ऋग्वेदः सूक्तं ९.७४

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं ९.७३ ऋग्वेदः - मण्डल ९
सूक्तं ९.७४
कक्षीवान् दैर्घतमसः।
सूक्तं ९.७५ →
दे. पवमानः सोमः। जगती, ८ त्रिष्टुप् ।


शिशुर्न जातोऽव चक्रदद्वने स्वर्यद्वाज्यरुषः सिषासति ।
दिवो रेतसा सचते पयोवृधा तमीमहे सुमती शर्म सप्रथः ॥१॥
दिवो य स्कम्भो धरुणः स्वातत आपूर्णो अंशुः पर्येति विश्वतः ।
सेमे मही रोदसी यक्षदावृता समीचीने दाधार समिषः कविः ॥२॥
महि प्सरः सुकृतं सोम्यं मधूर्वी गव्यूतिरदितेरृतं यते ।
ईशे यो वृष्टेरित उस्रियो वृषापां नेता य इतऊतिरृग्मियः ॥३॥
आत्मन्वन्नभो दुह्यते घृतं पय ऋतस्य नाभिरमृतं वि जायते ।
समीचीनाः सुदानवः प्रीणन्ति तं नरो हितमव मेहन्ति पेरवः ॥४॥
अरावीदंशुः सचमान ऊर्मिणा देवाव्यं मनुषे पिन्वति त्वचम् ।
दधाति गर्भमदितेरुपस्थ आ येन तोकं च तनयं च धामहे ॥५॥
सहस्रधारेऽव ता असश्चतस्तृतीये सन्तु रजसि प्रजावतीः ।
चतस्रो नाभो निहिता अवो दिवो हविर्भरन्त्यमृतं घृतश्चुतः ॥६॥
श्वेतं रूपं कृणुते यत्सिषासति सोमो मीढ्वाँ असुरो वेद भूमनः ।
धिया शमी सचते सेमभि प्रवद्दिवस्कवन्धमव दर्षदुद्रिणम् ॥७॥
अध श्वेतं कलशं गोभिरक्तं कार्ष्मन्ना वाज्यक्रमीत्ससवान् ।
आ हिन्विरे मनसा देवयन्तः कक्षीवते शतहिमाय गोनाम् ॥८॥
अद्भिः सोम पपृचानस्य ते रसोऽव्यो वारं वि पवमान धावति ।
स मृज्यमानः कविभिर्मदिन्तम स्वदस्वेन्द्राय पवमान पीतये ॥९॥


सायणभाष्यम्

‘शिशुर्न' इति नवर्चं सप्तमं सूक्तं दैर्घतमसस्य कक्षीवत आर्षं पवमानसोमदेवताकम् । अष्टमी त्रिष्टुप् शिष्टा जगत्यः । तथा चानुक्रम्यते- शिशुर्न कक्षीवांस्त्रिष्टुबष्टमी' इति । गतः सूक्तविनियोगः ॥


शिशु॒र्न जा॒तोऽव॑ चक्रद॒द्वने॒ स्व१॒॑र्यद्वा॒ज्य॑रु॒षः सिषा॑सति ।

दि॒वो रेत॑सा सचते पयो॒वृधा॒ तमी॑महे सुम॒ती शर्म॑ स॒प्रथः॑ ॥१

शिशुः॑ । न । जा॒तः । अव॑ । च॒क्र॒द॒त् । वने॑ । स्वः॑ । यत् । वा॒जी । अ॒रु॒षः । सिसा॑सति ।

दि॒वः । रेत॑सा । स॒च॒ते॒ । प॒यः॒ऽवृधा॑ । तम् । ई॒म॒हे॒ । सु॒ऽम॒ती । शर्म॑ । स॒ऽप्रथः॑ ॥

