ऋग्वेदः सूक्तं ९.११

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं ९.१० ऋग्वेदः - मण्डल ९
सूक्तं ९.११
कश्यपोऽसितो देवलो वा।
सूक्तं ९.१२ →
दे. पवमानः सोमः। गायत्री।


उपास्मै गायता नरः पवमानायेन्दवे ।
अभि देवाँ इयक्षते ॥१॥
अभि ते मधुना पयोऽथर्वाणो अशिश्रयुः ।
देवं देवाय देवयु ॥२॥
स नः पवस्व शं गवे शं जनाय शमर्वते ।
शं राजन्नोषधीभ्यः ॥३॥
बभ्रवे नु स्वतवसेऽरुणाय दिविस्पृशे ।
सोमाय गाथमर्चत ॥४॥
हस्तच्युतेभिरद्रिभिः सुतं सोमं पुनीतन ।
मधावा धावता मधु ॥५॥
नमसेदुप सीदत दध्नेदभि श्रीणीतन ।
इन्दुमिन्द्रे दधातन ॥६॥
अमित्रहा विचर्षणिः पवस्व सोम शं गवे ।
देवेभ्यो अनुकामकृत् ॥७॥
इन्द्राय सोम पातवे मदाय परि षिच्यसे ।
मनश्चिन्मनसस्पतिः ॥८॥
पवमान सुवीर्यं रयिं सोम रिरीहि नः ।
इन्दविन्द्रेण नो युजा ॥९॥


सायणभाष्यम्

‘ उपास्मै ' इति नवर्चमेकादशं सूक्तम् । ऋष्याद्याः पूर्ववत् । उपास्मै इत्यनुक्रान्तम् । उक्तः सूक्तविनियोगः । अभिष्टवे घर्मदुघावत्सेऽपनीयमाने 'नमसेदुप' इत्येषा । सूत्रितं च-’ नमसेदुप सीदत संजानाना उप सीदन्नभिज्ञु' (आश्व. श्रौ. ४.७ ) इति ॥


उपा॑स्मै गायता नरः॒ पव॑माना॒येंद॑वे ।

अ॒भि दे॒वाँ इय॑क्षते ॥१

उप॑ । अ॒स्मै॒ । गा॒य॒त॒ । न॒रः॒ । पव॑मानाय । इन्द॑वे ।

अ॒भि । दे॒वान् । इय॑क्षते ॥१

उप । अस्मै । गायत । नरः । पवमानाय । इन्दवे ।

अभि । देवान् । इयक्षते ॥१

हे “नरः नेतार ऋत्विजः यज्ञस्य "देवान् इन्द्रादीन् “अभि “इयक्षते आभिमुख्येन यष्टुमिच्छते “पवमानाय क्षरते “अस्मै अभिषूयमाणाय “इन्दवे सोमाय “उप “गायत उपगानं कुरुत ॥


अ॒भि ते॒ मधु॑ना॒ पयोऽथ॑र्वाणो अशिश्रयुः ।

दे॒वं दे॒वाय॑ देव॒यु ॥२

अ॒भि । ते॒ । मधु॑ना । पयः॑ । अथ॑र्वाणः । अ॒शि॒श्र॒युः॒ ।

दे॒वम् । दे॒वाय॑ । दे॒व॒ऽयु ॥२

अभि । ते । मधुना । पयः । अथर्वाणः । अशिश्रयुः ।

देवम् । देवाय । देवऽयु ॥२

हे सोम “ते तव “देवं देवनशीलं “देवयु देवयुं देवकामं रसं “देवाय देवनशीलायेन्द्राय “मधुना “पयः गव्येन पयसा “अथर्वाणः ऋषयः “अभि "अशिश्रयुः अभ्यश्रीणन् । समस्कुर्वन्नित्यर्थः ॥


स नः॑ पवस्व॒ शं गवे॒ शं जना॑य॒ शमर्व॑ते ।

शं रा॑ज॒न्नोष॑धीभ्यः ॥३

सः । नः॒ । प॒व॒स्व॒ । शम् । गवे॑ । शम् । जना॑य । शम् । अर्व॑ते ।

शम् । रा॒ज॒न् । ओष॑धीभ्यः ॥३

सः । नः । पवस्व । शम् । गवे । शम् । जनाय । शम् । अर्वते ।

शम् । राजन् । ओषधीभ्यः ॥३

हे “राजन् दीप्यमान सोम “सः प्रसिद्धस्त्वं “नः अस्माकं “गवे “शं सुखं “पवस्व क्षर । “जनाय पुत्रादये च “शं पवस्व । “अर्वते अश्वाय च “शं पवस्व । “ओषधीभ्यः च “शं पवस्व ॥


