ऋग्वेदः सूक्तं ९.९६

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं ९.९५ ऋग्वेदः - मण्डल ९
सूक्तं ९.९६
दैवोदासिः प्रतर्दनः
सूक्तं ९.९७ →
दे. पवमानः सोमः। त्रिष्टुप्


प्र सेनानीः शूरो अग्रे रथानां गव्यन्नेति हर्षते अस्य सेना ।
भद्रान्कृण्वन्निन्द्रहवान्सखिभ्य आ सोमो वस्त्रा रभसानि दत्ते ॥१॥
समस्य हरिं हरयो मृजन्त्यश्वहयैरनिशितं नमोभिः ।
आ तिष्ठति रथमिन्द्रस्य सखा विद्वाँ एना सुमतिं यात्यच्छ ॥२॥
स नो देव देवताते पवस्व महे सोम प्सरस इन्द्रपानः ।
कृण्वन्नपो वर्षयन्द्यामुतेमामुरोरा नो वरिवस्या पुनानः ॥३॥
अजीतयेऽहतये पवस्व स्वस्तये सर्वतातये बृहते ।
तदुशन्ति विश्व इमे सखायस्तदहं वश्मि पवमान सोम ॥४॥
सोमः पवते जनिता मतीनां जनिता दिवो जनिता पृथिव्याः ।
जनिताग्नेर्जनिता सूर्यस्य जनितेन्द्रस्य जनितोत विष्णोः ॥५॥
ब्रह्मा देवानां पदवीः कवीनामृषिर्विप्राणां महिषो मृगाणाम् ।
श्येनो गृध्राणां स्वधितिर्वनानां सोमः पवित्रमत्येति रेभन् ॥६॥
प्रावीविपद्वाच ऊर्मिं न सिन्धुर्गिरः सोमः पवमानो मनीषाः ।
अन्तः पश्यन्वृजनेमावराण्या तिष्ठति वृषभो गोषु जानन् ॥७॥
स मत्सरः पृत्सु वन्वन्नवातः सहस्ररेता अभि वाजमर्ष ।
इन्द्रायेन्दो पवमानो मनीष्यंशोरूर्मिमीरय गा इषण्यन् ॥८॥
परि प्रियः कलशे देववात इन्द्राय सोमो रण्यो मदाय ।
सहस्रधारः शतवाज इन्दुर्वाजी न सप्तिः समना जिगाति ॥९॥
स पूर्व्यो वसुविज्जायमानो मृजानो अप्सु दुदुहानो अद्रौ ।
अभिशस्तिपा भुवनस्य राजा विदद्गातुं ब्रह्मणे पूयमानः ॥१०॥
त्वया हि नः पितरः सोम पूर्वे कर्माणि चक्रुः पवमान धीराः ।
वन्वन्नवातः परिधीँरपोर्णु वीरेभिरश्वैर्मघवा भवा नः ॥११॥
यथापवथा मनवे वयोधा अमित्रहा वरिवोविद्धविष्मान् ।
एवा पवस्व द्रविणं दधान इन्द्रे सं तिष्ठ जनयायुधानि ॥१२॥
पवस्व सोम मधुमाँ ऋतावापो वसानो अधि सानो अव्ये ।
अव द्रोणानि घृतवान्ति सीद मदिन्तमो मत्सर इन्द्रपानः ॥१३॥
वृष्टिं दिवः शतधारः पवस्व सहस्रसा वाजयुर्देववीतौ ।
सं सिन्धुभिः कलशे वावशानः समुस्रियाभिः प्रतिरन्न आयुः ॥१४॥
एष स्य सोमो मतिभिः पुनानोऽत्यो न वाजी तरतीदरातीः ।
पयो न दुग्धमदितेरिषिरमुर्विव गातुः सुयमो न वोळ्हा ॥१५॥
स्वायुधः सोतृभिः पूयमानोऽभ्यर्ष गुह्यं चारु नाम ।
अभि वाजं सप्तिरिव श्रवस्याभि वायुमभि गा देव सोम ॥१६॥
शिशुं जज्ञानं हर्यतं मृजन्ति शुम्भन्ति वह्निं मरुतो गणेन ।
कविर्गीर्भिः काव्येना कविः सन्सोमः पवित्रमत्येति रेभन् ॥१७॥
ऋषिमना य ऋषिकृत्स्वर्षाः सहस्रणीथः पदवीः कवीनाम् ।
तृतीयं धाम महिषः सिषासन्सोमो विराजमनु राजति ष्टुप् ॥१८॥
चमूषच्छ्येनः शकुनो विभृत्वा गोविन्दुर्द्रप्स आयुधानि बिभ्रत् ।
अपामूर्मिं सचमानः समुद्रं तुरीयं धाम महिषो विवक्ति ॥१९॥
मर्यो न शुभ्रस्तन्वं मृजानोऽत्यो न सृत्वा सनये धनानाम् ।
वृषेव यूथा परि कोशमर्षन्कनिक्रदच्चम्वोरा विवेश ॥२०॥
पवस्वेन्दो पवमानो महोभिः कनिक्रदत्परि वाराण्यर्ष ।
क्रीळञ्चम्वोरा विश पूयमान इन्द्रं ते रसो मदिरो ममत्तु ॥२१॥
प्रास्य धारा बृहतीरसृग्रन्नक्तो गोभिः कलशाँ आ विवेश ।
साम कृण्वन्सामन्यो विपश्चित्क्रन्दन्नेत्यभि सख्युर्न जामिम् ॥२२॥
अपघ्नन्नेषि पवमान शत्रून्प्रियां न जारो अभिगीत इन्दुः ।
सीदन्वनेषु शकुनो न पत्वा सोमः पुनानः कलशेषु सत्ता ॥२३॥
आ ते रुचः पवमानस्य सोम योषेव यन्ति सुदुघाः सुधाराः ।
हरिरानीतः पुरुवारो अप्स्वचिक्रदत्कलशे देवयूनाम् ॥२४॥


सायणभाष्यम्

‘प्र सेनानीः' इति चतुर्विंशत्यृचमेकादशं सूक्तं दिवोदासपुत्रस्य प्रतर्दनाख्यस्य राजर्षेरिदं त्रैष्टुभं पवमानसोमदेवताकम् । तथा चानुक्रम्यते-’ प्र सेनानीश्चतुर्विंशतिर्दैवोदासिः प्रतर्दनः' इति । गतः सूक्तविनियोगः ॥


प्र से॑ना॒नीः शूरो॒ अग्रे॒ रथा॑नां ग॒व्यन्ने॑ति॒ हर्ष॑ते अस्य॒ सेना॑ ।

भ॒द्रान्कृ॒ण्वन्निं॑द्रह॒वान्त्सखि॑भ्य॒ आ सोमो॒ वस्त्रा॑ रभ॒सानि॑ दत्ते ॥१

प्र । से॒ना॒ऽनीः । शूरः॑ । अग्रे॑ । रथा॑नाम् । ग॒व्यन् । ए॒ति॒ । हर्ष॑ते । अ॒स्य॒ । सेना॑ ।

भ॒द्रान् । कृ॒ण्वन् । इ॒न्द्र॒ऽह॒वान् । सखि॑ऽभ्यः । आ । सोमः॑ । वस्त्रा॑ । र॒भ॒सानि॑ । द॒त्ते॒ ॥

