ऋग्वेदः सूक्तं ९.६३

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं ९.६२ ऋग्वेदः - मण्डल ९
सूक्तं ९.६३
निध्रुविः काश्यपः
सूक्तं ९.६४ →
दे. पवमानः सोमः। गायत्री


आ पवस्व सहस्रिणं रयिं सोम सुवीर्यम् ।
अस्मे श्रवांसि धारय ॥१॥
इषमूर्जं च पिन्वस इन्द्राय मत्सरिन्तमः ।
चमूष्वा नि षीदसि ॥२॥
सुत इन्द्राय विष्णवे सोमः कलशे अक्षरत् ।
मधुमाँ अस्तु वायवे ॥३॥
एते असृग्रमाशवोऽति ह्वरांसि बभ्रवः ।
सोमा ऋतस्य धारया ॥४॥
इन्द्रं वर्धन्तो अप्तुरः कृण्वन्तो विश्वमार्यम् ।
अपघ्नन्तो अराव्णः ॥५॥
सुता अनु स्वमा रजोऽभ्यर्षन्ति बभ्रवः ।
इन्द्रं गच्छन्त इन्दवः ॥६॥
अया पवस्व धारया यया सूर्यमरोचयः ।
हिन्वानो मानुषीरपः ॥७॥
अयुक्त सूर एतशं पवमानो मनावधि ।
अन्तरिक्षेण यातवे ॥८॥
उत त्या हरितो दश सूरो अयुक्त यातवे ।
इन्दुरिन्द्र इति ब्रुवन् ॥९॥
परीतो वायवे सुतं गिर इन्द्राय मत्सरम् ।
अव्यो वारेषु सिञ्चत ॥१०॥
पवमान विदा रयिमस्मभ्यं सोम दुष्टरम् ।
यो दूणाशो वनुष्यता ॥११॥
अभ्यर्ष सहस्रिणं रयिं गोमन्तमश्विनम् ।
अभि वाजमुत श्रवः ॥१२॥
सोमो देवो न सूर्योऽद्रिभिः पवते सुतः ।
दधानः कलशे रसम् ॥१३॥
एते धामान्यार्या शुक्रा ऋतस्य धारया ।
वाजं गोमन्तमक्षरन् ॥१४॥
सुता इन्द्राय वज्रिणे सोमासो दध्याशिरः ।
पवित्रमत्यक्षरन् ॥१५॥
प्र सोम मधुमत्तमो राये अर्ष पवित्र आ ।
मदो यो देववीतमः ॥१६॥
तमी मृजन्त्यायवो हरिं नदीषु वाजिनम् ।
इन्दुमिन्द्राय मत्सरम् ॥१७॥
आ पवस्व हिरण्यवदश्वावत्सोम वीरवत् ।
वाजं गोमन्तमा भर ॥१८॥
परि वाजे न वाजयुमव्यो वारेषु सिञ्चत ।
इन्द्राय मधुमत्तमम् ॥१९॥
कविं मृजन्ति मर्ज्यं धीभिर्विप्रा अवस्यवः ।
वृषा कनिक्रदर्षति ॥२०॥
वृषणं धीभिरप्तुरं सोममृतस्य धारया ।
मती विप्राः समस्वरन् ॥२१॥
पवस्व देवायुषगिन्द्रं गच्छतु ते मदः ।
वायुमा रोह धर्मणा ॥२२॥
पवमान नि तोशसे रयिं सोम श्रवाय्यम् ।
प्रियः समुद्रमा विश ॥२३॥
अपघ्नन्पवसे मृधः क्रतुवित्सोम मत्सरः ।
नुदस्वादेवयुं जनम् ॥२४॥
पवमाना असृक्षत सोमाः शुक्रास इन्दवः ।
अभि विश्वानि काव्या ॥२५॥
पवमानास आशवः शुभ्रा असृग्रमिन्दवः ।
घ्नन्तो विश्वा अप द्विषः ॥२६॥
पवमाना दिवस्पर्यन्तरिक्षादसृक्षत ।
पृथिव्या अधि सानवि ॥२७॥
पुनानः सोम धारयेन्दो विश्वा अप स्रिधः ।
जहि रक्षांसि सुक्रतो ॥२८॥
अपघ्नन्सोम रक्षसोऽभ्यर्ष कनिक्रदत् ।
द्युमन्तं शुष्ममुत्तमम् ॥२९॥
अस्मे वसूनि धारय सोम दिव्यानि पार्थिवा ।
इन्दो विश्वानि वार्या ॥३०॥