शिशुः । न । जातः । अव । चक्रदत् । वने । स्वः । यत् । वाजी । अरुषः । सिसासति ।

दिवः । रेतसा । सचते । पयःऽवृधा । तम् । ईमहे । सुऽमती । शर्म । सऽप्रथः ॥

स पवमानः सोमः “वने वननीये वसतीवर्याख्य उदके “जातः उत्पन्नः "शिशुर्न शिशुरिव “अव “चक्रदत् अवाङ्मुखं क्रन्दति । तदोदकमध्ये पतञ्छब्दं करोति खलु। “यत् यदा “वाजी बलवानन्नवान् वा “अरुषः आरोचमानः । यद्वा । वाज्यश्व इव अरुषः । अर्तेरुषच् । गमनशीलः सोमः “स्वः स्वर्गलोकं “सिषासति संभक्तुमिच्छति । सनोतेः सनीडभाव आत्वम् । ‘ सनोते:०' इति सांहितिकं षत्वम् । सोऽयं “पयोवृधा गवामोषधीनां च क्षीरस्य वर्धकेन’ “रेतसा उदकेन सह “दिवः द्युलोकात् "सचते पार्थिवं लोकं समवैति । “तं तादृशं प्रसिद्धं सोमं “सप्रथः सर्वतः पृथुतरं धनादिना युक्तं “शर्म गृहं तद्वयं “सुमती । ‘सुपां सुलुक्°' इति तृतीयायाः पूर्वसवर्णदीर्घः । सुमत्या शोभनया स्तुत्या “ईमहे याचामहे । ईमह इति याञ्चाकर्मा। ‘ ईङ् गतौ । देवादिकः । छान्दसः श्यनो लुक् ॥


दि॒वो यः स्कं॒भो ध॒रुणः॒ स्वा॑तत॒ आपू॑र्णो अं॒शुः प॒र्येति॑ वि॒श्वतः॑ ।

सेमे म॒ही रोद॑सी यक्षदा॒वृता॑ समीची॒ने दा॑धार॒ समिषः॑ क॒विः ॥२

दि॒वः । यः । स्क॒म्भः । ध॒रुणः॑ । सुऽआ॑ततः । आऽपू॑र्णः । अं॒शुः । प॒रि॒ऽएति॑ । वि॒श्वतः॑ ।

सः । इ॒मे इति॑ । म॒ही इति॑ । रोद॑सी॒ इति॑ । य॒क्ष॒त् । आ॒ऽवृता॑ । स॒मी॒ची॒ने इति॑ स॒म्ऽई॒ची॒ने । दा॒धा॒र॒ । सम् । इषः॑ । क॒विः ॥

दिवः । यः । स्कम्भः । धरुणः । सुऽआततः । आऽपूर्णः । अंशुः । परिऽएति । विश्वतः ।

सः । इमे इति । मही इति । रोदसी इति । यक्षत् । आऽवृता । समीचीने इति सम्ऽईचीने । दाधार । सम् । इषः । कविः ॥

“दिवः द्युलोकस्य “स्कम्भः विष्कम्भयिता संरोद्धा “धरुणः सर्वस्य धारकः । यद्वा । पृथिव्या धारकः । विष्टम्भो दिवो धरुणः पृथिव्याः ' ( ऋ. सं. ९.८९.६ ) इत्याम्नानात् । तादृशः “स्वाततः सुष्ठु सर्वत्र “विततः विस्तृतः अत एव “आपूर्णः पात्रेषु संपूर्णः “यः “अंशुः सोमात्मकः “विश्वतः सर्वतः “पर्येति परिगच्छति । ‘तिङि चोदात्तवति' इति गतेर्निघातः । “सः सोमः “इमे “रोदसी द्यावापृथिव्यौ “आवृता संभजनीयेन कर्मणा “यक्षत् यजतु । स्वबलेन संयोजयत्वित्यर्थः । ततः सोऽयं “समीचीने परस्परं संगते द्यावापृथिव्यौ "दाधार धारयांचकार । ‘तुजादीनाम्' इत्यभ्यासस्य दीर्घः । अनन्तरं “कविः क्रान्तकर्मा “इषः अन्नानि स्तोतृभ्यः “सं प्रयच्छतु । उपसर्गश्रुतेर्योग्यक्रियाध्याहारः ॥


