ऋग्वेदः सूक्तं ९.६२

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं ९.६१ ऋग्वेदः - मण्डल ९
सूक्तं ९.६२
जमदग्निर्भार्गवः।
सूक्तं ९.६३ →
दे. पवमानः सोमः। गायत्री।


एते असृग्रमिन्दवस्तिरः पवित्रमाशवः ।
विश्वान्यभि सौभगा ॥१॥
विघ्नन्तो दुरिता पुरु सुगा तोकाय वाजिनः ।
तना कृण्वन्तो अर्वते ॥२॥
कृण्वन्तो वरिवो गवेऽभ्यर्षन्ति सुष्टुतिम् ।
इळामस्मभ्यं संयतम् ॥३॥
असाव्यंशुर्मदायाप्सु दक्षो गिरिष्ठाः ।
श्येनो न योनिमासदत् ॥४॥
शुभ्रमन्धो देववातमप्सु धूतो नृभिः सुतः ।
स्वदन्ति गावः पयोभिः ॥५॥
आदीमश्वं न हेतारोऽशूशुभन्नमृताय ।
मध्वो रसं सधमादे ॥६॥
यास्ते धारा मधुश्चुतोऽसृग्रमिन्द ऊतये ।
ताभिः पवित्रमासदः ॥७॥
सो अर्षेन्द्राय पीतये तिरो रोमाण्यव्यया ।
सीदन्योना वनेष्वा ॥८॥
त्वमिन्दो परि स्रव स्वादिष्ठो अङ्गिरोभ्यः ।
वरिवोविद्घृतं पयः ॥९॥
अयं विचर्षणिर्हितः पवमानः स चेतति ।
हिन्वान आप्यं बृहत् ॥१०॥
एष वृषा वृषव्रतः पवमानो अशस्तिहा ।
करद्वसूनि दाशुषे ॥११॥
आ पवस्व सहस्रिणं रयिं गोमन्तमश्विनम् ।
पुरुश्चन्द्रं पुरुस्पृहम् ॥१२॥
एष स्य परि षिच्यते मर्मृज्यमान आयुभिः ।
उरुगायः कविक्रतुः ॥१३॥
सहस्रोतिः शतामघो विमानो रजसः कविः ।
इन्द्राय पवते मदः ॥१४॥
गिरा जात इह स्तुत इन्दुरिन्द्राय धीयते ।
विर्योना वसताविव ॥१५॥
पवमानः सुतो नृभिः सोमो वाजमिवासरत् ।
चमूषु शक्मनासदम् ॥१६॥
तं त्रिपृष्ठे त्रिवन्धुरे रथे युञ्जन्ति यातवे ।
ऋषीणां सप्त धीतिभिः ॥१७॥
तं सोतारो धनस्पृतमाशुं वाजाय यातवे ।
हरिं हिनोत वाजिनम् ॥१८॥
आविशन्कलशं सुतो विश्वा अर्षन्नभि श्रियः ।
शूरो न गोषु तिष्ठति ॥१९॥
आ त इन्दो मदाय कं पयो दुहन्त्यायवः ।
देवा देवेभ्यो मधु ॥२०॥
आ नः सोमं पवित्र आ सृजता मधुमत्तमम् ।
देवेभ्यो देवश्रुत्तमम् ॥२१॥
एते सोमा असृक्षत गृणानाः श्रवसे महे ।
मदिन्तमस्य धारया ॥२२॥
अभि गव्यानि वीतये नृम्णा पुनानो अर्षसि ।
सनद्वाजः परि स्रव ॥२३॥
उत नो गोमतीरिषो विश्वा अर्ष परिष्टुभः ।
गृणानो जमदग्निना ॥२४॥
पवस्व वाचो अग्रियः सोम चित्राभिरूतिभिः ।
अभि विश्वानि काव्या ॥२५॥
त्वं समुद्रिया अपोऽग्रियो वाच ईरयन् ।
पवस्व विश्वमेजय ॥२६॥
तुभ्येमा भुवना कवे महिम्ने सोम तस्थिरे ।
तुभ्यमर्षन्ति सिन्धवः ॥२७॥
प्र ते दिवो न वृष्टयो धारा यन्त्यसश्चतः ।
अभि शुक्रामुपस्तिरम् ॥२८॥
इन्द्रायेन्दुं पुनीतनोग्रं दक्षाय साधनम् ।
ईशानं वीतिराधसम् ॥२९॥
पवमान ऋतः कविः सोमः पवित्रमासदत् ।
दधत्स्तोत्रे सुवीर्यम् ॥३०॥


सायणभाष्यम्

‘एते असृग्रम्' इति त्रिंशदृचं द्वितीयं सूक्तं भार्गवस्य जमदग्नेरार्षं गायत्रं पवमानसोमदेवताकम् । तथा चानुक्रान्तम्-- एते असृग्रं जमदग्निः' इति । गतो विनियोगः ॥


