ऋग्वेदः सूक्तं ९.३०

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं ९.२९ ऋग्वेदः - मण्डल ९
सूक्तं ९.३०
बिन्दुराङ्गिरसः
सूक्तं ९.३१ →
दे. पवमानः सोमः। गायत्री


प्र धारा अस्य शुष्मिणो वृथा पवित्रे अक्षरन् ।
पुनानो वाचमिष्यति ॥१॥
इन्दुर्हियानः सोतृभिर्मृज्यमानः कनिक्रदत् ।
इयर्ति वग्नुमिन्द्रियम् ॥२॥
आ नः शुष्मं नृषाह्यं वीरवन्तं पुरुस्पृहम् ।
पवस्व सोम धारया ॥३॥
प्र सोमो अति धारया पवमानो असिष्यदत् ।
अभि द्रोणान्यासदम् ॥४॥
अप्सु त्वा मधुमत्तमं हरिं हिन्वन्त्यद्रिभिः ।
इन्दविन्द्राय पीतये ॥५॥
सुनोता मधुमत्तमं सोममिन्द्राय वज्रिणे ।
चारुं शर्धाय मत्सरम् ॥६॥


सायणभाष्यम्

‘ प्र धाराः' इति षडृचं षष्ठं सूक्तं बिन्दुनाम्न आङ्गिरसस्यार्षं गायत्रं पवमानसोमदेवताकम् । ‘ प्र धारा बिन्दुः' इत्यनुक्रमणिका । गतो विनियोगः ॥


प्र धारा॑ अस्य शु॒ष्मिणो॒ वृथा॑ प॒वित्रे॑ अक्षरन् ।

पु॒ना॒नो वाच॑मिष्यति ॥१

प्र । धाराः॑ । अ॒स्य॒ । शु॒ष्मिणः॑ । वृथा॑ । प॒वित्रे॑ । अ॒क्ष॒र॒न् ।

पु॒ना॒नः । वाच॑म् । इ॒ष्य॒ति॒ ॥

प्र । धाराः । अस्य । शुष्मिणः । वृथा । पवित्रे । अक्षरन् ।

पुनानः । वाचम् । इष्यति ॥

“शुष्मिणः बलवतः “अस्य सोमस्य “धाराः “पवित्रे दशापवित्रे “वृथा अप्रयत्नेन “अक्षरन् स्रवन्ति । तदानीं "पुनानः पूयमानः सोमः “वाचं स्तुतिं स्वीयं ध्वनिं वा “इष्यति प्रेरयति ।


इंदु॑र्हिया॒नः सो॒तृभि॑र्मृ॒ज्यमा॑नः॒ कनि॑क्रदत् ।

इय॑र्ति व॒ग्नुमिं॑द्रि॒यं ॥२

इन्दुः॑ । हि॒या॒नः । सो॒तृऽभिः॑ । मृ॒ज्यमा॑नः । कनि॑क्रदत् ।

इय॑र्ति । व॒ग्नुम् । इ॒न्द्रि॒यम् ॥

इन्दुः । हियानः । सोतृऽभिः । मृज्यमानः । कनिक्रदत् ।

इयर्ति । वग्नुम् । इन्द्रियम् ॥

अयम् “इन्दुः दीप्तः सोमः “हियानः प्रेर्यमाणः व्याप्रियमाणः । कैः । “सोतृभिः ऋत्विग्भिः । पश्चाद्दशापवित्रे "मृज्यमानः शोध्यमानः “कनिक्रदत् शब्दं कुर्वन् “इन्द्रियम् इन्द्रस्य संबन्धिनमिन्द्रियमपि ----- करं “वग्नुं शब्दम् “इयर्ति प्रेरयति ग्रहणसमये ॥


आ नः॒ शुष्मं॑ नृ॒षाह्यं॑ वी॒रवं॑तं पुरु॒स्पृहं॑ ।

पव॑स्व सोम॒ धार॑या ॥३

आ । नः॒ । शुष्म॑म् । नृ॒ऽसह्य॑म् । वी॒रऽव॑न्तम् । पु॒रु॒ऽस्पृह॑म् ।

पव॑स्व । सो॒म॒ । धार॑या ॥

आ । नः । शुष्मम् । नृऽसह्यम् । वीरऽवन्तम् । पुरुऽस्पृहम् ।

पवस्व । सोम । धारया ॥

हे “सोम त्वं “धारया “आ “पवस्व । किम्। “शुष्मं बलम् । कीदृशम् । “नृषाह्यं नृणामस्मद्विरोधिनामभिभावुकं “वीरवन्तं पुत्रोपेतं “पुरुस्पृहं बहुभिः स्पृहणीयं शुष्ममा पवस्व । एतस्य लाभाय पवस्वेत्यर्थः । रसस्रावे सति होमद्वारा तत्सिद्धे शुष्मं पवस्वेत्युपचर्यते ॥


प्र सोमो॒ अति॒ धार॑या॒ पव॑मानो असिष्यदत् ।

अ॒भि द्रोणा॑न्या॒सदं॑ ॥४

प्र । सोमः॑ । अति॑ । धार॑या । पव॑मानः । अ॒सि॒स्य॒द॒त् ।

अ॒भि । द्रोणा॑नि । आ॒ऽसद॑म् ॥

प्र । सोमः । अति । धारया । पवमानः । असिस्यदत् ।

अभि । द्रोणानि । आऽसदम् ॥

अयं “पवमानः “सोमः “धारया “अति अतिक्रम्य देशापवित्रं “प्र “असिष्यदत् प्रस्यन्दते । किमर्थम् । “द्रोणानि द्रोणकलशादीनि “आसदम् आसादनाय ॥


