ऋग्वेदः सूक्तं ९.१०६

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं ९.१०५ ऋग्वेदः - मण्डल ९
सूक्तं ९.१०६
१-३, १०-१४ अग्निश्चाक्षुषः, ४-६ चक्षुर्मानवः, ७-९ मनुराप्सवः।
सूक्तं ९.१०७ →
दे. पवमानः सोमः। उष्णिक्।


इन्द्रमच्छ सुता इमे वृषणं यन्तु हरयः ।
श्रुष्टी जातास इन्दवः स्वर्विदः ॥१॥
अयं भराय सानसिरिन्द्राय पवते सुतः ।
सोमो जैत्रस्य चेतति यथा विदे ॥२॥
अस्येदिन्द्रो मदेष्वा ग्राभं गृभ्णीत सानसिम् ।
वज्रं च वृषणं भरत्समप्सुजित् ॥३॥
प्र धन्वा सोम जागृविरिन्द्रायेन्दो परि स्रव ।
द्युमन्तं शुष्ममा भरा स्वर्विदम् ॥४॥
इन्द्राय वृषणं मदं पवस्व विश्वदर्शतः ।
सहस्रयामा पथिकृद्विचक्षणः ॥५॥
अस्मभ्यं गातुवित्तमो देवेभ्यो मधुमत्तमः ।
सहस्रं याहि पथिभिः कनिक्रदत् ॥६॥
पवस्व देववीतय इन्दो धाराभिरोजसा ।
आ कलशं मधुमान्सोम नः सदः ॥७॥
तव द्रप्सा उदप्रुत इन्द्रं मदाय वावृधुः ।
त्वां देवासो अमृताय कं पपुः ॥८॥
आ नः सुतास इन्दवः पुनाना धावता रयिम् ।
वृष्टिद्यावो रीत्यापः स्वर्विदः ॥९॥
सोमः पुनान ऊर्मिणाव्यो वारं वि धावति ।
अग्रे वाचः पवमानः कनिक्रदत् ॥१०॥
धीभिर्हिन्वन्ति वाजिनं वने क्रीळन्तमत्यविम् ।
अभि त्रिपृष्ठं मतयः समस्वरन् ॥११॥
असर्जि कलशाँ अभि मीळ्हे सप्तिर्न वाजयुः ।
पुनानो वाचं जनयन्नसिष्यदत् ॥१२॥
पवते हर्यतो हरिरति ह्वरांसि रंह्या ।
अभ्यर्षन्स्तोतृभ्यो वीरवद्यशः ॥१३॥
अया पवस्व देवयुर्मधोर्धारा असृक्षत ।
रेभन्पवित्रं पर्येषि विश्वतः ॥१४॥


सायणभाष्यम्

‘इन्द्रमच्छ ' इति चतुर्दशर्चं तृतीयं सूक्तमौष्णिहं पवमानसोमदेवताकम् । प्रथमस्य तृचस्य चक्षुराख्यपुत्रोऽग्निर्ऋषिः । द्वितीयस्य मनुपुत्रश्चक्षुर्नामा । अप्सुनाम्नः पुत्रो मनुस्तृतीयस्य । एवं नवर्चो गताः । शिष्टानामपि पञ्चानां चाक्षुषोऽग्निः । तथा चानुक्रम्यते--- इन्द्रमच्छ षळूनाग्निश्चाक्षुषश्चक्षुर्मानवो मनुराप्सव इति तृचाः पञ्चाग्निः' इति । गतो विनियोगः ॥


इंद्र॒मच्छ॑ सु॒ता इ॒मे वृष॑णं यंतु॒ हर॑यः ।

श्रु॒ष्टी जा॒तास॒ इंद॑वः स्व॒र्विदः॑ ॥१

इन्द्र॑म् । अच्छ॑ । सु॒ताः । इ॒मे । वृष॑णम् । य॒न्तु॒ । हर॑यः ।

श्रु॒ष्टी । जा॒तासः॑ । इन्द॑वः । स्वः॒ऽविदः॑ ॥

इन्द्रम् । अच्छ । सुताः । इमे । वृषणम् । यन्तु । हरयः ।

श्रुष्टी । जातासः । इन्दवः । स्वःऽविदः ॥

“श्रुष्टी । श्रुष्टीति क्षिप्रनाम । क्षिप्रं “जातासः जाताः “इन्दवः पात्रेषु क्षरन्तः “स्वर्विदः। सर्वज्ञाः “हरयः हरितवर्णाः “सुताः अभिषुताः “इमे सोमाः “वृषणं कामानां सेक्तारम् “इन्द्रमच्छ “यन्तु अभिगच्छन्तु ॥


