ऋग्वेदः सूक्तं ९.९४

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं ९.९३ ऋग्वेदः - मण्डल ९
सूक्तं ९.९४
कण्वो घौरः
सूक्तं ९.९५ →
दे. पवमानः सोमः। त्रिष्टुप्


अधि यदस्मिन्वाजिनीव शुभ स्पर्धन्ते धियः सूर्ये न विशः ।
अपो वृणानः पवते कवीयन्व्रजं न पशुवर्धनाय मन्म ॥१॥
द्विता व्यूर्ण्वन्नमृतस्य धाम स्वर्विदे भुवनानि प्रथन्त ।
धियः पिन्वानाः स्वसरे न गाव ऋतायन्तीरभि वावश्र इन्दुम् ॥२॥
परि यत्कविः काव्या भरते शूरो न रथो भुवनानि विश्वा ।
देवेषु यशो मर्ताय भूषन्दक्षाय रायः पुरुभूषु नव्यः ॥३॥
श्रिये जातः श्रिय आ निरियाय श्रियं वयो जरितृभ्यो दधाति ।
श्रियं वसाना अमृतत्वमायन्भवन्ति सत्या समिथा मितद्रौ ॥४॥
इषमूर्जमभ्यर्षाश्वं गामुरु ज्योतिः कृणुहि मत्सि देवान् ।
विश्वानि हि सुषहा तानि तुभ्यं पवमान बाधसे सोम शत्रून् ॥५॥


सायणभाष्यम्

‘ अधि यत्' इति पञ्चर्चं नवमं सूक्तमाङ्गिरसस्य कण्वस्यार्षम् । तथानुक्रम्यते---- अधि यत्कण्वः' इति । पूर्ववच्छन्दोदेवते । गतो विनियोगः ॥


अधि॒ यद॑स्मिन्वा॒जिनी॑व॒ शुभः॒ स्पर्धं॑ते॒ धियः॒ सूर्ये॒ न विशः॑ ।

अ॒पो वृ॑णा॒नः प॑वते कवी॒यन्व्र॒जं न प॑शु॒वर्ध॑नाय॒ मन्म॑ ॥१

अधि॑ । यत् । अ॒स्मि॒न् । वा॒जिनि॑ऽइव । शुभः॑ । स्पर्ध॑न्ते । धियः॑ । सूर्ये॑ । न । विशः॑ ।

अ॒पः । वृ॒णा॒नः । प॒व॒ते॒ । क॒वि॒ऽयन् । व्र॒जम् । न । प॒शु॒ऽवर्ध॑नाय । मन्म॑ ॥

अधि । यत् । अस्मिन् । वाजिनिऽइव । शुभः । स्पर्धन्ते । धियः । सूर्ये । न । विशः ।

अपः । वृणानः । पवते । कविऽयन् । व्रजम् । न । पशुऽवर्धनाय । मन्म ॥

“यत् यदा “अस्मिन् सोमे “वाजिनीव “शुभः अश्वे यथा वस्त्रप्रभृत्यलंकारा भवन्ति । यदा वास्मिन् सोमे “सूर्ये “न यथा सूर्ये “विशः रश्मय उदिता भवन्ति । तदा “धियः अङ्गुलयः “अधि “स्पर्धन्ते । अहं पुरस्ताच्छोधयाम्यहं पुरः शोधयामीत्यहमहमिकयोपतिष्ठन्ति । ततोऽयं सोमः “अपः वसतीवरीः “वृणानः आच्छादयन् “पवते पात्रेषु क्षरति । कलशानधिगच्छति। कीदृशः । “कवीयन् कविरिवाचरन् । यद्वा । कवयः स्तोतारः । तानिच्छन् । तत्र दृष्टान्तः। “व्रजं “न “मन्म मननीयं गवां गोष्ठं “पशुवर्धनाय पशूनां वर्धनाय गोपालः परिगच्छति । तथा देवानां प्रीणनाय पात्राणि प्रति पवत इति ॥


