ऋग्वेदः सूक्तं ९.५

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं ९.४ ऋग्वेदः - मण्डल ९
सूक्तं ९.५
कश्यपोऽसितो देवलो वा।
सूक्तं ९.६ →
दे. आप्रीसूक्तं (१ इध्मः समिद्धोऽग्निर्वा, २ तनूनपात्, ३ इळा, ४ बर्हिः, ५ देवीर्द्वारः, ६ उषासानक्ता, ७ दैव्यौ होतारौ प्रचेतसौ, 8 तिस्रो देव्यः सरस्वतीळाभारत्यः, ९ त्वष्टा, १० वनस्पतिः, ११ स्वाहाकृतयः)। गायत्री, ८-११ अनुष्टुप्


समिद्धो विश्वतस्पतिः पवमानो वि राजति ।
प्रीणन्वृषा कनिक्रदत् ॥१॥
तनूनपात्पवमानः शृङ्गे शिशानो अर्षति ।
अन्तरिक्षेण रारजत् ॥२॥
ईळेन्यः पवमानो रयिर्वि राजति द्युमान् ।
मधोर्धाराभिरोजसा ॥३॥
बर्हिः प्राचीनमोजसा पवमान स्तृणन्हरिः ।
देवेषु देव ईयते ॥४॥
उदातैर्जिहते बृहद्द्वारो देवीर्हिरण्ययीः ।
पवमानेन सुष्टुताः ॥५॥
सुशिल्पे बृहती मही पवमानो वृषण्यति ।
नक्तोषासा न दर्शते ॥६॥
उभा देवा नृचक्षसा होतारा दैव्या हुवे ।
पवमान इन्द्रो वृषा ॥७॥
भारती पवमानस्य सरस्वतीळा मही ।
इमं नो यज्ञमा गमन्तिस्रो देवीः सुपेशसः ॥८॥
त्वष्टारमग्रजां गोपां पुरोयावानमा हुवे ।
इन्दुरिन्द्रो वृषा हरिः पवमानः प्रजापतिः ॥९॥
वनस्पतिं पवमान मध्वा समङ्ग्धि धारया ।
सहस्रवल्शं हरितं भ्राजमानं हिरण्ययम् ॥१०॥
विश्वे देवाः स्वाहाकृतिं पवमानस्या गत ।
वायुर्बृहस्पतिः सूर्योऽग्निरिन्द्रः सजोषसः ॥११॥


सायणभाष्यम्

‘समिद्धः' इत्येकादशर्चं पञ्चमं सूक्तं काश्यपस्यासितस्य देवलस्य वार्षम् । अष्टम्याद्याश्चतस्रोऽनुष्टुभः शिष्टाः सप्त गायत्र्यः । नराशंसवर्जिताः समिदादयः क्रमेण प्रत्यृचं देवताः । तथा चानुक्रान्तं - समिद्ध एकादश काश्यपोऽसितो देवलो वा विंशतिः सूक्तान्याद्यमाप्रियश्चतुरनुष्टुबन्तम् इति । काश्यपस्य पावमानमिदमाप्रीसूक्तम् । सूत्रितं च- समिद्धो अद्येति सर्वेषां यथर्षि वा (आश्व. श्रौ. ३. २) इति ॥


समि॑द्धो वि॒श्वत॒स्पतिः॒ पव॑मानो॒ वि रा॑जति ।

प्री॒णन्वृषा॒ कनि॑क्रदत् ॥१

सम्ऽइ॑द्धः । वि॒श्वतः॑ । पतिः॑ । पव॑मानः । वि । रा॒ज॒ति॒ ।

प्री॒णन् । वृषा॑ । कनि॑क्रदत् ॥१

सम्ऽइद्धः । विश्वतः । पतिः । पवमानः । वि । राजति ।

प्रीणन् । वृषा । कनिक्रदत् ॥१

आप्रीवत्सोमस्तुतिरत्र । “समिद्धः सम्यग्दीप्तः “विश्वतस्पतिः सर्वतः स्वामी “वृषा कामानां वर्षिता “पवमानः सोमः “कनिक्रदत् अभिषूयमाणः शब्दं कुर्वन् “प्रीणन् देवान् प्रीणयन् “वि “राजति यागेषु प्रकाशते ।।