सायणभाष्यम्

‘आ पवस्व' इति त्रिंशदृचं तृतीयं सूक्तं काश्यपस्य निध्रुवेरार्षं गायत्रं पवमानसोमदेवताकम् । तथा चानुक्रान्तम्- आ पवस्व निध्रुविः काश्यपः' इति । गतो विनियोगः ॥


आ प॑वस्व सह॒स्रिणं॑ र॒यिं सो॑म सु॒वीर्यं॑ ।

अ॒स्मे श्रवां॑सि धारय ॥१

आ । प॒व॒स्व॒ । स॒ह॒स्रिण॑म् । र॒यिम् । सो॒म॒ । सु॒ऽवीर्य॑म् ।

अ॒स्मे इति॑ । श्रवां॑सि । धा॒र॒य॒ ॥

आ । पवस्व । सहस्रिणम् । रयिम् । सोम । सुऽवीर्यम् ।

अस्मे इति । श्रवांसि । धारय ॥

हे "सोम त्वं “सहस्रिणं बहुसंख्याकं “सुवीर्यं शोभनवीर्यं “रयिं धनम् “आ “पवस्व आभिमुख्येन क्षर । अपि च “अस्मे अस्मासु “श्रवांसि अन्नानि “धारय स्थापय ॥


इष॒मूर्जं॑ च पिन्वस॒ इंद्रा॑य मत्स॒रिंत॑मः ।

च॒मूष्वा नि षी॑दसि ॥२

इष॑म् । ऊर्ज॑म् । च॒ । पि॒न्व॒से॒ । इन्द्रा॑य । म॒त्स॒रिन्ऽत॑मः ।

च॒मूषु॑ । आ । नि । सी॒द॒सि॒ ॥

इषम् । ऊर्जम् । च । पिन्वसे । इन्द्राय । मत्सरिन्ऽतमः ।

चमूषु । आ । नि । सीदसि ॥

हे सोम “मत्सरिन्तमः अतिशयेन मदयितृतमस्त्वम् “इन्द्राय इन्द्रार्थम् “इषम् अन्नम् “ऊर्जं रसं “च "पिन्वसे क्षरसि । अपि च “चमूषु चमसेषु “आ “नि “षीदसि तिष्ठसि ॥


सु॒त इंद्रा॑य॒ विष्ण॑वे॒ सोमः॑ क॒लशे॑ अक्षरत् ।

मधु॑माँ अस्तु वा॒यवे॑ ॥३

सु॒तः । इन्द्रा॑य । विष्ण॑वे । सोमः॑ । क॒लशे॑ । अ॒क्ष॒र॒त् ।

मधु॑ऽमान् । अ॒स्तु॒ । वा॒यवे॑ ॥

सुतः । इन्द्राय । विष्णवे । सोमः । कलशे । अक्षरत् ।

मधुऽमान् । अस्तु । वायवे ॥

“इन्द्राय इन्द्रार्थं “विष्णवे विष्ण्वर्थं च “वायवे वाय्वर्थं च “सुतः अभिषुतः यः “सोमः “कलशे द्रोणकलशे "अक्षरत् क्षरति सोऽयं सोमः "मधुमान् मधुररसवान् “अस्तु भवतु ॥


ए॒ते अ॑सृग्रमा॒शवोऽति॒ ह्वरां॑सि ब॒भ्रवः॑ ।

सोमा॑ ऋ॒तस्य॒ धार॑या ॥४

ए॒ते । अ॒सृ॒ग्र॒म् । आ॒शवः॑ । अति॑ । ह्वरां॑सि । ब॒भ्रवः॑ ।

सोमाः॑ । ऋ॒तस्य॑ । धार॑या ॥

एते । असृग्रम् । आशवः । अति । ह्वरांसि । बभ्रवः ।

सोमाः । ऋतस्य । धारया ॥

"बभ्रवः बभ्रुवर्णाः “आशवः शीघ्राः “एते इमे “सोमाः “ऋतस्य उदकस्य “धारया “असृग्रं सृज्यन्ते । "ह्वरांसि रक्षांस्यभिगच्छन्ति च ॥


इंद्रं॒ वर्धं॑तो अ॒प्तुरः॑ कृ॒ण्वंतो॒ विश्व॒मार्यं॑ ।

अ॒प॒घ्नंतो॒ अरा॑व्णः ॥५

इन्द्र॑म् । वर्ध॑न्तः । अ॒प्ऽतुरः॑ । कृ॒ण्वन्तः॑ । विश्व॑म् । आर्य॑म् ।

अ॒प॒ऽघ्नन्तः॑ । अरा॑व्णः ॥

इन्द्रम् । वर्धन्तः । अप्ऽतुरः । कृण्वन्तः । विश्वम् । आर्यम् ।

अपऽघ्नन्तः । अराव्णः ॥

“इन्द्रं “वर्धन्तः वर्धयन्तः “अप्तुरः उदकस्य प्रेरकाः “विश्वं सोममस्मदीयकर्मार्थम् “आर्यं भद्रं “कृण्वन्तः कुर्वन्तः "अराव्णः अदातॄन "अपघ्नन्तः विनाशयन्तः । अभ्यर्षन्तीत्युत्तरया संबन्धः ॥ ॥ ३० ॥


