ऋग्वेदः सूक्तं ९.१९

विकिस्रोतः तः
(ऋग्वेद: सूक्तं ९.१९ इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search
← सूक्तं ९.१८ ऋग्वेदः - मण्डल ९
सूक्तं ९.१९
कश्यपोऽसितो देवलो वा।
सूक्तं ९.२० →
दे. पवमानः सोमः। गायत्री।


यत्सोम चित्रमुक्थ्यं दिव्यं पार्थिवं वसु ।
तन्नः पुनान आ भर ॥१॥
युवं हि स्थः स्वर्पती इन्द्रश्च सोम गोपती ।
ईशाना पिप्यतं धियः ॥२॥
वृषा पुनान आयुषु स्तनयन्नधि बर्हिषि ।
हरिः सन्योनिमासदत् ॥३॥
अवावशन्त धीतयो वृषभस्याधि रेतसि ।
सूनोर्वत्सस्य मातरः ॥४॥
कुविद्वृषण्यन्तीभ्यः पुनानो गर्भमादधत् ।
याः शुक्रं दुहते पयः ॥५॥
उप शिक्षापतस्थुषो भियसमा धेहि शत्रुषु ।
पवमान विदा रयिम् ॥६॥
नि शत्रोः सोम वृष्ण्यं नि शुष्मं नि वयस्तिर ।
दूरे वा सतो अन्ति वा ॥७॥


सायणभाष्यम्

‘ यत् सोम' इति सप्तर्चमेकोनविंशं सूक्तम् । ऋष्याद्याः पूर्ववत् ।' यत् सोम' इत्यनुक्रान्तम् । गतो विनियोगः ॥


यत्सो॑म चि॒त्रमु॒क्थ्यं॑ दि॒व्यं पार्थि॑वं॒ वसु॑ ।

तन्नः॑ पुना॒न आ भ॑र ॥१

यत् । सो॒म॒ । चि॒त्रम् । उ॒क्थ्य॑म् । दि॒व्यम् । पार्थि॑वम् । वसु॑ ।

तत् । नः॒ । पु॒ना॒नः । आ । भ॒र॒ ॥१

यत् । सोम । चित्रम् । उक्थ्यम् । दिव्यम् । पार्थिवम् । वसु ।

तत् । नः । पुनानः । आ । भर ॥१

हे “सोम “यत् “चित्रं चायनीयम् “उक्थ्यं स्तुत्यं “दिव्यं दिवि भवं “पार्थिवं पृथिवीसंबद्धं च “वसु धनमस्ति “तत् “नः अस्मभ्यं “पुनानः पूयमानः सन् “आ “भर आहर ॥


यु॒वं हि स्थः स्व॑र्पती॒ इंद्र॑श्च सोम॒ गोप॑ती ।

ई॒शा॒ना पि॑प्यतं॒ धियः॑ ॥२

यु॒वम् । हि । स्थः । स्वः॑पती॒ इति॒ स्वः॑ऽपती । इन्द्रः॑ । च॒ । सो॒म॒ । गोप॑ती॒ इति॒ गोऽप॑ती ।

ई॒शा॒ना । पि॒प्य॒त॒म् । धियः॑ ॥२

युवम् । हि । स्थः । स्वःपती इति स्वःऽपती । इन्द्रः । च । सोम । गोपती इति गोऽपती ।

ईशाना । पिप्यतम् । धियः ॥२

हे “सोम “त्वम् “इन्द्रश्च "युवं “हि युवां खलु स्वर्पती सर्वस्य स्वामिनौ “स्थः भवथः । तथा “गोपती गवां पालकौ “ईशाना ईश्वरौ सन्तौ “धियः अस्मदीयानि कर्माणि “पिप्यतं प्याययतम् ॥


वृषा॑ पुना॒न आ॒युषु॑ स्त॒नय॒न्नधि॑ ब॒र्हिषि॑ ।

हरिः॒ सन्योनि॒मास॑दत् ॥३

वृषा॑ । पु॒ना॒नः । आ॒युषु॑ । स्त॒नय॑न् । अधि॑ । ब॒र्हिषि॑ ।

हरिः॑ । सन् । योनि॑म् । आ । अ॒स॒द॒त् ॥३

वृषा । पुनानः । आयुषु । स्तनयन् । अधि । बर्हिषि ।

हरिः । सन् । योनिम् । आ । असदत् ॥३

“वृषा कामानां वर्षकः सोमः “आयुषु मनुष्येष्वध्वर्य्वादिषु “पुनानः पूयमानः सन् 'स्तनयन् शब्दं कुर्वन् “अधि “बर्हिषि । अधीति सप्तम्यर्थानुवादी । आस्तीर्णे दर्भे “हरिः हरितवर्णः “सन् “योनिं स्वकीयं स्थानम् “आसदत् आसीदति ॥


