ऋग्वेदः सूक्तं ९.१०२

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं ९.१०१ ऋग्वेदः - मण्डल ९
सूक्तं ९.१०२
त्रित आप्त्यः।
सूक्तं ९.१०३ →
दे. पवमानः सोमः। उष्णिक्।
मण्डल ९

सूक्तं ९.१

सूक्तं ९.२

सूक्तं ९.३

सूक्तं ९.४

सूक्तं ९.५

सूक्तं ९.६

सूक्तं ९.७

सूक्तं ९.८

सूक्तं ९.९

सूक्तं ९.१०

सूक्तं ९.११

सूक्तं ९.१२

सूक्तं ९.१३

सूक्तं ९.१४

सूक्तं ९.१५

सूक्तं ९.१६

सूक्तं ९.१७

सूक्तं ९.१८

सूक्तं ९.१९

सूक्तं ९.२०

सूक्तं ९.२१

सूक्तं ९.२२

सूक्तं ९.२३

सूक्तं ९.२४

सूक्तं ९.२५

सूक्तं ९.२६

सूक्तं ९.२७

सूक्तं ९.२८

सूक्तं ९.२९

सूक्तं ९.३०

सूक्तं ९.३१

सूक्तं ९.३२

सूक्तं ९.३३

सूक्तं ९.३४

सूक्तं ९.३५

सूक्तं ९.३६

सूक्तं ९.३७

सूक्तं ९.३८

सूक्तं ९.३९

सूक्तं ९.४०

सूक्तं ९.४१

सूक्तं ९.४२

सूक्तं ९.४३

सूक्तं ९.४४

सूक्तं ९.४५

सूक्तं ९.४६

सूक्तं ९.४७

सूक्तं ९.४८

सूक्तं ९.४९

सूक्तं ९.५०

सूक्तं ९.५१

सूक्तं ९.५२

सूक्तं ९.५३

सूक्तं ९.५४

सूक्तं ९.५५

सूक्तं ९.५६

सूक्तं ९.५७

सूक्तं ९.५८

सूक्तं ९.५९

सूक्तं ९.६०

सूक्तं ९.६१

सूक्तं ९.६२

सूक्तं ९.६३

सूक्तं ९.६४

सूक्तं ९.६५

सूक्तं ९.६६

सूक्तं ९.६७

सूक्तं ९.६८

सूक्तं ९.६९

सूक्तं ९.७०

सूक्तं ९.७१

सूक्तं ९.७२

सूक्तं ९.७३

सूक्तं ९.७४

सूक्तं ९.७५

सूक्तं ९.७६

सूक्तं ९.७७

सूक्तं ९.७८

सूक्तं ९.७९

सूक्तं ९.८०

सूक्तं ९.८१

सूक्तं ९.८२

सूक्तं ९.८३

सूक्तं ९.८४

सूक्तं ९.८५

सूक्तं ९.८६

सूक्तं ९.८७

सूक्तं ९.८८

सूक्तं ९.८९

सूक्तं ९.९०

सूक्तं ९.९१

सूक्तं ९.९२

सूक्तं ९.९३

सूक्तं ९.९४

सूक्तं ९.९५

सूक्तं ९.९६

सूक्तं ९.९७

सूक्तं ९.९८

सूक्तं ९.९९

सूक्तं ९.१००

सूक्तं ९.१०१

सूक्तं ९.१०२

सूक्तं ९.१०३

सूक्तं ९.१०४

सूक्तं ९.१०५

सूक्तं ९.१०६

सूक्तं ९.१०७

सूक्तं ९.१०८

सूक्तं ९.१०९

सूक्तं ९.११०

सूक्तं ९.१११

सूक्तं ९.११२

सूक्तं ९.११३

सूक्तं ९.११४

क्राणा शिशुर्महीनां हिन्वन्नृतस्य दीधितिम् ।
विश्वा परि प्रिया भुवदध द्विता ॥१॥
उप त्रितस्य पाष्योरभक्त यद्गुहा पदम् ।
यज्ञस्य सप्त धामभिरध प्रियम् ॥२॥
त्रीणि त्रितस्य धारया पृष्ठेष्वेरया रयिम् ।
मिमीते अस्य योजना वि सुक्रतुः ॥३॥
जज्ञानं सप्त मातरो वेधामशासत श्रिये ।
अयं ध्रुवो रयीणां चिकेत यत् ॥४॥
अस्य व्रते सजोषसो विश्वे देवासो अद्रुहः ।
स्पार्हा भवन्ति रन्तयो जुषन्त यत् ॥५॥
यमी गर्भमृतावृधो दृशे चारुमजीजनन् ।
कविं मंहिष्ठमध्वरे पुरुस्पृहम् ॥६॥
समीचीने अभि त्मना यह्वी ऋतस्य मातरा ।
तन्वाना यज्ञमानुषग्यदञ्जते ॥७॥
क्रत्वा शुक्रेभिरक्षभिरृणोरप व्रजं दिवः ।
हिन्वन्नृतस्य दीधितिं प्राध्वरे ॥८॥