सु॒ता अनु॒ स्वमा रजो॒ऽभ्य॑र्षंति ब॒भ्रवः॑ ।

इंद्रं॒ गच्छं॑त॒ इंद॑वः ॥६

सु॒ताः । अनु॑ । स्वम् । आ । रजः॑ । अ॒भि । अ॒र्ष॒न्ति॒ । ब॒भ्रवः॑ ।

इन्द्र॑म् । गच्छ॑न्तः । इन्द॑वः ॥

सुताः । अनु । स्वम् । आ । रजः । अभि । अर्षन्ति । बभ्रवः ।

इन्द्रम् । गच्छन्तः । इन्दवः ॥

“बभ्रवः बभ्रुवर्णाः “सुताः अभिषुताः “इन्दवः सोमाः “इन्द्रम् "आ “गच्छन्तः आभिमुख्येन प्राप्नुवन्तः “स्वं स्वकीयं “रजः स्थानम् “अनु प्रति “अभ्यर्षन्ति अभिगच्छन्ति ॥


अ॒या प॑वस्व॒ धार॑या॒ यया॒ सूर्य॒मरो॑चयः ।

हि॒न्वा॒नो मानु॑षीर॒पः ॥७

अ॒या । प॒व॒स्व॒ । धार॑या । यया॑ । सूर्य॑म् । अरो॑चयः ।

हि॒न्वा॒नः । मानु॑षीः । अ॒पः ॥

अया । पवस्व । धारया । यया । सूर्यम् । अरोचयः ।

हिन्वानः । मानुषीः । अपः ॥

हे सोम “मानुषीः मनुष्याणां हितानि “अपः उदकानि “हिन्वानः प्रेरयंस्त्वं “यया धारया “सूर्यमरोचयः प्राकाशयः तया "अया अनया “धारया “पवस्व क्षर ॥


अयु॑क्त॒ सूर॒ एत॑शं॒ पव॑मानो म॒नावधि॑ ।

अं॒तरि॑क्षेण॒ यात॑वे ॥८

अयु॑क्त । सूरः॑ । एत॑शम् । पव॑मानः । म॒नौ । अधि॑ ।

अ॒न्तरि॑क्षेण । यात॑वे ॥

अयुक्त । सूरः । एतशम् । पवमानः । मनौ । अधि ।

अन्तरिक्षेण । यातवे ॥

"पवमानः पूयमानः सोमः “मनावधि। मनुर्मनुष्यः । तस्मिन् मनुष्य इत्यर्थः । “अन्तरिक्षेण “यातवे गन्तुं “सूरः सूर्यस्य “एतशम् अश्वम् । ‘एतग्वः एतशः' इत्यश्वनामसु पाठात् । “अयुक्त युङ्क्ते ॥


उ॒त त्या ह॒रितो॒ दश॒ सूरो॑ अयुक्त॒ यात॑वे ।

इंदु॒रिंद्र॒ इति॑ ब्रु॒वन् ॥९

उ॒त । त्याः । ह॒रितः॑ । दश॑ । सूरः॑ । अ॒यु॒क्त॒ । यात॑वे ।

इन्दुः॑ । इन्द्रः॑ । इति॑ । ब्रु॒वन् ॥

उत । त्याः । हरितः । दश । सूरः । अयुक्त । यातवे ।

इन्दुः । इन्द्रः । इति । ब्रुवन् ॥

“उत अपि च “इन्दुः सोमः “इन्द्र “इति “ब्रुवन् “त्याः ताः “दश दशसंख्याका: "हरितः दिशः प्रति “यातवे गन्तुं "सूरः सूर्यस्यैतशम् “अयुक्त युनक्ति ॥