महि॒ प्सरः॒ सुकृ॑तं सो॒म्यं मधू॒र्वी गव्यू॑ति॒रदि॑तेर्ऋ॒तं य॒ते ।

ईशे॒ यो वृ॒ष्टेरि॒त उ॒स्रियो॒ वृषा॒पां ने॒ता य इ॒तऊ॑तिर्ऋ॒ग्मियः॑ ॥३

महि॑ । प्सरः॑ । सुऽकृ॑तम् । सो॒म्यम् । मधु॑ । उ॒र्वी । गव्यू॑तिः । अदि॑तेः । ऋ॒तम् । य॒ते ।

ईशे॑ । यः । वृ॒ष्टेः । इ॒तः । उ॒स्रियः॑ । वृषा॑ । अ॒पाम् । ने॒ता । यः । इ॒तःऽऊ॑तिः । ऋ॒ग्मियः॑ ॥

महि । प्सरः । सुऽकृतम् । सोम्यम् । मधु । उर्वी । गव्यूतिः । अदितेः । ऋतम् । यते ।

ईशे । यः । वृष्टेः । इतः । उस्रियः । वृषा । अपाम् । नेता । यः । इतःऽऊतिः । ऋग्मियः ॥

“ऋतं सत्यभूतं यज्ञं “यते गच्छते तस्मा इन्द्राय “सुकृतं सुष्ठु संस्कृतं “सोम्यं सोममयं "महि । महत् प्रभूतं “मधु मधुररसं “प्सरः भक्षणं पानीयं भवति । 'प्सा भक्षणे'। किंच अस्मद्यज्ञं प्रत्यागच्छतामिन्द्रादीनाम् “अदितेः पृथिव्याः “गव्यूतिः मार्गश्च “उर्वी विस्तीर्णो भवति । इन्द्रस्य शतसहस्रसंख्याकैर्हरिभिः सह गन्तुं मार्गो विस्तीर्णोऽभवदित्यर्थः । “यः इन्द्रः “इतः इमं लोकं प्रत्यापतन्याः “वृष्टेः “ईशे ईश्वरो भवति । तथा “उस्रियः । उस्रेति गोनाम । गोभ्यो हितः “अपाम् उदकानां “वृषा वर्षकः यज्ञस्य “नेता नायकः “इतऊतिः इममस्मदीयं यज्ञं प्रत्यूतिर्गमनं यस्य स तथोक्तः । इतो गच्छन् “यः इन्द्रः “ऋग्मियः ऋगर्हः स्तोतव्यो भवति । तस्मा अयं सोमः पातव्यो भवतीति ।।


आ॒त्म॒न्वन्नभो॑ दुह्यते घृ॒तं पय॑ ऋ॒तस्य॒ नाभि॑र॒मृतं॒ वि जा॑यते ।

स॒मी॒ची॒नाः सु॒दान॑वः प्रीणंति॒ तं नरो॑ हि॒तमव॑ मेहंति॒ पेर॑वः ॥४

आ॒त्म॒न्ऽवत् । नभः॑ । दु॒ह्य॒ते॒ । घृ॒तम् । पयः॑ । ऋ॒तस्य॑ । नाभिः॑ । अ॒मृत॑म् । वि । जा॒य॒ते॒ ।

स॒म्ऽई॒ची॒नाः । सु॒ऽदान॑वः । प्री॒ण॒न्ति॒ । तम् । नरः॑ । हि॒तम् । अव॑ । मे॒ह॒न्ति॒ । पेर॑वः ॥