अवा॑वशंत धी॒तयो॑ वृष॒भस्याधि॒ रेत॑सि ।

सू॒नोर्व॒त्सस्य॑ मा॒तरः॑ ॥४

अवा॑वशन्त । धी॒तयः॑ । वृ॒ष॒भस्य॑ । अधि॑ । रेत॑सि ।

सू॒नोः । व॒त्सस्य॑ । मा॒तरः॑ ॥४

अवावशन्त । धीतयः । वृषभस्य । अधि । रेतसि ।

सूनोः । वत्सस्य । मातरः ॥४

“धीतयः धीयमानाः सोमाख्येन वत्सेन पीयमाना वसतीवर्यः । क्तिन् व्यत्ययेनान्तोदात्तः । “अधि “रेतसि स्वकीये सारे “वृषभस्य वर्षकस्य सोमस्य । सोममित्यर्थः । “अवावशन्त पुनः कामयन्ते । सोममाप्याययितुं कामयन्त इत्यर्थः । तदेवाह। "सूनोः स्वपुत्रस्थानीयस्य “वत्सस्य सोमस्य “मातरः निर्मात्र्यः प्रवृद्धिकामा मातृस्थानीया अवावशन्तेति समन्वयः ॥


कु॒विद्वृ॑ष॒ण्यंती॑भ्यः पुना॒नो गर्भ॑मा॒दध॑त् ।

याः शु॒क्रं दु॑ह॒ते पयः॑ ॥५

कु॒वित् । वृ॒ष॒ण्यन्ती॑भ्यः । पु॒ना॒नः । गर्भ॑म् । आ॒ऽदध॑त् ।

याः । शु॒क्रम् । दु॒ह॒ते । पयः॑ ॥५

कुवित् । वृषण्यन्तीभ्यः । पुनानः । गर्भम् । आऽदधत् ।

याः । शुक्रम् । दुहते । पयः ॥५

“वृषण्यन्तीभ्यः वृषणं सोममात्मन इच्छन्तीभ्यो वसतीवरीभ्यः “पुनानः पूयमानो मिश्रयमाणः “गर्भं स्वगर्भस्थानीयं रसं “कुवित् बहु प्रभूतम् "आदधत् करोति । “याः आपः “शुक्रं दीप्तं “पयः “दुहते स्ववत्साय सोमाय ताभ्यो गर्भमादधत् ॥


उप॑ शिक्षापत॒स्थुषो॑ भि॒यस॒मा धे॑हि॒ शत्रु॑षु ।

पव॑मान वि॒दा र॒यिं ॥६

उप॑ । शि॒क्ष॒ । अ॒प॒ऽत॒स्थुषः॑ । भि॒यस॑म् । आ । धे॒हि॒ । शत्रु॑षु ।

पव॑मान । वि॒दाः । र॒यिम् ॥६

उप । शिक्ष । अपऽतस्थुषः । भियसम् । आ । धेहि । शत्रुषु ।

पवमान । विदाः । रयिम् ॥६

हे “पवमान सोम “उप “शिक्ष त्वं समीपे कुरु । कान् । “अपतस्थुषः अपक्रम्य स्थितान् । अस्मदभिमतानित्यर्थः। “शत्रुषु अस्मद्विरोधिषु “भियसं भयम् “आ “धेहि कुरु जनय । अस्माकं तेषां शत्रूणां “रयिं धनं “विदाः विन्दसि ।।