परी॒तो वा॒यवे॑ सु॒तं गिर॒ इंद्रा॑य मत्स॒रं ।

अव्यो॒ वारे॑षु सिंचत ॥१०

परि॑ । इ॒तः । वा॒यवे॑ । सु॒तम् । गिरः॑ । इन्द्रा॑य । म॒त्स॒रम् ।

अव्यः॑ । वारे॑षु । सि॒ञ्च॒त॒ ॥

परि । इतः । वायवे । सुतम् । गिरः । इन्द्राय । मत्सरम् ।

अव्यः । वारेषु । सिञ्चत ॥

हे “गिरः स्तोतारः यूयं “वायवे वाय्वर्थम् “इन्द्राय इन्द्रार्थं च “सुतम् अभिषुतं “मत्सरं मदकरं सोमम् “इतः अभिषवदेशादुद्धृत्य “अव्यः अवेः “वारेषु वालेषु “परि “षिञ्चत ॥ ॥ ३१ ॥


पव॑मान वि॒दा र॒यिम॒स्मभ्यं॑ सोम दु॒ष्टरं॑ ।

यो दू॒णाशो॑ वनुष्य॒ता ॥११

पव॑मान । वि॒दाः । र॒यिम् । अ॒स्मभ्य॑म् । सो॒म॒ । दु॒स्तर॑म् ।

यः । दुः॒ऽनशः॑ । व॒नु॒ष्य॒ता ॥

पवमान । विदाः । रयिम् । अस्मभ्यम् । सोम । दुस्तरम् ।

यः । दुःऽनशः । वनुष्यता ॥

हे "पवमान °सोम "यः रयिः “वनुष्यता हिंसकेनं शत्रुणा “दूणाशः नाशयितुमशक्यः तं शत्रुभिः "दुष्टरं “रयिं धनम् “अस्मभ्यं “विदाः देहि ॥


अ॒भ्य॑र्ष सह॒स्रिणं॑ र॒यिं गोमं॑तम॒श्विनं॑ ।

अ॒भि वाज॑मु॒त श्रवः॑ ॥१२

अ॒भि । अ॒र्ष॒ । स॒ह॒स्रिण॑म् । र॒यिम् । गोऽम॑न्तम् । अ॒श्विन॑म् ।

अ॒भि । वाज॑म् । उ॒त । श्रवः॑ ॥

अभि । अर्ष । सहस्रिणम् । रयिम् । गोऽमन्तम् । अश्विनम् ।

अभि । वाजम् । उत । श्रवः ॥

हे सोम त्वं “सहस्रिणं बहुसंख्याकं “गोमन्तं गोभिर्युक्तम् “अश्विनम् अश्ववन्तं “रयिं धनम् “अभ्यर्ष अस्मानभिगमय । "उत अपि च “वाजं बलं “श्रवः अन्नं चास्मान् “अभि गमय ।


सोमो॑ दे॒वो न सूर्योऽद्रि॑भिः पवते सु॒तः ।

दधा॑नः क॒लशे॒ रसं॑ ॥१३

सोमः॑ । दे॒वः । न । सूर्यः॑ । अद्रि॑ऽभिः । प॒व॒ते॒ । सु॒तः ।

दधा॑नः । क॒लशे॑ । रस॑म् ॥

सोमः । देवः । न । सूर्यः । अद्रिऽभिः । पवते । सुतः ।

दधानः । कलशे । रसम् ॥

“देवो “न देव इव "सूर्यः रोचमानः “सोमः "अद्रिभिः ग्रावभिः “सुतः अभिषुतः सन् “कलशे द्रोणकलशे “रसं “दधानः धारयन् “पवते धारया क्षरति ।।


ए॒ते धामा॒न्यार्या॑ शु॒क्रा ऋ॒तस्य॒ धार॑या ।

वाजं॒ गोमं॑तमक्षरन् ॥१४

ए॒ते । धामा॑नि । आर्या॑ । शु॒क्राः । ऋ॒तस्य॑ । धार॑या ।

वाज॑म् । गोऽम॑न्तम् । अ॒क्ष॒र॒न् ॥

एते । धामानि । आर्या । शुक्राः । ऋतस्य । धारया ।

वाजम् । गोऽमन्तम् । अक्षरन् ॥

“एते अभिषुताः इमे “शुक्राः दीप्ताः सोमाः "आर्या आर्याणां श्रेष्ठानां यजमानानां “धामानि गृहान् प्रति “गोमन्तं गोभिर्युक्तं “वाजम् अन्नम् "ऋतस्य उदकस्य “धारया "अक्षरन् क्षरन्ति ।।