ए॒ते अ॑सृग्र॒मिंद॑वस्ति॒रः प॒वित्र॑मा॒शवः॑ ।

विश्वा॑न्य॒भि सौभ॑गा ॥१

ए॒ते । अ॒सृ॒ग्र॒म् । इन्द॑वः । ति॒रः । प॒वित्र॑म् । आ॒शवः॑ ।

विश्वा॑नि । अ॒भि । सौभ॑गा ॥

एते । असृग्रम् । इन्दवः । तिरः । पवित्रम् । आशवः ।

विश्वानि । अभि । सौभगा ॥

“आशवः शीघ्राः “एते पवमानाः “इन्दवः सोमाः “विश्वानि सर्वाणि “सौभगा सौभगानि धनान्यभिलक्ष्य “पवित्रं “तिरः “असृग्रम् ऋत्विग्भिः सृज्यन्ते ॥


वि॒घ्नंतो॑ दुरि॒ता पु॒रु सु॒गा तो॒काय॑ वा॒जिनः॑ ।

तना॑ कृ॒ण्वंतो॒ अर्व॑ते ॥२

वि॒ऽघ्नन्तः॑ । दुः॒ऽइ॒ता । पु॒रु । सु॒ऽगा । तो॒काय॑ । वा॒जिनः॑ ।

तना॑ । कृ॒ण्वन्तः॑ । अर्व॑ते ॥

विऽघ्नन्तः । दुःऽइता । पुरु । सुऽगा । तोकाय । वाजिनः ।

तना । कृण्वन्तः । अर्वते ॥

“वाजिनः बलवन्तः सोमाः “पुरु बहूनि “दुरिता दुरितानि “विघ्नन्तः विशेषेण नाशयन्तः “तोकाय अस्माकं पुत्राय “अर्वते अश्वाय च "सुगा सुखानि “तना धनानि च “कृण्वन्तः कुर्वन्तः तिरः पवित्रं सृज्यन्त इति संबन्धः ॥


कृ॒ण्वंतो॒ वरि॑वो॒ गवे॒ऽभ्य॑र्षंति सुष्टु॒तिं ।

इळा॑म॒स्मभ्यं॑ सं॒यतं॑ ॥३

कृ॒ण्वन्तः॑ । वरि॑वः । गवे॑ । अ॒भि । अ॒र्ष॒न्ति॒ । सु॒ऽस्तु॒तिम् ।

इळा॑म् । अ॒स्मभ्य॑म् । स॒म्ऽयत॑म् ॥

कृण्वन्तः । वरिवः । गवे । अभि । अर्षन्ति । सुऽस्तुतिम् ।

इळाम् । अस्मभ्यम् । सम्ऽयतम् ॥

अस्माकं “गवे “अस्मभ्यं च “संयतं यदस्मान् संयच्छति तत् “वरिवः धनम् “इळाम् अन्नं च “कृण्वन्तः कुर्वन्तः सोमाः “सुष्टुतिम् अस्मदीयां शोभनां स्तुतिम् “अभ्यर्षन्ति आभिमुख्येन गच्छन्ति ॥


असा॑व्यं॒शुर्मदा॑या॒प्सु दक्षो॑ गिरि॒ष्ठाः ।

श्ये॒नो न योनि॒मास॑दत् ॥४

असा॑वि । अं॒शुः । मदा॑य । अ॒प्ऽसु । दक्षः॑ । गि॒रि॒ऽस्थाः ।

श्ये॒नः । न । योनि॑म् । आ । अ॒स॒द॒त् ॥

असावि । अंशुः । मदाय । अप्ऽसु । दक्षः । गिरिऽस्थाः ।

श्येनः । न । योनिम् । आ । असदत् ॥

“गिरिष्ठाः पर्वते जातः “अंशुः सोमः “मदाय मदार्थम् “असावि अभिषुतः । “अप्सु वसतीवरीषु “दक्षः प्रवृद्धश्च भवति । किंच “श्येनो “न यथा श्येनो वेगेनागत्य स्थानमासीदति तद्वदयं सोमो “योनिं स्वकीयं स्थानम् “आसदत् आसीदति ॥ शुभ्रमन्धौ देववतमप्सु धूतो नृभिः सुतः । स्वदन्ति गावः पयोभिः ॥ ५ ॥