आत्मन्ऽवत् । नभः । दुह्यते । घृतम् । पयः । ऋतस्य । नाभिः । अमृतम् । वि । जायते ।

सम्ऽईचीनाः । सुऽदानवः । प्रीणन्ति । तम् । नरः । हितम् । अव । मेहन्ति । पेरवः ॥

“आत्मन्वत् । “अनो नुट्' इति नुडागमः । आत्मवत् सारवत् “घृतं “पयः च “नभः नभस आदित्यरूपात्सोमः “दुह्यते । किंच “ऋतस्य यज्ञस्य “नाभिः । ‘णह बन्धने' । ‘ स्वमोर्नपुंसकात्' ( पा. सू. ७. १. २३) इति सोर्लुग्न भवति सर्वविधीनां छन्दसि विकल्पितत्वात् । नाभि यज्ञस्य बन्धकम् “अमृतम् उदकं च “वि “जायते तस्मादेव प्रादुर्भवति । ततः “सुदानवः शोभनस्तुतिहविर्दानवन्तो यजमानाः “समीचीनाः परस्परं संगताः सन्तः “तम् इदं सोमं प्रीणयन्ति स्तुतिभिस्तर्पयन्ति । अथ “नरः नेतारः “पेरवः । ‘ पा रक्षणे । मापोरित्वे रुन्' इति रुन्प्रत्ययः । सर्वस्य रक्षकाः सोमरश्मयः “हितं निहितम् “अव अवस्ताद्वर्तमानं पार्थिवमुदकं “मेहन्ति वर्षन्ति । ‘ मिह सेचने ' । भौवादिकः । यद्वा । हितमुदकं पृथिवीं प्रति मेहन्ति ।


अरा॑वीदं॒शुः सच॑मान ऊ॒र्मिणा॑ देवा॒व्यं१॒॑ मनु॑षे पिन्वति॒ त्वचं॑ ।

दधा॑ति॒ गर्भ॒मदि॑तेरु॒पस्थ॒ आ येन॑ तो॒कं च॒ तन॑यं च॒ धाम॑हे ॥५

अरा॑वीत् । अं॒शुः । सच॑मानः । ऊ॒र्मिणा॑ । दे॒व॒ऽअ॒व्य॑म् । मनु॑षे । पि॒न्व॒ति॒ । त्वच॑म् ।

दधा॑ति । गर्भ॑म् । अदि॑तेः । उ॒पऽस्थे॑ । आ । येन॑ । तो॒कम् । च॒ । तन॑यम् । च॒ । धाम॑हे ॥

अरावीत् । अंशुः । सचमानः । ऊर्मिणा । देवऽअव्यम् । मनुषे । पिन्वति । त्वचम् ।

दधाति । गर्भम् । अदितेः । उपऽस्थे । आ । येन । तोकम् । च । तनयम् । च । धामहे ॥

“ऊर्मिणा वसतीवर्यादीनामुदकानां संघेन “सचमानः “अंशुः सोमः “अरावीत् शब्दं करोति । किंच स सोमः “देवाव्यम् । अव रक्षणे' ।' अवितॄस्तृतन्त्रिभ्य ईः' इति ईप्रत्ययः । देवानां पालयित्रीं “त्वचम् आत्मनः शरीरं “मनुषे मनुष्याय यजमानाय पिन्वति सिञ्चति । पात्रेषु क्षरतीति यावत् ।। अपि च “अदितेः अदीनायाः पृथिव्याः “उपस्थे समीप ओषधीषु तं “गर्भम् “आ “दधाति सुधामयैः किरणैर्विदधाति । “येन गर्भेण वयं “तोकं दुःखनाशकं पुत्रं “च “तनयम् । तनोति कुलमिति तनयः पौत्रः । तं “च “धामहे दध्महे धारयामः । दधातेर्लटि ‘बहुलं छन्दसि' इति शपो लुक् ॥ ॥ ३१ ॥


स॒हस्र॑धा॒रेऽव॒ ता अ॑स॒श्चत॑स्तृ॒तीये॑ संतु॒ रज॑सि प्र॒जाव॑तीः ।

चत॑स्रो॒ नाभो॒ निहि॑ता अ॒वो दि॒वो ह॒विर्भ॑रंत्य॒मृतं॑ घृत॒श्चुतः॑ ॥६

स॒हस्र॑ऽधारे । अव॑ । ताः । अ॒स॒श्चतः॑ । तृ॒तीये॑ । स॒न्तु॒ । रज॑सि । प्र॒जाऽव॑तीः ।