तनू॒नपा॒त्पव॑मानः॒ शृंगे॒ शिशा॑नो अर्षति ।

अं॒तरि॑क्षेण॒ रार॑जत् ॥२

तनू॒३॒॑ऽनपा॑त् । पव॑मानः । शृङ्गे॒ इति॑ । शिशा॑नः । अ॒र्ष॒ति॒ ।

अ॒न्तरि॑क्षेण । रार॑जत् ॥२

तनूऽनपात् । पवमानः । शृङ्गे इति । शिशानः । अर्षति ।

अन्तरिक्षेण । रारजत् ॥२

“तनूनपात् “पवमानः सोमः । तनूनपादत्र सोमो भवति । तथा च श्रूयते-’ अद्भ्योंऽशवो जायन्ते ततः सोमो जायते' इति । “शृङ्गे दीप्ते उन्नतप्रदेशे। ‘ हृणिः शृङ्गाणि ' इति ज्वलन्नामसु पाठात् । “शिशानः तीक्ष्णीकुर्वन् “अन्तरिक्षेण “रारजत् “अर्षति । द्रोणकलशं प्रति गच्छति । तथा चाम्नायते-- द्वाभ्यां धाराभ्यामाग्रयणं गृह्णाति' इति ॥


ई॒ळेन्यः॒ पव॑मानो र॒यिर्वि रा॑जति द्यु॒मान् ।

मधो॒र्धारा॑भि॒रोज॑सा ॥३

ई॒ळेन्यः॑ । पव॑मानः । र॒यिः । वि । रा॒ज॒ति॒ । द्यु॒ऽमान् ।

मधोः॑ । धारा॑भिः । ओज॑सा ॥३

ईळेन्यः । पवमानः । रयिः । वि । राजति । द्युऽमान् ।

मधोः । धाराभिः । ओजसा ॥३

“ईळेन्यः स्तुत्यः “पवमानः सोमः “रयिः अभीष्टस्य दाता “द्युमान् दीप्तिमांश्च सन् “मधोः उदकस्य “धाराभिः सह क्षरन् "ओजसा बलेन “वि “राजति प्रकाशते ।।


ब॒र्हिः प्रा॒चीन॒मोज॑सा॒ पव॑मानः स्तृ॒णन्हरिः॑ ।

दे॒वेषु॑ दे॒व ई॑यते ॥४

ब॒र्हिः । प्रा॒चीन॑म् । ओज॑सा । पव॑मानः । स्तृ॒णन् । हरिः॑ ।

दे॒वेषु॑ । दे॒वः । ई॒य॒ते॒ ॥४

बर्हिः । प्राचीनम् । ओजसा । पवमानः । स्तृणन् । हरिः ।

देवेषु । देवः । ईयते ॥४

“हरिः हरितवर्णः "देवः द्योतमानः सोमः “पवमानः “देवेषु यज्ञेषु “बर्हिः “प्राचीनं प्राचीनाग्रं “स्तृणन् स्तारयन “ओजसा बलेन “ईयते गच्छति ॥


उदातै॑र्जिहते बृ॒हद्द्वारो॑ दे॒वीर्हि॑र॒ण्ययीः॑ ।

पव॑मानेन॒ सुष्टु॑ताः ॥५

उत् । आतैः॑ । जि॒ह॒ते॒ । बृ॒हत् । द्वारः॑ । दे॒वीः । हि॒र॒ण्ययीः॑ ।

पव॑मानेन । सुऽस्तु॑ताः ॥५

उत् । आतैः । जिहते । बृहत् । द्वारः । देवीः । हिरण्ययीः ।

पवमानेन । सुऽस्तुताः ॥५

“हिरण्ययीः हिरण्मय्यः “द्वारो “देवीः द्वारो देव्यः “पवमानेन सोमेन सह "सुष्टुताः स्तोतृभिः सम्यक् स्तुताः सत्यः “बृहत् बृहतीभ्यो महतीभ्यः “आतैः आताभ्यो दिग्भ्यः । ‘आता आशाः इति दिङ्नामसु पाठात् । "उत् “जिहते उद्गच्छन्ति ॥ ॥ २४ ॥


