ऋग्वेदः सूक्तं ९.१८
← सूक्तं ९.१७ | ऋग्वेदः - मण्डल ९ सूक्तं ९.१८ कश्यपोऽसितो देवलो वा। |
सूक्तं ९.१९ → |
दे. पवमानः सोमः। गायत्री। |
परि सुवानो गिरिष्ठाः पवित्रे सोमो अक्षाः ।
मदेषु सर्वधा असि ॥१॥
त्वं विप्रस्त्वं कविर्मधु प्र जातमन्धसः ।
मदेषु सर्वधा असि ॥२॥
तव विश्वे सजोषसो देवासः पीतिमाशत ।
मदेषु सर्वधा असि ॥३॥
आ यो विश्वानि वार्या वसूनि हस्तयोर्दधे ।
मदेषु सर्वधा असि ॥४॥
य इमे रोदसी मही सं मातरेव दोहते ।
मदेषु सर्वधा असि ॥५॥
परि यो रोदसी उभे सद्यो वाजेभिरर्षति ।
मदेषु सर्वधा असि ॥६॥
स शुष्मी कलशेष्वा पुनानो अचिक्रदत् ।
मदेषु सर्वधा असि ॥७॥
सायणभाष्यम्
‘ परि सुवानः' इति सप्तर्चमष्टादशं सूक्तम् । ऋष्याद्याः पूर्ववत् । ‘परि सुवानः सप्त' इत्यनुक्रान्तम् । गतो विनियोगः ॥
परि॑ सुवा॒नो गि॑रि॒ष्ठाः प॒वित्रे॒ सोमो॑ अक्षाः ।
मदे॑षु सर्व॒धा अ॑सि ॥१
परि॑ । सु॒वा॒नः । गि॒रि॒ऽस्थाः । प॒वित्रे॑ । सोमः॑ । अ॒क्षा॒रिति॑ ।
मदे॑षु । स॒र्व॒ऽधाः । अ॒सि॒ ॥१
परि । सुवानः । गिरिऽस्थाः । पवित्रे । सोमः । अक्षारिति ।
मदेषु । सर्वऽधाः । असि ॥१
अयं “सोमः “पवित्रे “परि “अक्षाः परिक्षरति । “सुवानः सूयमानः “गिरिष्ठाः गिरिस्थायी । ग्रावसु वर्तमान इत्यर्थः । स त्वं “मदेषु मादकेषु सोतृषु “सर्वधा “असि सर्वस्य धाता दाता वा भवसि ॥
त्वं विप्र॒स्त्वं क॒विर्मधु॒ प्र जा॒तमंध॑सः ।
मदे॑षु सर्व॒धा अ॑सि ॥२
त्वम् । विप्रः॑ । त्वम् । क॒विः । मधु॑ । प्र । जा॒तम् । अन्ध॑सः ।
मदे॑षु । स॒र्व॒ऽधाः । अ॒सि॒ ॥२
त्वम् । विप्रः । त्वम् । कविः । मधु । प्र । जातम् । अन्धसः ।
मदेषु । सर्वऽधाः । असि ॥२
हे सोम “त्वं “विप्रः विविधं प्रीणयिता विप्रसदृशो वा “त्वं च “कविः मेधावी । अतस्त्वम् “अन्धसः अन्नात् "जातं “मधु मधुररसं “प्र यच्छसीति शेषः । ।
तव॒ विश्वे॑ स॒जोष॑सो दे॒वासः॑ पी॒तिमा॑शत ।
मदे॑षु सर्व॒धा अ॑सि ॥३
तव॑ । विश्वे॑ । स॒ऽजोष॑सः । दे॒वासः॑ । पी॒तिम् । आ॒श॒त॒ ।
मदे॑षु । स॒र्व॒ऽधाः । अ॒सि॒ ॥३
तव । विश्वे । सऽजोषसः । देवासः । पीतिम् । आशत ।
मदेषु । सर्वऽधाः । असि ॥३
हे सोम “तव “पीतिं पानं “विश्वे “देवासः देवाः “सजोषसः समानप्रीतयः सन्तः “आशत प्राप्नुवन् ॥
