ऋग्वेदः सूक्तं ९.१०८

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं ९.१०७ ऋग्वेदः - मण्डल ९
सूक्तं ९.१०८
[[लेखकः :|]]
सूक्तं ९.१०९ →
ऋ. १-२ गौरिवीतिः शाक्त्यः, ३, १४-१६ शक्तिर्वासिष्ठः, ४-५ ऊरुराङ्गिरसः, ६-७ ऋजिश्वा भारद्वाजः, ८-९ ऊर्ध्वसद्मा आङ्गिरसः, १०-११ कृतयशा आङ्गिरसः, १२-१३ ऋणंचयो राजर्षिः।

दे. पवमानः सोमः। काकुभः प्रगाथः - (विषमा ककुप्, समा सतोबृहती), १३ यवमध्या गायत्री।


पवस्व मधुमत्तम इन्द्राय सोम क्रतुवित्तमो मदः ।
महि द्युक्षतमो मदः ॥१॥
यस्य ते पीत्वा वृषभो वृषायतेऽस्य पीता स्वर्विदः ।
स सुप्रकेतो अभ्यक्रमीदिषोऽच्छा वाजं नैतशः ॥२॥
त्वं ह्यङ्ग दैव्या पवमान जनिमानि द्युमत्तमः ।
अमृतत्वाय घोषयः ॥३॥
येना नवग्वो दध्यङ्ङपोर्णुते येन विप्रास आपिरे ।
देवानां सुम्ने अमृतस्य चारुणो येन श्रवांस्यानशुः ॥४॥
एष स्य धारया सुतोऽव्यो वारेभिः पवते मदिन्तमः ।
क्रीळन्नूर्मिरपामिव ॥५॥
य उस्रिया अप्या अन्तरश्मनो निर्गा अकृन्तदोजसा ।
अभि व्रजं तत्निषे गव्यमश्व्यं वर्मीव धृष्णवा रुज ॥६॥
आ सोता परि षिञ्चताश्वं न स्तोममप्तुरं रजस्तुरम् ।
वनक्रक्षमुदप्रुतम् ॥७॥
सहस्रधारं वृषभं पयोवृधं प्रियं देवाय जन्मने ।
ऋतेन य ऋतजातो विवावृधे राजा देव ऋतं बृहत् ॥८॥
अभि द्युम्नं बृहद्यश इषस्पते दिदीहि देव देवयुः ।
वि कोशं मध्यमं युव ॥९॥
आ वच्यस्व सुदक्ष चम्वोः सुतो विशां वह्निर्न विश्पतिः ।
वृष्टिं दिवः पवस्व रीतिमपां जिन्वा गविष्टये धियः ॥१०॥
एतमु त्यं मदच्युतं सहस्रधारं वृषभं दिवो दुहुः ।
विश्वा वसूनि बिभ्रतम् ॥११॥
वृषा वि जज्ञे जनयन्नमर्त्यः प्रतपञ्ज्योतिषा तमः ।
स सुष्टुतः कविभिर्निर्णिजं दधे त्रिधात्वस्य दंससा ॥१२॥
स सुन्वे यो वसूनां यो रायामानेता य इळानाम् ।
सोमो यः सुक्षितीनाम् ॥१३॥
यस्य न इन्द्रः पिबाद्यस्य मरुतो यस्य वार्यमणा भगः ।
आ येन मित्रावरुणा करामह एन्द्रमवसे महे ॥१४॥
इन्द्राय सोम पातवे नृभिर्यतः स्वायुधो मदिन्तमः ।
पवस्व मधुमत्तमः ॥१५॥
इन्द्रस्य हार्दि सोमधानमा विश समुद्रमिव सिन्धवः ।
जुष्टो मित्राय वरुणाय वायवे दिवो विष्टम्भ उत्तमः ॥१६॥


