ऋग्वेदः सूक्तं ९.७१

विकिस्रोतः तः
(ऋग्वेद: सूक्तं ९.७१ इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search
← सूक्तं ९.७० ऋग्वेदः - मण्डल ९
सूक्तं ९.७१
ऋषभो वैश्वामित्रः
सूक्तं ९.७२ →
दे. पवमानः सोमः। जगती, ९ त्रिष्टुप्।


आ दक्षिणा सृज्यते शुष्म्यासदं वेति द्रुहो रक्षसः पाति जागृविः ।
हरिरोपशं कृणुते नभस्पय उपस्तिरे चम्वोर्ब्रह्म निर्णिजे ॥१॥
प्र कृष्टिहेव शूष एति रोरुवदसुर्यं वर्णं नि रिणीते अस्य तम् ।
जहाति वव्रिं पितुरेति निष्कृतमुपप्रुतं कृणुते निर्णिजं तना ॥२॥
अद्रिभिः सुतः पवते गभस्त्योर्वृषायते नभसा वेपते मती ।
स मोदते नसते साधते गिरा नेनिक्ते अप्सु यजते परीमणि ॥३॥
परि द्युक्षं सहसः पर्वतावृधं मध्वः सिञ्चन्ति हर्म्यस्य सक्षणिम् ।
आ यस्मिन्गावः सुहुताद ऊधनि मूर्धञ्छ्रीणन्त्यग्रियं वरीमभिः ॥४॥
समी रथं न भुरिजोरहेषत दश स्वसारो अदितेरुपस्थ आ ।
जिगादुप ज्रयति गोरपीच्यं पदं यदस्य मतुथा अजीजनन् ॥५॥
श्येनो न योनिं सदनं धिया कृतं हिरण्ययमासदं देव एषति ।
ए रिणन्ति बर्हिषि प्रियं गिराश्वो न देवाँ अप्येति यज्ञियः ॥६॥
परा व्यक्तो अरुषो दिवः कविर्वृषा त्रिपृष्ठो अनविष्ट गा अभि ।
सहस्रणीतिर्यतिः परायती रेभो न पूर्वीरुषसो वि राजति ॥७॥
त्वेषं रूपं कृणुते वर्णो अस्य स यत्राशयत्समृता सेधति स्रिधः ।
अप्सा याति स्वधया दैव्यं जनं सं सुष्टुती नसते सं गोअग्रया ॥८॥
उक्षेव यूथा परियन्नरावीदधि त्विषीरधित सूर्यस्य ।
दिव्यः सुपर्णोऽव चक्षत क्षां सोमः परि क्रतुना पश्यते जाः ॥९॥


सायणभाष्यम्

‘आ दक्षिणा' इति नवर्चं चतुर्थं सूक्तं वैश्वामित्रस्यर्षभस्यार्षं पवमानसोमदेवताकम् । नवमी त्रिष्टुप् शिष्टा जगत्यः । तथा चानुक्रान्तम्-‘ आ दक्षिणा नव ऋषभस्तौ वैश्वामित्रौ' इति । ‘तौ' इत्यनेन प्रकृतो रेणुर्ऋषभश्चोभे परामृश्येते । श्रूयते हि-' अथ ह विश्वामित्रः पुत्रानामन्त्रयामास मधुच्छन्दाः शृणोतन ऋषभो रेणुरष्टकः' (ऐ. ब्रा. ७. १७) इति । गतः सूक्तविनियोगः ।।


आ दक्षि॑णा सृज्यते शु॒ष्म्या॒३॒॑सदं॒ वेति॑ द्रु॒हो र॒क्षसः॑ पाति॒ जागृ॑विः ।

हरि॑रोप॒शं कृ॑णुते॒ नभ॒स्पय॑ उप॒स्तिरे॑ च॒म्वो॒३॒॑र्ब्रह्म॑ नि॒र्णिजे॑ ॥१

आ । दक्षि॑णा । सृ॒ज्य॒ते॒ । शु॒ष्मी । आ॒ऽसद॑म् । वेति॑ । द्रु॒हः । र॒क्षसः॑ । पा॒ति॒ । जागृ॑विः ।