सु॒शि॒ल्पे बृ॑ह॒ती म॒ही पव॑मानो वृषण्यति ।

नक्तो॒षासा॒ न द॑र्श॒ते ॥६

सु॒शि॒ल्पे इति॑ सु॒ऽशि॒ल्पे । बृ॒ह॒ती इति॑ । म॒ही इति॑ । पव॑मानः । वृ॒ष॒ण्य॒ति॒ ।

नक्तो॒षसा॑ । न । द॒र्श॒ते इति॑ ॥६

सुशिल्पे इति सुऽशिल्पे । बृहती इति । मही इति । पवमानः । वृषण्यति ।

नक्तोषसा । न । दर्शते इति ॥६

“सुशिल्पे सुरूपे “बृहती परिवृढे "मही महत्यौ “न संप्रति “दर्शते दर्शनीये "नक्तोषासा नक्तोषासौ “पवमानः सोमः “वृषण्यति कामयते ॥


उ॒भा दे॒वा नृ॒चक्ष॑सा॒ होता॑रा॒ दैव्या॑ हुवे ।

पव॑मान॒ इंद्रो॒ वृषा॑ ॥७

उ॒भा । दे॒वा । नृ॒ऽचक्ष॑सा । होता॑रा । दैव्या॑ । हु॒वे॒ ।

पव॑मानः । इन्द्रः॑ । वृषा॑ ॥७

उभा । देवा । नृऽचक्षसा । होतारा । दैव्या । हुवे ।

पवमानः । इन्द्रः । वृषा ॥७

“नृचक्षसा मनुष्याणां द्रष्टारौ “दैव्या दैव्यौ देवसंबन्धिनौ “होतारा होतारौ “उभा उभौ “देवा देवौ “हुवे आह्वयामि यज्ञे। “पवमानः सोमः “इन्द्रः दीप्तः । तथा च यास्कः-’ इन्द्र इरां दृणातीति वेरां दारयत इति वेरां धारयतीति वेन्धे भूतानीति वा तद्यदेनं प्राणैः समैन्धत तदिन्द्रस्येन्द्रत्वमिति विज्ञायते' (निरु. १०. ८) इति । “वृषा कामानां वर्षिता च भवतीति ।।


भार॑ती॒ पव॑मानस्य॒ सर॑स्व॒तीळा॑ म॒ही ।

इ॒मं नो॑ य॒ज्ञमा ग॑मंति॒स्रो दे॒वीः सु॒पेश॑सः ॥८

भार॑ती । पव॑मानस्य । सर॑स्वती । इळा॑ । म॒ही ।

इ॒मम् । नः॒ । य॒ज्ञम् । आ । ग॒म॒न् । ति॒स्रः । दे॒वीः । सु॒ऽपेश॑सः ॥८

भारती । पवमानस्य । सरस्वती । इळा । मही ।

इमम् । नः । यज्ञम् । आ । गमन् । तिस्रः । देवीः । सुऽपेशसः ॥८

“भारती भारत्याख्या “सरस्वती सरस्वत्याख्या च “मही महती इळाख्या च “तिस्रः “सुपेशसः सुरूपाः "देवीः देव्यः “नः अस्माकं “पवमानस्य सोमस्य संबन्धिनम् “इमं “यज्ञं प्रति “आ “गमन् आगच्छन्तु ॥