सु॒ता इंद्रा॑य व॒ज्रिणे॒ सोमा॑सो॒ दध्या॑शिरः ।

प॒वित्र॒मत्य॑क्षरन् ॥१५

सु॒ताः । इन्द्रा॑य । व॒ज्रिणे॑ । सोमा॑सः । दधि॑ऽआशिरः ।

प॒वित्र॑म् । अति॑ । अ॒क्ष॒र॒न् ॥

सुताः । इन्द्राय । वज्रिणे । सोमासः । दधिऽआशिरः ।

पवित्रम् । अति । अक्षरन् ॥

“वज्रिणे वज्रवते “इन्द्राय इन्द्रार्थं “सुताः अभिषुताः “दध्याशिरः । दधि आशीराश्रयणद्रव्यं येषां ते दध्याशिरः । दधिसंस्कृताः “सोमासः सोमाः “पवित्रमति अतिक्रम्य “अक्षरन् धारया क्षरन्ति ॥ ॥ ३२ ॥


प्र सो॑म॒ मधु॑मत्तमो रा॒ये अ॑र्ष प॒वित्र॒ आ ।

मदो॒ यो दे॑व॒वीत॑मः ॥१६

प्र । सो॒म॒ । मधु॑मत्ऽतमः । रा॒ये । अ॒र्ष॒ । प॒वित्रे॑ । आ ।

मदः॑ । यः । दे॒व॒ऽवीत॑मः ॥

प्र । सोम । मधुमत्ऽतमः । राये । अर्ष । पवित्रे । आ ।

मदः । यः । देवऽवीतमः ॥

हे “सोम ते तव “यः "मदः रसः “मधुमत्तमः अत्यन्तं मधुमान् “देववीतमः अतिशयेन देवकामश्च तं रसं “राये अस्माकं धनार्थं “पवित्रे “प्र “आ “अर्ष धारया क्षर ।।


तमी॑ मृजंत्या॒यवो॒ हरिं॑ न॒दीषु॑ वा॒जिनं॑ ।

इंदु॒मिंद्रा॑य मत्स॒रं ॥१७

तम् । ई॒मिति॑ । मृ॒ज॒न्ति॒ । आ॒यवः॑ । हरि॑म् । न॒दीषु॑ । वा॒जिन॑म् ।

इन्दु॑म् । इन्द्रा॑य । म॒त्स॒रम् ॥१७

तम् । ईमिति । मृजन्ति । आयवः । हरिम् । नदीषु । वाजिनम् ।

इन्दुम् । इन्द्राय । मत्सरम् ॥

“हरिं हरितवर्णं “वाजिनं बलिनं “मत्सरं मदकरं “तं पवमानम् “ईम् एनम् “इन्दुं सोमम् “आयवः मनुष्या ऋत्विजः "नदीषु वसतीवरीषु "मृजन्ति मार्जयन्ति ।


आ प॑वस्व॒ हिर॑ण्यव॒दश्वा॑वत्सोम वी॒रव॑त् ।

वाजं॒ गोमं॑त॒मा भ॑र ॥१८

आ । प॒व॒स्व॒ । हिर॑ण्यऽवत् । अश्व॑ऽवत् । सो॒म॒ । वी॒रऽव॑त् ।

वाज॑म् । गोऽम॑न्तम् । आ । भ॒र॒ ॥

आ । पवस्व । हिरण्यऽवत् । अश्वऽवत् । सोम । वीरऽवत् ।

वाजम् । गोऽमन्तम् । आ । भर ॥

हे "सोम “त्वं “हिरण्यवत् सुवर्णोपेतम् “अश्ववत् अश्वयुक्तं च “वीरवत् पुत्राद्युपेतं च धनम् “आ “पवस्व अस्मान् प्रति क्षर । अपि च "गोमन्तं पशुभिरुपेतं "वाजम् अन्नम् “आ “भर अस्मभ्यमाहर ॥


परि॒ वाजे॒ न वा॑ज॒युमव्यो॒ वारे॑षु सिंचत ।

इंद्रा॑य॒ मधु॑मत्तमं ॥१९

परि॑ । वाजे॑ । न । वा॒ज॒ऽयुम् । अव्यः॑ । वारे॑षु । सि॒ञ्च॒त॒ ।

इन्द्रा॑य । मधु॑मत्ऽतमम् ॥

परि । वाजे । न । वाजऽयुम् । अव्यः । वारेषु । सिञ्चत ।

इन्द्राय । मधुमत्ऽतमम् ॥

“वाजयुं युद्धकामं "मधुमत्तमम् अतिशयेन मधुमन्तं सोमम् “इन्द्राय इन्द्रार्थं “अव्यः अवेः “वारेषु वालेषु दशापवित्रे "वाजे “न युद्ध इव हे ऋत्विजः “परि “षिञ्चत ॥