चत॑स्रः । नाभः॑ । निऽहि॑ताः । अ॒वः । दि॒वः । ह॒विः । भ॒र॒न्ति॒ । अ॒मृत॑म् । घृ॒त॒ऽश्चुतः॑ ॥

सहस्रऽधारे । अव । ताः । असश्चतः । तृतीये । सन्तु । रजसि । प्रजाऽवतीः ।

चतस्रः । नाभः । निऽहिताः । अवः । दिवः । हविः । भरन्ति । अमृतम् । घृतऽश्चुतः ॥

“सहस्रधारे बहूदकधारे “तृतीये “रजसि लोके स्वर्गे वर्तमानाः “असश्चतः परस्परमसक्ताः “प्रजावतीः उत्पादितप्रजावत्यः सोमस्य स्वभूताः “ताः “अव “सन्तु अवस्तात्पृथिव्यां पतन्तु । कास्ता इत्याह । “चतस्रो “नाभः तपसो बाधिकाः सोमस्य संबन्धिन्यश्चतस्रो दीप्तयः कला: “दिवः द्युलोकात् “अवः अवस्तात् “निहिताः सोमेन स्थापिताः ताः “घृतश्चुतः घृतस्योदकस्य च्यावयित्र्यः सत्यः “हविः सोमादिलक्षणं “भरन्ति देवानां प्रयच्छन्ति । तथा “अमृतं गोष्वोषधीषु च पयोरूपं सुधारूपं च भरन्ति प्रक्षिपन्ति ॥


श्वे॒तं रू॒पं कृ॑णुते॒ यत्सिषा॑सति॒ सोमो॑ मी॒ढ्वाँ असु॑रो वेद॒ भूम॑नः ।

धि॒या शमी॑ सचते॒ सेम॒भि प्र॒वद्दि॒वस्कवं॑ध॒मव॑ दर्षदु॒द्रिणं॑ ॥७

श्वे॒तम् । रू॒पम् । कृ॒णु॒ते॒ । यत् । सिसा॑सति । सोमः॑ । मी॒ढ्वान् । असु॑रः । वे॒द॒ । भूम॑नः ।

धि॒या । शमी॑ । स॒च॒ते॒ । सः । ई॒म् । अ॒भि । प्र॒ऽवत् । दि॒वः । कव॑न्धम् । अव॑ । द॒र्ष॒त् । उ॒द्रिण॑म् ॥

श्वेतम् । रूपम् । कृणुते । यत् । सिसासति । सोमः । मीढ्वान् । असुरः । वेद । भूमनः ।

धिया । शमी । सचते । सः । ईम् । अभि । प्रऽवत् । दिवः । कवन्धम् । अव । दर्षत् । उद्रिणम् ॥

“श्वेतं दीप्यमानं शुक्लं “रूपं “कृणुते तदा करोति “यत् यदा “सिषासति स्वर्गं संभक्तुमिच्छति । सोमे पात्राण्यागते सति तत्तेजसानुरञ्जितानां तेषां श्वेतं रूपं भवति । ततः “मीढ्वान् । 'मिह सेचने । अस्मात् क्वसौ ‘ दाश्वान्साह्वान्मीढ्वांश्च' इति निपातनादभिमतरूपसिद्धिः । कामानां सेक्ता “असुरः प्राज्ञो बलवान् वा “सोमः “भूमनः बहुधनानि “वेद स्तोतृभ्यो दातुं जानाति । प्रयच्छतीति यावत् । “स “ईम् । “ सोऽचि लोपे चेत' इति सुलोपः । सोऽयं “धिया प्रज्ञानेन “प्रवत् प्रकृष्टानि “शमी । द्वितीयायाः पूर्वसवर्णदीर्घः । कर्माणि “अभि “सचते अभितः समवैति । किंच “दिवः अन्तरिक्षात् “उद्रिणम् उदकवन्तं “कवन्धं मेघम् । कवन्धशब्देन मेघोऽभिधीयते । तात्स्थ्यात्ताच्छब्द्यमिति । मेघम् “अव दर्षत् अवदारयति । विवृतद्वारं करोति । मेघं विदार्यान्तरिक्षात् वृष्टिं करोतीत्यर्थः ॥