हरिः॑ । ओ॒प॒शम् । कृ॒णु॒ते॒ । नभः॑ । पयः॑ । उ॒प॒ऽस्तिरे॑ । च॒म्वोः॑ । ब्रह्म॑ । निः॒ऽनिजे॑ ॥

आ । दक्षिणा । सृज्यते । शुष्मी । आऽसदम् । वेति । द्रुहः । रक्षसः । पाति । जागृविः ।

हरिः । ओपशम् । कृणुते । नभः । पयः । उपऽस्तिरे । चम्वोः । ब्रह्म । निःऽनिजे ॥

सोमस्य स्वभूते यज्ञे ऋत्विग्भ्यः “दक्षिणा “आ “सृज्यते अस्माभिः प्रदीयते । “शुष्मी बलवान् सोमः “आसदम् आस्थानं द्रोणाख्यं “वेति प्रविशति । किंच “जागृविः जागरणशीलः सोमः “द्रुहः द्रोहकारिणः “रक्षसः राक्षसात् "पाति स्तोतॄन् रक्षति । अपि च "हरिः हरितवर्णः सोमः “ओपशम् । आ समन्तादुपशेत इत्योपशः । सर्वस्य धारकं “नभः नभस आदित्यस्य स्वभूतं “पयः उदकं "कृणुते सर्वत्र करोति । 'अग्नौ प्रास्ताहुतिः' इत्यादिक्रमेण करोतीत्यर्थः । यद्वा । नभोऽन्तरिक्षं पयः पयसो धारकं करोतीति । किंचायं सोमः "चम्वोः। द्यावापृथिवीनामैतत् । चमन्ति भक्षयन्ति मनुष्यदेवा अत्रेति । तयोः “उपस्तिरे उपस्तरणायाच्छादनाय “ब्रह्म बृहदुद्यतं तमांसि विनाशयन्तं यद्वा परिवृढं सूर्यं द्युलोके करोति । तथा तमेव सूर्यं “निर्निजे पदार्थानां निर्नेजनाय परिशोधनाय च करोति । आदित्यो हि द्यावापृथिव्यौ स्वतेजसोपस्तृणाति । स हि स्वभासा सर्वं निर्नेक्ति च ॥


प्र कृ॑ष्टि॒हेव॑ शू॒ष ए॑ति॒ रोरु॑वदसु॒र्यं१॒॑ वर्णं॒ नि रि॑णीते अस्य॒ तम् ।

जहा॑ति व॒व्रिं पि॒तुरे॑ति निष्कृ॒तमु॑प॒प्रुतं॑ कृणुते नि॒र्णिजं॒ तना॑ ॥२

प्र । कृ॒ष्टि॒हाऽइ॑व । शू॒षः । ए॒ति॒ । रोरु॑वत् । अ॒सु॒र्य॑म् । वर्ण॑म् । नि । रि॒णी॒ते॒ । अ॒स्य॒ । तम् ।

जहा॑ति । व॒व्रिम् । पि॒तुः । ए॒ति॒ । निः॒ऽकृ॒तम् । उ॒प॒ऽप्रुत॑म् । कृ॒णु॒ते॒ । निः॒ऽनिज॑म् । तना॑ ॥

प्र । कृष्टिहाऽइव । शूषः । एति । रोरुवत् । असुर्यम् । वर्णम् । नि । रिणीते । अस्य । तम् ।

जहाति । वव्रिम् । पितुः । एति । निःऽकृतम् । उपऽप्रुतम् । कृणुते । निःऽनिजम् । तना ॥

“शूषः शत्रूणां शोषको बलवान् सोमः “रोरुवत् अत्यन्तं शब्दं कुर्वन् “कृष्टिहेव मनुष्याणां हन्ता योद्धेव “प्र “एति प्रगच्छति । किंच "असुर्यम् असुराणां बाधकम् “अस्य आत्मनो “वर्णं हरितमावारकं बलं वा “नि “रिणीते निर्गमयति । ततः स सोमः “वव्रिम् । वृणोति शरीरमिति वव्रिर्जरा। “जहाति त्यजति । कथमिति चेत् तदुच्यते । “पितुः अन्नं सोमः “निष्कृतं संस्कृतं द्रोणकलशं दिवं वा इदानीम् “एति गच्छति । किंच सोमः “तना अविवालेन तते विस्तृते देशापवित्रे “निर्निजम् । निर्निगिति रूपनाम । आत्मीयं रूपम् “उपप्रुतम् उपगमनशीलं "कृणुते करोति । तस्माज्जरां त्यजतीत्यर्थः ॥