त्वष्टा॑रमग्र॒जां गो॒पां पु॑रो॒यावा॑न॒मा हु॑वे ।

इंदु॒रिंद्रो॒ वृषा॒ हरिः॒ पव॑मानः प्र॒जाप॑तिः ॥९

त्वष्टा॑रम् । अ॒ग्र॒ऽजाम् । गो॒पाम् । पु॒रः॒ऽयावा॑नम् । आ । हु॒वे॒ ।

इन्दुः॑ । इन्द्रः॑ । वृषा॑ । हरिः॑ । पव॑मानः । प्र॒जाऽप॑तिः ॥९

त्वष्टारम् । अग्रऽजाम् । गोपाम् । पुरःऽयावानम् । आ । हुवे ।

इन्दुः । इन्द्रः । वृषा । हरिः । पवमानः । प्रजाऽपतिः ॥९

“अग्रजाम् अग्रे जातं “गोपां प्रजानां पालयितारं “पुरोयावानं देवानां पुरस्ताद्गन्तारं “त्वष्टारं देवम् "आ “हुवे अहमाह्वयामि यज्ञे । “हरिः हरितवर्णः “पवमानः “इन्दुः सोमः “इन्द्रः देवानामीश्वरः “वृषा कामानां वर्षिता च "प्रजापतिः प्रजानां पालयिता च भवतीति ।


वन॒स्पतिं॑ पवमान॒ मध्वा॒ समं॑ग्धि॒ धार॑या ।

स॒हस्र॑वल्शं॒ हरि॑तं॒ भ्राज॑मानं हिर॒ण्ययं॑ ॥१०

वन॒स्पति॑म् । प॒व॒मा॒न॒ । मध्वा॑ । सम् । अ॒ङ्ग्धि॒ । धार॑या ।

स॒हस्र॑ऽवल्शम् । हरि॑तम् । भ्राज॑मानम् । हि॒र॒ण्यय॑म् ॥१०

वनस्पतिम् । पवमान । मध्वा । सम् । अङ्ग्धि । धारया ।

सहस्रऽवल्शम् । हरितम् । भ्राजमानम् । हिरण्ययम् ॥१०

हे “पवमान सोम “हरितं हरितवर्णं “हिरण्ययं कदाचिद्धिरण्मयवर्णं व “भ्राजमानं दीप्यमानं “सहस्रवल्शं सहस्रशाखं “वनस्पतिं देवं “धारया धारामयेण “मध्वा मधुना “समङ्ग्धि अङ्क्ष्व । संस्कुर्वित्यर्थः ॥


विश्वे॑ देवाः॒ स्वाहा॑कृतिं॒ पव॑मान॒स्या ग॑त ।

वा॒युर्बृह॒स्पतिः॒ सूर्यो॒ऽग्निरिंद्रः॑ स॒जोष॑सः ॥११

विश्वे॑ । दे॒वाः॒ । स्वाहा॑ऽकृतिम् । पव॑मानस्य । आ । ग॒त॒ ।

वा॒युः । बृह॒स्पतिः॑ । सूर्यः॑ । अ॒ग्निः । इन्द्रः॑ । स॒ऽजोष॑सः ॥११

विश्वे । देवाः । स्वाहाऽकृतिम् । पवमानस्य । आ । गत ।

वायुः । बृहस्पतिः । सूर्यः । अग्निः । इन्द्रः । सऽजोषसः ॥११

हे “विश्वे “देवाः “वायुः “बृहस्पतिः च "सूर्यः च “अग्निः च “इन्द्रः च सर्वे यूयं “सजोषसः संगताः सन्तः “पवमानस्य सोमस्य “स्वाहाकृतिं स्वाहाकारं प्रति “आ “गत आगच्छत ॥ ॥२५॥