प्र । सेनाऽनीः । शूरः । अग्रे । रथानाम् । गव्यन् । एति । हर्षते । अस्य । सेना ।

भद्रान् । कृण्वन् । इन्द्रऽहवान् । सखिऽभ्यः । आ । सोमः । वस्त्रा । रभसानि । दत्ते ॥

“सेनानीः सेनानामग्र उपनेता “शूरः शत्रूणां बाधकः “सोमः “गव्यन् शत्रूणां गा इच्छन् । यद्वा । यजमानानां पश्वादिकमिच्छन् । “रथानाम् “अग्रे रथानां पुरतः “प्र “ऐति प्रकर्षेण संग्रामं गच्छति । “अस्य सोमस्य “सेना च “हर्षते हृष्यति । वाक्यभेदादनिघातः । किंच “सखिभ्यः समानख्यानेभ्यो यजमानेभ्यः “इन्द्रहवान् तैः कृतानीन्द्रस्याह्वानानि “भद्रान् कल्याणानि यथार्थानि “कृण्वन् कुर्वन् । आहूतो हीन्द्रः सोमं पीत्वा कामान् प्रयच्छतीति । “रभसानि इन्द्रस्य वेगेनागमने निमित्तानि वस्त्राण्याच्छादकानि पयःप्रभृतीन्याश्रयणानि “आ “दत्ते आगृह्णाति ॥


सम॑स्य॒ हरिं॒ हर॑यो मृजंत्यश्वह॒यैरनि॑शितं॒ नमो॑भिः ।

आ ति॑ष्ठति॒ रथ॒मिंद्र॑स्य॒ सखा॑ वि॒द्वाँ ए॑ना सुम॒तिं या॒त्यच्छ॑ ॥२

सम् । अ॒स्य॒ । हरि॑म् । हर॑यः । मृ॒ज॒न्ति॒ । अ॒श्व॒ऽह॒यैः । अनि॑ऽशितम् । नमः॑ऽभिः ।

आ । ति॒ष्ठ॒ति॒ । रथ॑म् । इन्द्र॑स्य । सखा॑ । वि॒द्वान् । ए॒न॒ । सु॒ऽम॒तिम् । या॒ति॒ । अच्छ॑ ॥

सम् । अस्य । हरिम् । हरयः । मृजन्ति । अश्वऽहयैः । अनिऽशितम् । नमःऽभिः ।

आ । तिष्ठति । रथम् । इन्द्रस्य । सखा । विद्वान् । एन । सुऽमतिम् । याति । अच्छ ॥

“हरयः हरन्त्यभिषुण्वन्ति सोममित्यृत्विजोऽङ्गुलयो वा “हरिं हरितवर्णम् “अस्य सोमस्य कारणमंशुं “सं “मृजन्ति सम्यगभिषुण्वन्ति । ततः सोमः “नमोभिः नामयितृभिः “अश्वहयैः । व्याप्तैरपि “अनिशितम् असंस्कृतमयुक्तमननुगतं “रथं रमणसाधनमात्मीयं दशापवित्रम् “आ “तिष्ठति आसीदति । अनन्तरम् “इन्द्रस्य “सखा सखिभूतः “विद्वान् प्राज्ञः सोमः “एना एतेन रथेन पवित्रेण “सुमतिं शोभनस्तुतिकं स्तोतारम् “अच्छ “याति अभिगच्छति । तस्मिन् काले तेन क्रियमाणां स्तुतिमभिगच्छतीत्यर्थः ॥


स नो॑ देव दे॒वता॑ते पवस्व म॒हे सो॑म॒ प्सर॑स इंद्र॒पानः॑ ।

कृ॒ण्वन्न॒पो व॒र्षयं॒द्यामु॒तेमामु॒रोरा नो॑ वरिवस्या पुना॒नः ॥३

सः । नः॒ । दे॒व॒ । दे॒वऽता॑ते । प॒व॒स्व॒ । म॒हे । सो॒म॒ । प्सर॑से । इ॒न्द्र॒ऽपानः॑ ।

कृ॒ण्वन् । अ॒पः । व॒र्षय॑न् । द्याम् । उ॒त । इ॒माम् । उ॒रोः । आ । नः॒ । व॒रि॒व॒स्य॒ । पु॒ना॒नः ॥

सः । नः । देव । देवऽताते । पवस्व । महे । सोम । प्सरसे । इन्द्रऽपानः ।

कृण्वन् । अपः । वर्षयन् । द्याम् । उत । इमाम् । उरोः । आ । नः । वरिवस्य । पुनानः ॥

हे देव द्योतमान हे “सोम “सः तादृशः “इन्द्रपानः इन्द्रेण पातव्यस्त्वं “नः अस्माकं स्वभूते “देवताते देवैस्तते वितते यज्ञे “महे महते “प्सरसे भक्षणायेन्द्रस्य पानाय "पवस्व ग्रहादिषु क्षर। किंच “अपः उदकानि “कृण्वन् कुर्वन् “उत अपि च “द्याम् “इमां द्यावापृथिव्यौ “वर्षयन् । भूमिं पर्जन्यरूपेण तर्पयति द्युलोकमग्निरूपेणेति । ‘ भूमिं पर्जन्या जिन्वन्ति दिवं जिन्वन्त्यग्नयः ' (ऋ. सं. १.१६४.५१ ) इति श्रवणात् । "उरोः विस्तीर्णादन्तरिक्षात् “आ आगच्छंस्त्वं “पुनानः पूयमानः सन् “नः अस्मान् “वरिवस्य धनादिप्रदानेन परिचरेति ॥


अजी॑त॒येऽह॑तये पवस्व स्व॒स्तये॑ स॒र्वता॑तये बृह॒ते ।

तदु॑शंति॒ विश्व॑ इ॒मे सखा॑य॒स्तद॒हं व॑श्मि पवमान सोम ॥४

अजी॑तये । अह॑तये । प॒व॒स्व॒ । स्व॒स्तये॑ । स॒र्वऽता॑तये । बृ॒ह॒ते ।

तत् । उ॒श॒न्ति॒ । विश्वे॑ । इ॒मे । सखा॑यः । तत् । अ॒हम् । व॒श्मि॒ । प॒व॒मा॒न॒ । सो॒म॒ ॥

अजीतये । अहतये । पवस्व । स्वस्तये । सर्वऽतातये । बृहते ।

तत् । उशन्ति । विश्वे । इमे । सखायः । तत् । अहम् । वश्मि । पवमान । सोम ॥

हे सोम “अजीतये यथा वय शत्रुभिरजिता भवेम तथा तेषामजयाय “अहतये यथा तैरहताः स्याम तस्यै च अत एव “स्वस्तये अविनाशाय किंच “बृहते “सर्वतातये सर्वैरिन्द्रादिभिर्देवैः तायमानाय यज्ञाय एतदर्थं “पवस्व अस्मदभिमुखमागच्छ । पविर्गतिकर्मा । “विश्वे सर्वे “इमे मदीयाः “सखायः स्तोतारः “तत् त्वदीयं रक्षणम् "उशन्ति कामयन्ते । हे “पवमान “सोम “तत् रक्षणम् “अहम् अपि “वश्मि कामये ॥


सोमः॑ पवते जनि॒ता म॑ती॒नां ज॑नि॒ता दि॒वो ज॑नि॒ता पृ॑थि॒व्याः ।

ज॒नि॒ताग्नेर्ज॑नि॒ता सूर्य॑स्य जनि॒तेंद्र॑स्य जनि॒तोत विष्णोः॑ ॥५

सोमः॑ । प॒व॒ते॒ । ज॒नि॒ता । म॒ती॒नाम् । ज॒नि॒ता । दि॒वः । ज॒नि॒ता । पृ॒थि॒व्याः ।

