ऋग्वेदः सूक्तं ९.७०

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं ९.६९ ऋग्वेदः - मण्डल ९
सूक्तं ९.७०
रेणुर्वैश्वामित्रः
सूक्तं ९.७१ →
दे. पवमानः सोमः। जगती, १० त्रिष्टुप्


त्रिरस्मै सप्त धेनवो दुदुह्रे सत्यामाशिरं पूर्व्ये व्योमनि ।
चत्वार्यन्या भुवनानि निर्णिजे चारूणि चक्रे यदृतैरवर्धत ॥१॥
स भिक्षमाणो अमृतस्य चारुण उभे द्यावा काव्येना वि शश्रथे ।
तेजिष्ठा अपो मंहना परि व्यत यदी देवस्य श्रवसा सदो विदुः ॥२॥
ते अस्य सन्तु केतवोऽमृत्यवोऽदाभ्यासो जनुषी उभे अनु ।
येभिर्नृम्णा च देव्या च पुनत आदिद्राजानं मनना अगृभ्णत ॥३॥
स मृज्यमानो दशभिः सुकर्मभिः प्र मध्यमासु मातृषु प्रमे सचा ।
व्रतानि पानो अमृतस्य चारुण उभे नृचक्षा अनु पश्यते विशौ ॥४॥
स मर्मृजान इन्द्रियाय धायस ओभे अन्ता रोदसी हर्षते हितः ।
वृषा शुष्मेण बाधते वि दुर्मतीरादेदिशानः शर्यहेव शुरुधः ॥५॥
स मातरा न ददृशान उस्रियो नानददेति मरुतामिव स्वनः ।
जानन्नृतं प्रथमं यत्स्वर्णरं प्रशस्तये कमवृणीत सुक्रतुः ॥६॥
रुवति भीमो वृषभस्तविष्यया शृङ्गे शिशानो हरिणी विचक्षणः ।
आ योनिं सोमः सुकृतं नि षीदति गव्ययी त्वग्भवति निर्णिगव्ययी ॥७॥
शुचिः पुनानस्तन्वमरेपसमव्ये हरिर्न्यधाविष्ट सानवि ।
जुष्टो मित्राय वरुणाय वायवे त्रिधातु मधु क्रियते सुकर्मभिः ॥८॥
पवस्व सोम देववीतये वृषेन्द्रस्य हार्दि सोमधानमा विश ।
पुरा नो बाधाद्दुरिताति पारय क्षेत्रविद्धि दिश आहा विपृच्छते ॥९॥
हितो न सप्तिरभि वाजमर्षेन्द्रस्येन्दो जठरमा पवस्व ।
नावा न सिन्धुमति पर्षि विद्वाञ्छूरो न युध्यन्नव नो निद स्पः ॥१०॥


सायणभाष्यम्

‘ त्रिरस्मै ' इति दशर्चं तृतीयं सूक्तं वैश्वामित्रस्य रेणोरार्षम् । दशमी त्रिष्टुप् शिष्टा जगत्यः ।। पवमानः सोमो देवता । ' त्रिरस्मै रेणुः' इत्यनुक्रान्तम् । गतो विनियोगः ॥


त्रिर॑स्मै स॒प्त धे॒नवो॑ दुदुह्रे स॒त्यामा॒शिरं॑ पू॒र्व्ये व्यो॑मनि ।

च॒त्वार्य॒न्या भुव॑नानि नि॒र्णिजे॒ चारू॑णि चक्रे॒ यदृ॒तैरव॑र्धत ॥१

त्रिः । अ॒स्मै॒ । स॒प्त । धे॒नवः॑ । दु॒दु॒ह्रे॒ । स॒त्याम् । आ॒ऽशिर॑म् । पू॒र्व्ये । विऽओ॑मनि ।

च॒त्वारि॑ । अ॒न्या । भुव॑नानि । निः॒ऽनिजे॑ । चारू॑णि । च॒क्रे॒ । यत् । ऋ॒तैः । अव॑र्धत ॥