शु॒भ्रमंधो॑ दे॒ववा॑तम॒प्सु धू॒तो नृभिः॑ सु॒तः ।

स्वदं॑ति॒ गावः॒ पयो॑भिः ॥५

शु॒भ्रम् । अन्धः॑ । दे॒वऽवा॑तम् । अ॒प्ऽसु । धू॒तः । नृऽभिः॑ । सु॒तः ।

स्वद॑न्ति । गावः॑ । पयः॑ऽभिः ॥

शुभ्रम् । अन्धः । देवऽवातम् । अप्ऽसु । धूतः । नृऽभिः । सुतः ।

स्वदन्ति । गावः । पयःऽभिः ॥

यत् "देववातं देवैः प्रार्थितं “शुभ्रं शोभनम् “अन्धः अन्नं “गावः पशवः “पयोभिः आशिरैः “स्वदन्ति स्वादयन्ति सोऽयं सोमः “नृभिः नेतृभिर्ऋत्विग्भिः “सुतः अभिषुतः सन् "अप्सु वसतीवरीषु “धूतः शोधितो भवति ॥ ॥ २४ ॥


आदी॒मश्वं॒ न हेता॒रोऽशू॑शुभन्न॒मृता॑य ।

मध्वो॒ रसं॑ सध॒मादे॑ ॥६

आत् । ई॒म् । अश्व॑म् । न । हेता॑रः । अशू॑शुभन् । अ॒मृता॑य ।

मध्वः॑ । रस॑म् । स॒ध॒ऽमादे॑ ॥

आत् । ईम् । अश्वम् । न । हेतारः । अशूशुभन् । अमृताय ।

मध्वः । रसम् । सधऽमादे ॥

“आत् अनन्तरं “हेतारः प्रेरका ऋत्विजः "सधमादे यज्ञे "ईम् एनं “मध्वः मदकरस्य सोमस्य “रसम् “अमृताय अमरणाय “अश्वं “न अश्वमिव “अशूशुभन् शोभयन्ति ॥


यास्ते॒ धारा॑ मधु॒श्चुतोऽसृ॑ग्रमिंद ऊ॒तये॑ ।

ताभिः॑ प॒वित्र॒मास॑दः ॥७

याः । ते॒ । धाराः॑ । म॒धु॒ऽश्चुतः॑ । असृ॑ग्रम् । इ॒न्दो॒ इति॑ । ऊ॒तये॑ ।

ताभिः॑ । प॒वित्र॑म् । आ । अ॒स॒दः॒ ॥

याः । ते । धाराः । मधुऽश्चुतः । असृग्रम् । इन्दो इति । ऊतये ।

ताभिः । पवित्रम् । आ । असदः ॥

हे “इन्दो सोम “ते तव "मधुश्चुतः मधुररसस्य श्चोतयित्र्यः “याः “धाराः “ऊतये रक्षणाय “असृग्रं सृज्यन्ते “ताभिः धाराभिस्त्वं “पवित्रम् “आसदः आसीद ॥


सो अ॒र्षेंद्रा॑य पी॒तये॑ ति॒रो रोमा॑ण्य॒व्यया॑ ।

सीद॒न्योना॒ वने॒ष्वा ॥८

सः । अ॒र्ष॒ । इन्द्रा॑य । पी॒तये॑ । ति॒रः । रोमा॑णि । अ॒व्यया॑ ।

सीद॑न् । योना॑ । वने॑षु । आ ॥

सः । अर्ष । इन्द्राय । पीतये । तिरः । रोमाणि । अव्यया ।

सीदन् । योना । वनेषु । आ ॥

हे सोम “सः अभिषुतस्त्वम् “अव्यया अव्ययानि अविमयानि “रोमाणि वालानि “तिरः तिरस्कुर्वन् “वनेषु पात्रेषु “योना योनौ स्थाने “आ “सीदन् “इन्द्राय इन्द्रस्य “पीतये पानाय “अर्ष क्षर ॥


त्वमिं॑दो॒ परि॑ स्रव॒ स्वादि॑ष्ठो॒ अंगि॑रोभ्यः ।

व॒रि॒वो॒विद्घृ॒तं पयः॑ ॥९

त्वम् । इ॒न्दो॒ इति॑ । परि॑ । स्र॒व॒ । स्वादि॑ष्ठः । अङ्गि॑रःऽभ्यः ।

व॒रि॒वः॒ऽवित् । घृ॒तम् । पयः॑ ॥९

त्वम् । इन्दो इति । परि । स्रव । स्वादिष्ठः । अङ्गिरःऽभ्यः ।

वरिवःऽवित् । घृतम् । पयः ॥

हे “इन्दो सोम "स्वादिष्टः स्वादुतमः “वरिवोवित् अस्मदभिलषितस्य धनस्य लम्भकश्च “त्वम् “अङ्गिरोभ्यः अङ्गिरसामर्थाय “घृतम् आज्यं “पयः च "परि “स्रव परिक्षर ॥