ज॒नि॒ता । अ॒ग्नेः । ज॒नि॒ता । सूर्य॑स्य । ज॒नि॒ता । इन्द्र॑स्य । ज॒नि॒ता । उ॒त । विष्णोः॑ ॥

सोमः । पवते । जनिता । मतीनाम् । जनिता । दिवः । जनिता । पृथिव्याः ।

जनिता । अग्नेः । जनिता । सूर्यस्य । जनिता । इन्द्रस्य । जनिता । उत । विष्णोः ॥

“सोमः अभिषूयमाणः “पवते पात्रेषु क्षरति । कीदृशः । “मतीनां बुद्धीनां यद्वा मननीयानां स्तुतीनां “जनिता जनयिता । ‘ जनिता मन्त्रे ' ( पा. सू. ६.४.५३) इति निपातनाण्णिलोपः । किंच “दिवः द्युलोकस्य “जनिता प्रादुर्भावयिता तथा “पृथिव्याः जनयिता “अग्नेः जनयिता प्रकाशयिता “सूर्यस्य सर्वस्य प्रेरकस्यादित्यस्य “जनिता “इन्द्रस्य “जनिता पानेन मदस्य जनयिता “उत अपि च “विष्णोः ब्यापकस्य “जनिता जनयिता । एतत् सर्वं सोमेऽभिषूयमाणे भवतीति । सोमो हि देवानाप्याययतीति ॥ ॥ ६ ॥


देवसुवां हविःषु सोमस्य वनस्पतेः • ब्रह्मा देवानाम्' इति याज्या । सूत्र्यते च-’ त्वं च सोम नो वशो ब्रह्मा देवानां पदवीः कवीनाम् ' ( आश्व. श्रौ. ४. ११) इति ॥

ब्र॒ह्मा दे॒वानां॑ पद॒वीः क॑वी॒नामृषि॒र्विप्रा॑णां महि॒षो मृ॒गाणां॑ ।

श्ये॒नो गृध्रा॑णां॒ स्वधि॑ति॒र्वना॑नां॒ सोमः॑ प॒वित्र॒मत्ये॑ति॒ रेभ॑न् ॥६

ब्र॒ह्मा । दे॒वाना॑म् । प॒द॒ऽवीः । क॒वी॒नाम् । ऋषिः॑ । विप्रा॑णाम् । म॒हि॒षः । मृ॒गाणा॑म् ।

श्ये॒नः । गृध्रा॑णाम् । स्वऽधि॑तिः । वना॑नाम् । सोमः॑ । प॒वित्र॑म् । अति॑ । ए॒ति॒ । रेभ॑न् ॥

ब्रह्मा । देवानाम् । पदऽवीः । कवीनाम् । ऋषिः । विप्राणाम् । महिषः । मृगाणाम् ।

श्येनः । गृध्राणाम् । स्वऽधितिः । वनानाम् । सोमः । पवित्रम् । अति । एति । रेभन् ॥

सोम एवंरूपो भवति । “देवानां स्तोत्रकारिणामृत्विजां “ब्रह्मा ब्रह्माख्यर्त्विक्स्थानीयो भवति । यद्वा । देवानां द्योतमानानामिन्द्रादीनां ब्रह्मा राजा भवति । तथा “कवीनां क्रान्तप्रज्ञानां “पदवीः । स्खलन्ति पदानि साधुत्वेन यो योजयति स पदवीः । वी गत्यादिष्वित्येतस्मात् क्विपि रूपम् । तथा “विप्राणां मेधाविनां मध्ये “ऋषिः भवति । यः परोक्षं पश्यति स ऋषिः ‘ ऋषिर्दर्शनात्' (निरु. २. ११) इति । “मृगाणां “महिषः भवति । महिषाख्यो बलवान् राजा भवति । तथा “गृध्राणां पक्षिविशेषाणां “श्येनः शंसनीयः पक्षिराजो भवति । “वनानाम् । वनतिर्हिंसाकर्मा। हिंसकानां छेदकानां मध्ये “स्वधितिः एतन्नामकछेदकोऽसि । एवं प्रभावः “सोमः “रेभन् शब्दायमानः सन् “पवित्रम् ऊर्णास्तुकेन कृतम् “अत्येति अतिगच्छति ॥


प्रावी॑विपद्वा॒च ऊ॒र्मिं न सिंधु॒र्गिरः॒ सोमः॒ पव॑मानो मनी॒षाः ।

अं॒तः पश्य॑न्वृ॒जने॒माव॑रा॒ण्या ति॑ष्ठति वृष॒भो गोषु॑ जा॒नन् ॥७

प्र । अ॒वी॒वि॒प॒त् । वा॒चः । ऊ॒र्मिम् । न । सिन्धुः॑ । गिरः॑ । सोमः॑ । पव॑मानः । म॒नी॒षाः ।

अ॒न्तरिति॑ । पश्य॑न् । वृ॒जना॑ । इ॒मा । अव॑राणि । आ । ति॒ष्ठ॒ति॒ । वृ॒ष॒भः । गोषु॑ । जा॒नन् ॥

प्र । अवीविपत् । वाचः । ऊर्मिम् । न । सिन्धुः । गिरः । सोमः । पवमानः । मनीषाः ।

अन्तरिति । पश्यन् । वृजना । इमा । अवराणि । आ । तिष्ठति । वृषभः । गोषु । जानन् ॥

“पवमानः “सोमः “मनीषाः मनस ईशिता हृदयंगमाः “गिरः स्तुतीः “प्रावीविपत् प्रकर्षेण वेपयति प्रेरयति । कथमिव । “सिन्धुः स्यन्दमाना नदीव “वाचः शब्दस्य “ऊर्मिं “न संघं यथा प्रेरयति तद्वत् । किंच “वृषभः कामानामुदकानां वा वर्षकः सोमः “अन्तः अन्तर्हितं वस्तुजातं “पश्यन् “अवराणि दुर्बलैर्वारयितुमशक्यानि “इमा “वृजना इमानि बलानि “आ “तिष्ठति आसीदति । किं कुर्वन् । “गोषु “जानन् गवां जानानः सन् परबलानि प्रविशति ।


स म॑त्स॒रः पृ॒त्सु व॒न्वन्नवा॑तः स॒हस्र॑रेता अ॒भि वाज॑मर्ष ।

इंद्रा॑येंदो॒ पव॑मानो मनी॒ष्यं१॒॑शोरू॒र्मिमी॑रय॒ गा इ॑ष॒ण्यन् ॥८

सः । म॒त्स॒रः । पृ॒त्ऽसु । व॒न्वन् । अवा॑तः । स॒हस्र॑ऽरेताः । अ॒भि । वाज॑म् । अ॒र्ष॒ ।

इन्द्रा॑य । इ॒न्दो॒ इति॑ । पव॑मानः । म॒नी॒षी । अं॒शोः । ऊ॒र्मिम् । ई॒र॒य॒ । गाः । इ॒ष॒ण्यन् ॥