त्रिः । अस्मै । सप्त । धेनवः । दुदुह्रे । सत्याम् । आऽशिरम् । पूर्व्ये । विऽओमनि ।

चत्वारि । अन्या । भुवनानि । निःऽनिजे । चारूणि । चक्रे । यत् । ऋतैः । अवर्धत ॥

“अस्मै पवमानाय “पूर्व्ये पूर्वैः कृते "व्योमनि । विविधमोमावनं गमनं देवानामत्रेति व्योम यज्ञः । तस्मिन् स्थिताय । यद्वा । प्रत्ने व्योमन्यन्तरिक्षे वर्तमानाय । "त्रिः "सप्त एकविंशतिसंख्याकाः “धेनवः प्रीणयित्र्यो गावः “सत्यां यथार्थभूताम् “आशिरम् आश्रयणसाधनं क्षीरादि “दुदुहे दुहन्ति । यद्वा । त्रिः सप्त द्वादश मासाः पञ्चर्तवस्त्रय इमे लोका असावादित्य एकविंशः' (तै. सं.५.४.१२.२) इत्येतैः सर्वैः सह गोषु पय उत्पाद्यते तद्भावो दुहन्त इति । किंचायं सोमः "अन्या अन्यानि “चत्वारि “भुवनानि उदकानि वसतीवरीस्तिस्रश्चैकधना इति तानि चतुःसंख्याकानि “चारूणि कल्याणान्युदकानि “निर्णिजे निर्णेजनाय परिशोधनाय परिपोषणाय वा “चक्रे । कदा करोति । “यत् यदा अयम् "ऋतैः यज्ञैः “अवर्धत वर्धितवान् तदा करोति ॥


स भिक्ष॑माणो अ॒मृत॑स्य॒ चारु॑ण उ॒भे द्यावा॒ काव्ये॑ना॒ वि श॑श्रथे ।

तेजि॑ष्ठा अ॒पो मं॒हना॒ परि॑ व्यत॒ यदी॑ दे॒वस्य॒ श्रव॑सा॒ सदो॑ वि॒दुः ॥२

सः । भिक्ष॑माणः । अ॒मृत॑स्य । चारु॑णः । उ॒भे इति॑ । द्यावा॑ । काव्ये॑न । वि । श॒श्र॒थे॒ ।

तेजि॑ष्ठाः । अ॒पः । मं॒हना॑ । परि॑ । व्य॒त॒ । यदि॑ । दे॒वस्य॑ । श्रव॑सा । सदः॑ । वि॒दुः ॥

सः । भिक्षमाणः । अमृतस्य । चारुणः । उभे इति । द्यावा । काव्येन । वि । शश्रथे ।

तेजिष्ठाः । अपः । मंहना । परि । व्यत । यदि । देवस्य । श्रवसा । सदः । विदुः ॥

“सः पवमानः “चारुणः कल्याणस्य “अमृतस्य उदकस्य । ‘क्रियाग्रहणं कर्तव्यम्' इति कर्मणः संप्रदानसंज्ञा । चतुर्थ्यर्थे बहुलम्' (पा. सू. २.३.६२) इति षष्ठी । चारूदकं “भिक्षमाणः यष्टृभिर्याच्यमानः सन् "उभे । द्यावादेशस्य द्वंद्वे विहितत्वादत्रोत्तरपदाभावे द्वंद्वः प्रतीयते । उभे द्यावापृथिव्यौ “काव्येन कविकर्मणा “वि “शश्रथे विवृते करोति । यज्ञनिमित्तेन उदकेन संपूरयतीत्यर्थः । किंच "तेजिष्ठाः अतिशयेन दीप्तानि “अपः उदकानि "मंहना महत्त्वेन “परि “व्यत वरणार्थं परित आच्छादयति । “यदि यदा ऋत्विजः “देवस्य द्योतमानस्य सोमस्य “सदः स्थानं “श्रवसा हविषा युक्ताः सन्तः “विदुः यागार्थं जानन्ति लभन्ते तदा परित आवृणोतीति । ‘ विद ज्ञाने'।' सिजभ्यस्त°' इति झेर्जुसादेशः ॥