सायणभाष्यम्

‘ पवस्व' इति षोडशर्चं पञ्चमं सूक्तम् । आद्यद्वृचस्य गौरिवीतिर्नाम शक्तिपुत्र ऋषिः । तृतीयायाः शक्तिर्नाम वासिष्ठः । ततः पञ्चानां द्वृचानामूरुर्नामाङ्गिरस ऋजिश्वा नाम भारद्वाज ऊर्ध्वसद्मा नामाङ्गिरसः कृतयशा नाम कश्चित् सोऽप्याङ्गिरस ऋणंचयो नाम राजर्षिरित्येते क्रमेणर्षयः । एवं त्रयोदश गताः । ततस्तिसृणा वासिष्ठः शक्तिः। प्रथमातृतीयाद्या अयुजः ककुभः । द्वितीयाचतुर्थ्याद्या युजः सतोबृहत्यः। स सुन्वे यो वसूनाम्' इत्येषा तु यवमध्या गायत्री । पवमानः सोमो देवता । तथा चानुक्रम्यते-- पवस्व षोळश गौरिवीतिर्द्वृचं शक्तिरेकामुरुर्ऋजिश्वोर्ध्वसद्मा कृतयशा ऋणंचय इत्यृषयो द्वृचास्तिस्रः शक्तिः काकुभाः प्रगाथाः स सुन्वे गायत्री यवमध्या' इति । गतो विनियोगः ॥


पव॑स्व॒ मधु॑मत्तम॒ इंद्रा॑य सोम क्रतु॒वित्त॑मो॒ मदः॑ ।

महि॑ द्यु॒क्षत॑मो॒ मदः॑ ॥१

पव॑स्व । मधु॑मत्ऽतमः । इन्द्रा॑य । सो॒म॒ । क्र॒तु॒वित्ऽत॑मः । मदः॑ ।

महि॑ । द्यु॒क्षऽत॑मः । मदः॑ ॥१

पवस्व । मधुमत्ऽतमः । इन्द्राय । सोम । क्रतुवित्ऽतमः । मदः ।

महि । द्युक्षऽतमः । मदः ॥१

हे "सोम "मधुमत्तमः अतिशयेन माधुर्योपेतस्त्वम् "इन्द्राय इन्द्रार्थं "मदः मदकरः सन् “पवस्व क्षर। कीदृशः । "क्रतुवित्तमः अत्यन्तं प्रज्ञायाः कर्मणो वा लम्भकः "महि महान् मंहनीयो वा "द्युक्षतमः अत्यन्तं दीप्तः “मदः मदहेतुः ॥


यस्य॑ ते पी॒त्वा वृ॑ष॒भो वृ॑षा॒यते॒ऽस्य पी॒ता स्व॒र्विदः॑ ।

स सु॒प्रके॑तो अ॒भ्य॑क्रमी॒दिषोऽच्छा॒ वाजं॒ नैत॑शः ॥२

यस्य॑ । ते॒ । पी॒त्वा । वृ॒ष॒भः । वृ॒ष॒ऽयते॑ । अ॒स्य । पी॒ता । स्वः॒ऽविदः॑ ।

सः । सु॒ऽप्रके॑तः । अ॒भि । अ॒क्र॒मी॒त् । इषः॑ । अच्छ॑ । वाज॑म् । न । एत॑शः ॥२

यस्य । ते । पीत्वा । वृषभः । वृषऽयते । अस्य । पीता । स्वःऽविदः ।

सः । सुऽप्रकेतः । अभि । अक्रमीत् । इषः । अच्छ । वाजम् । न । एतशः ॥२

“वृषभः कामानां वर्षक इन्द्रः "यस्य यं "ते त्वां "पीत्वा "वृषायते वृषभ इवाचरति । किंच “स्वर्दृशः सर्वस्य दर्शकस्य “अस्य ते तव "पीता पाने सति “सुप्रकेतः सुप्रज्ञः "सः इन्द्रः "इषः शत्रूणामन्नानि "अभ्यक्रमीत् अभिक्रामति । तत्र दृष्टान्तः। “वाजं “नैतशः । एतश इत्यश्वनाम । यथाश्वो वाजं संग्राममभिगच्छति तद्वत् ॥