अ॒यं विच॑र्षणिर्हि॒तः पव॑मानः॒ स चे॑तति ।

हि॒न्वा॒न आप्यं॑ बृ॒हत् ॥१०

अ॒यम् । विऽच॑र्षणिः । हि॒तः । पव॑मानः । सः । चे॒त॒ति॒ ।

हि॒न्वा॒नः । आप्य॑म् । बृ॒हत् ॥१०

अयम् । विऽचर्षणिः । हितः । पवमानः । सः । चेतति ।

हिन्वानः । आप्यम् । बृहत् ॥

"विचर्षणिः विद्रष्टा “हितः पात्रेषु निहितः “पवमानः “अयं सोमः “आप्यम् अप्सु भवं “बृहत् महदन्नं “हिन्वानः प्रेरयन् “चेतति सर्वैः ज्ञायते ॥ ॥ २५ ॥


ए॒ष वृषा॒ वृष॑व्रतः॒ पव॑मानो अशस्ति॒हा ।

कर॒द्वसू॑नि दा॒शुषे॑ ॥११

ए॒षः । वृषा॑ । वृष॑ऽव्रतः । पव॑मानः । अ॒श॒स्ति॒ऽहा ।

कर॑त् । वसू॑नि । दा॒शुषे॑ ॥११

एषः । वृषा । वृषऽव्रतः । पवमानः । अशस्तिऽहा ।

करत् । वसूनि । दाशुषे ॥

"वृषा कामानां सेक्ता “वृषव्रतः वृषकर्मा “अशस्तिहा राक्षसानां हन्ता “पवमानः “एषः सोमः “दाशुषे हविषां दात्रे यजमानाय “वसूनि धनानि "करत् करोति । प्रयच्छतीत्यर्थः ॥


आ प॑वस्व सह॒स्रिणं॑ र॒यिं गोमं॑तम॒श्विनं॑ ।

पु॒रु॒श्चं॒द्रं पु॑रु॒स्पृहं॑ ॥१२

आ । प॒व॒स्व॒ । स॒ह॒स्रिण॑म् । र॒यिम् । गोऽम॑न्तम् । अ॒श्विन॑म् ।

पु॒रु॒ऽच॒न्द्रम् । पु॒रु॒ऽस्पृह॑म् ॥१२

आ । पवस्व । सहस्रिणम् । रयिम् । गोऽमन्तम् । अश्विनम् ।

पुरुऽचन्द्रम् । पुरुऽस्पृहम् ॥

हे सोम त्वं “सहस्रिणं बहुसंख्याकं “गोमन्तं गोभिरुपेतम् “अश्विनम् अश्ववन्तं “पुरुश्चन्द्रं बहूनां हर्षकं “पुरुस्पृहं बहुस्पृहणीयं “रयिं धनम् “आ “पवस्व परिक्षर ॥


ए॒ष स्य परि॑ षिच्यते मर्मृ॒ज्यमा॑न आ॒युभिः॑ ।

उ॒रु॒गा॒यः क॒विक्र॑तुः ॥१३

ए॒षः । स्यः । परि॑ । सि॒च्य॒ते॒ । म॒र्मृ॒ज्यमा॑नः । आ॒युऽभिः॑ ।

उ॒रु॒ऽगा॒यः । क॒विऽक्र॑तुः ॥१३

एषः । स्यः । परि । सिच्यते । मर्मृज्यमानः । आयुऽभिः ।

उरुऽगायः । कविऽक्रतुः ॥

“उरुगायः बहुस्तुतिः “कविक्रतुः क्रान्तप्रज्ञः क्रान्तकर्मा वा “स्थः सः “एषः अयं सोमः “आयुभिः मनुष्यैः मर्मृज्यमानः शोध्यमानः “परि “षिच्यते ॥


स॒हस्रो॑तिः श॒ताम॑घो वि॒मानो॒ रज॑सः क॒विः ।

इंद्रा॑य पवते॒ मदः॑ ॥१४

स॒हस्र॑ऽऊतिः । श॒तऽम॑घः । वि॒ऽमानः॑ । रज॑सः । क॒विः ।

इन्द्रा॑य । प॒व॒ते॒ । मदः॑ ॥१४

सहस्रऽऊतिः । शतऽमघः । विऽमानः । रजसः । कविः ।

इन्द्राय । पवते । मदः ॥

“सहस्रोतिः अपरिमितरक्षणः “शतमघः बहुधनः “रजसः लोकस्य “विमानः निर्माता “कविः क्रान्तकर्मा “मदः मदकरः सोमः “इन्द्राय इन्द्रार्थं “पवते धारया क्षरति ।।


