ऋग्वेदः सूक्तं ९.१०९

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं ९.१०८ ऋग्वेदः - मण्डल ९
सूक्तं ९.१०९
अग्नयो धिष्ण्या ऐश्वरयः।
सूक्तं ९.११० →
दे. पवमानः सोमः। द्विपदा विराट्।


परि प्र धन्वेन्द्राय सोम स्वादुर्मित्राय पूष्णे भगाय ॥१॥
इन्द्रस्ते सोम सुतस्य पेयाः क्रत्वे दक्षाय विश्वे च देवाः ॥२॥
एवामृताय महे क्षयाय स शुक्रो अर्ष दिव्यः पीयूषः ॥३॥
पवस्व सोम महान्समुद्रः पिता देवानां विश्वाभि धाम ॥४॥
शुक्रः पवस्व देवेभ्यः सोम दिवे पृथिव्यै शं च प्रजायै ॥५॥
दिवो धर्तासि शुक्रः पीयूषः सत्ये विधर्मन्वाजी पवस्व ॥६॥
पवस्व सोम द्युम्नी सुधारो महामवीनामनु पूर्व्यः ॥७॥
नृभिर्येमानो जज्ञानः पूतः क्षरद्विश्वानि मन्द्रः स्वर्वित् ॥८॥
इन्दुः पुनानः प्रजामुराणः करद्विश्वानि द्रविणानि नः ॥९॥
पवस्व सोम क्रत्वे दक्षायाश्वो न निक्तो वाजी धनाय ॥१०॥
तं ते सोतारो रसं मदाय पुनन्ति सोमं महे द्युम्नाय ॥११॥
शिशुं जज्ञानं हरिं मृजन्ति पवित्रे सोमं देवेभ्य इन्दुम् ॥१२॥
इन्दुः पविष्ट चारुर्मदायापामुपस्थे कविर्भगाय ॥१३॥
बिभर्ति चार्विन्द्रस्य नाम येन विश्वानि वृत्रा जघान ॥१४॥
पिबन्त्यस्य विश्वे देवासो गोभिः श्रीतस्य नृभिः सुतस्य ॥१५॥
प्र सुवानो अक्षाः सहस्रधारस्तिरः पवित्रं वि वारमव्यम् ॥१६॥
स वाज्यक्षाः सहस्ररेता अद्भिर्मृजानो गोभिः श्रीणानः ॥१७॥
प्र सोम याहीन्द्रस्य कुक्षा नृभिर्येमानो अद्रिभिः सुतः ॥१८॥
असर्जि वाजी तिरः पवित्रमिन्द्राय सोमः सहस्रधारः ॥१९॥
अञ्जन्त्येनं मध्वो रसेनेन्द्राय वृष्ण इन्दुं मदाय ॥२०॥
देवेभ्यस्त्वा वृथा पाजसेऽपो वसानं हरिं मृजन्ति ॥२१॥
इन्दुरिन्द्राय तोशते नि तोशते श्रीणन्नुग्रो रिणन्नपः ॥२२॥


सायणभाष्यम्

‘परि प्र' इति द्वाविंशत्यृचे द्वैपदं षष्ठं सूक्तम् । यज्ञे सदस्यवस्थितहोत्रीयादिधिष्ण्योपेता अग्नयो नामेश्वरपुत्रा ऋषयः । विंशतिका द्विपदा विराजः । पवमानः सोमो देवता । तथा चानुक्रान्तं -- परि प्र द्व्यधिकाग्नयो धिष्ण्या ऐश्वर द्वैपदम्' इति । गतो विनियोगः ॥


परि॒ प्र ध॒न्वेंद्रा॑य सोम स्वा॒दुर्मि॒त्राय॑ पू॒ष्णे भगा॑य ॥१

परि॑ । प्र । ध॒न्व॒ । इन्द्रा॑य । सो॒म॒ । स्वा॒दुः । मि॒त्राय॑ । पू॒ष्णे । भगा॑य ॥१

परि । प्र । धन्व । इन्द्राय । सोम । स्वादुः । मित्राय । पूष्णे । भगाय ॥१

हे "सोम "स्वादुः स्वादुरसस्त्वम् "इन्द्राय “मित्राय “पूष्णे “भगाय एतेभ्यो देवेभ्यः “परि “प्र “धन्व परितः पात्रेषु प्रक्षर ॥