ब॒भ्रवे॒ नु स्वत॑वसेऽरु॒णाय॑ दिवि॒स्पृशे॑ ।

सोमा॑य गा॒थम॑र्चत ॥४

ब॒भ्रवे॑ । नु । स्वऽत॑वसे । अ॒रु॒णाय॑ । दि॒वि॒ऽस्पृशे॑ ।

सोमा॑य । गा॒थम् । अ॒र्च॒त॒ ॥४

बभ्रवे । नु । स्वऽतवसे । अरुणाय । दिविऽस्पृशे ।

सोमाय । गाथम् । अर्चत ॥४

हे स्तोतारः “बभ्रवे बभ्रुवर्णाय “स्वतवसे स्वबलाय “अरुणाय कदाचिदरुणवर्णाय “दिविस्पृशे दिवं स्पृशते “सोमाय “नु क्षिप्रं “गाथं स्तुतिरूपां वाचम् “अर्चत । उच्चारयतेत्यर्थः ॥


हस्त॑च्युतेभि॒रद्रि॑भिः सु॒तं सोमं॑ पुनीतन ।

मधा॒वा धा॑वता॒ मधु॑ ॥५

हस्त॑ऽच्युतेभिः । अद्रि॑ऽभिः । सु॒तम् । सोम॑म् । पु॒नी॒त॒न॒ ।

मधौ॑ । आ । धा॒व॒त॒ । मधु॑ ॥५

हस्तऽच्युतेभिः । अद्रिऽभिः । सुतम् । सोमम् । पुनीतन ।

मधौ । आ । धावत । मधु ॥५

हे ऋत्विजः "हस्तच्युतेभिः हस्तप्रच्युतैः "अद्रिभिः अभिषवग्रावभिः ”सुतम् अभिषुतं “सोमं “पुनीतन पवित्रे पावयत । अपि च “मधौ मदकरे सोमे “मधु गव्यं पयः “आ “धावत प्रक्षिपत ॥ ॥३६॥


नम॒सेदुप॑ सीदत द॒ध्नेद॒भि श्री॑णीतन ।

इंदु॒मिंद्रे॑ दधातन ॥६

नम॑सा । इत् । उप॑ । सी॒द॒त॒ । द॒ध्ना । इत् । अ॒भि । श्री॒णी॒त॒न॒ ।

इन्दु॑म् । इन्द्रे॑ । द॒धा॒त॒न॒ ॥६

नमसा । इत् । उप । सीदत । दध्ना । इत् । अभि । श्रीणीतन ।

इन्दुम् । इन्द्रे । दधातन ॥६

हे ऋत्विजः “नमसेत् नमस्कारेणैव “उप “सीदत सोममुपगच्छत । “दध्नेत् दध्नैव “अभि “श्रीणीतन अभिश्रीणीत च । “इन्द्रे “इन्दुं सोमं “दधातन धत्त च ।


अ॒मि॒त्र॒हा विच॑र्षणिः॒ पव॑स्व सोम॒ शं गवे॑ ।

दे॒वेभ्यो॑ अनुकाम॒कृत् ॥७

अ॒मि॒त्र॒ऽहा । विऽच॑र्षणिः । पव॑स्व । सो॒म॒ । शम् । गवे॑ ।

दे॒वेभ्यः॑ । अ॒नु॒का॒म॒ऽकृत् ॥७

अमित्रऽहा । विऽचर्षणिः । पवस्व । सोम । शम् । गवे ।

देवेभ्यः । अनुकामऽकृत् ॥७

हे सोम “अमित्रहा अमित्राणां हन्ता “विचर्षणिः विद्रष्टा “देवेभ्यः “अनुकामकृत् अभीष्टस्य कर्ता त्वं “गवे अस्माकं गवे “शं सुखं “पवस्व क्षर ।।


इंद्रा॑य सोम॒ पात॑वे॒ मदा॑य॒ परि॑ षिच्यसे ।

म॒न॒श्चिन्मन॑स॒स्पतिः॑ ॥८

इन्द्रा॑य । सो॒म॒ । पात॑वे । मदा॑य । परि॑ । सि॒च्य॒से॒ ।

म॒नः॒ऽचित् । मन॑सः । पतिः॑ ॥८

इन्द्राय । सोम । पातवे । मदाय । परि । सिच्यसे ।

मनःऽचित् । मनसः । पतिः ॥८

हे "सोम "मनश्चित् मनसो “ज्ञाता “मनसस्पतिः ईश्वरस्त्वम् “इन्द्राय इन्द्रस्य “पातवे पानाय “मदाय च “परि “षिच्यसे परितः पात्रेषु सिच्यसे ।।