क॒विं मृ॑जंति॒ मर्ज्यं॑ धी॒भिर्विप्रा॑ अव॒स्यवः॑ ।

वृषा॒ कनि॑क्रदर्षति ॥२०

क॒विम् । मृ॒ज॒न्ति॒ । मर्ज्य॑म् । धी॒भिः । विप्राः॑ । अ॒व॒स्यवः॑ ।

वृषा॑ । कनि॑क्रत् । अ॒र्ष॒ति॒ ॥

कविम् । मृजन्ति । मर्ज्यम् । धीभिः । विप्राः । अवस्यवः ।

वृषा । कनिक्रत् । अर्षति ॥

“अवस्यवः रक्षणकामाः “विप्राः मेधाविन ऋत्विजः “धीभिः अङ्गुलीभिः “मर्ज्यं मर्जनीयं “कविं क्रान्तकर्माणं यं सोमं “मृजन्ति मार्जयन्ति सोऽयं “वृषा सेचकः सोमः "कनिक्रत् शब्दं कुर्वन् “अर्षति धारया क्षरति ॥ ॥ ३३ ॥


वृष॑णं धी॒भिर॒प्तुरं॒ सोम॑मृ॒तस्य॒ धार॑या ।

म॒ती विप्राः॒ सम॑स्वरन् ॥२१

वृष॑णम् । धी॒भिः । अ॒प्ऽतुर॑म् । सोम॑म् । ऋ॒तस्य॑ । धार॑या ।

म॒ती । विप्राः॑ । सम् । अ॒स्व॒र॒न् ॥

वृषणम् । धीभिः । अप्ऽतुरम् । सोमम् । ऋतस्य । धारया ।

मती । विप्राः । सम् । अस्वरन् ॥

“विप्राः मेधाविन ऋत्विजः “वृषणं कामानां वर्षकम् “अप्तुरम् अपां प्रेरकं “सोमं “धीभिः अङ्गुलीभिः "मती मत्या स्तुत्या च “ऋतस्य उदकस्य “धारया “समस्वरन् प्रेरयन्ति ।।


पव॑स्व देवायु॒षगिंद्रं॑ गच्छतु ते॒ मदः॑ ।

वा॒युमा रो॑ह॒ धर्म॑णा ॥२२

पव॑स्व । दे॒व॒ । आ॒यु॒षक् । इन्द्र॑म् । ग॒च्छ॒तु॒ । ते॒ । मदः॑ ।

वा॒युम् । आ । रो॒ह॒ । धर्म॑णा ॥

पवस्व । देव । आयुषक् । इन्द्रम् । गच्छतु । ते । मदः ।

वायुम् । आ । रोह । धर्मणा ॥

हे “देव द्योतमान सोम “पवस्व धारया क्षर । अपि च “ते तव “मदः मदकरो रसः “आयुषक् अनुषक्तम् “इन्द्रं प्रति “गच्छतु । अपि च त्वं “वायुं “धर्मणा धारकेण रसेन “आ “रोह प्राप्नुहि ॥


पव॑मान॒ नि तो॑शसे र॒यिं सो॑म श्र॒वाय्यं॑ ।

प्रि॒यः स॑मु॒द्रमा वि॑श ॥२३

पव॑मान । नि । तो॒श॒से॒ । र॒यिम् । सो॒म॒ । श्र॒वाय्य॑म् ।

प्रि॒यः । स॒मु॒द्रम् । आ । वि॒श॒ ॥

पवमान । नि । तोशसे । रयिम् । सोम । श्रवाय्यम् ।

प्रियः । समुद्रम् । आ । विश ॥

हे पवमान “सोम यस्त्वं “श्रवाय्यं श्रवणीयं “रयिं शत्रूणां धनं “नि "तोशसे नितरां पीडयसि स त्वं “प्रियः सन् "समुद्रं द्रोणकलशम् "आ "विश प्रविश ।।


अ॒प॒घ्नन्प॑वसे॒ मृधः॑ क्रतु॒वित्सो॑म मत्स॒रः ।

नु॒दस्वादे॑वयुं॒ जनं॑ ॥२४

अ॒प॒ऽघ्नन् । प॒व॒से॒ । मृधः॑ । क्र॒तु॒ऽवित् । सो॒म॒ । म॒त्स॒रः ।

नु॒दस्व॑ । अदे॑वऽयुम् । जन॑म् ॥

अपऽघ्नन् । पवसे । मृधः । क्रतुऽवित् । सोम । मत्सरः ।

नुदस्व । अदेवऽयुम् । जनम् ॥

हे “सोम “मत्सरः मदकरो यस्त्वं “मृधः हिंसकान् शत्रून् “अपघ्नन् मारयन् “क्रतुवित् अस्मभ्यं प्रज्ञां प्रयच्छन् "पवसे क्षरसि स त्वम् “अदेवयुम् अदेवकामं "जनं राक्षसवर्गं “नुदस्व प्रेरय ॥