ते अ॑स्य सन्तु के॒तवोऽमृ॑त्य॒वोऽदा॑भ्यासो ज॒नुषी॑ उ॒भे अनु॑ ।

येभि॑र्नृ॒म्णा च॑ दे॒व्या॑ च पुन॒त आदिद्राजा॑नं म॒नना॑ अगृभ्णत ॥३

ते । अ॒स्य॒ । स॒न्तु॒ । के॒तवः॑ । अमृ॑त्यवः । अदा॑भ्यासः । ज॒नुषी॒ इति॑ । उ॒भे इति॑ । अनु॑ ।

येभिः॑ । नृ॒म्णा । च॒ । दे॒व्या॑ । च॒ । पु॒न॒ते । आत् । इत् । राजा॑नम् । म॒ननाः॑ । अ॒गृ॒भ्ण॒त॒ ॥

ते । अस्य । सन्तु । केतवः । अमृत्यवः । अदाभ्यासः । जनुषी इति । उभे इति । अनु ।

येभिः । नृम्णा । च । देव्या । च । पुनते । आत् । इत् । राजानम् । मननाः । अगृभ्णत ॥

“अस्य एतादृशस्य सोमस्य "केतवः प्रज्ञापकाः सर्वैश्चायनीयाः “अमृत्यवः मरणधर्मरहिता अत एव “अदाभ्यासः । दभेश्चेति वक्तव्यम्' (पा. सू. ३. १. १२४. ३) इति ण्यत् । परैरहिंस्याः “ते तादृशाः अस्य रश्मयः “उभे “जनुषी जन्मनी स्थावरजङ्गमात्मके द्वे “अनु लक्षीकृत्य “सन्तु रक्षन्तु । ओषधीनामयं सोमो रेतो निषिञ्चति यज्ञे मनुष्याणां च धाराः स्रवन्ति खलु । सोऽयं “येभिः यैः केतुभिः "नृम्णा नृम्णानि बलानि “देव्या देवार्हाणि “च अन्नानि “पुनते प्रेरयति “आदित् अभिषवानन्तरमेव “राजानं सोमं “मननाः मननीयाः स्तुतयः "अगृभ्णत परिगृह्णन्ति । प्राप्नुवन्तीत्यर्थः । ‘ हृग्रहोः' इति भकारः ॥


स मृ॒ज्यमा॑नो द॒शभिः॑ सु॒कर्म॑भि॒ः प्र म॑ध्य॒मासु॑ मा॒तृषु॑ प्र॒मे सचा॑ ।

व्र॒तानि॑ पा॒नो अ॒मृत॑स्य॒ चारु॑ण उ॒भे नृ॒चक्षा॒ अनु॑ पश्यते॒ विशौ॑ ॥४

सः । मृ॒ज्यमा॑नः । द॒शऽभिः॑ । सु॒कर्म॑ऽभिः । प्र । म॒ध्य॒मासु॑ । मा॒तृषु॑ । प्र॒ऽमे । सचा॑ ।

व्र॒तानि॑ । पा॒नः । अ॒मृत॑स्य । चारु॑णः । उ॒भे इति॑ । नृ॒ऽचक्षाः॑ । अनु॑ । प॒श्य॒ते॒ । विशौ॑ ॥

