सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः ८/भासम्

विकिस्रोतः तः
भासम्.
भासम्

पवस्व देव आयुषगिन्द्रं गच्छतु ते मदः ।
वायुमा रोह धर्मणा ॥ १२३५ ॥ ऋ. ९.६३.२२
पवमान नि तोशसे रयिं सोम श्रवाय्यं ।
इन्दो समुद्रमा विश ॥ १२३६ ॥
अपघ्नन्पवसे मृधः क्रतुवित्सोम मत्सरः ।
नुदस्वादेवयुं जनं ॥ १२३७ ॥

[सम्पाद्यताम्]

टिप्पणी

भासं भवति भाति तुष्टुवानः। पदनिधनं राथन्तरं ह्येतदहः। स्वर्भानुर्वा आसुर आदित्यं तमसाविध्यत् स न व्यरोचत तस्यात्रिर्भासेन तमोऽपाहन् स व्यरोचत यद्वै तद्भा अभवत् तद्भासस्य भासत्वम्। तम इव वा एतान्यहानि यच्छन्दोमास्तेभ्य एतेन साम्ना विवासयति - तांब्रा १४.११.१२