पव॑माना असृक्षत॒ सोमाः॑ शु॒क्रास॒ इंद॑वः ।

अ॒भि विश्वा॑नि॒ काव्या॑ ॥२५

पव॑मानाः । अ॒सृ॒क्ष॒त॒ । सोमाः॑ । शु॒क्रासः॑ । इन्द॑वः ।

अ॒भि । विश्वा॑नि । काव्या॑ ॥

पवमानाः । असृक्षत । सोमाः । शुक्रासः । इन्दवः ।

अभि । विश्वानि । काव्या ॥

“शुक्रासः उज्ज्वलाः “इन्दवः दीप्ताः “पवमानाः क्षरन्तः “सोमाः “विश्वानि “काव्या काव्यानि स्तोत्राणि “अभि असृक्षत सृज्यन्त ऋत्विग्भिः ॥ ॥ ३४ ॥


पव॑मानास आ॒शवः॑ शु॒भ्रा अ॑सृग्र॒मिंद॑वः ।

घ्नंतो॒ विश्वा॒ अप॒ द्विषः॑ ॥२६

पव॑मानासः । आ॒शवः॑ । शु॒भ्राः । अ॒सृ॒ग्र॒म् । इन्द॑वः ।

घ्नन्तः॑ । विश्वाः॑ । अप॑ । द्विषः॑ ॥

पवमानासः । आशवः । शुभ्राः । असृग्रम् । इन्दवः ।

घ्नन्तः । विश्वाः । अप । द्विषः ॥

“आशवः शीघ्राः “शुभ्राः शोभमानाः “पवमानासः क्षरन्तः “इन्दवः दीप्ताः सोमाः “विश्वाः सर्वान् “द्विषः द्वेष्टॄन् शत्रून् “अप “घ्नन्तः मारयन्तः “असृग्रं सृज्यन्ते ॥


पव॑माना दि॒वस्पर्यं॒तरि॑क्षादसृक्षत ।

पृ॒थि॒व्या अधि॒ सान॑वि ॥२७

पव॑मानाः । दि॒वः । परि॑ । अ॒न्तरि॑क्षात् । अ॒सृ॒क्ष॒त॒ ।

पृ॒थि॒व्याः । अधि॑ । सान॑वि ॥

पवमानाः । दिवः । परि । अन्तरिक्षात् । असृक्षत ।

पृथिव्याः । अधि । सानवि ॥

“पवमानाः सोमाः "दिवः द्युलोकात् “अन्तरिक्षात् च “पृथिव्याः भूम्याः “अधि “सानवि समुच्छ्रिते देशे देवयजने “परि “असृक्षत सृज्यन्ते ॥


पु॒ना॒नः सो॑म॒ धार॒येंदो॒ विश्वा॒ अप॒ स्रिधः॑ ।

ज॒हि रक्षां॑सि सुक्रतो ॥२८

पु॒ना॒नः । सो॒म॒ । धार॑या । इन्दो॒ इति॑ । विश्वा॑ । अप॑ । स्रिधः॑ ।

ज॒हि । रक्षां॑सि । सु॒क्र॒तो॒ इति॑ सुऽक्रतो ॥

पुनानः । सोम । धारया । इन्दो इति । विश्वा । अप । स्रिधः ।

जहि । रक्षांसि । सुक्रतो इति सुऽक्रतो ॥

हे “इन्दो दीप्त “सुक्रतो सुकर्मन् “सोम “धारया “पुनानः पूयमानस्त्वं “विश्वाः सर्वान् “स्रिधः द्वेष्टॄन् शत्रून् "रक्षांसि राक्षसांश्च "अप "जहि मारय ॥


अ॒प॒घ्नन्त्सो॑म र॒क्षसो॒ऽभ्य॑र्ष॒ कनि॑क्रदत् ।

द्यु॒मंतं॒ शुष्म॑मुत्त॒मं ॥२९

अ॒प॒ऽघ्नन् । सो॒म॒ । र॒क्षसः॑ । अ॒भि । अ॒र्ष॒ । कनि॑क्रदत् ।

द्यु॒ऽमन्त॑म् । शुष्म॑म् । उ॒त्ऽत॒मम् ॥

अपऽघ्नन् । सोम । रक्षसः । अभि । अर्ष । कनिक्रदत् ।

द्युऽमन्तम् । शुष्मम् । उत्ऽतमम् ॥

हे “सोम त्वं “रक्षसः रक्षांसि “अपघ्नन् विनाशयन् "कनिक्रदत् शब्दं कुर्वन् “द्युमन्तं दीप्तिमन्तम् "उत्तमं श्रेष्ठं “शुष्मं बलम् “अभ्यर्ष अस्मान् प्रति पवस्व ॥