सः । मृज्यमानः । दशऽभिः । सुकर्मऽभिः । प्र । मध्यमासु । मातृषु । प्रऽमे । सचा ।

व्रतानि । पानः । अमृतस्य । चारुणः । उभे इति । नृऽचक्षाः । अनु । पश्यते । विशौ ॥

"सः पवमानः “सुकर्मभिः शोभनकर्मयुक्ताभिः "दशभिः दशसंख्याकाभिरङ्गुलीभिः “मृज्यमानः सः “सचा ‘अग्नौ प्रास्ताहुतिः' इत्यादिक्रमेणापां सहायः “प्रमे लोकान् प्रमातुं “मध्यमासु अन्तरिक्षस्थितासु अवतिष्ठते ॥ प्रमे । प्रपूर्वान्मातेः क्विपि ङयि ‘आतः' इति योगविभागादाकारलोपः ॥ किंच “नृचक्षाः नृणां द्रष्टा पवमानः “चारुणः कल्याणस्य “अमृतस्य उदकस्य वृष्ट्यर्थं “व्रतानि यागादिकर्माणि “पानः रक्षन् “उभे “विशौ मनुष्यान् देवांश्चान्तरिक्षेण गच्छन् “अनु “पश्यते अनुपश्यति । मनुष्यानभिमतदानेन देवान् हविष्प्रदानेनेति ।।


स म॑र्मृजा॒न इ॑न्द्रि॒याय॒ धाय॑स॒ ओभे अ॒न्ता रोद॑सी हर्षते हि॒तः ।

वृषा॒ शुष्मे॑ण बाधते॒ वि दु॑र्म॒तीरा॒देदि॑शानः शर्य॒हेव॑ शु॒रुधः॑ ॥५

सः । म॒र्मृ॒जा॒नः । इ॒न्द्रि॒याय॑ । धाय॑से । आ । उ॒भे इति॑ । अ॒न्तरिति॑ । रोद॑सी॒ इति॑ । ह॒र्ष॒ते॒ । हि॒तः ।

वृषा॑ । शुष्मे॑ण । बा॒ध॒ते॒ । वि । दुः॒ऽम॒तीः । आ॒देदि॑शानः । श॒र्य॒हाऽइ॑व । शु॒रुधः॑ ॥

सः । मर्मृजानः । इन्द्रियाय । धायसे । आ । उभे इति । अन्तरिति । रोदसी इति । हर्षते । हितः ।

वृषा । शुष्मेण । बाधते । वि । दुःऽमतीः । आदेदिशानः । शर्यहाऽइव । शुरुधः ॥

“मर्मृजानः पवित्रेण मृज्यमानः “सः पवमानः “धायसे जगतो धारकाय “इन्द्रियाय इन्द्रस्य पर्याप्ताय बलाय तदर्थम् “उभे “रोदसी। ‘ कालाध्वनोः' इति द्वितीया । उभयोः द्यावापृथिव्योः “अन्तः “हितः मध्ये वर्तमानः सन् “आ “हर्षते सर्वतो गच्छति । इन्द्रस्य हि सोमेन बलं भवति । “वृषा कामानामुदकानां वा वर्षकः सोऽयं “शुष्मेण शोषकेण बलेन “दुर्मतीः दुष्टबुद्धीनसुरान् “वि “बाधते विशेषेण पीडयति । किं कुर्वन् । “शुरुधः । शुचा रुन्धन्ति परानिति । पृषोदरादिः । दुःखकारिणोऽसुरान् “आदेदिशानः पुनःपुनराह्वयन् हन्ति । तत्र दृष्टान्तः। “शर्यहेव । हननसाधनैः इषुभिर्हन्ता वीरः प्रतिभटान् यथा हिनस्ति तद्वत् ॥ ॥ २३ ॥


स मा॒तरा॒ न ददृ॑शान उ॒स्रियो॒ नान॑ददेति म॒रुता॑मिव स्व॒नः ।

जा॒नन्नृ॒तं प्र॑थ॒मं यत्स्व॑र्णरं॒ प्रश॑स्तये॒ कम॑वृणीत सु॒क्रतुः॑ ॥६

सः । मा॒तरा॑ । न । ददृ॑शानः । उ॒स्रियः॑ । नान॑दत् । ए॒ति॒ । म॒रुता॑म्ऽइव । स्व॒नः ।