गि॒रा जा॒त इ॒ह स्तु॒त इंदु॒रिंद्रा॑य धीयते ।

विर्योना॑ वस॒तावि॑व ॥१५

गि॒रा । जा॒तः । इ॒ह । स्तु॒तः । इन्दुः॑ । इन्द्रा॑य । धी॒य॒ते॒ ।

विः । योना॑ । व॒स॒तौऽइ॑व ॥१५

गिरा । जातः । इह । स्तुतः । इन्दुः । इन्द्राय । धीयते ।

विः । योना । वसतौऽइव ॥

“जातः प्रादुर्भूतः “गिरा स्तुत्या "स्तुतः च “इन्दुः सोमः “इह अस्मिन् यज्ञे “योना योनौ स्वस्थाने “इन्द्राय इन्द्रार्थं “वसताविव “विः यथा स्ववासे पक्षी तथा “धीयते निधीयते ॥ ॥२६॥


पव॑मानः सु॒तो नृभिः॒ सोमो॒ वाज॑मिवासरत् ।

च॒मूषु॒ शक्म॑ना॒सदं॑ ॥१६

पव॑मानः । सु॒तः । नृऽभिः॑ । सोमः॑ । वाज॑म्ऽइव । अ॒स॒र॒त् ।

च॒मूषु॑ । शक्म॑ना । आ॒ऽसद॑म् ॥१६

पवमानः । सुतः । नृऽभिः । सोमः । वाजम्ऽइव । असरत् ।

चमूषु । शक्मना । आऽसदम् ॥

“नृभिः नेतृभिर्ऋत्विग्भिः “सुतः अभिषुतः “सोमः "चमूषु चमसेषु “शक्मना बलेन “आसदम् उपवेष्टुं “वाजमिव युद्धमिव स्थानम् “असरत् सरति ॥


तं त्रि॑पृ॒ष्ठे त्रि॑वंधु॒रे रथे॑ युंजंति॒ यात॑वे ।

ऋषी॑णां स॒प्त धी॒तिभिः॑ ॥१७

तम् । त्रि॒ऽपृ॒ष्ठे । त्रि॒ऽव॒न्धु॒रे । रथे॑ । यु॒ञ्ज॒न्ति॒ । यात॑वे ।

ऋषी॑णाम् । स॒प्त । धी॒तिऽभिः॑ ॥१७

तम् । त्रिऽपृष्ठे । त्रिऽवन्धुरे । रथे । युञ्जन्ति । यातवे ।

ऋषीणाम् । सप्त । धीतिऽभिः ॥

“त्रिपृष्ठे त्रिषवणपृष्ठे “त्रिवन्धुरे त्रिवेदवन्धुरे “ऋषीणां “रथे यज्ञरथे “तं सोमं “सप्त सप्तभिः “धीतिभिः छन्दोभिः “यातवे देवान् प्रति गन्तुं “युञ्जन्ति ऋत्विजो योजयन्ति ॥


तं सो॑तारो धन॒स्पृत॑मा॒शुं वाजा॑य॒ यात॑वे ।

हरिं॑ हिनोत वा॒जिनं॑ ॥१८

तम् । सो॒ता॒रः॒ । ध॒न॒ऽस्पृत॑म् । आ॒शुम् । वाजा॑य । यात॑वे ।

हरि॑म् । हि॒नो॒त॒ । वा॒जिन॑म् ॥१८

तम् । सोतारः । धनऽस्पृतम् । आशुम् । वाजाय । यातवे ।

हरिम् । हिनोत । वाजिनम् ॥

हे “सोतारः अभिषवकर्तार ऋत्विजः “धनस्पृतं धनानां स्प्रष्टारं “वाजिनं बलिनम् “आशुं वेगवन्तं “तं सोमात्मकं “हरिम् अश्वं “वाजाय यज्ञाख्यं संग्रामं “यातवे गन्तंं “हिनोत प्रेरयत । यथा योद्धारो युद्धं गन्तुं बलिनं वेगवन्तमश्वं प्रेरयन्ति तद्वत् यज्ञमभिगन्तुं बलवन्तं सोमं प्रेरयतेति भावः ॥


आ॒वि॒शन्क॒लशं॑ सु॒तो विश्वा॒ अर्ष॑न्न॒भि श्रियः॑ ।

शूरो॒ न गोषु॑ तिष्ठति ॥१९

आ॒ऽवि॒शन् । क॒लश॑म् । सु॒तः । विश्वा॑ । अर्ष॑न् । अ॒भि । श्रियः॑ ।

शूरः॑ । न । गोषु॑ । ति॒ष्ठ॒ति॒ ॥

आऽविशन् । कलशम् । सुतः । विश्वा । अर्षन् । अभि । श्रियः ।

शूरः । न । गोषु । तिष्ठति ॥

“सुतः अभिषुतः सोमः “कलशं द्रोणम् “आविशन् “विश्वाः सर्वाः “श्रियः संपदः “अभि “अर्षन् अस्मानभिगमयन् “गोषु शत्रूणां पशुषु “शूरो “न यथा शूरो निःशङ्कः “तिष्ठति तद्वद्यज्ञेषु निःशङ्कस्तिष्ठति ॥