सः । मत्सरः । पृत्ऽसु । वन्वन् । अवातः । सहस्रऽरेताः । अभि । वाजम् । अर्ष ।

इन्द्राय । इन्दो इति । पवमानः । मनीषी । अंशोः । ऊर्मिम् । ईरय । गाः । इषण्यन् ॥

“मत्सरः मदकरः “पृत्सु संग्रामेषु “वन्वन् शत्रून् हिंसन् अत एव “अवातः अन्यैर्गन्तुमशक्यः “सहस्ररेताः सहस्रोदकधारोपेतः “सः सोमः “वाजं शत्रूणां बलम् “अभि “अर्ष अभिगच्छ। हे “इन्दो सोम “पवमानः पूयमानः “मनीषी प्राज्ञस्त्वं “गा: “इषण्यन् शब्दान् प्रेरयन् । यद्वा । यजमानानां यज्ञसाधनभूता गाः प्रेरयन् । “इन्द्राय इन्द्रार्थम् “अंशोः अभिषूयमाणस्य सोमस्य “ऊर्मिं संघम् “ईरय प्रेरय ॥


परि॑ प्रि॒यः क॒लशे॑ दे॒ववा॑त॒ इंद्रा॑य॒ सोमो॒ रण्यो॒ मदा॑य ।

स॒हस्र॑धारः श॒तवा॑ज॒ इंदु॑र्वा॒जी न सप्तिः॒ सम॑ना जिगाति ॥९

परि॑ । प्रि॒यः । क॒लशे॑ । दे॒वऽवा॑तः । इन्द्रा॑य । सोमः॑ । रण्यः॑ । मदा॑य ।

स॒हस्र॑ऽधारः । श॒तऽवा॑जः । इन्दुः॑ । वा॒जी । न । सप्तिः॑ । सम॑ना । जि॒गा॒ति॒ ॥

परि । प्रियः । कलशे । देवऽवातः । इन्द्राय । सोमः । रण्यः । मदाय ।

सहस्रऽधारः । शतऽवाजः । इन्दुः । वाजी । न । सप्तिः । समना । जिगाति ॥

“प्रियः प्रीणयिता अत एव “देववातः देवैरभिगतः “रण्यः रमणीयः “सोमः “इन्द्राय इन्द्रस्य “मदाय मदार्थं “कलशे द्रोणाभिधाने “परि “जिगाति परिगच्छति । कीदृशः । “सहस्रधारः बहुविधधारोपेतः “शतवाजः बहुबलः “इन्दुः पात्रेषु क्षरन् । तत्र दृष्टान्तः । “वाजी “न यथा वाजी बलवान् “सप्तिः अश्वः “समना । संग्रामनामैतत् । ‘सम ष्टम अवैक्लव्ये '। समन्ति धृष्टा भवन्ति योद्धारोऽत्रेति । तस्मिन् संग्रामे यथाश्वः जिगाति गच्छति तद्वत् ॥


स पू॒र्व्यो व॑सु॒विज्जाय॑मानो मृजा॒नो अ॒प्सु दु॑दुहा॒नो अद्रौ॑ ।

अ॒भि॒श॒स्ति॒पा भुव॑नस्य॒ राजा॑ वि॒दद्गा॒तुं ब्रह्म॑णे पू॒यमा॑नः ॥१०

सः । पू॒र्व्यः । व॒सु॒ऽवित् । जाय॑मानः । मृ॒जा॒नः । अ॒प्ऽसु । दु॒दु॒हा॒नः । अद्रौ॑ ।

अ॒भि॒श॒स्ति॒ऽपाः । भुव॑नस्य । राजा॑ । वि॒दत् । गा॒तुम् । ब्रह्म॑णे । पू॒यमा॑नः ॥

सः । पूर्व्यः । वसुऽवित् । जायमानः । मृजानः । अप्ऽसु । दुदुहानः । अद्रौ ।

अभिशस्तिऽपाः । भुवनस्य । राजा । विदत् । गातुम् । ब्रह्मणे । पूयमानः ॥

“पूर्व्यः पुराणो यद्वा पूर्वैः कृतोऽभिषुतः "वसुवित् धनानां लम्भकः “जायमानः “अप्सु वसतीवर्याख्येषुदकेषु “मृजानः मृज्यमानः “अद्रौ अभिषवग्रावणि “दुदुहानः दुह्यमानः “अभिशस्तिपाः । अभितः शस्तिर्हिंसा येषां तेऽभिशस्तयः शत्रवः । तेभ्यः परिरक्षकः “भुवनस्य भूतजातस्य “राजा स्वामी एवंविधः “सः तादृशः सोमः “ब्रह्मणे कर्मार्थं “पूयमानः सन् “गातुं मार्गं समीचीनं “विदत् यजमानेभ्यः प्रयच्छति ॥ ॥ ७ ॥


महापितृयज्ञे पितरः सोमवन्तः इत्यस्य द्वितीयानुवाक्या त्वया हि नः पितरः' इत्येषा। सूत्रितं च -- पितरोऽग्निष्वात्ता यम उदीरतामवर उत्परासस्त्वया हि नः पितरः सोम पूर्वे' ( आश्व. श्रौ. २. १९) इति ॥

त्वया॒ हि नः॑ पि॒तरः॑ सोम॒ पूर्वे॒ कर्मा॑णि च॒क्रुः प॑वमान॒ धीराः॑ ।

व॒न्वन्नवा॑तः परि॒धीँरपो॑र्णु वी॒रेभि॒रश्वै॑र्म॒घवा॑ भवा नः ॥११

त्वया॑ । हि । नः॒ । पि॒तरः॑ । सो॒म॒ । पूर्वे॑ । कर्मा॑णि । च॒क्रुः । प॒व॒मा॒न॒ । धीराः॑ ।

व॒न्वन् । अवा॑तः । प॒रि॒ऽधीन् । अप॑ । ऊ॒र्णु॒ । वी॒रेभिः॑ । अश्वैः॑ । म॒घऽवा॑ । भ॒व॒ । नः॒ ॥

त्वया । हि । नः । पितरः । सोम । पूर्वे । कर्माणि । चक्रुः । पवमान । धीराः ।

वन्वन् । अवातः । परिऽधीन् । अप । ऊर्णु । वीरेभिः । अश्वैः । मघऽवा । भव । नः ॥

हे "पवमान पूयमान “सोम “धीराः कर्मणि कुशलाः प्राज्ञाः “नः अस्माकं “पितरः “पूर्वे पुरातना अङ्गिरसः “त्वया । हिरवधारणे । त्वया सहायेनैव "कर्माणि अग्निष्टोमादीनि “चक्रुः कृतवन्तः । किंच “वन्वन् स्तोतॄन संभजन् । यद्वा । वनतिर्हिंसार्थः। शत्रून् हिंसन’ । “अवातः तैरभिगतस्त्वं “परिधीन् । परिधीयत एभिः सर्वमिति परिधयो राक्षसाः। तान् “अपोर्णु अपोर्णुहि अपच्छादय । जहीति यावत् । ऊर्णोतेर्लोटि छान्दसो हेर्लुक् । एतादृशस्त्वं “नः अस्माकं पुत्रादियुक्तं धनं प्रयच्छेत्यर्थः ॥


यथाप॑वथा॒ मन॑वे वयो॒धा अ॑मित्र॒हा व॑रिवो॒विद्ध॒विष्मा॑न् ।

ए॒वा प॑वस्व॒ द्रवि॑णं॒ दधा॑न॒ इंद्रे॒ सं ति॑ष्ठ ज॒नयायु॑धानि ॥१२

यथा॑ । अप॑वथाः । मन॑वे । व॒यः॒ऽधाः । अ॒मि॒त्र॒ऽहा । व॒रि॒वः॒ऽवित् । ह॒विष्मा॑न् ।