सायणभाष्यम्

‘क्राणा शिशुः' इत्यष्टर्चं षष्ठं सूक्तमाप्त्स्य त्रितस्यार्षम् । इदमुत्तराणि चत्वारि सूक्तान्यौष्णिहानि । पवमानः सोमो देवता। तथा चानुक्रम्यते- क्राणाष्टौ त्रित औष्णिहं वै' इति । गतो विनियोगः ॥


क्रा॒णा शिशु॑र्म॒हीनां॑ हि॒न्वन्नृ॒तस्य॒ दीधि॑तिम् ।

विश्वा॒ परि॑ प्रि॒या भु॑व॒दध॑ द्वि॒ता ॥

क्राणा । शिशुः । महीनाम् । हिन्वन् । ऋतस्य । दीधितिम् ।

विश्वा । परि । प्रिया । भुवत् । अध । द्विता ।। १ ।।

“क्राणा। करोतेः शानचि ‘बहुलं छन्दसि ' इति विकरणस्य लुक् । ‘सुपां सुलुक् इति सुप आकारादेशः । यज्ञं कुर्वाणः “महीनां महतीनां मंहनीयानां वा अपां “शिशुः पुत्रस्थानीयः सोमः “ऋतस्य यज्ञस्य “दीधितिं प्रकाशकं धारकं वा स्वीयं रसं “हिन्वन् प्रेरयन् “विश्वा सर्वाणि “प्रिया प्रियाणि हवींषि “परि “भुवत् परिभवति व्याप्नोति । “अध अपि च "द्विता द्विधा भवति । दिवि च पृथिव्यां च वर्तत इत्यर्थः ॥


उप॑ त्रि॒तस्य॑ पा॒ष्यो॒३॒॑रभ॑क्त॒ यद्गुहा॑ प॒दम् ।

य॒ज्ञस्य॑ स॒प्त धाम॑भि॒रध॑ प्रि॒यम् ॥

उप । त्रितस्य । पाष्योः । अभक्त । यत् । गुहां। पदम् ।

यज्ञस्य । सप्त । धामऽभिः । अध । प्रियम् ॥ २ ॥

“त्रितस्य मम यज्ञे “गुहा गुहायां हविर्धाने वर्तमानयोः “पाष्योः पाषाणवद्दृढयोरधिषवणफलकयोः “पदं स्थानं सोमः “यत् यदा "उप “अभक्त समभजत “अध अनन्तरं “यज्ञस्य “धामभिः धारकैः “सप्त सप्तभिश्छन्दोभिर्गायत्र्यादिभिः “प्रियं प्रीणयितारं सोममभिष्टुबन्ति ऋत्विजः । अपि वा । सप्त सर्पणशीलैर्वसतीवर्यादिभिरुदकैः सोममभिषुण्वन्ति ॥


त्रीणि॑ त्रि॒तस्य॒ धार॑या पृ॒ष्ठेष्वेर॑या र॒यिम् ।

मिमी॑ते अस्य॒ योज॑ना॒ वि सु॒क्रतुः॑ ॥

त्रीणि । त्रितस्य । धारया । पृष्ठेषु । आ । ईरय । रयिम् ।

मिमीते । अस्य । योजना । वि । सुऽक्रतुः ।। ३ ।।

हे सोम "त्रितस्य मम यज्ञस्य स्वभूतानि “त्रीणि सवनानि “धारया आत्मीयया विधारय । किंच "पृष्ठेषु सामसु रयिं दातारमिन्द्रम् “आ “ईरय आगमय । “सुक्रतुः सुप्रज्ञः स्तोता “अस्य इन्द्रस्य “योजना योजनानि योजनकारीणि स्तोत्राणि "वि “मिमीते करोति । यस्मादेवं तस्मादिन्द्रं सामसु प्रेरयेत्यर्थः ॥


ज॒ज्ञा॒नं स॒प्त मा॒तरो॑ वे॒धाम॑शासत श्रि॒ये ।

अ॒यं ध्रु॒वो र॑यी॒णां चिके॑त॒ यत् ॥

जज्ञानम् । सप्त । मातरः । वेधाम् । अशासत । श्रिये ।

अयम् । ध्रुवः। रयीणाम् । चिकेत । यत् ॥४॥

"जज्ञानं प्रादुर्भूतं "वेधां कर्मणो विधातारं सोमं “सप्त सप्तसंख्याकाः “मातरः गङ्गाद्या नद्यः सप्त छन्दांसि वा "श्रिये यजमानानामैश्वर्यार्थम् “अशासत अनुशासति अनुशासनं कुर्वन्ति । शास्तेर्लङि व्यत्ययेनात्मनेपदम् । “यत् यस्मात् “ध्रुवः “अयं सोमः “रयीणां धनानि “चिकेत जानाति तस्मादस्यानुशासने कृते यजमानानां धनादिसमृद्धिर्भवति ॥