जा॒नन् । ऋ॒तम् । प्र॒थ॒मम् । यत् । स्वः॑ऽनरम् । प्रऽश॑स्तये । कम् । अ॒वृ॒णी॒त॒ । सु॒ऽक्रतुः॑ ॥

सः । मातरा । न । ददृशानः । उस्रियः । नानदत् । एति । मरुताम्ऽइव । स्वनः ।

जानन् । ऋतम् । प्रथमम् । यत् । स्वःऽनरम् । प्रऽशस्तये । कम् । अवृणीत । सुऽक्रतुः ॥

“सः पवमानः “मातरा मातरौ द्यावापृथिव्यौ “ददृशानः पुनःपुनः पश्यन् ततः “नानदत् भृशं शब्दं कुर्वन् “एति सर्वत्र गच्छति । तत्र दृष्टान्तः । “उस्रियः “न । उस्रियेति गोनाम । तस्य स्वभूतो वत्सो यथा मातरं गां पश्यन् शब्दं करोति तद्वत् । किंच “मरुतामिव । यथा मरुतां गणः “स्वनः । पचाद्यजन्तः । स्वनं कुर्वन् सर्वतो गच्छति तद्वत् । “यत् उदकं “स्वर्णरम् । स्वरिति सर्वपर्यायः । सर्वमनुष्यहितं भवति । सर्वे हि मनुष्या उदके संगच्छन्ते तत्कार्यत्वात् । तादृशं “प्रथमं मुख्यम् “ऋतम् उदकं “जानन् विद्वान् “सुक्रतुः शोभनकर्मा सुप्रज्ञो वा स पवमानः “प्रशस्तये प्रशंसनायात्मस्तोत्रकरणाय "कं मनुष्यम् “अवृणीत समभजत । नान्यमस्मद्व्यतिरिक्तमित्यर्थः ॥


रु॒वति॑ भी॒मो वृ॑ष॒भस्त॑वि॒ष्यया॒ शृङ्गे॒ शिशा॑नो॒ हरि॑णी विचक्ष॒णः ।

आ योनिं॒ सोम॒ः सुकृ॑तं॒ नि षी॑दति ग॒व्ययी॒ त्वग्भ॑वति नि॒र्णिग॒व्ययी॑ ॥७

रु॒वति॑ । भी॒मः । वृ॒ष॒भः । त॒वि॒ष्यया॑ । शृङ्गे॒ इति॑ । शिशा॑नः । हरि॑णी॒ इति॑ । वि॒ऽच॒क्ष॒णः ।

आ । योनि॑म् । सोमः॑ । सुऽकृ॑तम् । नि । सी॒द॒ति॒ । ग॒व्ययी॑ । त्वक् । भ॒व॒ति॒ । निः॒ऽनिक् । अ॒व्ययी॑ ॥

रुवति । भीमः । वृषभः । तविष्यया । शृङ्गे इति । शिशानः । हरिणी इति । विऽचक्षणः ।

आ । योनिम् । सोमः । सुऽकृतम् । नि । सीदति । गव्ययी । त्वक् । भवति । निःऽनिक् । अव्ययी ॥

