ऋग्वेदः सूक्तं ९.९३

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं ९.९२ ऋग्वेदः - मण्डल ९
सूक्तं ९.९३
नोधा गौतमः
सूक्तं ९.९४ →
दे. पवमानः सोमः। त्रिष्टुप्


साकमुक्षो मर्जयन्त स्वसारो दश धीरस्य धीतयो धनुत्रीः ।
हरिः पर्यद्रवज्जाः सूर्यस्य द्रोणं ननक्षे अत्यो न वाजी ॥१॥
सं मातृभिर्न शिशुर्वावशानो वृषा दधन्वे पुरुवारो अद्भिः ।
मर्यो न योषामभि निष्कृतं यन्सं गच्छते कलश उस्रियाभिः ॥२॥
उत प्र पिप्य ऊधरघ्न्याया इन्दुर्धाराभिः सचते सुमेधाः ।
मूर्धानं गावः पयसा चमूष्वभि श्रीणन्ति वसुभिर्न निक्तैः ॥३॥
स नो देवेभिः पवमान रदेन्दो रयिमश्विनं वावशानः ।
रथिरायतामुशती पुरंधिरस्मद्र्यगा दावने वसूनाम् ॥४॥
नू नो रयिमुप मास्व नृवन्तं पुनानो वाताप्यं विश्वश्चन्द्रम् ।
प्र वन्दितुरिन्दो तार्यायुः प्रातर्मक्षू धियावसुर्जगम्यात् ॥५॥


सायणभाष्यम्

“ साकमुक्षः' इति पञ्चर्चमष्टमं सूक्तं गौतमस्य नोधस आर्षम् । पूर्ववच्छन्दोदेवते । तथा चानुक्रम्यते- साकमुक्षः पञ्च नोधाः' इति । गतो विनियोगः ॥


सा॒क॒मुक्षो॑ मर्जयंत॒ स्वसा॑रो॒ दश॒ धीर॑स्य धी॒तयो॒ धनु॑त्रीः ।

हरिः॒ पर्य॑द्रव॒ज्जाः सूर्य॑स्य॒ द्रोणं॑ ननक्षे॒ अत्यो॒ न वा॒जी ॥१

सा॒क॒म्ऽउक्षः॑ । म॒र्ज॒य॒न्त॒ । स्वसा॑रः । दश॑ । धीर॑स्य । धी॒तयः॑ । धनु॑त्रीः ।

हरिः॑ । परि॑ । अ॒द्र॒व॒त् । जाः । सूर्य॑स्य । द्रोण॑म् । न॒न॒क्षे॒ । अत्यः॑ । न । वा॒जी ॥

साकम्ऽउक्षः । मर्जयन्त । स्वसारः । दश । धीरस्य । धीतयः । धनुत्रीः ।

हरिः । परि । अद्रवत् । जाः । सूर्यस्य । द्रोणम् । ननक्षे । अत्यः । न । वाजी ॥

“साकमुक्षः सह युगपत् सिञ्चन्त्यः । उक्ष सेचने'। क्विपि रूपम् । तादृश्यः “स्वसारः कर्मकरणार्थमितस्ततः सुष्ठु गच्छन्त्योऽङ्गुल्यः “मर्जयन्त सोमं शोधयन्ति। ‘ मृजू शौचालंकारयोः' । तथा “दश दशसंख्याकाः “धीतयः । अङ्गुलिनामैतत् । अङ्गुलयः “धीरस्य समर्थस्य प्राज्ञस्य वा देवैर्ध्यातव्यस्य काम्यमानस्य वा सोमस्य “धनुत्रीः प्रेरयित्र्यो भवन्ति । ततः “हरिः हरितवर्णः सोमः “सूर्यस्य “जाः प्रादुर्भूता जाया दिशस्ताः “पर्यद्रवत् परितो गच्छति । सूर्यतेजसा ह्याविर्भवतीति दिशां तस्य जात्वम् । “अत्यः अतनशीलः “वाजी “न अश्व इव स्थितः सोमः “द्रोणं कलशं “ननक्षे व्याप्नोति । नक्षतिर्व्याप्तिकर्मा ॥