अ॒यं भरा॑य सान॒सिरिंद्रा॑य पवते सु॒तः ।

सोमो॒ जैत्र॑स्य चेतति॒ यथा॑ वि॒दे ॥२

अ॒यम् । भरा॑य । सा॒न॒सिः । इन्द्रा॑य । प॒व॒ते॒ । सु॒तः ।

सोमः॑ । जैत्र॑स्य । चे॒त॒ति॒ । यथा॑ । वि॒दे ॥

अयम् । भराय । सानसिः । इन्द्राय । पवते । सुतः ।

सोमः । जैत्रस्य । चेतति । यथा । विदे ॥

“भराय संग्रामाय तदर्थं “सानसिः भजनीयः “सुतः अभिषुतः “अयं “सोमः “इन्द्राय इन्द्रार्थं “पवते ग्रहादिषु क्षरति । ततः “सोमः "जैत्रस्य ॥ ‘ क्रियाग्रहणं कर्तव्यम्' इति कर्मणः संप्रदानसंज्ञा । ‘ चतुर्थ्यर्थे बहुलम् ' इति षष्ठी ॥ जयशीलमिन्द्रं “चेतति जानाति । “यथा इन्द्रः “विदे लोकैर्ज्ञायते तथा जानाति ॥


अ॒स्येदिंद्रो॒ मदे॒ष्वा ग्रा॒भं गृ॑भ्णीत सान॒सिं ।

वज्रं॑ च॒ वृष॑णं भर॒त्सम॑प्सु॒जित् ॥३

अ॒स्य । इत् । इन्द्रः॑ । मदे॑षु । आ । ग्रा॒भम् । गृ॒भ्णी॒त॒ । सा॒न॒सिम् ।

वज्र॑म् । च॒ । वृष॑णम् । भ॒र॒त् । सम् । अ॒प्सु॒ऽजित् ॥

अस्य । इत् । इन्द्रः । मदेषु । आ । ग्राभम् । गृभ्णीत । सानसिम् ।

वज्रम् । च । वृषणम् । भरत् । सम् । अप्सुऽजित् ॥

“आ अनन्तरम् “इन्द्रः “अस्येत् अस्य सोमस्यैव “मदेषु संजातेषु “सानसिं सर्वैः संभजनीयं “ग्राभं ग्राहं ग्रहीतव्यं धनुः “गृभ्णीत गृह्णाति । ‘ हृग्रहोर्भः° ' इति भत्वम् । किंच “अप्सुजित् उदकार्थं वृत्रस्य जेता । यद्वा आप इत्यन्तरिक्षनाम । अन्तरिक्षेऽहिनामकस्य जेता। इन्द्रः “वृषणं वर्षितारं “वज्रं “च “सं "भरत् संबिभर्तु । बिभर्तेर्लेट्यडागमः ॥


प्र ध॑न्वा सोम॒ जागृ॑वि॒रिंद्रा॑येंदो॒ परि॑ स्रव ।

द्यु॒मंतं॒ शुष्म॒मा भ॑रा स्व॒र्विदं॑ ॥४

प्र । ध॒न्व॒ । सो॒म॒ । जागृ॑विः । इन्द्रा॑य । इ॒न्दो॒ इति॑ । परि॑ । स्र॒व॒ ।

द्यु॒ऽमन्त॑म् । शुष्म॑म् । आ । भ॒र॒ । स्वः॒ऽविद॑म् ॥

प्र । धन्व । सोम । जागृविः । इन्द्राय । इन्दो इति । परि । स्रव ।

द्युऽमन्तम् । शुष्मम् । आ । भर । स्वःऽविदम् ॥

हे “सोम "जागृविः जागरणशीलस्त्वं “प्र “धन्व प्रक्षर । हे “इन्दो सोम “इन्द्राय "परि “स्रव परितः पात्रेषु क्षर । किंच “द्युमन्तं दीप्तियुक्तं “स्वर्विदं सर्वस्य लम्भकं “शुष्मं शत्रूणां शोषकं बलम् “आ “भर आहर ॥