“भीमः शत्रूणां भयंकरः “वृषभः कामानामुदकानां वा वर्षणः “विचक्षणः सर्वस्य विदर्शनशीलः स पवमानः “तविष्यया । तु इति वृद्ध्यर्थः । अस्मात् “ अच इः' (उ. सू. ४. १३८ ) इति इप्रत्ययः । तस्मादिच्छायामर्थे क्यच् । सर्वप्रातिपदिकेभ्यः (का. ७.१.५१.३ ) इति सुगागमः । आत्मनो बलेच्छया “हरिणी हरितवर्णे द्वे “शृङ्गे “शिशानः तीक्ष्णीकुर्वन् द्रोणकलशं प्रति द्वाभ्यां धाराभ्यां स्थाल्याग्रयणं गृह्णाति । तदुच्यते । ते धारारूपशृङ्गे तीक्ष्णीकुर्वन् “रुवति शब्दायते । ‘रु शब्दे'। ‘बहुलं छन्दसि' इति शः । ततः सः “सोमः “सुकृतं सुष्ठु कृतं “योनिं स्वस्थानं द्रोणकलशम् “आ “नि “षीदति समन्तात्तिष्ठति । तस्य सोमस्य “निर्णिक् निर्नेक्त्री परिशोधयित्री “गव्ययी गोमयी “त्वग्भवति । आनडुहे हि चर्मणि सोमाभिषवः । एवम् “अव्ययी अविमयी त्वक् च निर्नेक्त्री भवति । तद्धि दशापवित्रापेक्ष्यमभिहितम् ॥


शुचिः॑ पुना॒नस्त॒न्व॑मरे॒पस॒मव्ये॒ हरि॒र्न्य॑धाविष्ट॒ सान॑वि ।

जुष्टो॑ मि॒त्राय॒ वरु॑णाय वा॒यवे॑ त्रि॒धातु॒ मधु॑ क्रियते सु॒कर्म॑भिः ॥८

शुचिः॑ । पु॒ना॒नः । त॒न्व॑म् । अ॒रे॒पस॑म् । अव्ये॑ । हरिः॑ । नि । अ॒धा॒वि॒ष्ट॒ । सान॑वि ।

जुष्टः॑ । मि॒त्राय॑ । वरु॑णाय । वा॒यवे॑ । त्रि॒ऽधातु॑ । मधु॑ । क्रि॒य॒ते॒ । सु॒कर्म॑ऽभिः ॥

शुचिः । पुनानः । तन्वम् । अरेपसम् । अव्ये । हरिः । नि । अधाविष्ट । सानवि ।

जुष्टः । मित्राय । वरुणाय । वायवे । त्रिऽधातु । मधु । क्रियते । सुकर्मऽभिः ॥

"अरेपसं पापरहितम् । यद्वा । ‘रिपि गतौ । गतिरहितम् । पात्रे स्थितमित्यर्थः । तादृशं “तन्वम् आत्मीयं शरीरं “पुनानः शोधयन् अत एव “शुचिः पूतो दीप्यमानो वा “हरिः हरितवर्णः सोमः “सानवि सानुनि समुच्छ्रिते “अव्ये अविवालकृते दशापवित्रे “न्यधाविष्ट ऋत्विग्भिर्निधीयते । ‘ धूञ् कम्पने । स्यसिच्सीयुट्तासिषु' ( पा. सू. ६. ४. ६२ ) इति कर्मणि लुङि चिण्वदिट् । णित्त्वाद्वृद्धिः । ततः “मित्राय “वरुणाय “वायवे एतेभ्यः “जुष्टः पर्याप्तः “त्रिधातु त्रिसंधानो वसतीवरीभिर्दध्ना पयसा संस्पृष्टः सोमः “त्रिधातु तादृशं “मधु मदकरः सोमः “सुकर्मभिः शोभनकर्मयुक्तैर्ऋत्विग्भिः “क्रियते मित्रादिदेवार्थं प्रदीयते ॥


पव॑स्व सोम दे॒ववी॑तये॒ वृषेन्द्र॑स्य॒ हार्दि॑ सोम॒धान॒मा वि॑श ।

पु॒रा नो॑ बा॒धाद्दु॑रि॒ताति॑ पारय क्षेत्र॒विद्धि दिश॒ आहा॑ विपृच्छ॒ते ॥९

पव॑स्व । सो॒म॒ । दे॒वऽवी॑तये । वृषा॑ । इन्द्र॑स्य । हार्दि॑ । सो॒म॒ऽधान॑म् । आ । वि॒श॒ ।