त्वं ह्यं१॒॑ग दैव्या॒ पव॑मान॒ जनि॑मानि द्यु॒मत्त॑मः ।

अ॒मृ॒त॒त्वाय॑ घो॒षयः॑ ॥३

त्वम् । हि । अ॒ङ्ग । दैव्या॑ । पव॑मान । जनि॑मानि । द्यु॒मत्ऽत॑मः ।

अ॒मृ॒त॒ऽत्वाय॑ । घो॒षयः॑ ॥३

त्वम् । हि । अङ्ग । दैव्या । पवमान । जनिमानि । द्युमत्ऽतमः ।

अमृतऽत्वाय । घोषयः ॥३

हे "पवमान पूयमान सोम “द्युमत्तमः अतिशयेन दीप्तिमान् "त्वं "हि त्वमेव "दैव्या देवसंबन्धीनि "जनिमानि जन्मानि । देवानित्यर्थः । तानभिलक्ष्य “अमृतत्वाय तेषाममरणाय “अङ्ग क्षिप्रं “घोषयः शब्दायसे ॥ ‘ घुषिर् विशब्दने' । ण्यन्तस्य लेटि रूपम् । हियोगादनिघातः ॥


येना॒ नव॑ग्वो द॒ध्यङ्ङ॑पोर्णु॒ते येन॒ विप्रा॑स आपि॒रे ।

दे॒वानां॑ सु॒म्ने अ॒मृत॑स्य॒ चारु॑णो॒ येन॒ श्रवां॑स्यान॒शुः ॥४

येन॑ । नव॑ऽग्वः । द॒ध्यङ् । अ॒प॒ऽऊ॒र्णु॒ते । येन॑ । विप्रा॑सः । आ॒पि॒रे ।

दे॒वाना॑म् । सु॒म्ने । अ॒मृत॑स्य । चारु॑णः । येन॑ । श्रवां॑सि । आ॒न॒शुः ॥४

येन । नवऽग्वः । दध्यङ् । अपऽऊर्णुते । येन । विप्रासः । आपिरे ।

देवानाम् । सुम्ने । अमृतस्य । चारुणः । येन । श्रवांसि । आनशुः ॥४

“नवग्वः नवनीयगतिः यद्वा नवभिर्मासैः सत्रस्यानुष्ठाता “दध्यङ् एतन्नामकोऽङ्गिराः "येन सोमेन पणिभिरपहृतानां गवां द्वारम् "अपोर्णुते अपाच्छादयति विवृतमकार्षीत् । "विप्रासः तन्मुखाः सर्वे मेधाविनोऽङ्गिरसः "येन च सोमेन "आपिरे एतैरपहृता गरे आप्नुवन् । किंच "देवानाम् इन्द्रादीनां “सुम्ने सुखे यज्ञेन संजाते सति “चारुणः कल्याणस्य "अमृतस्य उदकस्य संबन्धीनि "श्रवांसि अन्नानि "येन च सोमेन यजमानाः "आनशुः व्याप्नुवन् अलभन्त । स त्वं देवानाममृतत्वाय शब्दायस इति पूर्वेण समन्वयः ॥


ए॒ष स्य धार॑या सु॒तोऽव्यो॒ वारे॑भिः पवते म॒दिंत॑मः ।

क्रीळ॑न्नू॒र्मिर॒पामि॑व ॥५

ए॒षः । स्यः । धार॑या । सु॒तः । अव्यः॑ । वारे॑भिः । प॒व॒ते॒ । म॒दिन्ऽत॑मः ।

क्रीळ॑न् । ऊ॒र्मिः । अ॒पाम्ऽइ॑व ॥५

एषः । स्यः । धारया । सुतः । अव्यः । वारेभिः । पवते । मदिन्ऽतमः ।

क्रीळन् । ऊर्मिः । अपाम्ऽइव ॥५

”स्यः सः "एषः "सुतः अभिषुतः सोमः "अव्यः अवेः "वारेभिः वालैस्तेभ्यः पवित्रेभ्यः “धारया आत्मीयया "पवते कलशमभिलक्ष्य क्षरति । कीदृशः । “मदिन्तमः मादयितृतमः "अपामिव उदकानाम् “ऊर्मिः संघात इव “क्रीळन् इतस्ततः संक्रीडमानः पवते ॥ ॥ १७ ॥