इंद्र॑स्ते सोम सु॒तस्य॑ पेयाः॒ क्रत्वे॒ दक्षा॑य॒ विश्वे॑ च दे॒वाः ॥२

इन्द्रः॑ । ते॒ । सो॒म॒ । सु॒तस्य॑ । पे॒याः॒ । क्रत्वे॑ । दक्षा॑य । विश्वे॑ । च॒ । दे॒वाः ॥२

इन्द्रः । ते । सोम । सुतस्य । पेयाः । क्रत्वे । दक्षाय । विश्वे । च । देवाः ॥२

हे “सोम "सुतस्य अभिषुतस्य “ते तव स्वं भागम् "इन्द्रः "पेयाः पेयात् पिबतु ॥ पातेराशीर्लिंङि रूपम् । पुरुषव्यत्ययः ॥ किमर्थम् । "क्रत्वे क्रतवे प्रज्ञानाय “दक्षाय बलाय च । किंच अमी “विश्वे सर्वे देवाः “च त्वदीयमंशं पिबन्तु ॥


ए॒वामृता॑य म॒हे क्षया॑य॒ स शु॒क्रो अ॑र्ष दि॒व्यः पी॒यूषः॑ ॥३

ए॒व । अ॒मृता॑य । म॒हे । क्षया॑य । सः । शु॒क्रः । अ॒र्ष॒ । दि॒व्यः । पी॒यूषः॑ ॥३

एव । अमृताय । महे । क्षयाय । सः । शुक्रः । अर्ष । दिव्यः । पीयूषः ॥३

हे सोम “शुक्रः दीप्तः “दिव्यः दिवि भवः "पीयूषः देवैः पातव्यः "सः त्वम् "अमृताय अमरणाय "महे महते "क्षयाय निवासाय च “एव “अर्ष एवं पवस्व क्षर ॥


पव॑स्व सोम म॒हान्त्स॑मु॒द्रः पि॒ता दे॒वानां॒ विश्वा॒भि धाम॑ ॥४

पव॑स्व । सो॒म॒ । म॒हान् । स॒मु॒द्रः । पि॒ता । दे॒वाना॑म् । विश्वा॑ । अ॒भि । धाम॑ ॥४

पवस्व । सोम । महान् । समुद्रः । पिता । देवानाम् । विश्वा । अभि । धाम ॥४

हे “सोम “महान् देवेभ्यो दीयमानत्वेन महत्त्वयुक्तः "समुद्रः समुन्दनः । यस्मात् समुद्द्रवन्ति रसास्तादृशः। "पिता सर्वेषां पालयिता त्वं "देवानां "विश्वा विश्वानि सर्वाणि “धाम धामानि शरीराण्यभिलक्ष्य “पवस्व ।।


शु॒क्रः प॑वस्व दे॒वेभ्यः॑ सोम दि॒वे पृ॑थि॒व्यै शं च॑ प्र॒जायै॑ ॥५

शु॒क्रः । प॒व॒स्व॒ । दे॒वेभ्यः॑ । सो॒म॒ । दि॒वे । पृ॒थि॒व्यै । शम् । च॒ । प्र॒ऽजायै॑ ॥५

शुक्रः । पवस्व । देवेभ्यः । सोम । दिवे । पृथिव्यै । शम् । च । प्रऽजायै ॥५

हे सोम “शुक्रः दीप्तस्त्वं देवेभ्यः देवार्थं पवस्व क्षर । किंच “दिवे “पृथिव्यै च द्यावापृथिवीभ्यां च ततः “प्रजायै प्रजाभ्यश्च “शं सुखं “च कुरु ।।


दि॒वो ध॒र्तासि॑ शु॒क्रः पी॒यूषः॑ स॒त्ये विध॑र्मन्वा॒जी प॑वस्व ॥६

दि॒वः । ध॒र्ता । अ॒सि॒ । शु॒क्रः । पी॒यूषः॑ । स॒त्ये । विऽध॑र्मन् । वा॒जी । प॒व॒स्व॒ ॥६

दिवः । धर्ता । असि । शुक्रः । पीयूषः । सत्ये । विऽधर्मन् । वाजी । पवस्व ॥६

हे सोम “शुक्रः दीप्तः “पीयूषः पातव्यस्त्वं “दिवः द्युलोकस्य “धर्ता धारकः “असि । “वाजी बलवान् स त्वं “सत्ये सत्यभूते “विधर्मन् विधेर्मणि । विविधकर्माण ऋत्विजो यस्मिन् । यद्वा । विविधसोमादिहविषा धारके । अस्मिन् यज्ञे “पवस्व क्षर ॥