द्वि॒ता व्यू॒र्ण्वन्न॒मृत॑स्य॒ धाम॑ स्व॒र्विदे॒ भुव॑नानि प्रथंत ।

धियः॑ पिन्वा॒नाः स्वस॑रे॒ न गाव॑ ऋता॒यंती॑र॒भि वा॑वश्र॒ इंदुं॑ ॥२

द्वि॒ता । वि॒ऽऊ॒र्ण्वन् । अ॒मृत॑स्य । धाम॑ । स्वः॒ऽविदे॑ । भुव॑नानि । प्र॒थ॒न्त॒ ।

धियः॑ । पि॒न्वा॒नाः । स्वस॑रे । न । गावः॑ । ऋ॒त॒ऽयन्तीः॑ । अ॒भि । वा॒व॒श्रे॒ । इन्दु॑म् ॥

द्विता । विऽऊर्ण्वन् । अमृतस्य । धाम । स्वःऽविदे । भुवनानि । प्रथन्त ।

धियः । पिन्वानाः । स्वसरे । न । गावः । ऋतऽयन्तीः । अभि । वावश्रे । इन्दुम् ॥

“अमृतस्य उदकस्य “धाम धारकं स्थानमन्तरिक्षं सोमः “द्विता द्विधा “व्यूर्ण्वन् उभयतः स्वतेजसाच्छादयन् मध्येन गच्छति । ततः “स्वर्विदे सर्वज्ञाय तस्मै सोमाय “भुवनानि “प्रथन्त विस्तीर्णानि भवन्ति । तस्य रश्मीनां संचरणार्थं प्रथन्त इत्यर्थः । अथ “पिन्वानाः प्रीणयित्र्यः “धियः स्तुतिलक्षणा वाचः “ऋतायन्तीः यज्ञमिच्छन्त्यः सत्यस्तमिमम् “इन्दुं सोममभिलक्ष्य स्वसरे यागाहनि “वावश्रे शब्दायन्ते । यद्वा । सोमं कामयन्ते । तत्र दृष्टान्तः। “गावो “न यथा पिन्वमानाः पयः क्षरन्त्यो गावः “स्वसरे । सुष्ठु अस्यन्ते प्रेर्यन्ते गावोऽत्रेति स्वसरो गोष्ठम् । तस्मिन्नच्छाभिलक्ष्य शब्दं कुर्वन्ति तद्वत् ॥


परि॒ यत्क॒विः काव्या॒ भर॑ते॒ शूरो॒ न रथो॒ भुव॑नानि॒ विश्वा॑ ।

दे॒वेषु॒ यशो॒ मर्ता॑य॒ भूषं॒दक्षा॑य रा॒यः पु॑रु॒भूषु॒ नव्यः॑ ॥३

परि॑ । यत् । क॒विः । काव्या॑ । भर॑ते । शूरः॑ । न । रथः॑ । भुव॑नानि । विश्वा॑ ।

दे॒वेषु॑ । यशः॑ । मर्ता॑य । भूष॑न् । दक्षा॑य । रा॒यः । पु॒रु॒ऽभूषु॑ । नव्यः॑ ॥

परि । यत् । कविः । काव्या । भरते । शूरः । न । रथः । भुवनानि । विश्वा ।

देवेषु । यशः । मर्ताय । भूषन् । दक्षाय । रायः । पुरुऽभूषु । नव्यः ॥

“कविः क्रान्तप्रज्ञः सोमः “काव्या काव्यानि कवेः कर्माणि स्तोत्राणि “यत् यदा “परि “भरते परितो बिभर्ति । परिगच्छतीति यावत् । कथमिव । “शूरो “न यथा शूरः शत्रूणां बाधकः “रथः तदीयः “विश्वा “भुवनानि सांग्रामिकाणि भूतानि परियाति तद्वत् । तदानीं “देवेषु स्थितं “यशः व्यापकं धनं “मर्ताय मनुष्याय स्तोत्रे “भूषन् । भवतेरन्तर्भावितण्यर्थात् सनि रूपम् । भावयितुमिच्छन् सोमः “रायः आत्मना दत्तस्य धनस्य “दक्षाय वृद्ध्यर्थं “पुरुभूषु बहुषु यज्ञभवनेषु “नव्यः स्तोतव्यो भवति । ‘णु स्तुतौ' । अचो यत् ॥