य उ॒स्रिया॒ अप्या॑ अं॒तरश्म॑नो॒ निर्गा अकृं॑त॒दोज॑सा ।

अ॒भि व्र॒जं त॑त्निषे॒ गव्य॒मश्व्यं॑ व॒र्मीव॑ धृष्ण॒वा रु॑ज ॥६

यः । उ॒स्रियाः॑ । अप्याः॑ । अ॒न्तः । अश्म॑नः । निः । गाः । अकृ॑न्तत् । ओज॑सा ।

अ॒भि । व्र॒जम् । त॒त्नि॒षे॒ । गव्य॑म् । अश्व्य॑म् । व॒र्मीऽइ॑व । धृ॒ष्णो॒ इति॑ । आ । रु॒ज॒ ॥६

यः । उस्रियाः । अप्याः । अन्तः । अश्मनः । निः । गाः । अकृन्तत् । ओजसा ।

अभि । व्रजम् । तत्निषे । गव्यम् । अश्व्यम् । वर्मीऽइव । धृष्णो इति । आ । रुज ॥६

“यः सोमः “उस्रियाः उत्सरणशीलाः "अप्याः । अप इत्यन्तरिक्षनाम । तस्मात् भवे छन्दसि ' इति यत् । अन्तरिक्षस्था अहिप्रभृतिभिरसुरैरपहृत्य निहिताः "गाः अपः "अश्मनः । मेघनामैतत् । मेघात् "अन्तः “ओजसा बलेन “निः अकृन्तत् निरच्छिनत् निरगमयत् । अन्तरिक्षात् वृष्टिमकार्षीदित्यर्थः । स त्वमसुरैरपहृतं "गव्यं गोसंबन्धिनम् "अश्व्यम् अश्वेषु भवं "व्रजं समूहम् “अभि "तत्निषे अभितो व्याप्नोषि ॥ ‘ तनु विस्तारे'। छान्दसे लिटि' तनिपत्योश्छन्दसि ' इत्युपधालोपः । किंच हे “धृष्णो शत्रुधर्षणशील सोम स त्वं "वर्मीव कवचीव शूरः “आ “रुज असुरानाजहि ॥


आ सो॑ता॒ परि॑ षिंच॒ताश्वं॒ न स्तोम॑म॒प्तुरं॑ रज॒स्तुरं॑ ।

व॒न॒क्र॒क्षमु॑द॒प्रुतं॑ ॥७

आ । सो॒त॒ । परि॑ । सि॒ञ्च॒त॒ । अश्व॑म् । न । स्तोम॑म् । अ॒प्ऽतुर॑म् । र॒जः॒ऽतुर॑म् ।

व॒न॒ऽक्र॒क्षम् । उ॒द॒ऽप्रुत॑म् ॥७

आ । सोत । परि । सिञ्चत । अश्वम् । न । स्तोमम् । अप्ऽतुरम् । रजःऽतुरम् ।

वनऽक्रक्षम् । उदऽप्रुतम् ॥७

हे ऋत्विजः “आ “सोत सोममभिषुणुत ॥ ‘ षुञ् अभिषवे' । लोटि छान्दसो विकरणस्य लुक् । ‘ तप्तनप्तनथनाश्च ' इति तस्य तबादेशः ॥ किंच “परि “षिञ्चत परितस्तं वसतीवर्यादिभिः सिञ्चत । कीदृशम् । "अश्वं “न अश्वमिव वेगिनं "स्तोमं स्तोतव्यम् "अप्तुरम् अन्तरिक्षस्थितानामुदकानां प्रेरकं "रजस्तुरं तेजसां च प्रेरकम् । "वनक्रक्षम् उदकानां कर्षकम् । यद्वा । काष्ठेषु पात्रेषु विप्रकीर्णम् । “उदप्रुतम् उदके गच्छन्तं प्लवमानं सोममभिषुणुताभिषिञ्चत च ॥