पव॑स्व सोम द्यु॒म्नी सु॑धा॒रो म॒हामवी॑ना॒मनु॑ पू॒र्व्यः ॥७

पव॑स्व । सो॒म॒ । द्यु॒म्नी । सु॒ऽधा॒रः । म॒हाम् । अवी॑नाम् । अनु॑ । पू॒र्व्यः ॥७

पवस्व । सोम । द्युम्नी । सुऽधारः । महाम् । अवीनाम् । अनु । पूर्व्यः ॥७

हे सोम “द्युम्नी । 'द्युम्नं द्योततेर्यशो वान्नं वा ' इति यास्कः । अन्नवान् यशस्वी वा “सुधारः शोभनधारायुक्तः पूर्व्यः पुरातनस्त्वं “महां महताम् “अवीनां रोम्णां रोमभ्यः सकाशादनुक्रमेण “पवस्व क्षर ।।


नृभि॑र्येमा॒नो ज॑ज्ञा॒नः पू॒तः क्षर॒द्विश्वा॑नि मं॒द्रः स्व॒र्वित् ॥८

नृऽभिः॑ । ये॒मा॒नः । ज॒ज्ञा॒नः । पू॒तः । क्षर॑त् । विश्वा॑नि । म॒न्द्रः । स्वः॒ऽवित् ॥८

नृऽभिः । येमानः । जज्ञानः । पूतः । क्षरत् । विश्वानि । मन्द्रः । स्वःऽवित् ॥८

“नृभिः कर्मनेतृभिर्ऋत्विग्भिः “येमानः नियम्यमानः “जज्ञानः जायमानः “पूतः पवित्रेण शोधितः “मन्द्रः मोदमानः “स्वर्वित सर्वज्ञः एतादृशः सोमः “विश्वानि सर्वाणि धनान्यस्मभ्यं “क्षरत् क्षरतु ददातु ॥


इंदुः॑ पुना॒नः प्र॒जामु॑रा॒णः कर॒द्विश्वा॑नि॒ द्रवि॑णानि नः ॥९

इन्दुः॑ । पु॒ना॒नः । प्र॒ऽजाम् । उ॒रा॒णः । कर॑त् । विश्वा॑नि । द्रवि॑णानि । नः॒ ॥९

इन्दुः । पुनानः । प्रऽजाम् । उराणः । करत् । विश्वानि । द्रविणानि । नः ॥९

“पुनानः पूयमानः “उराणः । ' उराण उरु कुर्वाणः ' ( निरु. ६. १७) इति यास्कः । देवान् बहु कुर्वाणः “इन्दुः सोमः “नः अस्माकं “प्रजाम् अपत्यादिका “विश्वानि व्याप्तानि द्रविणानि धनानि च “करत् करोतु । करोतेर्लङि रूपम् ॥


पव॑स्व सोम॒ क्रत्वे॒ दक्षा॒याश्वो॒ न नि॒क्तो वा॒जी धना॑य ॥१०

पव॑स्व । सो॒म॒ । क्रत्वे॑ । दक्षा॑य । अश्वः॑ । न । नि॒क्तः । वा॒जी । धना॑य ॥१०

पवस्व । सोम । क्रत्वे । दक्षाय । अश्वः । न । निक्तः । वाजी । धनाय ॥१०

हे “सोम “अश्वो “न अश्व इव “निक्तः वसतीवरीभिरद्भिर्निक्त:२ “वाजी वेगवांस्त्वं “क्रत्वे क्रतवे प्रज्ञानाय “दक्षाय बलाय “धनाय धनार्थं च “पवस्व क्षर ॥ ॥ २० ॥


तं ते॑ सो॒तारो॒ रसं॒ मदा॑य पु॒नंति॒ सोमं॑ म॒हे द्यु॒म्नाय॑ ॥११

तम् । ते॒ । सो॒तारः॑ । रस॑म् । मदा॑य । पु॒नन्ति॑ । सोम॑म् । म॒हे । द्यु॒म्नाय॑ ॥११

तम् । ते । सोतारः । रसम् । मदाय । पुनन्ति । सोमम् । महे । द्युम्नाय ॥११

सोतारः अभिषोतार ऋत्विजो हे सोम “ते तव स्वभूतं “रसं “मदाय मदार्थं “पुनन्ति । तदेवोच्यते । "महे महते “द्युम्नाय । “द्युम्नं द्योततेर्यशो वान्नं वा । अन्नाय यशसे वा सोमं पुनन्ति शोधयन्ति । यद्वा । सोममभिषूयमाणं तं रसं पुनन्तीत्येकवाक्यतया योजनीयम् ॥