इंद्रा॑य॒ वृष॑णं॒ मदं॒ पव॑स्व वि॒श्वद॑र्शतः ।

स॒हस्र॑यामा पथि॒कृद्वि॑चक्ष॒णः ॥५

इन्द्रा॑य । वृष॑णम् । मद॑म् । पव॑स्व । वि॒श्वऽद॑र्शतः ।

स॒हस्र॑ऽयामा । प॒थि॒ऽकृत् । वि॒ऽच॒क्ष॒णः ॥

इन्द्राय । वृषणम् । मदम् । पवस्व । विश्वऽदर्शतः ।

सहस्रऽयामा । पथिऽकृत् । विऽचक्षणः ॥

हे सोम त्वं “वृषणं वर्षितारं “मदं मदहेतुं रसम् “इन्द्राय इन्द्रार्थं “पवस्व क्षर । कीदृशः। “विश्वदर्शतः सर्वैर्दर्शनीयः “सहस्रयामा बहुमार्गः “पथिकृत् यजमानानां सन्मार्गकरणशीलः “विचक्षणः सर्वस्य विद्रष्टा ॥ ॥ ९ ॥


अ॒स्मभ्यं॑ गातु॒वित्त॑मो दे॒वेभ्यो॒ मधु॑मत्तमः ।

स॒हस्रं॑ याहि प॒थिभिः॒ कनि॑क्रदत् ॥६

अ॒स्मभ्य॑म् । गा॒तु॒वित्ऽत॑मः । दे॒वेभ्यः॑ । मधु॑मत्ऽतमः ।

स॒हस्र॑म् । या॒हि॒ । प॒थिऽभिः॑ । कनि॑क्रदत् ॥

अस्मभ्यम् । गातुवित्ऽतमः । देवेभ्यः । मधुमत्ऽतमः ।

सहस्रम् । याहि । पथिऽभिः । कनिक्रदत् ॥

हे सोम "अस्मभ्यं “गातुवित्तमः अत्यन्तं मार्गस्य लम्भकः तथा “देवेभ्यः च “मधुमत्तमः अत्यन्तं स्वादुकारी त्वं "कनिक्रदत् शब्दं कुर्वन् “सहस्रं “पथिभिः बहुभिर्मार्गैः “याहि कलशमागच्छ ॥


पव॑स्व दे॒ववी॑तय॒ इंदो॒ धारा॑भि॒रोज॑सा ।

आ क॒लशं॒ मधु॑मान्त्सोम नः सदः ॥७

पव॑स्व । दे॒वऽवी॑तये । इन्दो॒ इति॑ । धारा॑भिः । ओज॑सा ।

आ । क॒लश॑म् । मधु॑ऽमान् । सो॒म॒ । नः॒ । स॒दः॒ ॥

पवस्व । देवऽवीतये । इन्दो इति । धाराभिः । ओजसा ।

आ । कलशम् । मधुऽमान् । सोम । नः । सदः ॥

हे “इन्दो सोम “देववीतये देवानां भक्षणाय “ओजसा बलेन “धाराभिः आत्मीयाभिः "पवस्व क्षर । हे “सोम “मधुमान् मदकररसवांस्त्वं “नः अस्मदीयं कलशं द्रोणाभिधानम् ॥ “आ “सदः । सदेर्लुङि रूपम् । आसीद ॥