स॒हस्र॑धारं वृष॒भं प॑यो॒वृधं॑ प्रि॒यं दे॒वाय॒ जन्म॑ने ।

ऋ॒तेन॒ य ऋ॒तजा॑तो विवावृ॒धे राजा॑ दे॒व ऋ॒तं बृ॒हत् ॥८

स॒हस्र॑ऽधारम् । वृ॒ष॒भम् । प॒यः॒ऽवृध॑म् । प्रि॒यम् । दे॒वाय॑ । जन्म॑ने ।

ऋ॒तेन॑ । यः । ऋ॒तऽजा॑तः । वि॒ऽव॒वृ॒धे । राजा॑ । दे॒वः । ऋ॒तम् । बृ॒हत् ॥८

सहस्रऽधारम् । वृषभम् । पयःऽवृधम् । प्रियम् । देवाय । जन्मने ।

ऋतेन । यः । ऋतऽजातः । विऽववृधे । राजा । देवः । ऋतम् । बृहत् ॥८

"सहस्रधारं बहुधारोपेतं "वृषभं कामानां वर्षकं “पयोवृधम् उदकानां वर्धकं "प्रियं प्रीणयितारं तं सोमं “देवाय देवसंबन्धिने "जन्मने देवेभ्यस्तदर्थमभिषुणुत । “ऋतजातः उदकाज्जातः यः “राजा सोमः “ऋतेन वसतीवर्याख्येनोदकेन "विववृधे विशेषेण वर्धते । कीदृशः । “देवः द्योतमानः स्तोतव्यो वा “ऋतं सत्यभूतः सन् "बृहत् महान् तमासुनुतेति पूर्वेण समन्वयः ॥


अ॒भि द्यु॒म्नं बृ॒हद्यश॒ इष॑स्पते दिदी॒हि दे॑व देव॒युः ।

वि कोशं॑ मध्य॒मं यु॑व ॥९

अ॒भि । द्यु॒म्नम् । बृ॒हत् । यशः॑ । इषः॑ । प॒ते॒ । दि॒दी॒हि । दे॒व॒ । दे॒व॒ऽयुः ।

वि । कोश॑म् । म॒ध्य॒मम् । यु॒व॒ ॥९

अभि । द्युम्नम् । बृहत् । यशः । इषः । पते । दिदीहि । देव । देवऽयुः ।

वि । कोशम् । मध्यमम् । युव ॥९

हे “इषस्पते अन्नस्य पते हे “देव स्तोतव्य सोम “देवयुः देवकामस्त्वं “द्युम्नं द्योतमानं “बृहत् प्रभूतं "यशः अन्नमस्मभ्यम् "अभि "दिदीहि आभिमुख्येन प्रकाशय। प्रयच्छेत्यर्थः । आमन्त्रितस्याविद्यमानवत्त्वेन पादादित्वादनिघातः । किंच "मध्यमम् अन्तरिक्षस्थितं "कोशं मेघं “वि “युव वृष्ट्यर्थं विगमय विश्लेषय ॥


आ व॑च्यस्व सुदक्ष च॒म्वोः॑ सु॒तो वि॒शां वह्नि॒र्न वि॒श्पतिः॑ ।

वृ॒ष्टिं दि॒वः प॑वस्व री॒तिम॒पां जिन्वा॒ गवि॑ष्टये॒ धियः॑ ॥१०

आ । व॒च्य॒स्व॒ । सु॒ऽद॒क्ष॒ । च॒म्वोः॑ । सु॒तः । वि॒शाम् । वह्निः॑ । न । वि॒श्पतिः॑ ।

वृ॒ष्टिम् । दि॒वः । प॒व॒स्व॒ । री॒तिम् । अ॒पाम् । जिन्व॑ । गोऽइ॑ष्टये । धियः॑ ॥१०

आ । वच्यस्व । सुऽदक्ष । चम्वोः । सुतः । विशाम् । वह्निः । न । विश्पतिः ।

वृष्टिम् । दिवः । पवस्व । रीतिम् । अपाम् । जिन्व । गोऽइष्टये । धियः ॥१०

हे "सुदक्ष सुवल सोम “चम्वोः अधिषवणफलकयोः "सुतः अभिषुतः विशां प्रजानां "वह्निर्न वोढा "विश्पतिः राजेव सर्वासां प्रजानां वोढा त्वम् “आ “वच्यस्व आगच्छ। कलशमापवस्व । वचेर्गत्यर्थस्य व्यत्ययेन श्यनि रूपम्। किंच त्वं “वृष्टिं वृष्यमाणाम् "अपाम् उदकानां "रीतिं गतिं “दिवः द्युलोकात् "पवस्व कुरु। ततः “गविष्टये गामात्मन इच्छते यजमानाय “धियः कर्माणि “जिन्व आपूरयः ॥ ॥ १८ ॥