शिशुं॑ जज्ञा॒नं हरिं॑ मृजंति प॒वित्रे॒ सोमं॑ दे॒वेभ्य॒ इंदुं॑ ॥१२

शिशु॑म् । ज॒ज्ञा॒नम् । हरि॑म् । मृ॒ज॒न्ति॒ । प॒वित्रे॑ । सोम॑म् । दे॒वेभ्यः॑ । इन्दु॑म् ॥१२

शिशुम् । जज्ञानम् । हरिम् । मृजन्ति । पवित्रे । सोमम् । देवेभ्यः । इन्दुम् ॥१२

"शिशुम् अपां पुत्रभूतं "जज्ञानं जायमानं “हरिं हरितवर्णम् “इन्दुं दीप्तं “सोमं “देवेभ्यः देवार्थं “पवित्रे “मृजन्ति ऋत्विजो मार्जयन्ति ।


इंदुः॑ पविष्ट॒ चारु॒र्मदा॑या॒पामु॒पस्थे॑ क॒विर्भगा॑य ॥१३

इन्दुः॑ । प॒वि॒ष्ट॒ । चारुः॑ । मदा॑य । अ॒पाम् । उ॒पऽस्थे॑ । क॒विः । भगा॑य ॥१३

इन्दुः । पविष्ट । चारुः । मदाय । अपाम् । उपऽस्थे । कविः । भगाय ॥१३

“चारुः कल्याणरूपः “कविः क्रान्तप्रज्ञः “इन्दुः सोमः "अपाम् उदकानाम् “उपस्थे उपस्थानेऽन्तरिक्षे पवित्रे वा "मदाय मदार्थं "भगाय भजनीयधनार्थं च “पविष्ट पवते ॥


बिभ॑र्ति॒ चार्विंद्र॑स्य॒ नाम॒ येन॒ विश्वा॑नि वृ॒त्रा ज॒घान॑ ॥१४

बिभ॑र्ति । चारु॑ । इन्द्र॑स्य । नाम॑ । येन॑ । विश्वा॑नि । वृ॒त्रा । ज॒घान॑ ॥१४

बिभर्ति । चारु । इन्द्रस्य । नाम । येन । विश्वानि । वृत्रा । जघान ॥१४

स सोमः "चारु कल्याणम् “इन्द्रस्य “नाम शरीरं “बिभर्ति धारयति पोषयति । “येन शरीरेणेन्द्रः “विश्वानि सर्वाणि वृत्राणि पापरूपाणि रक्षांसि जघान हतवान् ।


पिबं॑त्यस्य॒ विश्वे॑ दे॒वासो॒ गोभिः॑ श्री॒तस्य॒ नृभिः॑ सु॒तस्य॑ ॥१५

पिब॑न्ति । अ॒स्य॒ । विश्वे॑ । दे॒वासः॑ । गोभिः॑ । श्री॒तस्य॑ । नृऽभिः॑ । सु॒तस्य॑ ॥१५

पिबन्ति । अस्य । विश्वे । देवासः । गोभिः । श्रीतस्य । नृऽभिः । सुतस्य ॥१५

“विश्वे सर्वे "देवासः देवाः “गोभिः गोविकारैः "श्रीतस्य मिश्रितं "नृभिः कर्मनेतृभिर्ऋत्विग्भिः “सुतस्य अभिषुतम् “अस्य अमुं सोमं “पिबन्ति । द्वितीयार्थे षष्ठ्यः ॥


प्र सु॑वा॒नो अ॑क्षाः स॒हस्र॑धारस्ति॒रः प॒वित्रं॒ वि वार॒मव्यं॑ ॥१६

प्र । सु॒वा॒नः । अ॒क्षा॒रिति॑ । स॒हस्र॑ऽधारः । ति॒रः । प॒वित्र॑म् । वि । वार॑म् । अव्य॑म् ॥१६

प्र । सुवानः । अक्षारिति । सहस्रऽधारः । तिरः । पवित्रम् । वि । वारम् । अव्यम् ॥१६

“सुवानः अभिषूयमाणः अत एव “सहस्रधारः बहुधारायुक्तः सोमः “अव्यम् अविभवं “वारं वालं "पवित्रं “तिरः व्यवधायकं कुर्वन् “प्र “अक्षाः विविधं प्रक्षरति । क्षरतेर्लुङि रूपम् ॥