तव॑ द्र॒प्सा उ॑द॒प्रुत॒ इंद्रं॒ मदा॑य वावृधुः ।

त्वां दे॒वासो॑ अ॒मृता॑य॒ कं प॑पुः ॥८

तव॑ । द्र॒प्साः । उ॒द॒ऽप्रुतः॑ । इन्द्र॑म् । मदा॑य । व॒वृ॒धुः॒ ।

त्वाम् । दे॒वासः॑ । अ॒मृता॑य । कम् । प॒पुः॒ ॥

तव । द्रप्साः । उदऽप्रुतः । इन्द्रम् । मदाय । ववृधुः ।

त्वाम् । देवासः । अमृताय । कम् । पपुः ॥

"उदप्रुतः वसतीवर्याख्यमुदकं प्रति गच्छन्तः । यद्वा । उदकस्य निर्गमयितारः। “तव स्वभूताः “द्रप्साः द्रुतगामिनो रसाः “मदाय मदार्थम् “इन्द्रं “वावृधुः वर्धयन्ति । ततः “देवासः देवा इन्द्रादयः “कं सुखकरं “त्वाम् “अमृताय अमरणार्थं 'पपुः पिबन्ति ॥


आ नः॑ सुतास इंदवः पुना॒ना धा॑वता र॒यिं ।

वृ॒ष्टिद्या॑वो रीत्यापः स्व॒र्विदः॑ ॥९

आ । नः॒ । सु॒ता॒सः॒ । इ॒न्द॒वः॒ । पु॒ना॒नाः । धा॒व॒त॒ । र॒यिम् ।

वृ॒ष्टिऽद्या॑वः । री॒ति॒ऽआ॒पः॒ । स्वः॒ऽविदः॑ ॥

आ । नः । सुतासः । इन्दवः । पुनानाः । धावत । रयिम् ।

वृष्टिऽद्यावः । रीतिऽआपः । स्वःऽविदः ॥

हे "सुतासः अभिषूयमाणा हे “इन्दवः दीप्ताः पात्रेषु क्षरन्तो वा हे “रीत्यापः यैः पृथिवीं प्रति स्रवणशीला आपः कृताः तादृशा हे सोमाः “पुनानाः पूयमाना यूयं “नः अस्मभ्यं “रयिम् “आ “धावत आगमयत । कीदृशाः । “वृष्टिद्यावः । वृष्टिमभि द्यौर्यैः क्रियते । वृष्ट्यभिमुखद्युलोकवन्तः “स्वर्विदः सर्वस्य लम्भकाः ॥


सोमः॑ पुना॒न ऊ॒र्मिणाव्यो॒ वारं॒ वि धा॑वति ।

अग्रे॑ वा॒चः पव॑मानः॒ कनि॑क्रदत् ॥१०

सोमः॑ । पु॒ना॒नः । ऊ॒र्मिणा॑ । अव्यः॑ । वार॑म् । वि । धा॒व॒ति॒ ।

अग्रे॑ । वा॒चः । पव॑मानः । कनि॑क्रदत् ॥

सोमः । पुनानः । ऊर्मिणा । अव्यः । वारम् । वि । धावति ।

अग्रे । वाचः । पवमानः । कनिक्रदत् ॥

“पुनानः पूयमानः “सोमः “ऊर्मिणा स्वीयया धारया “अव्यः अवेः “वारं वालं पवित्रं “वि “धावति विविधं गच्छति । कीदृशः सोमः । “पवमानः पूतः “वाचः स्तोत्रस्य “अग्रे “कनिक्रदत् पुनःपुनः शब्दं कुर्वन् वि धावति ॥ ॥ १० ॥