आ यो विश्वा॑नि॒ वार्या॒ वसू॑नि॒ हस्त॑योर्द॒धे ।
मदे॑षु सर्व॒धा अ॑सि ॥४
आ । यः । विश्वा॑नि । वार्या॑ । वसू॑नि । हस्त॑योः । द॒धे ।
मदे॑षु । स॒र्व॒ऽधाः । अ॒सि॒ ॥४
आ । यः । विश्वानि । वार्या । वसूनि । हस्तयोः । दधे ।
मदेषु । सर्वऽधाः । असि ॥४
“यः सोमः “विश्वानि “वार्या वरणीयानि “वसूनि धनानि स्तोतुः “हस्तयोः “आ “दधे करोति । प्रयच्छतीत्यर्थः । “मदेषु “सर्वधा “असि इति । अथवा स शुष्मी इत्युत्तरत्र संबन्धः ॥
य इ॒मे रोद॑सी म॒ही सं मा॒तरे॑व॒ दोह॑ते ।
मदे॑षु सर्व॒धा अ॑सि ॥५
यः । इ॒मे इति॑ । रोद॑सी॒ इति॑ । म॒ही इति॑ । सम् । मा॒तरा॑ऽइव । दोह॑ते ।
मदे॑षु । स॒र्व॒ऽधाः । अ॒सि॒ ॥५
यः । इमे इति । रोदसी इति । मही इति । सम् । मातराऽइव । दोहते ।
मदेषु । सर्वऽधाः । असि ॥५
“यः सोमः “इमे “मही महत्यौ “रोदसी द्यावापृथिव्यौ “सं “दोहते। उभयोः सारं परिगृह्णातीत्यर्थः । "मातरेव यथा द्वे मातरावेको वत्सो दोहते तद्वत् ॥
परि॒ यो रोद॑सी उ॒भे स॒द्यो वाजे॑भि॒रर्ष॑ति ।
मदे॑षु सर्व॒धा अ॑सि ॥६
परि॑ । यः । रोद॑सी॒ इति॑ । उ॒भे इति॑ । स॒द्यः । वाजे॑भिः । अर्ष॑ति ।
मदे॑षु । स॒र्व॒ऽधाः । अ॒सि॒ ॥६
परि । यः । रोदसी इति । उभे इति । सद्यः । वाजेभिः । अर्षति ।
मदेषु । सर्वऽधाः । असि ॥६
“यः सोमः “उभे “रोदसी द्यावापृथिव्यौ “सद्यः तदानीमेव “वाजेभिः अन्नैः “परि “अर्षति परिगच्छति । सोमाहुत्या द्यावापृथिव्यावन्नवत्यौ करोतीत्यर्थः ॥
स शु॒ष्मी क॒लशे॒ष्वा पु॑ना॒नो अ॑चिक्रदत् ।
मदे॑षु सर्व॒धा अ॑सि ॥७
सः । शु॒ष्मी । क॒लशे॑षु । आ । पु॒ना॒नः । अ॒चि॒क्र॒द॒त् ।
मदे॑षु । स॒र्व॒ऽधाः । अ॒सि॒ ॥७
सः । शुष्मी । कलशेषु । आ । पुनानः । अचिक्रदत् ।
मदेषु । सर्वऽधाः । असि ॥७
उक्तरीत्या महान् “सः सोमः “शुष्मी बलवान् “पुनानः पूयमानः सन् “आ “अचिक्रदत् शब्दं करोति । अत्र सर्वत्र यथोचितमुत्तरपादो नेयः ॥ ॥ ८ ॥
टिप्पणी
वैदन्वतानि (ग्रामगेयः)
आद्यं वैदन्वतम् (ऊहगानम्)
तृतीयं वैदन्वतम् (ऊहगानम्)
चतुर्थं वैदन्वतम् (ऊहगानम्)
द्र. आभ्राजम् (ऊह्यगानम्)
परिस्वानो गिरिष्ठा इति परिवत्यो गायत्र्यो भवन्ति सर्वस्य पर्याप्त्यै- पञ्च.ब्रा. १३.११.१
मण्डल ९ | |||
---|---|---|---|