ए॒तमु॒ त्यं म॑द॒च्युतं॑ स॒हस्र॑धारं वृष॒भं दिवो॑ दुहुः ।

विश्वा॒ वसू॑नि॒ बिभ्र॑तं ॥११

ए॒तम् । ऊं॒ इति॑ । त्यम् । म॒द॒ऽच्युत॑म् । स॒हस्र॑ऽधारम् । वृ॒ष॒भम् । दिवः॑ । दु॒हुः॒ ।

विश्वा॑ । वसू॑नि । बिभ्र॑तम् ॥११

एतम् । ऊं इति । त्यम् । मदऽच्युतम् । सहस्रऽधारम् । वृषभम् । दिवः । दुहुः ।

विश्वा । वसूनि । बिभ्रतम् ॥११

“दिवः देवान् कामयमाना ऋत्विजः "एतं "त्यं तमिमं सोममेव “दुहुः दुदुहुः दुहन्ति । ‘ ग्रावाणो वत्सा ऋत्विजो दुहन्ति' (तै. सं. ६. २. ११. ४ ) इति तैत्तिरीयकब्राह्मणम् । कीदृशं सोमम् । “मदच्युतं मदस्य प्रेरकं "सहस्रधारं बहुधारं "वृषभं कामानां वर्षकं “विश्वा सर्वाणि “वसूनि धनानि “बिभ्रतं धारयन्तं सोमं दुहन्ति ।


वृषा॒ वि ज॑ज्ञे ज॒नय॒न्नम॑र्त्यः प्र॒तपं॒ज्योति॑षा॒ तमः॑ ।

स सुष्टु॑तः क॒विभि॑र्नि॒र्णिजं॑ दधे त्रि॒धात्व॑स्य॒ दंस॑सा ॥१२

वृषा॑ । वि । ज॒ज्ञे॒ । ज॒नय॑न् । अम॑र्त्यः । प्र॒ऽतप॑न् । ज्योति॑षा । तमः॑ ।

सः । सुऽस्तु॑तः । क॒विऽभिः॑ । निः॒ऽनिज॑म् । द॒धे॒ । त्रि॒ऽधातु॑ । अ॒स्य॒ । दंस॑सा ॥१२

वृषा । वि । जज्ञे । जनयन् । अमर्त्यः । प्रऽतपन् । ज्योतिषा । तमः ।

सः । सुऽस्तुतः । कविऽभिः । निःऽनिजम् । दधे । त्रिऽधातु । अस्य । दंससा ॥१२

“वृषा कामानां वर्षकः "अमर्त्यः मनुष्यधर्मरहितः सोमः "वि “जज्ञे विज्ञायते । किं कुर्वन् । “जनयन् शब्दं ज्योतिर्वोत्पादयन् "ज्योतिषा स्वीयेन “तमः "प्रतपन् प्रज्वलयन् विनाशयन् प्रादुर्भवति । ततः "कविभिः मेधाविभिः स्तोतृभिः "सुष्टुतः "सः सोमः "निर्णिजं निर्णेजनहेतुं मिश्रणं गव्यं "दधे धारयति । अथ "त्रिधातु त्रिषु सवनेषु देवानां पोषकम् । यद्वा । त्रयः सोमधारका द्रोणकलशादयो यस्मिन् । तद्यज्ञार्थं कर्म "अस्य सोमस्य “दंससा कर्मणा ध्रियते खलु ॥


स सु॑न्वे॒ यो वसू॑नां॒ यो रा॒यामा॑ने॒ता य इळा॑नां ।

सोमो॒ यः सु॑क्षिती॒नां ॥१३

सः । सु॒न्वे॒ । यः । वसू॑नाम् । यः । रा॒याम् । आ॒ऽने॒ता । यः । इळा॑नाम् ।

सोमः॑ । यः । सु॒ऽक्षि॒ती॒नाम् ॥१३

सः । सुन्वे । यः । वसूनाम् । यः । रायाम् । आऽनेता । यः । इळानाम् ।

सोमः । यः । सुऽक्षितीनाम् ॥१३

“सः सोमः "सुन्वे अभिसुषुव ऋत्विग्भिः । "यः सोमः “वसूनां धनानाम् "आनेता "यः च "रायाम् । रान्ति प्रयच्छन्ति क्षीरादिकमिति रायो गावः । तेषामानेता "यः च “इळानाम् अन्नानां च "यः च "सोमः "सुक्षितीनां सुनिवासानां शोभनमनुष्ययुक्तानां गृहाणामानेता विद्यते सोऽभिषुतोऽभूदिति ॥