पु॒रा । नः॒ । बा॒धात् । दुः॒ऽइ॒ता । अति॑ । पा॒र॒य॒ । क्षे॒त्र॒ऽवित् । हि । दिशः॑ । आह॑ । वि॒ऽपृ॒च्छ॒ते ॥

पवस्व । सोम । देवऽवीतये । वृषा । इन्द्रस्य । हार्दि । सोमऽधानम् । आ । विश ।

पुरा । नः । बाधात् । दुःऽइता । अति । पारय । क्षेत्रऽवित् । हि । दिशः । आह । विऽपृच्छते ॥

हे "सोम “वृषा कामानामुदकानां वा सेचकस्त्वं “देववीतये देवानां पानाय “पवस्व कलशादिषु क्षर। अथ हे सोम त्वम् “इन्द्रस्य “हार्दि हृदयंगमं प्रियं “सोमधानम्। सोमो निधीयतेऽस्मिन्निति सोमधानं पात्रम् । तत् “आ “विश प्रविश । किंच “नः अस्माकं “बाधात् बाधनात् पीडनात् “पुरा पूर्वमेव दुरितानि दुर्गमनानि रक्षांसि “अति “पारय अतीत्य पारं गमय । अपि च “क्षेत्रवित् मार्गज्ञः पुरुषः “विपृच्छते विविधं पन्थानं पृच्छते जनाय “दिशः मार्गान् “आह “हि ब्रूते खलु । उक्त्वा तं यथा रक्षति तथा यज्ञमार्गवेत्ता त्वमस्मभ्यं यज्ञपथ उक्त्वास्मान् पालयेति ।


हि॒तो न सप्ति॑र॒भि वाज॑म॒र्षेन्द्र॑स्येन्दो ज॒ठर॒मा प॑वस्व ।

ना॒वा न सिन्धु॒मति॑ पर्षि वि॒द्वाञ्छूरो॒ न युध्य॒न्नव॑ नो नि॒दः स्पः॑ ॥१०

हि॒तः । न । सप्तिः॑ । अ॒भि । वाज॑म् । अ॒र्ष॒ । इन्द्र॑स्य । इ॒न्दो॒ इति॑ । ज॒ठर॑म् । आ । प॒व॒स्व॒ ।

ना॒वा । न । सिन्धु॑म् । अति॑ । प॒र्षि॒ । वि॒द्वान् । शूरः॑ । न । युध्य॑न् । अव॑ । नः॒ । नि॒दः । स्प॒रिति॑ स्पः ॥

हितः । न । सप्तिः । अभि । वाजम् । अर्ष । इन्द्रस्य । इन्दो इति । जठरम् । आ । पवस्व ।

नावा । न । सिन्धुम् । अति । पर्षि । विद्वान् । शूरः । न । युध्यन् । अव । नः । निदः । स्परिति स्पः ॥

हे सोम ऋत्विग्भिः प्रेर्यमाणः सन् “वाजं सोमनिधानं द्रोणकलशम् “अभि “अर्ष अभिगच्छ । तत्र दृष्टान्तः । “हितो “न “सप्तिः । अश्वो हितः प्रेर्यमाणः सन् वाजं संग्राममभिलक्ष्य यथा याति तद्वत् । ततो हे "इन्दो “इन्द्रस्य “जठरं जठरभूतं द्रोणकलशं वा “आ “पवस्व आभिमुख्येन प्रविश । किंच “विद्वान् सर्वं जानंस्त्वमस्मान् “अति “पर्षि दुरितान्यतीत्य पारय । तत्र दृष्टान्तः । "नावा “न । यथा नाविकाः “सिन्धुं नदीं नावा मनुष्यान् पारयन्ति तद्वत् । किंच हे सोम त्वं “शूरो “न शूरो वीर इव “युध्यन् शत्रून् संप्रहरन् “निदः निन्दकाच्छत्रोः “नः अस्मान् “अव “स्पः अवपारय । बाधां विनाश्य पालय । यद्वा । नोऽस्माकं निदो निन्दकाञ्छत्रूनव स्पः अवाङ्मुखं जहि । 'स्पॄ हिंसायाम्'। ‘ बहुलं छन्दसि ' इति श्नाप्रत्ययस्य लुक् । तिपि गुणे हल्यङ्यादिना तिपो लोपः ॥ ॥ २४ ॥