नि शत्रोः॑ सोम॒ वृष्ण्यं॒ नि शुष्मं॒ नि वय॑स्तिर ।

दू॒रे वा॑ स॒तो अंति॑ वा ॥७

नि । शत्रोः॑ । सो॒म॒ । वृष्ण्य॑म् । नि । शुष्म॑म् । नि । वयः॑ । ति॒र॒ ।

दू॒रे । वा॒ । स॒तः । अन्ति॑ । वा॒ ॥७

नि । शत्रोः । सोम । वृष्ण्यम् । नि । शुष्मम् । नि । वयः । तिर ।

दूरे । वा । सतः । अन्ति । वा ॥७

हे अभिषूयमाण “सोम त्वं “शत्रोः “वृष्ण्यं वर्षकं बलं “नि “तिर । निपूर्वस्तिरतिर्नाशार्थः । नाशय । तथा शत्रोः “शुष्मं शोषकं तेजः “नि तिर । तस्यैव “वयः अन्नं च “नि तिर । कीदृशस्य शत्रोः । “दूरे “वा "सतः अस्मत्तो दूरे वर्तमानस्य “अन्ति वा सतोऽन्तिके वर्तमानस्य वा ॥ ॥९॥

मण्डल ९

सूक्तं ९.१

सूक्तं ९.२

सूक्तं ९.३

सूक्तं ९.४

सूक्तं ९.५

सूक्तं ९.६

सूक्तं ९.७

सूक्तं ९.८

सूक्तं ९.९

सूक्तं ९.१०

सूक्तं ९.११

सूक्तं ९.१२

सूक्तं ९.१३

सूक्तं ९.१४

सूक्तं ९.१५

सूक्तं ९.१६

सूक्तं ९.१७

सूक्तं ९.१८

सूक्तं ९.१९

सूक्तं ९.२०

सूक्तं ९.२१

सूक्तं ९.२२

सूक्तं ९.२३

सूक्तं ९.२४

सूक्तं ९.२५

सूक्तं ९.२६

सूक्तं ९.२७

सूक्तं ९.२८

सूक्तं ९.२९

सूक्तं ९.३०

सूक्तं ९.३१

सूक्तं ९.३२

सूक्तं ९.३३

सूक्तं ९.३४

सूक्तं ९.३५

सूक्तं ९.३६

सूक्तं ९.३७

सूक्तं ९.३८

सूक्तं ९.३९

सूक्तं ९.४०

सूक्तं ९.४१

सूक्तं ९.४२

सूक्तं ९.४३

सूक्तं ९.४४

सूक्तं ९.४५

सूक्तं ९.४६

सूक्तं ९.४७

सूक्तं ९.४८

सूक्तं ९.४९

सूक्तं ९.५०

सूक्तं ९.५१

सूक्तं ९.५२

सूक्तं ९.५३

सूक्तं ९.५४

सूक्तं ९.५५

सूक्तं ९.५६

सूक्तं ९.५७

सूक्तं ९.५८

सूक्तं ९.५९

सूक्तं ९.६०

सूक्तं ९.६१

सूक्तं ९.६२

सूक्तं ९.६३

सूक्तं ९.६४

सूक्तं ९.६५

सूक्तं ९.६६

सूक्तं ९.६७

सूक्तं ९.६८

सूक्तं ९.६९

सूक्तं ९.७०

सूक्तं ९.७१

सूक्तं ९.७२

सूक्तं ९.७३

सूक्तं ९.७४

सूक्तं ९.७५

सूक्तं ९.७६

सूक्तं ९.७७

सूक्तं ९.७८

सूक्तं ९.७९

सूक्तं ९.८०

सूक्तं ९.८१

सूक्तं ९.८२

सूक्तं ९.८३

सूक्तं ९.८४

सूक्तं ९.८५

सूक्तं ९.८६

सूक्तं ९.८७

सूक्तं ९.८८

सूक्तं ९.८९

सूक्तं ९.९०

सूक्तं ९.९१

सूक्तं ९.९२

सूक्तं ९.९३

सूक्तं ९.९४

सूक्तं ९.९५

सूक्तं ९.९६

सूक्तं ९.९७

सूक्तं ९.९८

सूक्तं ९.९९

सूक्तं ९.१००

सूक्तं ९.१०१

सूक्तं ९.१०२

सूक्तं ९.१०३

सूक्तं ९.१०४

सूक्तं ९.१०५

सूक्तं ९.१०६

सूक्तं ९.१०७

सूक्तं ९.१०८

सूक्तं ९.१०९

सूक्तं ९.११०

सूक्तं ९.१११

सूक्तं ९.११२

सूक्तं ९.११३

सूक्तं ९.११४

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_९.१९&oldid=208521" इत्यस्माद् पुनः प्राप्तिः