धी॒भिर्हि॑न्वंति वा॒जिनं॒ वने॒ क्रीळं॑त॒मत्य॑विं ।

अ॒भि त्रि॑पृ॒ष्ठं म॒तयः॒ सम॑स्वरन् ॥११

धी॒भिः । हि॒न्व॒न्ति॒ । वा॒जिन॑म् । वने॑ । क्रीळ॑न्तम् । अति॑ऽअविम् ।

अ॒भि । त्रि॒ऽपृ॒ष्ठम् । म॒तयः॑ । सम् । अ॒स्व॒र॒न् ॥

धीभिः । हिन्वन्ति । वाजिनम् । वने । क्रीळन्तम् । अतिऽअविम् ।

अभि । त्रिऽपृष्ठम् । मतयः । सम् । अस्वरन् ॥

“वाजिनं बलवन्तं “वने वननीये वसतीवर्याख्य उदके “क्रीळन्तं संक्रीडमानम् “अत्यविम् । अविशब्देन तद्रोमकृतं पवित्रमभिधीयते । अतिक्रान्तपवित्रं सोममृत्विजः “धीभिः स्तुतिभिः “हिन्वन्ति वर्धयन्ति । यद्वा । धीभिः । वर्णलोपश्छान्दसः। धीतिभिरङ्गुलीभिर्हिन्वन्ति प्रेरयन्ति । ‘ हि गतौ वृद्धौ च ' स्वादिः। किंच “त्रिपृष्ठम् । त्रीणि पवित्राणि द्रोणकलशाधवनीय पूतभृदाख्यानि पात्राणि स्पृशतीति त्रीणि सवनानि वा स्पृशतीति स तथोक्तः । तं सोमं “मतयः स्तुतयः “अभि “समस्वरन् अभितः संस्तुवन्ति ॥


अस॑र्जि क॒लशाँ॑ अ॒भि मी॒ळ्हे सप्ति॒र्न वा॑ज॒युः ।

पु॒ना॒नो वाचं॑ ज॒नय॑न्नसिष्यदत् ॥१२

अस॑र्जि । क॒लशा॑न् । अ॒भि । मी॒ळ्हे । सप्तिः॑ । न । वा॒ज॒ऽयुः ।

पु॒ना॒नः । वाच॑म् । ज॒नय॑न् । अ॒सि॒स्य॒द॒त् ॥

असर्जि । कलशान् । अभि । मीळ्हे । सप्तिः । न । वाजऽयुः ।

पुनानः । वाचम् । जनयन् । असिस्यदत् ॥

“वाजयुः यजमानानामन्नमिच्छन् स सोमः “कलशान् अभिलक्ष्य कलशेषु "असर्जि सृज्यते । तत्र दृष्टान्तः । “सप्तिर्न यथाश्वः “मीळ्हे। संग्रामनामैतत् । संग्रामे सृज्यते तद्वत्। ततः “पुनानः पूयमानः सोमः “वाचं शब्दं “जनयन् उत्पादयन् “असिष्यदत् पात्रेषु स्यन्दते ॥


पव॑ते हर्य॒तो हरि॒रति॒ ह्वरां॑सि॒ रंह्या॑ ।

अ॒भ्यर्ष॑न्त्स्तो॒तृभ्यो॑ वी॒रव॒द्यशः॑ ॥१३

पव॑ते । ह॒र्य॒तः । हरिः॑ । अति॑ । ह्वरां॑सि । रंह्या॑ ।

अ॒भि॒ऽअर्ष॑न् । स्तो॒तृऽभ्यः॑ । वी॒रऽव॑त् । यशः॑ ॥

पवते । हर्यतः । हरिः । अति । ह्वरांसि । रंह्या ।

अभिऽअर्षन् । स्तोतृऽभ्यः । वीरऽवत् । यशः ॥

“हर्यतः स्पृहणीयः “हरिः हरितवर्णः सोमः “रंह्या । तृतीयाया आकारः । साधुवेगेन “ह्वरांसि कुटिलान्यनृजूनि पवित्राणि “अति “पवते अतीत्य गच्छति । किं कुर्वन् । “स्तोतृभ्यो “वीरवत् पुत्रयुक्तं “यशः “अभ्यर्षन् अभिगमयन् पवते ॥


अ॒या प॑वस्व देव॒युर्मधो॒र्धारा॑ असृक्षत ।

रेभ॑न्प॒वित्रं॒ पर्ये॑षि वि॒श्वतः॑ ॥१४

अ॒या । प॒व॒स्व॒ । दे॒व॒ऽयुः । मधोः॑ । धाराः॑ । अ॒सृ॒क्ष॒त॒ ।

रेभ॑न् । प॒वित्र॑म् । परि॑ । ए॒षि॒ । वि॒श्वतः॑ ॥

अया । पवस्व । देवऽयुः । मधोः । धाराः । असृक्षत ।

रेभन् । पवित्रम् । परि । एषि । विश्वतः ॥

हे सोम “देवयुः देवान् कामयमानस्त्वम् “अया अनया धारया “पवस्व क्षर । ततः “मधोः मदकरस्य तव “धाराः आत्मीयाः “असृक्षत सृज्यन्ते । अनन्तरं “रेभन् शब्दायमानः “पवित्रं “विश्वतः "पर्येषि सर्वतः परिगच्छसि ॥ ॥ ११ ॥

