राणि । जिघ्नते ।

शूरः । मघा । च । मंहते ॥१०

“शूरः वीरः “इन्द्रः “अस्येत् अस्य सोमस्यैव "मदेषु “विश्वा विश्वानि “वृत्राणि शत्रून् “आ जिघ्नते आहन्ति । “मघा मघानि धनानि “च “मंहते यजमानेभ्यः प्रयच्छति ॥ ॥ १७ ॥


[सम्पाद्यताम्]

सोम उपरि आरम्भिक टिप्पणी


मण्डल ९

सूक्तं ९.१

सूक्तं ९.२

सूक्तं ९.३

सूक्तं ९.४

सूक्तं ९.५

सूक्तं ९.६

सूक्तं ९.७

सूक्तं ९.८

सूक्तं ९.९

सूक्तं ९.१०

सूक्तं ९.११

सूक्तं ९.१२

सूक्तं ९.१३

सूक्तं ९.१४

सूक्तं ९.१५

सूक्तं ९.१६

सूक्तं ९.१७

सूक्तं ९.१८

सूक्तं ९.१९

सूक्तं ९.२०

सूक्तं ९.२१

सूक्तं ९.२२

सूक्तं ९.२३

सूक्तं ९.२४

सूक्तं ९.२५

सूक्तं ९.२६

सूक्तं ९.२७

सूक्तं ९.२८

सूक्तं ९.२९

सूक्तं ९.३०

सूक्तं ९.३१

सूक्तं ९.३२

सूक्तं ९.३३

सूक्तं ९.३४

सूक्तं ९.३५

सूक्तं ९.३६

सूक्तं ९.३७

सूक्तं ९.३८

सूक्तं ९.३९

सूक्तं ९.४०

सूक्तं ९.४१

सूक्तं ९.४२

सूक्तं ९.४३

सूक्तं ९.४४

सूक्तं ९.४५

सूक्तं ९.४६

सूक्तं ९.४७

सूक्तं ९.४८

सूक्तं ९.४९

सूक्तं ९.५०

सूक्तं ९.५१

सूक्तं ९.५२

सूक्तं ९.५३

सूक्तं ९.५४

सूक्तं ९.५५

सूक्तं ९.५६

सूक्तं ९.५७

सूक्तं ९.५८

सूक्तं ९.५९

सूक्तं ९.६०

सूक्तं ९.६१

सूक्तं ९.६२

सूक्तं ९.६३

सूक्तं ९.६४

सूक्तं ९.६५

सूक्तं ९.६६

सूक्तं ९.६७

सूक्तं ९.६८

सूक्तं ९.६९

सूक्तं ९.७०

सूक्तं ९.७१

सूक्तं ९.७२

सूक्तं ९.७३

सूक्तं ९.७४

सूक्तं ९.७५

सूक्तं ९.७६

सूक्तं ९.७७

सूक्तं ९.७८

सूक्तं ९.७९

सूक्तं ९.८०

सूक्तं ९.८१

सूक्तं ९.८२

सूक्तं ९.८३

सूक्तं ९.८४

सूक्तं ९.८५

सूक्तं ९.८६

सूक्तं ९.८७

सूक्तं ९.८८

सूक्तं ९.८९

सूक्तं ९.९०

सूक्तं ९.९१

सूक्तं ९.९२

सूक्तं ९.९३

सूक्तं ९.९४

सूक्तं ९.९५

सूक्तं ९.९६

सूक्तं ९.९७

सूक्तं ९.९८

सूक्तं ९.९९

सूक्तं ९.१००

सूक्तं ९.१०१

सूक्तं ९.१०२

सूक्तं ९.१०३

सूक्तं ९.१०४

सूक्तं ९.१०५

सूक्तं ९.१०६

सूक्तं ९.१०७

सूक्तं ९.१०८

सूक्तं ९.१०९

सूक्तं ९.११०

सूक्तं ९.१११

सूक्तं ९.११२

सूक्तं ९.११३

सूक्तं ९.११४

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_९.१&oldid=208503" इत्यस्माद् पुनः प्राप्तिः