अ॒प्सु त्वा॒ मधु॑मत्तमं॒ हरिं॑ हिन्वं॒त्यद्रि॑भिः ।

इंद॒विंद्रा॑य पी॒तये॑ ॥५

अ॒प्ऽसु । त्वा॒ । मधु॑मत्ऽतमम् । हरि॑म् । हि॒न्व॒न्ति॒ । अद्रि॑ऽभिः ।

इन्दो॒ इति॑ । इन्द्रा॑य । पी॒तये॑ ॥

अप्ऽसु । त्वा । मधुमत्ऽतमम् । हरिम् । हिन्वन्ति । अद्रिऽभिः ।

इन्दो इति । इन्द्राय । पीतये ॥

हे “इन्दो सोम “अप्सु वसतीवरीषूदकेषु “मधुमत्तमम् अतिशयेन मधुमन्तं “हरिं हरितवर्णं “त्वा त्वाम् “अद्रिभिः अभिषवग्रावभिः “हिन्वन्ति प्रेरयन्ति । किमर्थम् । “इन्द्राय इन्द्रस्य “पीतये पानाय ॥


सु॒नोता॒ मधु॑मत्तमं॒ सोम॒मिंद्रा॑य व॒ज्रिणे॑ ।

चारुं॒ शर्धा॑य मत्स॒रं ॥६

सु॒नोत॑ । मधु॑मत्ऽतमम् । सोम॑म् । इन्द्रा॑य । व॒ज्रिणे॑ ।

चारु॑म् । शर्धा॑य । म॒त्स॒रम् ॥

सुनोत । मधुमत्ऽतमम् । सोमम् । इन्द्राय । वज्रिणे ।

चारुम् । शर्धाय । मत्सरम् ॥

हे ऋत्विजः यूयं “मधुमत्तमं मधुररसोपेतं “सोममिन्द्राय “वज्रिणे वज्रयुक्ताय “सुनोत सुनुत । पुनः कीदृशम् । “चारुं चरणीयं “मत्सरं मदकरं "शर्धाय अस्माकं बलायेन्द्रस्य पानाथ च सोमं सुनुतेति बूते यजमानः स्वीयान् ॥ ॥ २० ॥

मण्डल ९

सूक्तं ९.१

सूक्तं ९.२

सूक्तं ९.३

सूक्तं ९.४

सूक्तं ९.५

सूक्तं ९.६

सूक्तं ९.७

सूक्तं ९.८

सूक्तं ९.९

सूक्तं ९.१०

सूक्तं ९.११

सूक्तं ९.१२

सूक्तं ९.१३

सूक्तं ९.१४

सूक्तं ९.१५

सूक्तं ९.१६

सूक्तं ९.१७

सूक्तं ९.१८

सूक्तं ९.१९

सूक्तं ९.२०

सूक्तं ९.२१

सूक्तं ९.२२

सूक्तं ९.२३

सूक्तं ९.२४

सूक्तं ९.२५

सूक्तं ९.२६

सूक्तं ९.२७

सूक्तं ९.२८

सूक्तं ९.२९

सूक्तं ९.३०

सूक्तं ९.३१

सूक्तं ९.३२

सूक्तं ९.३३

सूक्तं ९.३४

सूक्तं ९.३५

सूक्तं ९.३६

सूक्तं ९.३७

सूक्तं ९.३८

सूक्तं ९.३९

सूक्तं ९.४०

सूक्तं ९.४१

सूक्तं ९.४२

सूक्तं ९.४३

सूक्तं ९.४४

सूक्तं ९.४५

सूक्तं ९.४६

सूक्तं ९.४७

सूक्तं ९.४८

सूक्तं ९.४९

सूक्तं ९.५०

सूक्तं ९.५१

सूक्तं ९.५२

सूक्तं ९.५३

सूक्तं ९.५४

सूक्तं ९.५५

सूक्तं ९.५६

सूक्तं ९.५७

सूक्तं ९.५८

सूक्तं ९.५९

सूक्तं ९.६०

सूक्तं ९.६१

सूक्तं ९.६२

सूक्तं ९.६३

सूक्तं ९.६४

सूक्तं ९.६५

सूक्तं ९.६६

सूक्तं ९.६७

सूक्तं ९.६८

सूक्तं ९.६९

सूक्तं ९.७०

सूक्तं ९.७१

सूक्तं ९.७२

सूक्तं ९.७३

सूक्तं ९.७४

सूक्तं ९.७५

सूक्तं ९.७६

सूक्तं ९.७७

सूक्तं ९.७८

सूक्तं ९.७९

सूक्तं ९.८०

सूक्तं ९.८१

सूक्तं ९.८२

सूक्तं ९.८३

सूक्तं ९.८४

सूक्तं ९.८५

सूक्तं ९.८६

सूक्तं ९.८७

सूक्तं ९.८८

सूक्तं ९.८९

सूक्तं ९.९०

सूक्तं ९.९१

सूक्तं ९.९२

सूक्तं ९.९३

सूक्तं ९.९४

सूक्तं ९.९५

सूक्तं ९.९६

सूक्तं ९.९७

सूक्तं ९.९८

सूक्तं ९.९९

सूक्तं ९.१००

सूक्तं ९.१०१

सूक्तं ९.१०२

सूक्तं ९.१०३

सूक्तं ९.१०४

सूक्तं ९.१०५

सूक्तं ९.१०६

सूक्तं ९.१०७

सूक्तं ९.१०८

सूक्तं ९.१०९

सूक्तं ९.११०

सूक्तं ९.१११

सूक्तं ९.११२

सूक्तं ९.११३

सूक्तं ९.११४

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_९.३०&oldid=181549" इत्यस्माद् पुनः प्राप्तिः