मण्डल ९

सूक्तं ९.१

सूक्तं ९.२

सूक्तं ९.३

सूक्तं ९.४

सूक्तं ९.५

सूक्तं ९.६

सूक्तं ९.७

सूक्तं ९.८

सूक्तं ९.९

सूक्तं ९.१०

सूक्तं ९.११

सूक्तं ९.१२

सूक्तं ९.१३

सूक्तं ९.१४

सूक्तं ९.१५

सूक्तं ९.१६

सूक्तं ९.१७

सूक्तं ९.१८

सूक्तं ९.१९

सूक्तं ९.२०

सूक्तं ९.२१

सूक्तं ९.२२

सूक्तं ९.२३

सूक्तं ९.२४

सूक्तं ९.२५

सूक्तं ९.२६

सूक्तं ९.२७

सूक्तं ९.२८

सूक्तं ९.२९

सूक्तं ९.३०

सूक्तं ९.३१

सूक्तं ९.३२

सूक्तं ९.३३

सूक्तं ९.३४

सूक्तं ९.३५

सूक्तं ९.३६

सूक्तं ९.३७

सूक्तं ९.३८

सूक्तं ९.३९

सूक्तं ९.४०

सूक्तं ९.४१

सूक्तं ९.४२

सूक्तं ९.४३

सूक्तं ९.४४

सूक्तं ९.४५

सूक्तं ९.४६

सूक्तं ९.४७

सूक्तं ९.४८

सूक्तं ९.४९

सूक्तं ९.५०

सूक्तं ९.५१

सूक्तं ९.५२

सूक्तं ९.५३

सूक्तं ९.५४

सूक्तं ९.५५

सूक्तं ९.५६

सूक्तं ९.५७

सूक्तं ९.५८

सूक्तं ९.५९

सूक्तं ९.६०

सूक्तं ९.६१

सूक्तं ९.६२

सूक्तं ९.६३

सूक्तं ९.६४

सूक्तं ९.६५

सूक्तं ९.६६

सूक्तं ९.६७

सूक्तं ९.६८

सूक्तं ९.६९

सूक्तं ९.७०

सूक्तं ९.७१

सूक्तं ९.७२

सूक्तं ९.७३

सूक्तं ९.७४

सूक्तं ९.७५

सूक्तं ९.७६

सूक्तं ९.७७

सूक्तं ९.७८

सूक्तं ९.७९

सूक्तं ९.८०

सूक्तं ९.८१

सूक्तं ९.८२

सूक्तं ९.८३

सूक्तं ९.८४

सूक्तं ९.८५

सूक्तं ९.८६

सूक्तं ९.८७

सूक्तं ९.८८

सूक्तं ९.८९

सूक्तं ९.९०

सूक्तं ९.९१

सूक्तं ९.९२

सूक्तं ९.९३

सूक्तं ९.९४

सूक्तं ९.९५

सूक्तं ९.९६

सूक्तं ९.९७

सूक्तं ९.९८

सूक्तं ९.९९

सूक्तं ९.१००

सूक्तं ९.१०१

सूक्तं ९.१०२

सूक्तं ९.१०३

सूक्तं ९.१०४

सूक्तं ९.१०५

सूक्तं ९.१०६

सूक्तं ९.१०७

सूक्तं ९.१०८

सूक्तं ९.१०९

सूक्तं ९.११०

सूक्तं ९.१११

सूक्तं ९.११२

सूक्तं ९.११३

सूक्तं ९.११४

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_९.७०&oldid=179256" इत्यस्माद् पुनः प्राप्तिः