श्रि॒ये जा॒तः श्रि॒य आ निरि॑याय॒ श्रियं॒ वयो॑ जरि॒तृभ्यो॑ दधाति ।

श्रियं॒ वसा॑ना अमृत॒त्वमा॑य॒न्भवं॑ति स॒त्या स॑मि॒था मि॒तद्रौ॑ ॥४

श्रि॒ये । जा॒तः । श्रि॒ये । आ । निः । इ॒या॒य॒ । श्रिय॑म् । वयः॑ । ज॒रि॒तृऽभ्यः॑ । द॒धा॒ति॒ ।

श्रिय॑म् । वसा॑नाः । अ॒मृ॒त॒ऽत्वम् । आ॒य॒न् । भव॑न्ति । स॒त्या । स॒म्ऽइ॒था । मि॒तऽद्रौ॑ ॥

श्रिये । जातः । श्रिये । आ । निः । इयाय । श्रियम् । वयः । जरितृऽभ्यः । दधाति ।

श्रियम् । वसानाः । अमृतऽत्वम् । आयन् । भवन्ति । सत्या । सम्ऽइथा । मितऽद्रौ ॥

स सोमः “श्रिये “जातः संपदर्थं प्रादुर्भूतो भवति । तदेवाह । “श्रिये श्र्यर्थमेव “आ “निरियाय । अंशुभ्य आभिमुख्येन निर्गच्छति । निर्गतश्च स सोमः “जरितृभ्यः स्तोतृभ्यः “श्रियं “वयः अन्नं जीवनं वा “दधाति विदधाति प्रयच्छति । तेन दत्तां “श्रियं “वसानाः आच्छादयन्तः स्तोतारः “अमृतत्वं देवत्वममरणं वा “आयन प्राप्नुवन् । तस्मिन् “मितद्रौ मितगमने सोमे “समिथा । युद्धनामैतत् सम्यक् प्राप्यतेऽत्रेति । ‘ समीणः ' ( उ. सू. २. ११ ) इत्येतेः संपूर्वस्य थक्प्रत्ययः । तानि युद्धानि “सत्या सत्यानि यथार्थानि “भवन्ति न तु वितथानि । तेन सोमेन पराजितानि भवन्तीत्यर्थः ।।


इष॒मूर्ज॑म॒भ्य१॒॑र्षाश्वं॒ गामु॒रु ज्योतिः॑ कृणुहि॒ मत्सि॑ दे॒वान् ।

विश्वा॑नि॒ हि सु॒षहा॒ तानि॒ तुभ्यं॒ पव॑मान॒ बाध॑से सोम॒ शत्रू॑न् ॥५

इष॑म् । ऊर्ज॑म् । अ॒भि । अ॒र्ष॒ । अश्व॑म् । गाम् । उ॒रु । ज्योतिः॑ । कृ॒णु॒हि॒ । मत्सि॑ । दे॒वान् ।

विश्वा॑नि । हि । सु॒ऽसहा॑ । तानि॑ । तुभ्य॑म् । पव॑मान । बाध॑से । सो॒म॒ । शत्रू॑न् ॥

इषम् । ऊर्जम् । अभि । अर्ष । अश्वम् । गाम् । उरु । ज्योतिः । कृणुहि । मत्सि । देवान् ।

विश्वानि । हि । सुऽसहा । तानि । तुभ्यम् । पवमान । बाधसे । सोम । शत्रून् ॥

हे सोम “इषम् अन्नम् “ऊर्जम् अन्नरसं च अस्मभ्यम् “अभ्यर्ष अभिगमय । किंच “अश्वं वाहनं “गां पयःप्रदानेन यज्ञस्य साधनभूतां गां च । तथा “उरु महत् “ज्योतिः सूर्याख्यं “कृणुहि जगदालोकनार्थं कुरु । किंच "देवान् इन्द्रादीन् “मत्सि सोमेन तर्पय । मदेर्लटि ‘बहुलं छन्दसि' इति विकरणस्य लुक् । वाक्यभेदादनिघातः । अपि च हे सोम “तुभ्यं “विश्वानि सर्वाणि रक्षांसि “सुषहा सुसहान्यनायासेनैवाभिभवितुं शक्यानि भवन्ति । हिरवधारणे । अत एव हे “पवमान पूयमान हे “सोम सर्वान् “शत्रून् “बाधसे जहि ॥ ॥ ४ ॥