अद्रि॑भिः सु॒तः प॑वते॒ गभ॑स्त्योर्वृषा॒यते॒ नभ॑सा॒ वेप॑ते म॒ती ।

स मो॑दते॒ नस॑ते॒ साध॑ते गि॒रा ने॑नि॒क्ते अ॒प्सु यज॑ते॒ परी॑मणि ॥३

अद्रि॑ऽभिः । सु॒तः । प॒व॒ते॒ । गभ॑स्त्योः । वृ॒ष॒ऽयते॑ । नभ॑सा । वेप॑ते । म॒ती ।

सः । मो॒द॒ते॒ । नस॑ते । साध॑ते । गि॒रा । ने॒नि॒क्ते । अ॒प्ऽसु । यज॑ते । परी॑मणि ॥

अद्रिऽभिः । सुतः । पवते । गभस्त्योः । वृषऽयते । नभसा । वेपते । मती ।

सः । मोदते । नसते । साधते । गिरा । नेनिक्ते । अप्ऽसु । यजते । परीमणि ॥

“अद्रिभिः ग्रावभिः “गभस्त्योः बाह्वोः बाहुभ्यां च "सुतः अभिषुतः स सोमः “पवते पात्राणि प्रति गच्छति । यः सोमः “वृषायते वृषवदाचरति । किंच यः “मती स्तुत्याभिष्टुतः सन् “नभसा अन्तरिक्षेण "वेपते सर्वत्र गच्छति “सः सोमः "मोदते हृष्टो भवति । तथा “नसते ग्रहादिषु संश्लिष्टो भवति । किंच “गिरा स्तुत्या स्तुतः सन् “साधते स्तोतॄणां धनान्नादिकं साधयति । अपि च “अप्सु वसतीवर्याख्यासु “नेनिक्ते शुद्धो भवति । तथा “परीमणि देवै रक्ष्यमाणे यज्ञे देवानां हविष्प्रदानेन पोषके वा यज्ञे “यजते पूजितो भवति ॥


परि॑ द्यु॒क्षं सह॑सः पर्वता॒वृधं॒ मध्वः॑ सिञ्चन्ति ह॒र्म्यस्य॑ स॒क्षणि॑म् ।

आ यस्मि॒न्गावः॑ सुहु॒ताद॒ ऊध॑नि मू॒र्धञ्छ्री॒णन्त्य॑ग्रि॒यं वरी॑मभिः ॥४

परि॑ । द्यु॒क्षम् । सह॑सः । प॒र्व॒त॒ऽवृध॑म् । मध्वः॑ । सि॒ञ्च॒न्ति॒ । ह॒र्म्यस्य॑ । स॒क्षणि॑म् ।

आ । यस्मि॑न् । गावः॑ । सु॒हु॒त॒ऽअदः॑ । ऊध॑नि । मू॒र्धन् । श्री॒णन्ति॑ । अ॒ग्रि॒यम् । वरी॑मऽभिः ॥

परि । द्युक्षम् । सहसः । पर्वतऽवृधम् । मध्वः । सिञ्चन्ति । हर्म्यस्य । सक्षणिम् ।

आ । यस्मिन् । गावः । सुहुतऽअदः । ऊधनि । मूर्धन् । श्रीणन्ति । अग्रियम् । वरीमऽभिः ॥

“सहसः सहस्विनः “मध्वः मदकराः सोमाः “द्युक्षं दीप्यमाने द्युलोके “क्षियन्तं निवसन्तं "पर्वतावृधं मेघानां पर्वतानां वा वर्धयितारं “हर्म्यस्य शत्रुपुरस्य "सक्षणिम् अभिभवितारमिन्द्रं "परि “षिञ्चन्ति । तथा "सुहुतादः सुहुतानां हविषां भक्षयितारः “गावः “मूर्धन् मूर्धनि समुच्छ्रिते “ऊधनि पयोधारके स्थाने स्थितम् “अग्रियं मुख्यं पयः “वरीमभिः उरुत्वैर्महत्त्वैः “यस्मिन् पवमानगुणविशिष्ट इन्द्रे “आ “श्रीणन्ति आमिश्रयन्ति । दध्ना पयसा च सोमं श्रीणन्ति खलु । तदुच्यते ॥