ए॒व । प॒व॒स्व॒ । द्रवि॑णम् । दधा॑नः । इन्द्रे॑ । सम् । ति॒ष्ठ॒ । ज॒नय॑ । आयु॑धानि ॥

यथा । अपवथाः । मनवे । वयःऽधाः । अमित्रऽहा । वरिवःऽवित् । हविष्मान् ।

एव । पवस्व । द्रविणम् । दधानः । इन्द्रे । सम् । तिष्ठ । जनय । आयुधानि ॥

हे सोम “यथा पुरा त्वं “मनवे राज्ञे “वयोधाः अन्नस्य धाता तथा “अमित्रहा शत्रूणां हन्ता “वरिवोवित् धनस्य लम्भयिता “हविष्मान् पुरोडाशादियुक्तः सन् “अपवथाः तस्मै धनादिकं प्रदातुं यथागच्छः एवमस्मभ्यमपि “द्रविणं धनं “दधानः प्रयच्छन् “पवस्व अस्मदभिमुखमागच्छ । किंच अस्माभिर्दीयमानस्त्वम् “इन्द्रे “सं “तिष्ठ सम्यक् तिष्ठ । अपि च “आयुधानि त्वदीयानि “जनय तस्मै प्रकाशय । वाक्यभेदादनिघातः ॥


पव॑स्व सोम॒ मधु॑माँ ऋ॒तावा॒पो वसा॑नो॒ अधि॒ सानो॒ अव्ये॑ ।

अव॒ द्रोणा॑नि घृ॒तवां॑ति सीद म॒दिंत॑मो मत्स॒र इं॑द्र॒पानः॑ ॥१३

पव॑स्व । सो॒म॒ । मधु॑ऽमान् । ऋ॒तऽवा॑ । अ॒पः । वसा॑नः । अधि॑ । सानौ॑ । अव्ये॑ ।

अव॑ । द्रोणा॑नि । घृ॒तऽव॑न्ति । सी॒द॒ । म॒दिन्ऽत॑मः । म॒त्स॒रः । इ॒न्द्र॒ऽपानः॑ ॥

पवस्व । सोम । मधुऽमान् । ऋतऽवा । अपः । वसानः । अधि । सानौ । अव्ये ।

अव । द्रोणानि । घृतऽवन्ति । सीद । मदिन्ऽतमः । मत्सरः । इन्द्रऽपानः ॥

हे सोम “मधुमान् मदकररसोपेतः “ऋतावा यज्ञवान् । 'छन्दसीवनिपौ' इति वनिब्मत्वर्थीयः । तादृशस्त्वम् “अपः वसतीवरीरेकधनाश्च “वसानः आच्छादयन् “अधि अधिकं “सानौ समुच्छ्रिते अव्ये अविभवे पवित्रे “पवस्व क्षर । ततः “मदिन्तमः अतिशयेन मदकरः “इन्द्रपानः इन्द्रेण पातव्यः “मत्सरः मादयिता सोमः “घृतवन्ति उदकवतः “द्रोणानि द्रोणकलशान् “अव “सीद अवतिष्ठस्व ॥


वृ॒ष्टिं दि॒वः श॒तधा॑रः पवस्व सहस्र॒सा वा॑ज॒युर्दे॒ववी॑तौ ।

सं सिंधु॑भिः क॒लशे॑ वावशा॒नः समु॒स्रिया॑भिः प्रति॒रन्न॒ आयुः॑ ॥१४

वृ॒ष्टिम् । दि॒वः । श॒तऽधा॑रः । प॒व॒स्व॒ । स॒ह॒स्र॒ऽसाः । वा॒ज॒ऽयुः । दे॒वऽवी॑तौ ।

सम् । सिन्धु॑ऽभिः । क॒लशे॑ । वा॒व॒शा॒नः । सम् । उ॒स्रिया॑भिः । प्र॒ऽति॒रन् । नः॒ । आयुः॑ ॥

वृष्टिम् । दिवः । शतऽधारः । पवस्व । सहस्रऽसाः । वाजऽयुः । देवऽवीतौ ।

सम् । सिन्धुऽभिः । कलशे । वावशानः । सम् । उस्रियाभिः । प्रऽतिरन् । नः । आयुः ॥

हे सोम “शतधारः बहुधारोपेतः त्वं “दिवः अन्तरिक्षादादित्याद्वा “वृष्टिं “पवस्व कुरु । यद्वा । शतधारो बहुधात्मीयधारोपेतस्त्वं “दिवो द्योतमानात् पवित्रात् वृष्टिमविच्छिन्नधारां पवस्व पात्रेषु कुरु । कीदृशः । “देववीतौ । देवानां वीतिर्हविर्भक्षणं यस्मिन् स देववीतिर्यज्ञः। तस्मिन् “सहस्रसाः यजमानानां सहस्रस्य धनस्य दाता “वाजयुः तेषामन्नं कामयमानस्त्वं “सिन्धुभिः स्यन्दमानाभिः वसतीवरीभिः “कलशे द्रोणाभिधाने “सं गच्छस्व । तथा त्वं “नः अस्माकम् "आयुः जीवनं प्रतिरन् वर्धयन् “उस्रियाभिः गोविकारैः क्षीरादिभिश्च कलशे “सं गच्छस्व ।।


ए॒ष स्य सोमो॑ म॒तिभिः॑ पुना॒नोऽत्यो॒ न वा॒जी तर॒तीदरा॑तीः ।

पयो॒ न दु॒ग्धमदि॑तेरिषि॒रमु॒र्वि॑व गा॒तुः सु॒यमो॒ न वोळ्हा॑ ॥१५

ए॒षः । स्यः । सोमः॑ । म॒तिऽभिः॑ । पु॒ना॒नः । अत्यः॑ । न । वा॒जी । तर॑ति । इत् । अरा॑तीः ।

पयः॑ । न । दु॒ग्धम् । अदि॑तेः । इ॒षि॒रम् । उ॒रुऽइ॑व । गा॒तुः । सु॒ऽयमः॑ । न । वोळ्हा॑ ॥

एषः । स्यः । सोमः । मतिऽभिः । पुनानः । अत्यः । न । वाजी । तरति । इत् । अरातीः ।

पयः । न । दुग्धम् । अदितेः । इषिरम् । उरुऽइव । गातुः । सुऽयमः । न । वोळ्हा ॥

“एष एतादृशः “स्यः सः “सोमः “मतिभिः मननसाधनैः स्तोत्रैः “पुनानः पूयमानो भवति । यः सोमः “अत्यो “न अतनशीलः “वाजी अश्व इव संग्रामे “अरातीः अरातीन् शत्रून् “तरति । “इत् अवधारणे । तरत्येव हिनस्त्येव । यद्वृत्तयोगादनिघातः। किंच “अदितेः । गोनामैतत् । अदीनाया गोः “इषिरम् अन्वेषणीयं “दुग्धं “पयो ”न क्षीरं यथा पूतं भवति एवं सोमः परिशुद्धः । अपि च “उर्विव। ‘सुपां सुलुक् इति सोर्लुक् । उरुर्विस्तीर्णः “गातुः मार्ग इव सर्वैः समाश्रयणीयस्तथा “वोळ्हा वोढाश्वः “सुयमः सुष्ठु नियन्तुं शक्यो यथा भवति तद्वदयं सोमः स्तोतृभिः नियन्तव्यो भवति ॥ ॥ ८ ॥