स वा॒ज्य॑क्षाः स॒हस्र॑रेता अ॒द्भिर्मृ॑जा॒नो गोभिः॑ श्रीणा॒नः ॥१७

सः । वा॒जी । अ॒क्षा॒रिति॑ । स॒हस्र॑ऽरेताः । अ॒त्ऽभिः । मृ॒जा॒नः । गोभिः॑ । श्री॒णा॒नः ॥१७

सः । वाजी । अक्षारिति । सहस्रऽरेताः । अत्ऽभिः । मृजानः । गोभिः । श्रीणानः ॥१७

“वाजी वेगवान् बलवान् वा “सः सोमः "अक्षाः क्षरति । कीदृशः । “सहस्ररेताः बहुरेतस्को बहूदकः “अद्भिः वसतीवरीभिः "मृजानः मृज्यमानः “गोभिः गोविकारैः क्षीरादिभिः “श्रीणानः श्रीयमाणः ॥


प्र सो॑म या॒हींद्र॑स्य कु॒क्षा नृभि॑र्येमा॒नो अद्रि॑भिः सु॒तः ॥१८

प्र । सो॒म॒ । या॒हि॒ । इन्द्र॑स्य । कु॒क्षा । नृऽभिः॑ । ये॒मा॒नः । अद्रि॑ऽभिः । सु॒तः ॥१८

प्र । सोम । याहि । इन्द्रस्य । कुक्षा । नृऽभिः । येमानः । अद्रिऽभिः । सुतः ॥१८

हे “सोम “नृभिः ऋत्विग्भिः "येमानः नियम्यमानः “अद्रिभिः ग्रावभिः “सुतः अभिषुतः त्वम् “इन्द्रस्य “कुक्षा ॥ सप्तम्या डादेशः ॥ कुक्षावुदरभूते कलशे वा “प्र “याहि प्रकर्षेण गच्छ ॥


अस॑र्जि वा॒जी ति॒रः प॒वित्र॒मिंद्रा॑य॒ सोमः॑ स॒हस्र॑धारः ॥१९

अस॑र्जि । वा॒जी । ति॒रः । प॒वित्र॑म् । इन्द्रा॑य । सोमः॑ । स॒हस्र॑ऽधारः ॥१९

असर्जि । वाजी । तिरः । पवित्रम् । इन्द्राय । सोमः । सहस्रऽधारः ॥१९

“वाजी बलवान् वेगवान् वा “पवित्रं तिरस्कुर्वन् “सहस्रधारः बहुधारः “सोमः “इन्द्राय इन्द्रार्थम् "असर्जि सृज्यते ॥


अं॒जंत्ये॑नं॒ मध्वो॒ रसे॒नेंद्रा॑य॒ वृष्ण॒ इंदुं॒ मदा॑य ॥२०

अ॒ञ्जन्ति॑ । ए॒न॒म् । मध्वः॑ । रसे॑न । इन्द्रा॑य । वृष्णे॑ । इन्दु॑म् । मदा॑य ॥२०

अञ्जन्ति । एनम् । मध्वः । रसेन । इन्द्राय । वृष्णे । इन्दुम् । मदाय ॥२०

"वृष्णे कामानां वर्षित्रे “इन्द्राय इन्द्रस्य “मदाय मदार्थं “मध्वः मधुनः “रसेन गव्येन “एनम् “इन्दुं सोममृत्विजः “अञ्जन्ति संयोजयन्ति ॥


दे॒वेभ्य॑स्त्वा॒ वृथा॒ पाज॑से॒ऽपो वसा॑नं॒ हरिं॑ मृजंति ॥२१

दे॒वेभ्यः॑ । त्वा॒ । वृथा॑ । पाज॑से । अ॒पः । वसा॑नम् । हरि॑म् । मृ॒ज॒न्ति॒ ॥२१

देवेभ्यः । त्वा । वृथा । पाजसे । अपः । वसानम् । हरिम् । मृजन्ति ॥२१

हे सोम “अपः उदकानि “वसानम् आच्छादयन्तं “हरिं हरितवर्णं “त्वा त्वां “वृथा अनायासेन ऋत्विजः “मृजन्ति शोधयन्ति । किमर्थम् । “देवेभ्यः देवानां पानार्थं “पाजसे तेषां बलार्थम् ॥