समी॒ रथं॒ न भु॒रिजो॑रहेषत॒ दश॒ स्वसा॑रो॒ अदि॑तेरु॒पस्थ॒ आ ।

जिगा॒दुप॑ ज्रयति॒ गोर॑पी॒च्यं॑ प॒दं यद॑स्य म॒तुथा॒ अजी॑जनन् ॥५

सम् । ई॒मिति॑ । रथ॑म् । न । भु॒रिजोः॑ । अ॒हे॒ष॒त॒ । दश॑ । स्वसा॑रः । अदि॑तेः । उ॒पऽस्थे॑ । आ ।

जिगा॑त् । उप॑ । ज्र॒य॒ति॒ । गोः । अ॒पी॒च्य॑म् । प॒दम् । यत् । अ॒स्य॒ । म॒तुथाः॑ । अजी॑जनन् ॥

सम् । ईमिति । रथम् । न । भुरिजोः । अहेषत । दश । स्वसारः । अदितेः । उपऽस्थे । आ ।

जिगात् । उप । ज्रयति । गोः । अपीच्यम् । पदम् । यत् । अस्य । मतुथाः । अजीजनन् ॥

“भुरिजोः । बाहुनामैतत् । बिभ्रति पदार्थानाभ्यामिति । तयोर्बाह्वोः “दश दशसंख्याकाः “स्वसारः सर्वत्रसरणशीला अङ्गुलयः “अदितेः भूमेः “उपस्थे समीपे देवयजनदेशे “ईम् एनं सोमम् "आ आभिमुख्येन “सम् “अहेषत संप्रेरयन्ति । ' हि वर्धनगत्योः । लुङि रूपम् । कथमिव । “रथं “न । रथं यथाङ्गुलयः प्रेरयन्ति तद्वत् । स सोमः “जिगात् पात्राणि गच्छति । किंच “गोः धेनोः “अपीच्यम् अन्तर्हितं पयः “उप “ज्रयति तदानीमुपगच्छति । “यत् यदा “मतुथाः मननीयगाथावन्तः स्तोतारः “अस्य सोमस्य “पदं स्थानम् “अजीजनन् जनयन्ति तदानीमित्यर्थः ॥ ॥२५॥


अभिष्टवे ‘ श्येनो न योनिम्' इत्येषा । सूत्रितं च--- संप्रेषितः श्येनो न योनिं सदनं धिया कृतम्' (आश्व. श्रौ. ४. ७) इति । अग्नीषोमप्रणयनेऽप्येषा । सूत्रितं च-‘अन्तश्च प्रागा अदितिर्भवासि श्येनो न योनिं सदनं धिया कृतम्' (आश्व. श्रौ. ४. १०) इति ॥

श्ये॒नो न योनिं॒ सद॑नं धि॒या कृ॒तं हि॑र॒ण्यय॑मा॒सदं॑ दे॒व एष॑ति ।

ए रि॑णन्ति ब॒र्हिषि॑ प्रि॒यं गि॒राश्वो॒ न दे॒वाँ अप्ये॑ति य॒ज्ञियः॑ ॥६

श्ये॒नः । न । योनि॑म् । सद॑नम् । धि॒या । कृ॒तम् । हि॒र॒ण्यय॑म् । आ॒ऽसद॑म् । दे॒वः । आ । ई॒ष॒ति॒ ।

आ । ई॒मिति॑ । रि॒ण॒न्ति॒ । ब॒र्हिषि॑ । प्रि॒यम् । गि॒रा । अश्वः॑ । न । दे॒वान् । अपि॑ । ए॒ति॒ । य॒ज्ञियः॑ ॥

श्येनः । न । योनिम् । सदनम् । धिया । कृतम् । हिरण्ययम् । आऽसदम् । देवः । आ । ईषति ।