अध॑ श्वे॒तं क॒लशं॒ गोभि॑र॒क्तं कार्ष्म॒न्ना वा॒ज्य॑क्रमीत्सस॒वान् ।

आ हि॑न्विरे॒ मन॑सा देव॒यंतः॑ क॒क्षीव॑ते श॒तहि॑माय॒ गोनां॑ ॥८

अध॑ । श्वे॒तम् । क॒लश॑म् । गोभिः॑ । अ॒क्तम् । कार्ष्म॑न् । आ । वा॒जी । अ॒क्र॒मी॒त् । स॒स॒ऽवान् ।

आ । हि॒न्वि॒रे॒ । मन॑सा । दे॒व॒ऽयन्तः॑ । क॒क्षीव॑ते । श॒तऽहि॑माय । गोना॑म् ॥

अध । श्वेतम् । कलशम् । गोभिः । अक्तम् । कार्ष्मन् । आ । वाजी । अक्रमीत् । ससऽवान् ।

आ । हिन्विरे । मनसा । देवऽयन्तः । कक्षीवते । शतऽहिमाय । गोनाम् ॥

“अध अथानन्तरं “श्वेतं संप्रति सोमसंसर्गात् श्वेतवर्णं “गोभिः उदकैः "अक्तं संपृक्तं द्रोणकलशं “ससवान् संभजन सोमः “आ “अक्रमीत् आक्रमते । “कार्ष्मन्। कार्ष्मशब्दः काष्ठावचनः । आजिं धावन्तो योद्धारो यां गन्तुमिच्छन्ति तस्यां काष्ठायां “वाजी कश्चिदश्वो युद्धं भजमान आक्रमीत् आक्रमते । सोमः काष्ठायां द्रोणकलशे पततीत्यर्थः । ततस्तस्मै सोमाय “देवयन्तः देवानिच्छन्त ऋत्विजः “मनसा “आ “हिन्विरे स्तुतीराभिमुख्येन प्रेरयन्ति । तत्र “शतहिमाय बहुगमनाय “कक्षीवते स्तोत्रकारिण एतन्नामकायर्षये सोमः “गोनां गाः पशून् प्रेरयति । ' गोः पादान्ते ' (पा. . ७. १. ५७ ) इति नुडागमः । ‘ क्रियाग्रहणं कर्तव्यम्' इति संप्रदानसंज्ञा । चतुर्थ्यर्थे षष्ठी ॥


अ॒द्भिः सो॑म पपृचा॒नस्य॑ ते॒ रसोऽव्यो॒ वारं॒ वि प॑वमान धावति ।

स मृ॒ज्यमा॑नः क॒विभि॑र्मदिंतम॒ स्वद॒स्वेंद्रा॑य पवमान पी॒तये॑ ॥९

अ॒त्ऽभिः । सो॒म॒ । प॒पृ॒चा॒नस्य॑ । ते॒ । रसः॑ । अव्यः॑ । वार॑म् । वि । प॒व॒मा॒न॒ । धा॒व॒ति॒ ।

सः । मृ॒ज्यमा॑नः । क॒विऽभिः॑ । म॒दि॒न्ऽत॒म॒ । स्वद॑स्व । इन्द्रा॑य । प॒व॒मा॒न॒ । पी॒तये॑ ॥

अत्ऽभिः । सोम । पपृचानस्य । ते । रसः । अव्यः । वारम् । वि । पवमान । धावति ।

सः । मृज्यमानः । कविऽभिः । मदिन्ऽतम । स्वदस्व । इन्द्राय । पवमान । पीतये ॥

हे “पवमान पवित्रेण पूयमान हे “सोम "अद्भिः वसतीवर्यादिभिरुदकैः “पपृचानस्य संपृच्यमानस्य “ते तव “रसः “अव्यः अवेः “वारं वालं दशापवित्रं “वि “धावति विविधं प्राप्नोति । ततो हे “मदिन्तम मादयितृतम हे “पवमान सोम त्वं “कविभिः क्रान्तकर्मभिर्ऋत्विग्भिः “मृज्यमानः पूयमानः सन् “इन्द्राय “पीतये इन्द्रस्य पानार्थं “स्वदस्व प्रियरसो भव ॥ ॥ ३२ ॥