स्वा॒यु॒धः सो॒तृभिः॑ पू॒यमा॑नो॒ऽभ्य॑र्ष॒ गुह्यं॒ चारु॒ नाम॑ ।

अ॒भि वाजं॒ सप्ति॑रिव श्रव॒स्याभि वा॒युम॒भि गा दे॑व सोम ॥१६

सु॒ऽआ॒यु॒धः । सो॒तृऽभिः॑ । पू॒यमा॑नः । अ॒भि । अ॒र्ष॒ । गुह्य॑म् । चारु॑ । नाम॑ ।

अ॒भि । वाज॑म् । सप्तिः॑ऽइव । श्र॒व॒स्या । अ॒भि । वा॒युम् । अ॒भि । गाः । दे॒व॒ । सो॒म॒ ॥

सुऽआयुधः । सोतृऽभिः । पूयमानः । अभि । अर्ष । गुह्यम् । चारु । नाम ।

अभि । वाजम् । सप्तिःऽइव । श्रवस्या । अभि । वायुम् । अभि । गाः । देव । सोम ॥

“स्वायुधः शोभनायुधोपेतः । यद्वा । यज्ञे स्फ्यकपालादीनि दशायुधानि सन्ति । तद्वान् । “सोतृभिः अभिषुण्वद्भिः “पूयमानः त्वं “गुह्यं गुहायां निहितं “चारु कमनीयं “नाम त्वदीयं रसात्मकं शरीरं स्तुतिभिः सह “अभ्यर्ष कलशादीन्यभिगमय । किंच “सप्तिरिव अश्व इव वर्तमानस्त्वं “श्रवस्या । ‘सुपां सुलुक्' इति सप्तम्या आजादेशः । अस्मदीयायामन्नेच्छायां “वाजम् अन्नमस्मभ्यम् “अभि गमय । अपि च हे “देव स्तोतव्य हे “सोम “वायुं प्राणं जीवनम् “अभि गमय । “गाः पशूंश्चास्मभ्यम् “अभि गमय ।


शिशुं॑ जज्ञा॒नं ह॑र्य॒तं मृ॑जंति शुं॒भंति॒ वह्निं॑ म॒रुतो॑ ग॒णेन॑ ।

क॒विर्गी॒र्भिः काव्ये॑ना क॒विः सन्त्सोमः॑ प॒वित्र॒मत्ये॑ति॒ रेभ॑न् ॥१७

शिशु॑म् । ज॒ज्ञा॒नम् । ह॒र्य॒तम् । मृ॒ज॒न्ति॒ । शु॒म्भन्ति॑ । वह्नि॑म् । म॒रुतः॑ । ग॒णेन॑ ।

क॒विः । गीः॒ऽभिः । काव्ये॑न । क॒विः । सन् । सोमः॑ । प॒वित्र॑म् । अति॑ । ए॒ति॒ । रेभ॑न् ॥

शिशुम् । जज्ञानम् । हर्यतम् । मृजन्ति । शुम्भन्ति । वह्निम् । मरुतः । गणेन ।

कविः । गीःऽभिः । काव्येन । कविः । सन् । सोमः । पवित्रम् । अति । एति । रेभन् ॥

“शिशुम् इदानीमुत्पन्नत्वाच्छिशुवत्तिष्ठन्तम् । यद्वा । पापानि तनूकुर्वन्तं विनाशयन्तम् । “जज्ञानं प्रादुर्भूतमत एव “हर्यतम् । हर्य गतिकान्त्योः । ‘ भृमृद्दशि' इत्यादिनातच् । सर्वैः काम्यमानं सोमं “मृजन्ति “मरुतः शोधयन्ति । किंच “वह्निं वोढारं सोमं “गणेन आत्मीयेन सप्तसंख्याकेन गणेन “शुम्भन्ति अलंकुर्वन्ति । ततः “कविः क्रान्तप्रज्ञः “सोमः “काव्येन कविकर्मणैव “कविः शब्दोपेतः “सन् “रेभन् शब्दायमानः “गीर्भिः स्तुतिभिः सह “पवित्रमत्येति अतीत्य गच्छति ॥


ऋषि॑मना॒ य ऋ॑षि॒कृत्स्व॒र्षाः स॒हस्र॑णीथः पद॒वीः क॑वी॒नां ।

तृ॒तीयं॒ धाम॑ महि॒षः सिषा॑स॒न्त्सोमो॑ वि॒राज॒मनु॑ राजति॒ ष्टुप् ॥१८

ऋषि॑ऽमनाः । यः । ऋ॒षि॒ऽकृत् । स्वः॒ऽसाः । स॒हस्र॑ऽनीथः । प॒द॒ऽवीः । क॒वी॒नाम् ।

तृ॒तीय॑म् । धाम॑ । म॒हि॒षः । सिसा॑सन् । सोमः॑ । वि॒ऽराज॑म् । अनु॑ । रा॒ज॒ति॒ । स्तुप् ॥

ऋषिऽमनाः । यः । ऋषिऽकृत् । स्वःऽसाः । सहस्रऽनीथः । पदऽवीः । कवीनाम् ।

तृतीयम् । धाम । महिषः । सिसासन् । सोमः । विऽराजम् । अनु । राजति । स्तुप् ॥

“ऋषिमना: सर्वदर्शनशीलमनस्कः अत एव “ऋषिकृत् सर्वस्य दर्शनकर्ता प्रकाशनस्य कर्ता “स्वर्षाः सर्वस्य सूर्यस्य वा संभक्ता “सहस्रणीथः । नीथा स्तुतिः । बहुविधस्तुतिकः “कवीनां क्रान्तप्रज्ञानां मध्ये “पदवीः स्खलतां पदानां साधुत्वेन संयोजयिता “यः सोमो विद्यते सः “महिषः महान् पूज्यो वा "सोमः “तृतीयं “धाम द्युलोकं “सिषासन् संभक्तुमिच्छन् “स्तुप् स्तूयमानः सन् “विराजं विशेषेण राजन्तं दीप्यमानमिन्द्रम् “अनु “राजति प्रकाशयति ॥


च॒मू॒षच्छ्ये॒नः श॑कु॒नो वि॒भृत्वा॑ गोविं॒दुर्द्र॒प्स आयु॑धानि॒ बिभ्र॑त् ।

अ॒पामू॒र्मिं सच॑मानः समु॒द्रं तु॒रीयं॒ धाम॑ महि॒षो वि॑वक्ति ॥१९

च॒मू॒ऽसत् । श्ये॒नः । श॒कु॒नः । वि॒ऽभृत्वा॑ । गो॒ऽवि॒न्दुः । द्र॒प्सः । आयु॑धानि । बिभ्र॑त् ।

अ॒पाम् । ऊ॒र्मिम् । सच॑मानः । स॒मु॒द्रम् । तु॒रीय॑म् । धाम॑ । म॒हि॒षः । वि॒व॒क्ति॒ ॥

चमूऽसत् । श्येनः । शकुनः । विऽभृत्वा । गोऽविन्दुः । द्रप्सः । आयुधानि । बिभ्रत् ।