आ । ईमिति । रिणन्ति । बर्हिषि । प्रियम् । गिरा । अश्वः । न । देवान् । अपि । एति । यज्ञियः ॥

“देवः द्योतमानः पवमानः “धिया स्वकर्मणा "कृतं संपादितं “हिरण्ययं हिरण्मयम् “आसदम् आसन्द्यभिधानम् “एषति अभिमुखं गच्छति । ईषतेर्गत्यर्थस्य व्यत्ययेन परस्मैपदम् । तत्र दृष्टान्तः । “श्येनो “न “योनिम् । कुलायं यथा श्येनः पक्षी प्रविशति तद्वत् । ततः “ईम् एनं “प्रियं प्रीणयितारं सोमं “गिरा स्तुत्या “बर्हिषि यज्ञे “आ “रिणन्ति स्तोतारोऽभिमुखं प्रेरयन्ति । स्तुवन्तीत्यर्थः । अनन्तरं “यज्ञियः यज्ञार्हः यष्टव्योऽयं सोमः “अश्वो “न अश्व इव त्वरया “देवान् “अप्येति अभिगच्छति ॥


परा॒ व्य॑क्तो अरु॒षो दि॒वः क॒विर्वृषा॑ त्रिपृ॒ष्ठो अ॑नविष्ट॒ गा अ॒भि ।

स॒हस्र॑णीति॒र्यतिः॑ परा॒यती॑ रे॒भो न पू॒र्वीरु॒षसो॒ वि रा॑जति ॥७

परा॑ । विऽअ॑क्तः । अ॒रु॒षः । दि॒वः । क॒विः । वृषा॑ । त्रि॒ऽपृ॒ष्ठः । अ॒न॒वि॒ष्ट॒ । गाः । अ॒भि ।

स॒हस्र॑ऽनीतिः । यतिः॑ । प॒रा॒ऽयतिः॑ । रे॒भः । न । पू॒र्वीः । उ॒षसः॑ । वि । रा॒ज॒ति॒ ॥

परा । विऽअक्तः । अरुषः । दिवः । कविः । वृषा । त्रिऽपृष्ठः । अनविष्ट । गाः । अभि ।

सहस्रऽनीतिः । यतिः । पराऽयतिः । रेभः । न । पूर्वीः । उषसः । वि । राजति ॥

“अरुषः आरोचमानः “कविः क्रान्तप्रज्ञः सोमः “व्यक्तः विस्पष्टधारायुक्तः । यद्वा। वसतीवरीभिर्विशेषेणोक्तः सिक्तः सन् “दिवः अन्तरिक्षात् “परा पराङ्मुखम् आगच्छति । पवित्रात् द्रोणकलशं परागच्छतीत्यर्थः । “वृषा वृषभः “त्रिपृष्ठः । त्रीणि सवनानि पृष्ठान्यस्येति त्रिपृष्ठः सोमस्य सर्वेषु विद्यमानत्वात् । तस्मात् त्रिपृष्ठः सोमः “गाः स्तोतृभिः क्रियमाणाः स्तुतीरभिलक्ष्य “अनविष्ट शब्दायते । 'नु शब्दे ' । किंच सहस्रणीतिः सहस्रनयनः। प्रयोगबाहुल्यापेक्षं ग्रहेषु चमसेषु च सहस्रविधनयनत्वम् । अत एव “यतिः पात्रादीनि प्रत्यागन्ता “परायतिः कलशान् प्रति परागन्ता भवति । सोऽयं “पूर्वीः बह्वीः “उषसः । ‘ कालाध्वनो:०' इति द्वितीया । बहुषूष:कालेषु “रेभो “न । रेभृ शब्दे' । शब्दायमानः स्तोतेव “वि “राजति विशेषेण दीप्यते । तेषु सोमस्याभिषूयमाणत्वात् । स्तोता खलु देवानां स्तुतिकरणेन राजति ।।


त्वे॒षं रू॒पं कृ॑णुते॒ वर्णो॑ अस्य॒ स यत्राश॑य॒त्समृ॑ता॒ सेध॑ति स्रि॒धः ।

अ॒प्सा या॑ति स्व॒धया॒ दैव्यं॒ जनं॒ सं सु॑ष्टु॒ती नस॑ते॒ सं गोअ॑ग्रया ॥८

त्वे॒षम् । रू॒पम् । कृ॒णु॒ते॒ । वर्णः॑ । अ॒स्य॒ । सः । यत्र॑ । अश॑यत् । सम्ऽऋ॑ता । सेध॑ति । स्रि॒धः ।