मण्डल ९

सूक्तं ९.१

सूक्तं ९.२

सूक्तं ९.३

सूक्तं ९.४

सूक्तं ९.५

सूक्तं ९.६

सूक्तं ९.७

सूक्तं ९.८

सूक्तं ९.९

सूक्तं ९.१०

सूक्तं ९.११

सूक्तं ९.१२

सूक्तं ९.१३

सूक्तं ९.१४

सूक्तं ९.१५

सूक्तं ९.१६

सूक्तं ९.१७

सूक्तं ९.१८

सूक्तं ९.१९

सूक्तं ९.२०

सूक्तं ९.२१

सूक्तं ९.२२

सूक्तं ९.२३

सूक्तं ९.२४

सूक्तं ९.२५

सूक्तं ९.२६

सूक्तं ९.२७

सूक्तं ९.२८

सूक्तं ९.२९

सूक्तं ९.३०

सूक्तं ९.३१

सूक्तं ९.३२

सूक्तं ९.३३

सूक्तं ९.३४

सूक्तं ९.३५

सूक्तं ९.३६

सूक्तं ९.३७

सूक्तं ९.३८

सूक्तं ९.३९

सूक्तं ९.४०

सूक्तं ९.४१

सूक्तं ९.४२

सूक्तं ९.४३

सूक्तं ९.४४

सूक्तं ९.४५

सूक्तं ९.४६

सूक्तं ९.४७

सूक्तं ९.४८

सूक्तं ९.४९

सूक्तं ९.५०

सूक्तं ९.५१

सूक्तं ९.५२

सूक्तं ९.५३

सूक्तं ९.५४

सूक्तं ९.५५

सूक्तं ९.५६

सूक्तं ९.५७

सूक्तं ९.५८

सूक्तं ९.५९

सूक्तं ९.६०

सूक्तं ९.६१

सूक्तं ९.६२

सूक्तं ९.६३

सूक्तं ९.६४

सूक्तं ९.६५

सूक्तं ९.६६

सूक्तं ९.६७

सूक्तं ९.६८

सूक्तं ९.६९

सूक्तं ९.७०

सूक्तं ९.७१

सूक्तं ९.७२

सूक्तं ९.७३

सूक्तं ९.७४

सूक्तं ९.७५

सूक्तं ९.७६

सूक्तं ९.७७

सूक्तं ९.७८

सूक्तं ९.७९

सूक्तं ९.८०

सूक्तं ९.८१

सूक्तं ९.८२

सूक्तं ९.८३

सूक्तं ९.८४

सूक्तं ९.८५

सूक्तं ९.८६

सूक्तं ९.८७

सूक्तं ९.८८

सूक्तं ९.८९

सूक्तं ९.९०

सूक्तं ९.९१

सूक्तं ९.९२

सूक्तं ९.९३

सूक्तं ९.९४

सूक्तं ९.९५

सूक्तं ९.९६

सूक्तं ९.९७

सूक्तं ९.९८

सूक्तं ९.९९

सूक्तं ९.१००

सूक्तं ९.१०१

सूक्तं ९.१०२

सूक्तं ९.१०३

सूक्तं ९.१०४

सूक्तं ९.१०५

सूक्तं ९.१०६

सूक्तं ९.१०७

सूक्तं ९.१०८

सूक्तं ९.१०९

सूक्तं ९.११०

सूक्तं ९.१११

सूक्तं ९.११२

सूक्तं ९.११३

सूक्तं ९.११४

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_९.१०६&oldid=180898" इत्यस्माद् पुनः प्राप्तिः