अ॒स्य व्र॒ते स॒जोष॑सो॒ विश्वे॑ दे॒वासो॑ अ॒द्रुहः॑ ।

स्पा॒र्हा भ॑वन्ति॒ रन्त॑यो जु॒षन्त॒ यत् ॥

अस्य । व्रते । सऽजोषसः । विश्वे । देवासः। अद्रुहः।

स्पार्हाः। भवन्ति। रन्तयः। जुषन्त । यत्॥५॥

“अद्रुहः द्रोहवर्जिताः "विश्वे सर्वे “देवासः देवाः “अस्य सोमस्य “व्रते कर्मणि “सजोषसः संगताः सन्तः "स्पार्हाः स्पृहणीयाः “भवन्ति । “रन्तयः रमणशीला देवाः सुतमेनं सोमं “यत् यदि “जुषन्त सेवन्ते तर्हि स्पृहणीया भवन्ति ॥ ॥ ४ ॥


यमी॒ गर्भ॑मृता॒वृधो॑ दृ॒शे चारु॒मजी॑जनन् ।

क॒विं मंहि॑ष्ठमध्व॒रे पु॑रु॒स्पृह॑म् ॥

यम् । ईमिति । गर्भम् । ऋतऽवृधः । दृशे । चारुम् । अजीजनन् ।

कविम् । मंहिष्ठम् । अध्वरे । पुरुऽस्पृहम् ॥ ६ ॥

“ऋतावृधः यज्ञस्य वर्धयित्र्यो वसतीवर्याख्या आपः “गर्भं गर्भस्थानीयम् “ईम् एनं “यं सोमम् “अध्वरे यज्ञे “दृशे दर्शनाय “अजीजनन् उदपादयन् । कीदृशम् । “चारुं सर्वेषां कल्याणरूपं “कविं क्रान्तप्रज्ञं “मंहिष्ठं पूज्यतमं दातृतमं वा अत एव “पुरुस्पृहं बहुभिः स्पृहणीयं सोमं देवाः सेवन्त इति पूर्वेण समन्वयः ॥


स॒मी॒ची॒ने अ॒भि त्मना॑ य॒ह्वी ऋ॒तस्य॑ मा॒तरा॑ ।

त॒न्वा॒ना य॒ज्ञमा॑नु॒षग्यद॑ञ्ज॒ते ॥

समीचीने इति सम्ऽईचीने । अभि । त्मना । यह्वी इति । ऋतस्य । मातरा ।

तन्वानाः । यज्ञम् । आनुषक् । यत् । अञ्जते ॥ ७ ॥

स सोमः “समीचीने परस्परं संगते “यह्वी महत्यौ “ऋतस्य यज्ञस्य “मातरा निर्मात्र्यौ द्यावापृथिव्यौ “त्मना आत्मना स्वयमेव तदा “अभि गच्छति। “यत् यदा “यज्ञं “तन्वानाः अध्वर्यवः “आनुषक् अनुषक्तं वसतीवरीभिः “अञ्जते सोमं मिश्रयन्ति तदा स्वयमभिगच्छति ॥


क्रत्वा॑ शु॒क्रेभि॑र॒क्षभि॑रृ॒णोरप॑ व्र॒जं दि॒वः ।

हि॒न्वन्नृ॒तस्य॒ दीधि॑तिं॒ प्राध्व॒रे ॥

क्रत्वा । शुक्रेभिः । अक्षऽभिः । ऋणोः । अप । व्रजम् । दिवः ।।

हिन्वन् । ऋतस्य । दीधितिम् । प्र । अध्वरे ।। ८ ॥

हे सोम त्वं “क्रत्वा कर्मणा ज्ञानेन वा “शुक्रेभिः शुक्रैर्दीप्यमानैः "अक्षभिः अक्षैरिन्द्रियैरिवाश्नुवानैः स्वतेजोभिः “व्रजम् अन्धकारसमूहं “दिवः अन्तरिक्षात् "अप “ऋणोः अपगमय विनाशय । ऋणु गतौ' । तानादिकः । किं कुर्वन् । “अध्वरे हिंसारहिते यज्ञे “ऋतस्य यज्ञस्य "दीधितिं धारकं स्वीयं रसं “प्र “हिन्वन् प्रेरयन् । अनेन लोकद्वयवर्तित्वमभिहितम् ॥ ॥ ५ ॥

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_९.१०२&oldid=146236" इत्यस्माद् पुनः प्राप्तिः