अ॒प्साः । या॒ति॒ । स्व॒धया॑ । दैव्य॑म् । जन॑म् । सम् । सु॒ऽस्तु॒ती । नस॑ते । सम् । गोऽअ॑ग्रया ॥

त्वेषम् । रूपम् । कृणुते । वर्णः । अस्य । सः । यत्र । अशयत् । सम्ऽऋता । सेधति । स्रिधः ।

अप्साः । याति । स्वधया । दैव्यम् । जनम् । सम् । सुऽस्तुती । नसते । सम् । गोऽअग्रया ॥

“अस्य । अन्वादेशे अशादेशः । अस्य सोमस्य स्वभूतः “वर्णः शत्रूणां निवारको रश्मिः “त्वेषं दीप्यमानं “रूपं “कृणुते करोति । “सः रश्मिः “यत्र “समृता । अर्तेः क्तिनि रूपम् । सम्यक् प्राप्यते योद्धृभिरत्रेति संग्रामः । अस्मिन् समृतौ युद्धे “अशयत् शेते तिष्ठति । शीङो लङि ‘ बहुलं छन्दसि । इति शपो लुगभावः । तत्र युद्धे स रश्मिः “स्रिधः शोषकाञ्छत्रून “सेधति निषेधति । हिनस्तीति यावत् । वाक्यभेदादनिघातः । किंच “अप्साः । सनोतेः विटि आत्वे कृते रूपम् । अपामुदकानां दाता । यद्वा वसतीवर्याख्यानामपां संभक्ता । सोऽयं “स्वधया हवीरूपेणान्नेन सह “दैव्यं देवानां संबन्धिनं “जनं प्रति “याति गच्छति । अपि च सोऽयं “सुष्टुती सुस्तुत्या “सं संगच्छते । उपसर्गश्रुतेर्योग्यक्रियाध्याहारः । किंच स सोमः “गोअग्रया गवादिमुख्यया यथा वाचा स्तोतारः पशून् याचन्ते तया वाचा “सं “नसते संगतो भवति । नसतिर्गत्यर्थः । भिन्नवाक्यत्वादनिघातः ॥


उ॒क्षेव॑ यू॒था प॑रि॒यन्न॑रावी॒दधि॒ त्विषी॑रधित॒ सूर्य॑स्य ।

दि॒व्यः सु॑प॒र्णोऽव॑ चक्षत॒ क्षां सोम॒ः परि॒ क्रतु॑ना पश्यते॒ जाः ॥९

उ॒क्षाऽइ॑व । यू॒था । प॒रि॒ऽयन् । अ॒रा॒वी॒त् । अधि॑ । त्विषीः॑ । अ॒धि॒त॒ । सूर्य॑स्य ।

दि॒व्यः । सु॒ऽप॒र्णः । अव॑ । च॒क्ष॒त॒ । क्षाम् । सोमः॑ । परि॑ । क्रतु॑ना । प॒श्य॒ते॒ । जाः ॥