इंदु॒रिंद्रा॑य तोशते॒ नि तो॑शते श्री॒णन्नु॒ग्रो रि॒णन्न॒पः ॥२२

इन्दुः॑ । इन्द्रा॑य । तो॒श॒ते॒ । नि । तो॒श॒ते॒ । श्री॒णन् । उ॒ग्रः । रि॒णन् । अ॒पः ॥२२

इन्दुः । इन्द्राय । तोशते । नि । तोशते । श्रीणन् । उग्रः । रिणन् । अपः ॥२२

“इन्दुः सोमः “इन्द्राय इन्द्रार्थं “तोशते हन्यते अभिषूयते । “नि “तोशते नितरामभिषूयते । तोशतिर्वधकर्मा । कीदृशः । “श्रीणन् गव्यैः क्षीरादिभिः श्रीयमाणः तानि मिश्रयन् वा “उग्रः उद्गूर्णबलः “अपः उदकानि वसतीवरीः “रिणन् प्रेरयन् सोमोऽभिषूयते ॥ ॥ २१ ॥

मण्डल ९

सूक्तं ९.१

सूक्तं ९.२

सूक्तं ९.३

सूक्तं ९.४

सूक्तं ९.५

सूक्तं ९.६

सूक्तं ९.७

सूक्तं ९.८

सूक्तं ९.९

सूक्तं ९.१०

सूक्तं ९.११

सूक्तं ९.१२

सूक्तं ९.१३

सूक्तं ९.१४

सूक्तं ९.१५

सूक्तं ९.१६

सूक्तं ९.१७

सूक्तं ९.१८

सूक्तं ९.१९

सूक्तं ९.२०

सूक्तं ९.२१

सूक्तं ९.२२

सूक्तं ९.२३

सूक्तं ९.२४

सूक्तं ९.२५

सूक्तं ९.२६

सूक्तं ९.२७

सूक्तं ९.२८

सूक्तं ९.२९

सूक्तं ९.३०

सूक्तं ९.३१

सूक्तं ९.३२

सूक्तं ९.३३

सूक्तं ९.३४

सूक्तं ९.३५

सूक्तं ९.३६

सूक्तं ९.३७

सूक्तं ९.३८

सूक्तं ९.३९

सूक्तं ९.४०

सूक्तं ९.४१

सूक्तं ९.४२

सूक्तं ९.४३

सूक्तं ९.४४

सूक्तं ९.४५

सूक्तं ९.४६

सूक्तं ९.४७

सूक्तं ९.४८

सूक्तं ९.४९

सूक्तं ९.५०

सूक्तं ९.५१

सूक्तं ९.५२

सूक्तं ९.५३

सूक्तं ९.५४

सूक्तं ९.५५

सूक्तं ९.५६

सूक्तं ९.५७

सूक्तं ९.५८

सूक्तं ९.५९

सूक्तं ९.६०

सूक्तं ९.६१

सूक्तं ९.६२

सूक्तं ९.६३

सूक्तं ९.६४

सूक्तं ९.६५

सूक्तं ९.६६

सूक्तं ९.६७

सूक्तं ९.६८

सूक्तं ९.६९

सूक्तं ९.७०

सूक्तं ९.७१

सूक्तं ९.७२

सूक्तं ९.७३

सूक्तं ९.७४

सूक्तं ९.७५

सूक्तं ९.७६

सूक्तं ९.७७

सूक्तं ९.७८

सूक्तं ९.७९

सूक्तं ९.८०

सूक्तं ९.८१

सूक्तं ९.८२

सूक्तं ९.८३

सूक्तं ९.८४

सूक्तं ९.८५

सूक्तं ९.८६

सूक्तं ९.८७

सूक्तं ९.८८

सूक्तं ९.८९

सूक्तं ९.९०

सूक्तं ९.९१

सूक्तं ९.९२

सूक्तं ९.९३

सूक्तं ९.९४

सूक्तं ९.९५

सूक्तं ९.९६

सूक्तं ९.९७

सूक्तं ९.९८

सूक्तं ९.९९

सूक्तं ९.१००

सूक्तं ९.१०१

सूक्तं ९.१०२

सूक्तं ९.१०३

सूक्तं ९.१०४

सूक्तं ९.१०५

सूक्तं ९.१०६

सूक्तं ९.१०७

सूक्तं ९.१०८

सूक्तं ९.१०९

सूक्तं ९.११०

सूक्तं ९.१११

सूक्तं ९.११२

सूक्तं ९.११३

सूक्तं ९.११४

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_९.१०९&oldid=208709" इत्यस्माद् पुनः प्राप्तिः