आ त॑ इंदो॒ मदा॑य॒ कं पयो॑ दुहंत्या॒यवः॑ ।

दे॒वा दे॒वेभ्यो॒ मधु॑ ॥२०

आ । ते॒ । इ॒न्दो॒ इति॑ । मदा॑य । कम् । पयः॑ । दु॒ह॒न्ति॒ । आ॒यवः॑ ।

दे॒वाः । दे॒वेभ्यः॑ । मधु॑ ॥

आ । ते । इन्दो इति । मदाय । कम् । पयः । दुहन्ति । आयवः ।

देवाः । देवेभ्यः । मधु ॥

हे “इन्दो सोम “ते तव “मधु मधुभूतं “पयः पेयं रसं “देवाः स्तोतारः “आयवः मनुष्याः “मदाय “कं मदार्थं “देवेभ्यः इन्द्रादिभ्यः “आ “दुहन्ति ॥ ॥ २७ ।।


आ नः॒ सोमं॑ प॒वित्र॒ आ सृ॒जता॒ मधु॑मत्तमं ।

दे॒वेभ्यो॑ देव॒श्रुत्त॑मं ॥२१

आ । नः॒ । सोम॑म् । प॒वित्रे॑ । आ । सृ॒जत॑ । मधु॑मत्ऽतमम् ।

दे॒वेभ्यः॑ । दे॒व॒श्रुत्ऽत॑मम् ॥

आ । नः । सोमम् । पवित्रे । आ । सृजत । मधुमत्ऽतमम् ।

देवेभ्यः । देवश्रुत्ऽतमम् ॥

हे ऋत्विजः “नः अस्माकं “देवश्रुत्तमम् अत्यन्तं देवैः श्रूयमाणं “मधुमत्तमम् अतिशयेन मधुमन्तं “सोमं “देवेभ्यः इन्द्राद्यर्थं “पवित्रे दशापवित्रे “आ “सृजत साधयत ।


ए॒ते सोमा॑ असृक्षत गृणा॒नाः श्रव॑से म॒हे ।

म॒दिंत॑मस्य॒ धार॑या ॥२२

ए॒ते । सोमाः॑ । अ॒सृ॒क्ष॒त॒ । गृ॒णा॒नाः । श्रव॑से । म॒हे ।

म॒दिन्ऽत॑मस्य । धार॑या ॥

एते । सोमाः । असृक्षत । गृणानाः । श्रवसे । महे ।

मदिन्ऽतमस्य । धारया ॥

“गृणानाः स्तूयमानाः “एते इमे “सोमाः “महे महते “श्रवसे अन्नाय “मदिन्तमस्य मादयितृतमस्य रसस्य “धारया “असृक्षत ऋत्विग्भिः सृज्यन्ते ।।


अ॒भि गव्या॑नि वी॒तये॑ नृ॒म्णा पु॑ना॒नो अ॑र्षसि ।

स॒नद्वा॑जः॒ परि॑ स्रव ॥२३

अ॒भि । गव्या॑नि । वी॒तये॑ । नृ॒म्णा । पु॒ना॒नः । अ॒र्ष॒सि॒ ।

स॒नत्ऽवा॑जः । परि॑ । स्र॒व॒ ॥

अभि । गव्यानि । वीतये । नृम्णा । पुनानः । अर्षसि ।

सनत्ऽवाजः । परि । स्रव ॥

हे सोम “पुनानः पूयमानो यस्त्वं “वीतये भक्षणाय “गव्यानि गोसंबन्धीनि “नृम्णा नृम्णानि धनानि क्षीरादीनि “अभि “अर्षसि अभिगच्छसि स त्वं “सनद्वाजः दीयमानान्नः सन् "परि “स्रव परिक्षर ॥


उ॒त नो॒ गोम॑ती॒रिषो॒ विश्वा॑ अर्ष परि॒ष्टुभः॑ ।

गृ॒णा॒नो ज॒मद॑ग्निना ॥२४

उ॒त । नः॒ । गोऽम॑तीः । इषः॑ । विश्वाः॑ । अ॒र्ष॒ । प॒रि॒ऽस्तुभः॑ ।

गृ॒णा॒नः । ज॒मत्ऽअ॑ग्निना ॥

उत । नः । गोऽमतीः । इषः । विश्वाः । अर्ष । परिऽस्तुभः ।

गृणानः । जमत्ऽअग्निना ॥

"उत अपि च हे सोम “जमदग्निना जमदग्निनाम्ना ऋषिणा मया “गृणानः स्तूयमानस्त्वं “नः अस्माकं “गोमतीः गोभिर्युक्तानि “परिष्टुभः परितः स्तोतव्यानि “विश्वाः सर्वाणि “इषः अन्नानि “अर्ष गच्छ। अस्मभ्यमेवंविधान्यन्नानि देहीत्यर्थः ।।