पव॑मान सु॒वीर्यं॑ र॒यिं सो॑म रिरीहि नः ।

इंद॒विंद्रे॑ण नो यु॒जा ॥९

पव॑मान । सु॒ऽवीर्य॑म् । र॒यिम् । सो॒म॒ । रि॒री॒हि॒ । नः॒ ।

इन्दो॒ इति॑ । इन्द्रे॑ण । नः॒ । यु॒जा ॥९

पवमान । सुऽवीर्यम् । रयिम् । सोम । रिरीहि । नः ।

इन्दो इति । इन्द्रेण । नः । युजा ॥९

हे “इन्दो क्लिद्यमान “पवमान “सोम त्वं “सुवीर्यं शोभनवीर्योपेतं “रयिं धनं “नः अस्माकं संबन्धिना “इन्द्रेण “युजा सहायेन “नः अस्मभ्यं “रिरीहि देहि ॥ ॥ ३७ ॥

मण्डल ९

सूक्तं ९.१

सूक्तं ९.२

सूक्तं ९.३

सूक्तं ९.४

सूक्तं ९.५

सूक्तं ९.६

सूक्तं ९.७

सूक्तं ९.८

सूक्तं ९.९

सूक्तं ९.१०

सूक्तं ९.११

सूक्तं ९.१२

सूक्तं ९.१३

सूक्तं ९.१४

सूक्तं ९.१५

सूक्तं ९.१६

सूक्तं ९.१७

सूक्तं ९.१८

सूक्तं ९.१९

सूक्तं ९.२०

सूक्तं ९.२१

सूक्तं ९.२२

सूक्तं ९.२३

सूक्तं ९.२४

सूक्तं ९.२५

सूक्तं ९.२६

सूक्तं ९.२७

सूक्तं ९.२८

सूक्तं ९.२९

सूक्तं ९.३०

सूक्तं ९.३१

सूक्तं ९.३२

सूक्तं ९.३३

सूक्तं ९.३४

सूक्तं ९.३५

सूक्तं ९.३६

सूक्तं ९.३७

सूक्तं ९.३८

सूक्तं ९.३९

सूक्तं ९.४०

सूक्तं ९.४१

सूक्तं ९.४२

सूक्तं ९.४३

सूक्तं ९.४४

सूक्तं ९.४५

सूक्तं ९.४६

सूक्तं ९.४७

सूक्तं ९.४८

सूक्तं ९.४९

सूक्तं ९.५०

सूक्तं ९.५१

सूक्तं ९.५२

सूक्तं ९.५३

सूक्तं ९.५४

सूक्तं ९.५५

सूक्तं ९.५६

सूक्तं ९.५७

सूक्तं ९.५८

सूक्तं ९.५९

सूक्तं ९.६०

सूक्तं ९.६१

सूक्तं ९.६२

सूक्तं ९.६३

सूक्तं ९.६४

सूक्तं ९.६५

सूक्तं ९.६६

सूक्तं ९.६७

सूक्तं ९.६८

सूक्तं ९.६९

सूक्तं ९.७०

सूक्तं ९.७१

सूक्तं ९.७२

सूक्तं ९.७३

सूक्तं ९.७४

सूक्तं ९.७५

सूक्तं ९.७६

सूक्तं ९.७७

सूक्तं ९.७८

सूक्तं ९.७९

सूक्तं ९.८०

सूक्तं ९.८१

सूक्तं ९.८२

सूक्तं ९.८३

सूक्तं ९.८४

सूक्तं ९.८५

सूक्तं ९.८६

सूक्तं ९.८७

सूक्तं ९.८८

सूक्तं ९.८९

सूक्तं ९.९०

सूक्तं ९.९१

सूक्तं ९.९२

सूक्तं ९.९३

सूक्तं ९.९४

सूक्तं ९.९५

सूक्तं ९.९६

सूक्तं ९.९७

सूक्तं ९.९८

सूक्तं ९.९९

सूक्तं ९.१००

सूक्तं ९.१०१

सूक्तं ९.१०२

सूक्तं ९.१०३

सूक्तं ९.१०४

सूक्तं ९.१०५

सूक्तं ९.१०६

सूक्तं ९.१०७

सूक्तं ९.१०८

सूक्तं ९.१०९

सूक्तं ९.११०

सूक्तं ९.१११

सूक्तं ९.११२

सूक्तं ९.११३

सूक्तं ९.११४

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_९.११&oldid=208513" इत्यस्माद् पुनः प्राप्तिः