अपाम् । ऊर्मिम् । सचमानः । समुद्रम् । तुरीयम् । धाम । महिषः । विवक्ति ॥

“चमूषत् । चमन्ति भक्षयन्त्यत्रेति चम्वश्चमसाः । तेषु सीदन् । यद्वा । चम्वावधिषवणफलके । तयोर्वर्तमानः । “श्येनः शंसनीयः “शकुन: शक्तः सामर्थ्यकारी “विभृत्वा । हरतेः ‘ आतो मनिन्” इत्यादिना क्वनिप् । पात्रेषु विहरणशीलः “गोविन्दुः यजमानानां गवां लम्भकः । ‘ विन्दुरिच्छुः । (पा. सू. ३, २. १६९ ) इत्युप्रत्ययान्तत्वेन निपातितः । “द्रप्सः द्रवणशीलः “आयुधानि स्फ्यकपालादीनि “बिभ्रत् धारयन् “अपाम् उदकानाम् “ऊर्मिं प्रेरकं “समुद्रम् । अन्तरिक्षनामैतत् । अन्तरिक्षलोकं “सचमानः सेवमानः “महिषः महान् य एवंविधः सोमः स सोमः “तुरीयं चतुर्थं “धाम चान्द्रमसं स्थानं “विवक्ति सेवते । सूर्यलोकस्योपरि चन्द्रमसो लोको विद्यत इति यमः पृथिव्या अधिपतिः स मावतु इत्यादिभिः चन्द्रमा नक्षत्राणामधिपतिः स मावतु इत्यन्तैर्मन्त्रैर्ज्ञायते ( तै. सं. ३. ४. ५. १ )॥


मर्यो॒ न शु॒भ्रस्त॒न्वं॑ मृजा॒नोऽत्यो॒ न सृत्वा॑ स॒नये॒ धना॑नां ।

वृषे॑व यू॒था परि॒ कोश॒मर्ष॒न्कनि॑क्रदच्च॒म्वो॒३॒॑रा वि॑वेश ॥२०

मर्यः॑ । न । शु॒भ्रः । त॒न्व॑म् । मृ॒जा॒नः । अत्यः॑ । न । सृत्वा॑ । स॒नये॑ । धना॑नाम् ।

वृषा॑ऽइव । यू॒था । परि॑ । कोश॑म् । अर्ष॑न् । कनि॑क्रदत् । च॒म्वोः॑ । आ । वि॒वे॒श॒ ॥

मर्यः । न । शुभ्रः । तन्वम् । मृजानः । अत्यः । न । सृत्वा । सनये । धनानाम् ।

वृषाऽइव । यूथा । परि । कोशम् । अर्षन् । कनिक्रदत् । चम्वोः । आ । विवेश ॥

“शुभ्रः दीप्यमानोऽलंकृतः “मर्यो “न मनुष्य इव “तन्वम् आत्मीयं शरीरं “मृजानः वसतीवरीभिः शोधयन् किंच “धनानां “सनये संभजनाय लाभाय “अत्यो “न अतनशीलोऽश्व इव "सृत्वा सरणशीलः अपि च “वृषेव वृषा यथा यूथानि प्रतिगच्छन् शब्दं करोति तद्वत् “कोशम् अधिषवणचर्मणा कृतं पात्रं “परि अर्षन् प्रतिगच्छन् सोमः "कनिक्रदत् पुनःपुनः शब्दं कुर्वन् “चम्वोः अधिषवणफलकयोः “आ “विवेश आविशति ॥ कनिक्रदत् । क्रदेर्यङ्लुकि ' दाधर्ति दर्धर्ति' इत्यादिना निपातनादभ्यासस्य निगागमः । तस्य शतरि ‘ अभ्यस्तानामादिः' इत्याद्युदात्तत्वम् ॥ ॥ ९ ॥


पव॑स्वेंदो॒ पव॑मानो॒ महो॑भिः॒ कनि॑क्रद॒त्परि॒ वारा॑ण्यर्ष ।

क्रीळं॑च॒म्वो॒३॒॑रा वि॑श पू॒यमा॑न॒ इंद्रं॑ ते॒ रसो॑ मदि॒रो म॑मत्तु ॥२१

पव॑स्व । इ॒न्दो॒ इति॑ । पव॑मानः । महः॑ऽभिः । कनि॑क्रदत् । परि॑ । वारा॑णि । अ॒र्ष॒ ।

क्रीळ॑न् । च॒म्वोः॑ । आ । वि॒श॒ । पू॒यमा॑नः । इन्द्र॑म् । ते॒ । रसः॑ । म॒दि॒रः । म॒म॒त्तु॒ ॥

पवस्व । इन्दो इति । पवमानः । महःऽभिः । कनिक्रदत् । परि । वाराणि । अर्ष ।

क्रीळन् । चम्वोः । आ । विश । पूयमानः । इन्द्रम् । ते । रसः । मदिरः । ममत्तु ॥

हे “इन्दो सोम “महोभिः पूजकैर्ऋत्विग्भिः “पवमानः पूयमानस्त्वं “पवस्व क्षर । ततः “कनिक्रदत् भृशं शब्दं कुर्वन् “वाराणि अवेर्वालानि पवित्राणि “परि “अर्ष परिगच्छ । किंच “पूयमानः त्वं “चम्वोः अधिषवणफलकयोः “क्रीळन संक्रीडमानः सन् “आ “विश पात्राणि प्रविश । अनन्तरं “मदिरः मदकरः “ते त्वदीयः “रसः “इन्द्रं “ममत्तु मोदयतु । माद्यतेः ‘ बहुलं छन्दसि' इति श्लुः॥


प्रास्य॒ धारा॑ बृह॒तीर॑सृग्रन्न॒क्तो गोभिः॑ क॒लशाँ॒ आ वि॑वेश ।

साम॑ कृ॒ण्वन्त्सा॑म॒न्यो॑ विप॒श्चित्क्रंद॑न्नेत्य॒भि सख्यु॒र्न जा॒मिं ॥२२

प्र । अ॒स्य॒ । धाराः॑ । बृ॒ह॒तीः । अ॒सृ॒ग्र॒न् । अ॒क्तः । गोभिः॑ । क॒लशा॑न् । आ । वि॒वे॒श॒ ।

साम॑ । कृ॒ण्वन् । सा॒म॒न्यः॑ । वि॒पः॒ऽचित् । क्रन्द॑न् । ए॒ति॒ । अ॒भि । सख्युः॑ । न । जा॒मिम् ॥

प्र । अस्य । धाराः । बृहतीः । असृग्रन् । अक्तः । गोभिः । कलशान् । आ । विवेश ।

साम । कृण्वन् । सामन्यः । विपःऽचित् । क्रन्दन् । एति । अभि । सख्युः । न । जामिम् ॥

“अस्य सोमस्य “बृहतीः बृहत्यो महत्यः “धाराः “प्र “असृग्रन् प्रसृज्यन्ते । सृजेः कर्मार्थे लङि व्यत्ययेन झेरनादेशः । ‘ बहुलं छन्दसि' इति रुडागमः । ततः सोऽयं सोमः “गोभिः गोविकारैः क्षीरादिभिः "अक्तः सन् “कलशान् द्रोणाभिधानान् “आ “विवेश आविशति । “साम सामानि “कृण्वन् कुर्वन् “सामन्यः सामगानकुशलः । सुष्ठु शब्दायमान इत्यर्थः । “विपश्चित् सर्वं जानानः सोमः “क्रन्दन देवानाह्वयन “अभि “एति । ग्रहादीनि त्वरयाभिगच्छति । तत्र दृष्टान्तः । “सख्युर्न सख्युः “जामिं जायां यथेतरो लम्पटो वेगेनाभिगच्छति तद्वत् ॥


