सामवेदः/कौथुमीया/संहिता/ग्रामगेयः/प्रपाठकः १७/वाचस्सामनी द्वे(प्राणा)

विकिस्रोतः तः
वाचस्सामनी
वाचस्सामनी


प्राणा शिशुर्महीनां हिन्वन्नृतस्य दीधितिं ।
विश्वा परि प्रिया भुवदध द्विता ॥ ५७० ॥ ऋ. ९.१०२.१
 
(५७०।१) ॥ वाचस्सामनी द्वे । द्वयोर्वागुष्णिक्सोमः ॥
प्राणा ।। शाऽ२३४इशुः । महाऽ२३४इनाम् । हिन्वाऽ२नाऽ२३४र्ताऽ३ ।
स्याऽ३दाइधीऽ३तीम् ॥ वाइश्वापरि । प्रियाभुवाऽ२३त् ॥ अधद्विताऽ३४३ । । ।
ओs२३४५इ ॥ डा ॥
 
(५७०।१) ॥ वाचस्सामनी द्वे । द्वयोर्वागुष्णिक्सोमः ॥
प्राणा ।। शाऽ२३४इशुः । महाऽ२३४इनाम् । हिन्वाऽ२नाऽ२३४र्त्ता । स्याऽ३दाइधीऽ३तीम् ॥ वाइश्वापरि । प्रियाभुवाऽ२३त् ॥ अधद्विताऽ३४३ । ओऽ२३४५इ ॥ डा ॥
( दी० २ । प० १० । मा० ९ ) १९ ( ञो । ११४२ )

(५७०/२)
प्राणाप्राणा ॥ शाइशूऽ२:शाइशूऽ२: । महाऽ३१उवायेऽ३ । नाऽ२३४५म् । हिन्वन्नार्त्तस्यदाऽ३१उवायेऽ३ । धीऽ२३४तीम् । विश्वापारिप्रियाऽ३१उवाऽ२३ ।
भूऽ२३४वात् ॥ अधौऽ२ । हौऽ२ । हुवायेऽ३ ॥ द्वाऽ२इताऽ२३४औहोवा ॥ ऊऽ३२३४पा ।।
( दी० ३ । प० १३ । मा० ११ ) २० ( ड्ल। ११४३ )

(५७०।३) ॥ इन्द्रसामनी द्वे । द्वयोरिन्द्रोष्णिक्सोमः ॥
प्राणाशिशुः ॥ महाऽइनाम् । औहोऽ३वा । हिन्वन्नृतस्यदीधितिम् ॥ वाइश्वाउवा । पाराउवा ॥ प्रियाऽ२भुवत । अधाउवाऽ३ ॥एऽ३ । द्विताऽ१ ॥
( दी० ५।प० १० । मा० ९ ) २१ ( मो । ११४४ )

(५७०/४)
प्राणा । होs३इ । इयाहाइ ॥ शाइशुर्महाइ । नाऽ२३म् । आउहाउ । होऽ३वा । हिन्वन्नृतस्य दीधिताइम् । आउहाउ । होऽ३वा ॥ विश्वापा। र्याउहाउ । होऽ३वा ॥ प्रियाऽ२३ । भूऽ२वाऽ२३४औहोवा ॥ अधद्विताऽ१
( दी० १२ । प० १६ । मा० १४ ) २२ ( ची । ११४५ )

(५७०/५) ॥ मरुतां प्रेङ्खम । मरुत उष्णिक्सोमः ॥
प्राणा । हहोइ । शाs२३४इशू: । हहोऽ३इ । महीनाऽ२३म् । होवाऽ३होयेऽ३४ ॥ हिन्वन् । हहोइ । आऽ२३४र्त्ता । हहोऽ३ । स्यदीधिताऽ२३इम् । होवाऽ३होयेऽ३४ ॥ विश्वा । हहोइ । पाऽ२३४री ।
हहोऽ३इ । प्रियाभुवाऽ२३त् । होवाऽ३होयेऽ३ ।। आऽ२३धाऽ३ । द्वाऽ३४५इतोऽ६हाइ ॥
( दी० ६ । प० २० । मा० १४ ) २३ ( ङी । ११४६ )



[सम्पाद्यताम्]

टिप्पणी