मण्डल ९

सूक्तं ९.१

सूक्तं ९.२

सूक्तं ९.३

सूक्तं ९.४

सूक्तं ९.५

सूक्तं ९.६

सूक्तं ९.७

सूक्तं ९.८

सूक्तं ९.९

सूक्तं ९.१०

सूक्तं ९.११

सूक्तं ९.१२

सूक्तं ९.१३

सूक्तं ९.१४

सूक्तं ९.१५

सूक्तं ९.१६

सूक्तं ९.१७

सूक्तं ९.१८

सूक्तं ९.१९

सूक्तं ९.२०

सूक्तं ९.२१

सूक्तं ९.२२

सूक्तं ९.२३

सूक्तं ९.२४

सूक्तं ९.२५

सूक्तं ९.२६

सूक्तं ९.२७

सूक्तं ९.२८

सूक्तं ९.२९

सूक्तं ९.३०

सूक्तं ९.३१

सूक्तं ९.३२

सूक्तं ९.३३

सूक्तं ९.३४

सूक्तं ९.३५

सूक्तं ९.३६

सूक्तं ९.३७

सूक्तं ९.३८

सूक्तं ९.३९

सूक्तं ९.४०

सूक्तं ९.४१

सूक्तं ९.४२

सूक्तं ९.४३

सूक्तं ९.४४

सूक्तं ९.४५

सूक्तं ९.४६

सूक्तं ९.४७

सूक्तं ९.४८

सूक्तं ९.४९

सूक्तं ९.५०

सूक्तं ९.५१

सूक्तं ९.५२

सूक्तं ९.५३

सूक्तं ९.५४

सूक्तं ९.५५

सूक्तं ९.५६

सूक्तं ९.५७

सूक्तं ९.५८

सूक्तं ९.५९

सूक्तं ९.६०

सूक्तं ९.६१

सूक्तं ९.६२

सूक्तं ९.६३

सूक्तं ९.६४

सूक्तं ९.६५

सूक्तं ९.६६

सूक्तं ९.६७

सूक्तं ९.६८

सूक्तं ९.६९

सूक्तं ९.७०

सूक्तं ९.७१

सूक्तं ९.७२

सूक्तं ९.७३

सूक्तं ९.७४

सूक्तं ९.७५

सूक्तं ९.७६

सूक्तं ९.७७

सूक्तं ९.७८

सूक्तं ९.७९

सूक्तं ९.८०

सूक्तं ९.८१

सूक्तं ९.८२

सूक्तं ९.८३

सूक्तं ९.८४

सूक्तं ९.८५

सूक्तं ९.८६

सूक्तं ९.८७

सूक्तं ९.८८

सूक्तं ९.८९

सूक्तं ९.९०

सूक्तं ९.९१

सूक्तं ९.९२

सूक्तं ९.९३

सूक्तं ९.९४

सूक्तं ९.९५

सूक्तं ९.९६

सूक्तं ९.९७

सूक्तं ९.९८

सूक्तं ९.९९

सूक्तं ९.१००

सूक्तं ९.१०१

सूक्तं ९.१०२

सूक्तं ९.१०३

सूक्तं ९.१०४

सूक्तं ९.१०५

सूक्तं ९.१०६

सूक्तं ९.१०७

सूक्तं ९.१०८

सूक्तं ९.१०९

सूक्तं ९.११०

सूक्तं ९.१११

सूक्तं ९.११२

सूक्तं ९.११३

सूक्तं ९.११४

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_९.९४&oldid=180353" इत्यस्माद् पुनः प्राप्तिः