पव॑स्व वा॒चो अ॑ग्रि॒यः सोम॑ चि॒त्राभि॑रू॒तिभिः॑ ।

अ॒भि विश्वा॑नि॒ काव्या॑ ॥२५

पव॑स्व । वा॒चः । अ॒ग्रि॒यः । सोम॑ । चि॒त्राभिः॑ । ऊ॒तिऽभिः॑ ।

अ॒भि । विश्वा॑नि । काव्या॑ ॥

पवस्व । वाचः । अग्रियः । सोम । चित्राभिः । ऊतिऽभिः ।

अभि । विश्वानि । काव्या ॥

हे “सोम “अग्रियः मुख्यस्त्वं “चित्राभिः पूजनीयैः “ऊतिभिः रक्षणैः सह “वाचः अस्मदीयाः स्तुतीः “अभि “पवस्व । एतदेव दर्शयति । “विश्वानि सर्वाणि “काव्या काव्यानि स्तुत्यात्मकानि वाक्यानि अभि पवस्वेति ॥ ॥ २८ ॥


त्वं स॑मु॒द्रिया॑ अ॒पो॑ऽग्रि॒यो वाच॑ ई॒रय॑न् ।

पव॑स्व विश्वमेजय ॥२६

त्वम् । स॒मु॒द्रियाः॑ । अ॒पः । अ॒ग्रि॒यः । वाचः॑ । ई॒रय॑न् ।

पव॑स्व । वि॒श्व॒म्ऽए॒ज॒य॒ ॥

त्वम् । समुद्रियाः । अपः । अग्रियः । वाचः । ईरयन् ।

पवस्व । विश्वम्ऽएजय ॥

हे “विश्वमेजय विश्वकम्पक सोम “अग्रियः मुख्यः “त्वं “वाचः "ईरयन् प्रेरयन् “समुद्रियाः आन्तरिक्षाणि "अपः उदकानि “पवस्व धारया क्षर ॥


तुभ्ये॒मा भुव॑ना कवे महि॒म्ने सो॑म तस्थिरे ।

तुभ्य॑मर्षंति॒ सिंध॑वः ॥२७

तुभ्य॑ । इ॒मा । भुव॑ना । क॒वे॒ । म॒हि॒म्ने । सो॒म॒ । त॒स्थि॒रे॒ ।

तुभ्य॑म् । अ॒र्ष॒न्ति॒ । सिन्ध॑वः ॥

तुभ्य । इमा । भुवना । कवे । महिम्ने । सोम । तस्थिरे ।

तुभ्यम् । अर्षन्ति । सिन्धवः ॥

हे “कवे क्रान्तकर्मन् “सोम “तुभ्य तुभ्यं तव "महिम्ने “इमा इमानि “भुवना भुवनानि “तस्थिरे तिष्ठन्ति । त्वामेव पुरस्कुर्वन्तीत्यर्थः। अपि च “सिन्धवः नद्यः “तुभ्यम् एव “अर्षन्ति गच्छन्ति । त्वदाज्ञामेवानुपालयन्तीत्यर्थः ॥


प्र ते॑ दि॒वो न वृ॒ष्टयो॒ धारा॑ यंत्यस॒श्चतः॑ ।

अ॒भि शु॒क्रामु॑प॒स्तिरं॑ ॥२८

प्र । ते॒ । दि॒वः । न । वृ॒ष्टयः॑ । धाराः॑ । य॒न्ति॒ । अ॒स॒श्चतः॑ ।

अ॒भि । शु॒क्राम् । उ॒प॒ऽस्तिर॑म् ॥

प्र । ते । दिवः । न । वृष्टयः । धाराः । यन्ति । असश्चतः ।

अभि । शुक्राम् । उपऽस्तिरम् ॥

हे सोम “ते तव “असश्चतः असङ्गाः “धाराः “दिवः अन्तरिक्षात् “वृष्टयः “न वर्षाणीव “शुक्रां शुक्लवर्णां शुक्लवर्णैः अविलोमभिर्निर्मितम् “उपस्तिरम् उपस्तीर्यमाणं पवित्रम् “अभि प्रति “प्र “यन्ति ॥


इंद्रा॒येंदुं॑ पुनीतनो॒ग्रं दक्षा॑य॒ साध॑नं ।

ई॒शा॒नं वी॒तिरा॑धसं ॥२९

इन्द्रा॑य । इन्दु॑म् । पु॒नी॒त॒न॒ । उ॒ग्रम् । दक्षा॑य । साध॑नम् ।

ई॒शा॒नम् । वी॒तिऽरा॑धसम् ॥

इन्द्राय । इन्दुम् । पुनीतन । उग्रम् । दक्षाय । साधनम् ।

ईशानम् । वीतिऽराधसम् ॥

हे ऋत्विजः “उग्रम् उद्गूर्णं “दक्षाय बलस्य "साधनं करणम् “ईशानं धनानामीश्वरं “वीतिराधसं दत्तधनम् “इन्दुं सोमम् “इन्द्राय इन्द्रार्थं “पुनीतन पुनीत ॥