अ॒प॒घ्नन्ने॑षि पवमान॒ शत्रू॑न्प्रि॒यां न जा॒रो अ॒भिगी॑त॒ इंदुः॑ ।

सीद॒न्वने॑षु शकु॒नो न पत्वा॒ सोमः॑ पुना॒नः क॒लशे॑षु॒ सत्ता॑ ॥२३

अ॒प॒ऽघ्नन् । ए॒षि॒ । प॒व॒मा॒न॒ । शत्रू॑न् । प्रि॒याम् । न । जा॒रः । अ॒भिऽगी॑तः । इन्दुः॑ ।

सीद॑न् । वने॑षु । श॒कु॒नः । न । पत्वा॑ । सोमः॑ । पु॒ना॒नः । क॒लशे॑षु । सत्ता॑ ॥

अपऽघ्नन् । एषि । पवमान । शत्रून् । प्रियाम् । न । जारः । अभिऽगीतः । इन्दुः ।

सीदन् । वनेषु । शकुनः । न । पत्वा । सोमः । पुनानः । कलशेषु । सत्ता ॥

हे “पवमान पूयमान सोम “अभिगीतः स्तोतृभिरभिष्टुतः “इन्दुः पात्रेषु क्षरंस्त्वं “शत्रून् “अपघ्नन् अपहिंसन् “एषि आगच्छसि । कथमिव । “जारः “प्रियां “न प्रियतमामसतीं स्त्रीमन्यान् बाधमानः सन् यथाभिगच्छति तद्वत् । “पत्वा पतनशीलः “शकुनो “न यथा शकुनः “वनेषु वृक्षेषु “सीदन् भवति तद्वत् पतनशीलः । “पुनानः पूयमानः “सोमः “कलशेषु “सत्ता सदनशीलो निषण्णो भवति । सदेस्ताच्छीलिकस्तृन्। ‘ एकाचः' इतीट्प्रतिषेधः ॥


आ ते॒ रुचः॒ पव॑मानस्य सोम॒ योषे॑व यंति सु॒दुघाः॑ सुधा॒राः ।

हरि॒रानी॑तः पुरु॒वारो॑ अ॒प्स्वचि॑क्रदत्क॒लशे॑ देवयू॒नां ॥२४

आ । ते॒ । रुचः॑ । पव॑मानस्य । सो॒म॒ । योषा॑ऽइव । य॒न्ति॒ । सु॒ऽदुघाः॑ । सु॒ऽधा॒राः ।

हरिः॑ । आऽनी॑तः । पु॒रु॒ऽवारः॑ । अ॒प्ऽसु । अचि॑क्रदत् । क॒लशे॑ । दे॒व॒ऽयू॒नाम् ॥

आ । ते । रुचः । पवमानस्य । सोम । योषाऽइव । यन्ति । सुऽदुघाः । सुऽधाराः ।

हरिः । आऽनीतः । पुरुऽवारः । अप्ऽसु । अचिक्रदत् । कलशे । देवऽयूनाम् ॥

हे “सोम पवमानस्य पूयमानस्य “ते तव स्वभूता “योषेव स्त्री यथा पुत्राणां पयो दोग्धि तद्वद्यजमानानां धनादिकस्य सुष्ठु दोग्ध्र्यः “सुधाराः शोभनधारोपेताः “रुचः दीप्तयः “आ “यन्ति पात्रादीन्यागच्छन्ति । किंच “हरिः हरितवर्णः “आनीतः ऋत्विग्भिः “पुरुवारः बहुधा वरणीयः सोमः “अप्सु वसतीवरीषु “देवयूनां देवानिच्छतां यजमानानां स्वभूते “कलशे द्रोणाख्ये च “अचिक्रदत् पुनःपुनः क्रन्दते शब्दायते ॥ ॥ १० ॥ ॥ ५ ॥

मण्डल ९

सूक्तं ९.१

सूक्तं ९.२

सूक्तं ९.३

सूक्तं ९.४

सूक्तं ९.५

सूक्तं ९.६

सूक्तं ९.७

सूक्तं ९.८

सूक्तं ९.९

सूक्तं ९.१०

सूक्तं ९.११

सूक्तं ९.१२

सूक्तं ९.१३

सूक्तं ९.१४

सूक्तं ९.१५

सूक्तं ९.१६

सूक्तं ९.१७

सूक्तं ९.१८

सूक्तं ९.१९

सूक्तं ९.२०

सूक्तं ९.२१

सूक्तं ९.२२

सूक्तं ९.२३

सूक्तं ९.२४

सूक्तं ९.२५

सूक्तं ९.२६

सूक्तं ९.२७

सूक्तं ९.२८

सूक्तं ९.२९

सूक्तं ९.३०

सूक्तं ९.३१

सूक्तं ९.३२

सूक्तं ९.३३

सूक्तं ९.३४

सूक्तं ९.३५

सूक्तं ९.३६

सूक्तं ९.३७

सूक्तं ९.३८

सूक्तं ९.३९

सूक्तं ९.४०

सूक्तं ९.४१

सूक्तं ९.४२

सूक्तं ९.४३

सूक्तं ९.४४

सूक्तं ९.४५

सूक्तं ९.४६

सूक्तं ९.४७

सूक्तं ९.४८

सूक्तं ९.४९

सूक्तं ९.५०

सूक्तं ९.५१

सूक्तं ९.५२

सूक्तं ९.५३

सूक्तं ९.५४

सूक्तं ९.५५

सूक्तं ९.५६

सूक्तं ९.५७

सूक्तं ९.५८

सूक्तं ९.५९

सूक्तं ९.६०

सूक्तं ९.६१

सूक्तं ९.६२

सूक्तं ९.६३

सूक्तं ९.६४

सूक्तं ९.६५

सूक्तं ९.६६

सूक्तं ९.६७

सूक्तं ९.६८

सूक्तं ९.६९

सूक्तं ९.७०

सूक्तं ९.७१

सूक्तं ९.७२

सूक्तं ९.७३

सूक्तं ९.७४

सूक्तं ९.७५

सूक्तं ९.७६

सूक्तं ९.७७

सूक्तं ९.७८

सूक्तं ९.७९

सूक्तं ९.८०

सूक्तं ९.८१

सूक्तं ९.८२

सूक्तं ९.८३

सूक्तं ९.८४

सूक्तं ९.८५

सूक्तं ९.८६

सूक्तं ९.८७

सूक्तं ९.८८

सूक्तं ९.८९

सूक्तं ९.९०

सूक्तं ९.९१

सूक्तं ९.९२

सूक्तं ९.९३

सूक्तं ९.९४

सूक्तं ९.९५

सूक्तं ९.९६

सूक्तं ९.९७

सूक्तं ९.९८

सूक्तं ९.९९

सूक्तं ९.१००

सूक्तं ९.१०१

सूक्तं ९.१०२

सूक्तं ९.१०३

सूक्तं ९.१०४

सूक्तं ९.१०५

सूक्तं ९.१०६

सूक्तं ९.१०७

सूक्तं ९.१०८

सूक्तं ९.१०९

सूक्तं ९.११०

सूक्तं ९.१११

सूक्तं ९.११२

सूक्तं ९.११३

सूक्तं ९.११४

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_९.९६&oldid=180422" इत्यस्माद् पुनः प्राप्तिः