सं मा॒तृभि॒र्न शिशु॑र्वावशा॒नो वृषा॑ दधन्वे पुरु॒वारो॑ अ॒द्भिः ।

मर्यो॒ न योषा॑म॒भि नि॑ष्कृ॒तं यन्त्सं ग॑च्छते क॒लश॑ उ॒स्रिया॑भिः ॥२

सम् । मा॒तृऽभिः॑ । न । शिशुः॑ । वा॒व॒शा॒नः । वृषा॑ । द॒ध॒न्वे॒ । पु॒रु॒ऽवारः॑ । अ॒त्ऽभिः ।

मर्यः॑ । न । योषा॑म् । अ॒भि । निः॒ऽकृ॒तम् । यन् । सम् । ग॒च्छ॒ते॒ । क॒लशे॑ । उ॒स्रिया॑भिः ॥

सम् । मातृऽभिः । न । शिशुः । वावशानः । वृषा । दधन्वे । पुरुऽवारः । अत्ऽभिः ।

मर्यः । न । योषाम् । अभि । निःऽकृतम् । यन् । सम् । गच्छते । कलशे । उस्रियाभिः ॥

“वावशानः देवान् कामयमानः “वृषा कामानां वर्षकोऽत एव “पुरुवारः बहुभिर्वरणीयः सोमः “अद्भिः मातृभूताभिर्वसतीवरीभिः “सं “दधन्वे संधार्यते । तत्र दृष्टान्तः । “मातृभिर्न “शिशुः । कामयमानः पुत्री यथा मातृभिः पयःप्रदानेन संधार्यते । धविर्गत्यर्थः । कर्मणि लिटि रूपम् । “मर्यो “न मनुष्यो यथा “योषां युवतिमभिगच्छति तद्वत् “निष्कृतं संस्कृतं स्वस्थानम् “अभि “यन् अभिगच्छन् “कलशे द्रोणाभिधाने “उस्रियाभिः अद्भिर्गोविकारैः क्षीरादिभिर्वा “सं “गच्छते । गमेरकर्मकात् ' समो गम्यृच्छि' इत्यात्मनेपदम् ॥


उ॒त प्र पि॑प्य॒ ऊध॒रघ्न्या॑या॒ इंदु॒र्धारा॑भिः सचते सुमे॒धाः ।

मू॒र्धानं॒ गावः॒ पय॑सा च॒मूष्व॒भि श्री॑णंति॒ वसु॑भि॒र्न नि॒क्तैः ॥३

उ॒त । प्र । पि॒प्ये॒ । ऊधः॑ । अघ्न्या॑याः । इन्दुः॑ । धारा॑भिः । स॒च॒ते॒ । सु॒ऽमे॒धाः ।

मू॒र्धान॑म् । गावः॑ । पय॑सा । च॒मूषु॑ । अ॒भि । श्री॒ण॒न्ति॒ । वसु॑ऽभिः । न । नि॒क्तैः ॥

उत । प्र । पिप्ये । ऊधः । अघ्न्यायाः । इन्दुः । धाराभिः । सचते । सुऽमेधाः ।

मूर्धानम् । गावः । पयसा । चमूषु । अभि । श्रीणन्ति । वसुऽभिः । न । निक्तैः ॥

“उत अपि च “अघ्न्यायाः । अघ्न्येति गोनाम । अहन्तव्याया गोः “ऊधः पयःस्थानं सोमः “प्र “पिप्ये । ओषध्यादिषु सोमः प्रविश्य प्रकर्षेणाप्याययति । प्यायतेर्लिटि लिड्यङोश्च ' इति पीभावः । “सुमेधाः शोभनप्रज्ञः सोऽयम् “इन्दुः सोमः “धाराभिः सचते समवैति संगच्छते । ततः “गावः “चमूषु । चमन्ति भक्षयन्यत्र सोममिति चम्वो ग्रहादयः । तेषु स्थितं “मूर्धानं समुच्छ्रितमिमं सोमं “पयसा श्वेतेन “अभि “श्रीणन्ति अभित आच्छादयन्ति । तत्र दृष्टान्तः । “निक्तैः प्रक्षालितैः "वसुभिर्न वस्त्रैर्यथाच्छादयन्ति तद्वत् ॥