पव॑मान ऋ॒तः क॒विः सोमः॑ प॒वित्र॒मास॑दत् ।

दध॑त्स्तो॒त्रे सु॒वीर्यं॑ ॥३०

पव॑मानः । ऋ॒तः । क॒विः । सोमः॑ । प॒वित्र॑म् । आ । अ॒स॒द॒त् ।

दध॑त् । स्तो॒त्रे । सु॒ऽवीर्य॑म् ॥

पवमानः । ऋतः । कविः । सोमः । पवित्रम् । आ । असदत् ।

दधत् । स्तोत्रे । सुऽवीर्यम् ॥

“ऋतः सत्यभूतः “कविः क्रान्तकर्मा “पवमानः “सोमः अस्मदीये “स्तोत्रे “सुवीर्यं शोभनवीर्यं “दधत् प्रयच्छन् "पवित्रमासदत् आसीदति ॥ ॥ २९ ॥


मण्डल ९

सूक्तं ९.१

सूक्तं ९.२

सूक्तं ९.३

सूक्तं ९.४

सूक्तं ९.५

सूक्तं ९.६

सूक्तं ९.७

सूक्तं ९.८

सूक्तं ९.९

सूक्तं ९.१०

सूक्तं ९.११

सूक्तं ९.१२

सूक्तं ९.१३

सूक्तं ९.१४

सूक्तं ९.१५

सूक्तं ९.१६

सूक्तं ९.१७

सूक्तं ९.१८

सूक्तं ९.१९

सूक्तं ९.२०

सूक्तं ९.२१

सूक्तं ९.२२

सूक्तं ९.२३

सूक्तं ९.२४

सूक्तं ९.२५

सूक्तं ९.२६

सूक्तं ९.२७

सूक्तं ९.२८

सूक्तं ९.२९

सूक्तं ९.३०

सूक्तं ९.३१

सूक्तं ९.३२

सूक्तं ९.३३

सूक्तं ९.३४

सूक्तं ९.३५

सूक्तं ९.३६

सूक्तं ९.३७

सूक्तं ९.३८

सूक्तं ९.३९

सूक्तं ९.४०

सूक्तं ९.४१

सूक्तं ९.४२

सूक्तं ९.४३

सूक्तं ९.४४

सूक्तं ९.४५

सूक्तं ९.४६

सूक्तं ९.४७

सूक्तं ९.४८

सूक्तं ९.४९

सूक्तं ९.५०

सूक्तं ९.५१

सूक्तं ९.५२

सूक्तं ९.५३

सूक्तं ९.५४

सूक्तं ९.५५

सूक्तं ९.५६

सूक्तं ९.५७

सूक्तं ९.५८

सूक्तं ९.५९

सूक्तं ९.६०

सूक्तं ९.६१

सूक्तं ९.६२

सूक्तं ९.६३

सूक्तं ९.६४

सूक्तं ९.६५

सूक्तं ९.६६

सूक्तं ९.६७

सूक्तं ९.६८

सूक्तं ९.६९

सूक्तं ९.७०

सूक्तं ९.७१

सूक्तं ९.७२

सूक्तं ९.७३

सूक्तं ९.७४

सूक्तं ९.७५

सूक्तं ९.७६

सूक्तं ९.७७

सूक्तं ९.७८

सूक्तं ९.७९

सूक्तं ९.८०

सूक्तं ९.८१

सूक्तं ९.८२

सूक्तं ९.८३

सूक्तं ९.८४

सूक्तं ९.८५

सूक्तं ९.८६

सूक्तं ९.८७

सूक्तं ९.८८

सूक्तं ९.८९

सूक्तं ९.९०

सूक्तं ९.९१

सूक्तं ९.९२

सूक्तं ९.९३

सूक्तं ९.९४

सूक्तं ९.९५

सूक्तं ९.९६

सूक्तं ९.९७

सूक्तं ९.९८

सूक्तं ९.९९

सूक्तं ९.१००

सूक्तं ९.१०१

सूक्तं ९.१०२

सूक्तं ९.१०३

सूक्तं ९.१०४

सूक्तं ९.१०५

सूक्तं ९.१०६

सूक्तं ९.१०७

सूक्तं ९.१०८

सूक्तं ९.१०९

सूक्तं ९.११०

सूक्तं ९.१११

सूक्तं ९.११२

सूक्तं ९.११३

सूक्तं ९.११४

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_९.६२&oldid=182182" इत्यस्माद् पुनः प्राप्तिः