यस्य॑ न॒ इंद्रः॒ पिबा॒द्यस्य॑ म॒रुतो॒ यस्य॑ वार्य॒मणा॒ भगः॑ ।

आ येन॑ मि॒त्रावरु॑णा॒ करा॑मह॒ एंद्र॒मव॑से म॒हे ॥१४

यस्य॑ । नः॒ । इन्द्रः॑ । पिबा॑त् । यस्य॑ । म॒रुतः॑ । यस्य॑ । वा॒ । अ॒र्य॒मणा॑ । भगः॑ ।

आ । येन॑ । मि॒त्रावरु॑णा । करा॑महे । आ । इन्द्र॑म् । अव॑से । म॒हे ॥१४

यस्य । नः । इन्द्रः । पिबात् । यस्य । मरुतः । यस्य । वा । अर्यमणा । भगः ।

आ । येन । मित्रावरुणा । करामहे । आ । इन्द्रम् । अवसे । महे ॥१४

“नः अस्मदीयं "यस्य यं सोमम् "इन्द्रः "पिबात् पिबति । 'पा पाने'। लेट्याडागमः। यं च सोमं “मरुतः पिबन्ति "वा अपि च "अर्यमणा एतन्नामकेन देवेन सह “भगः देवः यं सोमं पिबति "येन सोमेन “मित्रावरुणा मित्रावरुणौ वयम् "आ “करामहे अभिमुखीकुर्महे तथा “महे महते “अवसे रक्षणाय येन च सोमेन “इन्द्रम् अभिमुखीकुर्महे स सोमोऽभिषूयते ॥


इंद्रा॑य सोम॒ पात॑वे॒ नृभि॑र्य॒तः स्वा॑यु॒धो म॒दिंत॑मः ।

पव॑स्व॒ मधु॑मत्तमः ॥१५

इन्द्रा॑य । सो॒म॒ । पात॑वे । नृऽभिः॑ । य॒तः । सु॒ऽआ॒यु॒धः । म॒दिन्ऽत॑मः ।

पव॑स्व । मधु॑मत्ऽतमः ॥१५

इन्द्राय । सोम । पातवे । नृऽभिः । यतः । सुऽआयुधः । मदिन्ऽतमः ।

पवस्व । मधुमत्ऽतमः ॥१५

हे “सोम "मधुमत्तमः अतिशयेन माधुर्योपेतस्त्वम् "इन्द्राय “पातवे पानार्थं "पवस्व कलशे क्षर । कीदृशः । "नृभिः कर्मनेतृभिर्ऋत्विग्भिः "यतः संयतः "स्वायुधः शोभनस्फ्यकपालाद्यायुधोपेतः “मदिन्तमः मादयितृतमः ॥