स नो॑ दे॒वेभिः॑ पवमान र॒देंदो॑ र॒यिम॒श्विनं॑ वावशा॒नः ।

र॒थि॒रा॒यता॑मुश॒ती पुरं॑धिरस्म॒द्र्य१॒॑गा दा॒वने॒ वसू॑नां ॥४

सः । नः॒ । दे॒वेभिः॑ । प॒व॒मा॒न॒ । र॒द॒ । इन्दो॒ इति॑ । र॒यिम् । अ॒श्विन॑म् । वा॒व॒शा॒नः ।

र॒थि॒रा॒यता॑म् । उ॒श॒ती । पुर॑म्ऽधिः । अ॒स्म॒द्र्य॑क् । आ । दा॒वने॑ । वसू॑नाम् ॥

सः । नः । देवेभिः । पवमान । रद । इन्दो इति । रयिम् । अश्विनम् । वावशानः ।

रथिरायताम् । उशती । पुरम्ऽधिः । अस्मद्र्यक् । आ । दावने । वसूनाम् ॥

हे “पवमान पूयमान सोम “सः तादृशस्त्वं “नः अस्मभ्यं “देवेभिः देवैः सह “रद प्रयच्छ । किं तत् उच्यते । हे “इन्दो पात्रेषु क्षरन् सोम “वावशानः कामयमानः सन् “अश्विनम् अश्ववन्तं “रयिं धनं प्रयच्छति । किंच “रथिरायताम् । रथो येषामस्तीति रथिराः । ‘ मेधारथाभ्याम्' इतीरच्प्रत्ययः । तद्वदाचरतस्तानिच्छतो वा पुरुषान् “उशती कामयमाना “पुरंधिः त्वदीया बहुविधा धीः “वसूनां धनानां “दावने दानाय अस्मद्र्यक् अस्मदभिमुखी “आ आगच्छतु । यद्वा । रथिरायितामिति धनानां विशेषणम् । बलवतां धनानामिति । अस्मद्र्यक् । 'विष्वग्देवयोश्च टेरद्र्यञ्चतावप्रत्यये । (पा. सू. ६. ३. ९२ ) इत्यद्र्यादेशः । अद्रिसध्र्योरन्तोदात्तत्वनिपातनात् ' उदात्तस्वरितयोर्यणः । इति स्वरितः ॥


नू नो॑ र॒यिमुप॑ मास्व नृ॒वंतं॑ पुना॒नो वा॒ताप्यं॑ वि॒श्वश्चं॑द्रं ।

प्र वं॑दि॒तुरिं॑दो ता॒र्यायुः॑ प्रा॒तर्म॒क्षू धि॒याव॑सुर्जगम्यात् ॥५

नु । नः॒ । र॒यिम् । उप॑ । मा॒स्व॒ । नृ॒ऽवन्त॑म् । पु॒ना॒नः । वा॒ताप्य॑म् । वि॒श्वऽच॑न्द्रम् ।

प्र । व॒न्दि॒तुः । इ॒न्दो॒ इति॑ । ता॒रि॒ । आयुः॑ । प्रा॒तः । म॒क्षु । धि॒याऽव॑सुः । ज॒ग॒म्या॒त् ॥

नु । नः । रयिम् । उप । मास्व । नृऽवन्तम् । पुनानः । वाताप्यम् । विश्वऽचन्द्रम् ।

प्र । वन्दितुः । इन्दो इति । तारि । आयुः । प्रातः । मक्षु । धियाऽवसुः । जगम्यात् ॥