मण्डल ९

सूक्तं ९.१

सूक्तं ९.२

सूक्तं ९.३

सूक्तं ९.४

सूक्तं ९.५

सूक्तं ९.६

सूक्तं ९.७

सूक्तं ९.८

सूक्तं ९.९

सूक्तं ९.१०

सूक्तं ९.११

सूक्तं ९.१२

सूक्तं ९.१३

सूक्तं ९.१४

सूक्तं ९.१५

सूक्तं ९.१६

सूक्तं ९.१७

सूक्तं ९.१८

सूक्तं ९.१९

सूक्तं ९.२०

सूक्तं ९.२१

सूक्तं ९.२२

सूक्तं ९.२३

सूक्तं ९.२४

सूक्तं ९.२५

सूक्तं ९.२६

सूक्तं ९.२७

सूक्तं ९.२८

सूक्तं ९.२९

सूक्तं ९.३०

सूक्तं ९.३१

सूक्तं ९.३२

सूक्तं ९.३३

सूक्तं ९.३४

सूक्तं ९.३५

सूक्तं ९.३६

सूक्तं ९.३७

सूक्तं ९.३८

सूक्तं ९.३९

सूक्तं ९.४०

सूक्तं ९.४१

सूक्तं ९.४२

सूक्तं ९.४३

सूक्तं ९.४४

सूक्तं ९.४५

सूक्तं ९.४६

सूक्तं ९.४७

सूक्तं ९.४८

सूक्तं ९.४९

सूक्तं ९.५०

सूक्तं ९.५१

सूक्तं ९.५२

सूक्तं ९.५३

सूक्तं ९.५४

सूक्तं ९.५५

सूक्तं ९.५६

सूक्तं ९.५७

सूक्तं ९.५८

सूक्तं ९.५९

सूक्तं ९.६०

सूक्तं ९.६१

सूक्तं ९.६२

सूक्तं ९.६३

सूक्तं ९.६४

सूक्तं ९.६५

सूक्तं ९.६६

सूक्तं ९.६७

सूक्तं ९.६८

सूक्तं ९.६९

सूक्तं ९.७०

सूक्तं ९.७१

सूक्तं ९.७२

सूक्तं ९.७३

सूक्तं ९.७४

सूक्तं ९.७५

सूक्तं ९.७६

सूक्तं ९.७७

सूक्तं ९.७८

सूक्तं ९.७९

सूक्तं ९.८०

सूक्तं ९.८१

सूक्तं ९.८२

सूक्तं ९.८३

सूक्तं ९.८४

सूक्तं ९.८५

सूक्तं ९.८६

सूक्तं ९.८७

सूक्तं ९.८८

सूक्तं ९.८९

सूक्तं ९.९०

सूक्तं ९.९१

सूक्तं ९.९२

सूक्तं ९.९३

सूक्तं ९.९४

सूक्तं ९.९५

सूक्तं ९.९६

सूक्तं ९.९७

सूक्तं ९.९८

सूक्तं ९.९९

सूक्तं ९.१००

सूक्तं ९.१०१

सूक्तं ९.१०२

सूक्तं ९.१०३

सूक्तं ९.१०४

सूक्तं ९.१०५

सूक्तं ९.१०६

सूक्तं ९.१०७

सूक्तं ९.१०८

सूक्तं ९.१०९

सूक्तं ९.११०

सूक्तं ९.१११

सूक्तं ९.११२

सूक्तं ९.११३

सूक्तं ९.११४

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_९.७४&oldid=179410" इत्यस्माद् पुनः प्राप्तिः