इंद्र॑स्य॒ हार्दि॑ सोम॒धान॒मा वि॑श समु॒द्रमि॑व॒ सिंध॑वः ।

जुष्टो॑ मि॒त्राय॒ वरु॑णाय वा॒यवे॑ दि॒वो वि॑ष्टं॒भ उ॑त्त॒मः ॥१६

इन्द्र॑स्य । हार्दि॑ । सो॒म॒ऽधान॑म् । आ । वि॒श॒ । स॒मु॒द्रम्ऽइ॑व । सिन्ध॑वः ।

जुष्टः॑ । मि॒त्राय॑ । वरु॑णाय । वा॒यवे॑ । दि॒वः । वि॒ष्ट॒म्भः । उ॒त्ऽत॒मः ॥१६

इन्द्रस्य । हार्दि । सोमऽधानम् । आ । विश । समुद्रम्ऽइव । सिन्धवः ।

जुष्टः । मित्राय । वरुणाय । वायवे । दिवः । विष्टम्भः । उत्ऽतमः ॥१६

हे सोम त्वम् “इन्द्रस्य “हार्दि, हृदयंगमं हृदयभूतं वा "सोमधानम् । सोमो निधीयते अस्मिन्निति सोमधानः कलशः । तम् “आ “विश प्रविश । तत्र दृष्टान्तः । "समुद्रमिव यथा समुद्रं “सिन्धवः नद्यः प्रविशन्ति तद्वत्। कीदृशस्त्वम् । “मित्राय वरुणाय “वायवे एतेभ्यः "जुष्टः पर्याप्तः “दिवः द्युलोकस्य विष्टम्भः विष्टम्भयिता स्थापयिता "उत्तमः सर्वेषामुत्कृष्टतमस्त्वं कलशमाविश ॥ ॥ १९ ॥

मण्डल ९

सूक्तं ९.१

सूक्तं ९.२

सूक्तं ९.३

सूक्तं ९.४

सूक्तं ९.५

सूक्तं ९.६

सूक्तं ९.७

सूक्तं ९.८

सूक्तं ९.९

सूक्तं ९.१०

सूक्तं ९.११

सूक्तं ९.१२

सूक्तं ९.१३

सूक्तं ९.१४

सूक्तं ९.१५

सूक्तं ९.१६

सूक्तं ९.१७

सूक्तं ९.१८

सूक्तं ९.१९

सूक्तं ९.२०

सूक्तं ९.२१

सूक्तं ९.२२

सूक्तं ९.२३

सूक्तं ९.२४

सूक्तं ९.२५

सूक्तं ९.२६

सूक्तं ९.२७

सूक्तं ९.२८

सूक्तं ९.२९

सूक्तं ९.३०

सूक्तं ९.३१

सूक्तं ९.३२

सूक्तं ९.३३

सूक्तं ९.३४

सूक्तं ९.३५

सूक्तं ९.३६

सूक्तं ९.३७

सूक्तं ९.३८

सूक्तं ९.३९

सूक्तं ९.४०

सूक्तं ९.४१

सूक्तं ९.४२

सूक्तं ९.४३

सूक्तं ९.४४

सूक्तं ९.४५

सूक्तं ९.४६

सूक्तं ९.४७

सूक्तं ९.४८

सूक्तं ९.४९

सूक्तं ९.५०

सूक्तं ९.५१

सूक्तं ९.५२

सूक्तं ९.५३

सूक्तं ९.५४

सूक्तं ९.५५

सूक्तं ९.५६

सूक्तं ९.५७

सूक्तं ९.५८

सूक्तं ९.५९

सूक्तं ९.६०

सूक्तं ९.६१

सूक्तं ९.६२

सूक्तं ९.६३

सूक्तं ९.६४

सूक्तं ९.६५

सूक्तं ९.६६

सूक्तं ९.६७

सूक्तं ९.६८

सूक्तं ९.६९

सूक्तं ९.७०

सूक्तं ९.७१

सूक्तं ९.७२

सूक्तं ९.७३

सूक्तं ९.७४

सूक्तं ९.७५

सूक्तं ९.७६

सूक्तं ९.७७

सूक्तं ९.७८

सूक्तं ९.७९

सूक्तं ९.८०

सूक्तं ९.८१

सूक्तं ९.८२

सूक्तं ९.८३

सूक्तं ९.८४

सूक्तं ९.८५

सूक्तं ९.८६

सूक्तं ९.८७

सूक्तं ९.८८

सूक्तं ९.८९

सूक्तं ९.९०

सूक्तं ९.९१

सूक्तं ९.९२

सूक्तं ९.९३

सूक्तं ९.९४

सूक्तं ९.९५

सूक्तं ९.९६

सूक्तं ९.९७

सूक्तं ९.९८

सूक्तं ९.९९

सूक्तं ९.१००

सूक्तं ९.१०१

सूक्तं ९.१०२

सूक्तं ९.१०३

सूक्तं ९.१०४

सूक्तं ९.१०५

सूक्तं ९.१०६

सूक्तं ९.१०७

सूक्तं ९.१०८

सूक्तं ९.१०९

सूक्तं ९.११०

सूक्तं ९.१११

सूक्तं ९.११२

सूक्तं ९.११३

सूक्तं ९.११४

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_९.१०८&oldid=208708" इत्यस्माद् पुनः प्राप्तिः