मण्डल ९

सूक्तं ९.१

सूक्तं ९.२

सूक्तं ९.३

सूक्तं ९.४

सूक्तं ९.५

सूक्तं ९.६

सूक्तं ९.७

सूक्तं ९.८

सूक्तं ९.९

सूक्तं ९.१०

सूक्तं ९.११

सूक्तं ९.१२

सूक्तं ९.१३

सूक्तं ९.१४

सूक्तं ९.१५

सूक्तं ९.१६

सूक्तं ९.१७

सूक्तं ९.१८

सूक्तं ९.१९

सूक्तं ९.२०

सूक्तं ९.२१

सूक्तं ९.२२

सूक्तं ९.२३

सूक्तं ९.२४

सूक्तं ९.२५

सूक्तं ९.२६

सूक्तं ९.२७

सूक्तं ९.२८

सूक्तं ९.२९

सूक्तं ९.३०

सूक्तं ९.३१

सूक्तं ९.३२

सूक्तं ९.३३

सूक्तं ९.३४

सूक्तं ९.३५

सूक्तं ९.३६

सूक्तं ९.३७

सूक्तं ९.३८

सूक्तं ९.३९

सूक्तं ९.४०

सूक्तं ९.४१

सूक्तं ९.४२

सूक्तं ९.४३

सूक्तं ९.४४

सूक्तं ९.४५

सूक्तं ९.४६

सूक्तं ९.४७

सूक्तं ९.४८

सूक्तं ९.४९

सूक्तं ९.५०

सूक्तं ९.५१

सूक्तं ९.५२

सूक्तं ९.५३

सूक्तं ९.५४

सूक्तं ९.५५

सूक्तं ९.५६

सूक्तं ९.५७

सूक्तं ९.५८

सूक्तं ९.५९

सूक्तं ९.६०

सूक्तं ९.६१

सूक्तं ९.६२

सूक्तं ९.६३

सूक्तं ९.६४

सूक्तं ९.६५

सूक्तं ९.६६

सूक्तं ९.६७

सूक्तं ९.६८

सूक्तं ९.६९

सूक्तं ९.७०

सूक्तं ९.७१

सूक्तं ९.७२

सूक्तं ९.७३

सूक्तं ९.७४

सूक्तं ९.७५

सूक्तं ९.७६

सूक्तं ९.७७

सूक्तं ९.७८

सूक्तं ९.७९

सूक्तं ९.८०

सूक्तं ९.८१

सूक्तं ९.८२

सूक्तं ९.८३

सूक्तं ९.८४

सूक्तं ९.८५

सूक्तं ९.८६

सूक्तं ९.८७

सूक्तं ९.८८

सूक्तं ९.८९

सूक्तं ९.९०

सूक्तं ९.९१

सूक्तं ९.९२

सूक्तं ९.९३

सूक्तं ९.९४

सूक्तं ९.९५

सूक्तं ९.९६

सूक्तं ९.९७

सूक्तं ९.९८

सूक्तं ९.९९

सूक्तं ९.१००

सूक्तं ९.१०१

सूक्तं ९.१०२

सूक्तं ९.१०३

सूक्तं ९.१०४

सूक्तं ९.१०५

सूक्तं ९.१०६

सूक्तं ९.१०७

सूक्तं ९.१०८

सूक्तं ९.१०९

सूक्तं ९.११०

सूक्तं ९.१११

सूक्तं ९.११२

सूक्तं ९.११३

सूक्तं ९.११४

[सम्पाद्यताम्]

टिप्पणी

According to Sayana (RV I.13), there are 12 āprī sukta. Of the ten āprī sukta, R̥gveda commented by Gargya Narayana, RV I.13 and I.142 invoke Narāśaṁsa and Tanūnapāt manifestations of Agni. RV I.188, III.4, IX.5 and X.110 invoke only Tanūnapāt manifestation. RV II.3, V.5, VII.2 and X.70 invoke only Narāśaṁsa manifestation.

इध्मः

ध्मा प्रपूरणशब्दो य इध्मा नाम प्रकीर्त्यते । पूरितस्यागतिर्येन तेनेध्मस्त्वं भविष्यसि ।। वराहपुराणम् १८.२६ ।। ध्मा शब्दस्य विनियोजनं प्रायः अयसः ध्मानाय एव भवति। किन्तु अत्र प्रपूरणे अस्ति। यथा उल्लिखितमस्ति, इध्मस्य उन्नतं रूपं समित् अस्ति। समित् अर्थात् समिति, सममिति। अस्मिन् जगते सममितेः ह्रासं अस्ति, येन कारणेन सममितेः प्रपूरणाय वयं भोजनं कुर्वामः। सममितेः आधुनिकं व्याख्या श्री गोवान कृतमस्ति। विष्णु पुराणस्य १.८.१९ कथनमस्ति - लक्ष्मी इध्मा, विष्णुः कुशः। कुशोपरि टिप्पणी

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_९.५&oldid=208507" इत्यस्माद् पुनः प्राप्तिः