अ॒स्मे वसू॑नि धारय॒ सोम॑ दि॒व्यानि॒ पार्थि॑वा ।

इंदो॒ विश्वा॑नि॒ वार्या॑ ॥३०

अ॒स्मे इति॑ । वसू॑नि । धा॒र॒य॒ । सोम॑ । दि॒व्यानि॑ । पार्थि॑वा ।

इन्दो॒ इति॑ । विश्वा॑नि । वार्या॑ ॥

अस्मे इति । वसूनि । धारय । सोम । दिव्यानि । पार्थिवा ।

इन्दो इति । विश्वानि । वार्या ॥

हे “इन्दो दीप्त “सोम "दिव्यानि दिवि भवानि “पार्थिवा पार्थिवानि पृथिव्यां जातानि च “विश्वानि सर्वाणि “वार्या वार्याणि वरणीयानि “वसूनि “अस्मे अस्मासु “धारय प्रक्षिप ॥ ॥३५॥


मण्डल ९

सूक्तं ९.१

सूक्तं ९.२

सूक्तं ९.३

सूक्तं ९.४

सूक्तं ९.५

सूक्तं ९.६

सूक्तं ९.७

सूक्तं ९.८

सूक्तं ९.९

सूक्तं ९.१०

सूक्तं ९.११

सूक्तं ९.१२

सूक्तं ९.१३

सूक्तं ९.१४

सूक्तं ९.१५

सूक्तं ९.१६

सूक्तं ९.१७

सूक्तं ९.१८

सूक्तं ९.१९

सूक्तं ९.२०

सूक्तं ९.२१

सूक्तं ९.२२

सूक्तं ९.२३

सूक्तं ९.२४

सूक्तं ९.२५

सूक्तं ९.२६

सूक्तं ९.२७

सूक्तं ९.२८

सूक्तं ९.२९

सूक्तं ९.३०

सूक्तं ९.३१

सूक्तं ९.३२

सूक्तं ९.३३

सूक्तं ९.३४

सूक्तं ९.३५

सूक्तं ९.३६

सूक्तं ९.३७

सूक्तं ९.३८

सूक्तं ९.३९

सूक्तं ९.४०

सूक्तं ९.४१

सूक्तं ९.४२

सूक्तं ९.४३

सूक्तं ९.४४

सूक्तं ९.४५

सूक्तं ९.४६

सूक्तं ९.४७

सूक्तं ९.४८

सूक्तं ९.४९

सूक्तं ९.५०

सूक्तं ९.५१

सूक्तं ९.५२

सूक्तं ९.५३

सूक्तं ९.५४

सूक्तं ९.५५

सूक्तं ९.५६

सूक्तं ९.५७

सूक्तं ९.५८

सूक्तं ९.५९

सूक्तं ९.६०

सूक्तं ९.६१

सूक्तं ९.६२

सूक्तं ९.६३

सूक्तं ९.६४

सूक्तं ९.६५

सूक्तं ९.६६

सूक्तं ९.६७

सूक्तं ९.६८

सूक्तं ९.६९

सूक्तं ९.७०

सूक्तं ९.७१

सूक्तं ९.७२

सूक्तं ९.७३

सूक्तं ९.७४

सूक्तं ९.७५

सूक्तं ९.७६

सूक्तं ९.७७

सूक्तं ९.७८

सूक्तं ९.७९

सूक्तं ९.८०

सूक्तं ९.८१

सूक्तं ९.८२

सूक्तं ९.८३

सूक्तं ९.८४

सूक्तं ९.८५

सूक्तं ९.८६

सूक्तं ९.८७

सूक्तं ९.८८

सूक्तं ९.८९

सूक्तं ९.९०

सूक्तं ९.९१

सूक्तं ९.९२

सूक्तं ९.९३

सूक्तं ९.९४

सूक्तं ९.९५

सूक्तं ९.९६

सूक्तं ९.९७

सूक्तं ९.९८

सूक्तं ९.९९

सूक्तं ९.१००

सूक्तं ९.१०१

सूक्तं ९.१०२

सूक्तं ९.१०३

सूक्तं ९.१०४

सूक्तं ९.१०५

सूक्तं ९.१०६

सूक्तं ९.१०७

सूक्तं ९.१०८

सूक्तं ९.१०९

सूक्तं ९.११०

सूक्तं ९.१११

सूक्तं ९.११२

सूक्तं ९.११३

सूक्तं ९.११४

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_९.६३&oldid=182183" इत्यस्माद् पुनः प्राप्तिः