उक्षाऽइव । यूथा । परिऽयन् । अरावीत् । अधि । त्विषीः । अधित । सूर्यस्य ।

दिव्यः । सुऽपर्णः । अव । चक्षत । क्षाम् । सोमः । परि । क्रतुना । पश्यते । जाः ॥

“उक्षेव वृषभ इव “यूथा गोयूथानि प्रत्यागच्छञ्छब्दं करोति तद्वदयं सोमः स्तुतीः “परियन् परिगच्छन् “अरावीत् शब्दायते । ततः “सूर्यस्य सर्वस्य प्रेरकस्यादित्यस्य “त्विषीः दीप्तीः “अधि “अधित अधिदधाति । सूर्यात्मना द्युलोकेऽवतिष्ठत इत्यर्थः । दधातेर्लुङि ‘ स्थाध्वोरिच्च' इति इत्वकित्त्वे । किंच “दिव्यः दिवि भवः “सुपर्णः सुपतनः श्येनरूपया गायत्र्याहृतत्वाच्छोभनगमनः सोमः “क्षाम् । पृथिवीनामैतत् । क्षियन्ति निवसन्त्यत्रेति । क्षां पृथिवीम् “अव “चक्षत अवपश्यति । चष्टेर्लङि ’ बहुलं छन्दसि ' इति शपो लुगभावः । ततः “सोमः “जाः जाताः प्रजाः “क्रतुना प्रज्ञानेन “परि “पश्यते परितः पश्यति । व्यत्ययेनात्मनेपदम् ॥ ॥ २६ ॥

मण्डल ९

सूक्तं ९.१

सूक्तं ९.२

सूक्तं ९.३

सूक्तं ९.४

सूक्तं ९.५

सूक्तं ९.६

सूक्तं ९.७

सूक्तं ९.८

सूक्तं ९.९

सूक्तं ९.१०

सूक्तं ९.११

सूक्तं ९.१२

सूक्तं ९.१३

सूक्तं ९.१४

सूक्तं ९.१५

सूक्तं ९.१६

सूक्तं ९.१७

सूक्तं ९.१८

सूक्तं ९.१९

सूक्तं ९.२०

सूक्तं ९.२१

सूक्तं ९.२२

सूक्तं ९.२३

सूक्तं ९.२४

सूक्तं ९.२५

सूक्तं ९.२६

सूक्तं ९.२७

सूक्तं ९.२८

सूक्तं ९.२९

सूक्तं ९.३०

सूक्तं ९.३१

सूक्तं ९.३२

सूक्तं ९.३३

सूक्तं ९.३४

सूक्तं ९.३५

सूक्तं ९.३६

सूक्तं ९.३७

सूक्तं ९.३८

सूक्तं ९.३९

सूक्तं ९.४०

सूक्तं ९.४१

सूक्तं ९.४२

सूक्तं ९.४३

सूक्तं ९.४४

सूक्तं ९.४५

सूक्तं ९.४६

सूक्तं ९.४७

सूक्तं ९.४८

सूक्तं ९.४९

सूक्तं ९.५०

सूक्तं ९.५१

सूक्तं ९.५२

सूक्तं ९.५३

सूक्तं ९.५४

सूक्तं ९.५५

सूक्तं ९.५६

सूक्तं ९.५७

सूक्तं ९.५८

सूक्तं ९.५९

सूक्तं ९.६०

सूक्तं ९.६१

सूक्तं ९.६२

सूक्तं ९.६३

सूक्तं ९.६४

सूक्तं ९.६५

सूक्तं ९.६६

सूक्तं ९.६७

सूक्तं ९.६८

सूक्तं ९.६९

सूक्तं ९.७०

सूक्तं ९.७१

सूक्तं ९.७२

सूक्तं ९.७३

सूक्तं ९.७४

सूक्तं ९.७५

सूक्तं ९.७६

सूक्तं ९.७७

सूक्तं ९.७८

सूक्तं ९.७९

सूक्तं ९.८०

सूक्तं ९.८१

सूक्तं ९.८२

सूक्तं ९.८३

सूक्तं ९.८४

सूक्तं ९.८५

सूक्तं ९.८६

सूक्तं ९.८७

सूक्तं ९.८८

सूक्तं ९.८९

सूक्तं ९.९०

सूक्तं ९.९१

सूक्तं ९.९२

सूक्तं ९.९३

सूक्तं ९.९४

सूक्तं ९.९५

सूक्तं ९.९६

सूक्तं ९.९७

सूक्तं ९.९८

सूक्तं ९.९९

सूक्तं ९.१००

सूक्तं ९.१०१

सूक्तं ९.१०२

सूक्तं ९.१०३

सूक्तं ९.१०४

सूक्तं ९.१०५

सूक्तं ९.१०६

सूक्तं ९.१०७

सूक्तं ९.१०८

सूक्तं ९.१०९

सूक्तं ९.११०

सूक्तं ९.१११

सूक्तं ९.११२

सूक्तं ९.११३

सूक्तं ९.११४

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_९.७१&oldid=179257" इत्यस्माद् पुनः प्राप्तिः