हे सोम “पुनानः पूयमानस्त्वं “नः अस्मभ्यं “नु क्षिप्रं “नृवन्तं मनुष्यैर्युक्तम् । छान्दसं मतुपो वत्वम् । तादृशं “रयिं धनम् “उप "मास्व उपनिर्मिमीष्व । उपकुर्वित्यर्थः । किं च “विश्वचन्द्रं सर्वेषामाह्लादकं “वाताप्यम्। उदकनामैतत् । उदकं च कुरु । तथा हे “इन्दो सोम “वन्दितुः तव स्तोतुः "आयुः जीवनं “प्र “तारि त्वया वर्धितमस्तु । सोऽयं सोमः “धियावसुः बुद्ध्या कर्मणा वा प्राप्तधनः “प्रातः काले वा सवने वा “मक्षु शीघ्रमस्मदीयं यज्ञं प्रति जगम्यात् आगच्छेत् । गमेर्लिङि ‘ बहुलं छन्दसि ' इति शपः श्लुः ॥ ॥ ३ ॥

मण्डल ९

सूक्तं ९.१

सूक्तं ९.२

सूक्तं ९.३

सूक्तं ९.४

सूक्तं ९.५

सूक्तं ९.६

सूक्तं ९.७

सूक्तं ९.८

सूक्तं ९.९

सूक्तं ९.१०

सूक्तं ९.११

सूक्तं ९.१२

सूक्तं ९.१३

सूक्तं ९.१४

सूक्तं ९.१५

सूक्तं ९.१६

सूक्तं ९.१७

सूक्तं ९.१८

सूक्तं ९.१९

सूक्तं ९.२०

सूक्तं ९.२१

सूक्तं ९.२२

सूक्तं ९.२३

सूक्तं ९.२४

सूक्तं ९.२५

सूक्तं ९.२६

सूक्तं ९.२७

सूक्तं ९.२८

सूक्तं ९.२९

सूक्तं ९.३०

सूक्तं ९.३१

सूक्तं ९.३२

सूक्तं ९.३३

सूक्तं ९.३४

सूक्तं ९.३५

सूक्तं ९.३६

सूक्तं ९.३७

सूक्तं ९.३८

सूक्तं ९.३९

सूक्तं ९.४०

सूक्तं ९.४१

सूक्तं ९.४२

सूक्तं ९.४३

सूक्तं ९.४४

सूक्तं ९.४५

सूक्तं ९.४६

सूक्तं ९.४७

सूक्तं ९.४८

सूक्तं ९.४९

सूक्तं ९.५०

सूक्तं ९.५१

सूक्तं ९.५२

सूक्तं ९.५३

सूक्तं ९.५४

सूक्तं ९.५५

सूक्तं ९.५६

सूक्तं ९.५७

सूक्तं ९.५८

सूक्तं ९.५९

सूक्तं ९.६०

सूक्तं ९.६१

सूक्तं ९.६२

सूक्तं ९.६३

सूक्तं ९.६४

सूक्तं ९.६५

सूक्तं ९.६६

सूक्तं ९.६७

सूक्तं ९.६८

सूक्तं ९.६९

सूक्तं ९.७०

सूक्तं ९.७१

सूक्तं ९.७२

सूक्तं ९.७३

सूक्तं ९.७४

सूक्तं ९.७५

सूक्तं ९.७६

सूक्तं ९.७७

सूक्तं ९.७८

सूक्तं ९.७९

सूक्तं ९.८०

सूक्तं ९.८१

सूक्तं ९.८२

सूक्तं ९.८३

सूक्तं ९.८४

सूक्तं ९.८५

सूक्तं ९.८६

सूक्तं ९.८७

सूक्तं ९.८८

सूक्तं ९.८९

सूक्तं ९.९०

सूक्तं ९.९१

सूक्तं ९.९२

सूक्तं ९.९३

सूक्तं ९.९४

सूक्तं ९.९५

सूक्तं ९.९६

सूक्तं ९.९७

सूक्तं ९.९८

सूक्तं ९.९९

सूक्तं ९.१००

सूक्तं ९.१०१

सूक्तं ९.१०२

सूक्तं ९.१०३

सूक्तं ९.१०४

सूक्तं ९.१०५

सूक्तं ९.१०६

सूक्तं ९.१०७

सूक्तं ९.१०८

सूक्तं ९.१०९

सूक्तं ९.११०

सूक्तं ९.१११

सूक्तं ९.११२

सूक्तं ९.११३

सूक्तं ९.११४

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_९.९३&oldid=180352" इत्यस्माद् पुनः प्राप्तिः