ऋग्वेदः सूक्तं ९.३१

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं ९.३० ऋग्वेदः - मण्डल ९
सूक्तं ९.३१
गोतमो राहूगणः
सूक्तं ९.३२ →
दे. पवमानः सोमः। गायत्री


प्र सोमासः स्वाध्यः पवमानासो अक्रमुः ।
रयिं कृण्वन्ति चेतनम् ॥१॥
दिवस्पृथिव्या अधि भवेन्दो द्युम्नवर्धनः ।
भवा वाजानां पतिः ॥२॥
तुभ्यं वाता अभिप्रियस्तुभ्यमर्षन्ति सिन्धवः ।
सोम वर्धन्ति ते महः ॥३॥
आ प्यायस्व समेतु ते विश्वतः सोम वृष्ण्यम् ।
भवा वाजस्य संगथे ॥४॥
तुभ्यं गावो घृतं पयो बभ्रो दुदुह्रे अक्षितम् ।
वर्षिष्ठे अधि सानवि ॥५॥
स्वायुधस्य ते सतो भुवनस्य पते वयम् ।
इन्दो सखित्वमुश्मसि ॥६॥


सायणभाष्यम्

‘प्र सोमासः' इति षडृचं सप्तमं सूक्तं राहूगणस्य गोतमस्यार्षं सौम्यम्। 'प्र सोमासो गोतमः' इत्यनुक्रान्तम् । गतो विनियोगः ॥


प्र सोमा॑सः स्वा॒ध्यः१॒॑ पव॑मानासो अक्रमुः ।

र॒यिं कृ॑ण्वंति॒ चेत॑नं ॥१

प्र । सोमा॑सः । सु॒ऽआ॒ध्यः॑ । पव॑मानासः । अ॒क्र॒मुः॒ ।

र॒यिम् । कृ॒ण्व॒न्ति॒ । चेत॑नम् ॥

प्र । सोमासः । सुऽआध्यः । पवमानासः । अक्रमुः ।

रयिम् । कृण्वन्ति । चेतनम् ॥

“प्र “अक्रमुः प्रगच्छन्ति कलशं प्रति । के। “सोमासः सोमाः । कीदृशाः। “स्वाध्यः सुध्यानाः सुकर्माणो वा "पवमानासः पूयमानाः । ते च ”चेतनं प्रज्ञापनं “रयिं धनं “कृण्वन्ति कुर्वन्त्यस्माकम् ॥


दि॒वस्पृ॑थि॒व्या अधि॒ भवें॑दो द्युम्न॒वर्ध॑नः ।

भवा॒ वाजा॑नां॒ पतिः॑ ॥२

दि॒वः । पृ॒थि॒व्याः । अधि॑ । भव॑ । इ॒न्दो॒ इति॑ । द्यु॒म्न॒ऽवर्ध॑नः ।

भव॑ । वाजा॑नाम् । पतिः॑ ॥

दिवः । पृथिव्याः । अधि । भव । इन्दो इति । द्युम्नऽवर्धनः ।

भव । वाजानाम् । पतिः ॥

हे "इन्दो "वाजानाम् अन्नानां “पतिः स्वामी त्वं “दिवः द्युलोकस्य “पृथिव्याः भूलोकस्य “द्युम्नवर्धनः द्योतमानस्य हिरण्यादिलक्षणधनस्य वर्धयिता “भव । अस्माकं लोकद्वये यत् द्युम्नमस्ति तस्य वर्धयिता भवास्मभ्यमित्यर्थः ॥


तुभ्यं॒ वाता॑ अभि॒प्रिय॒स्तुभ्य॑मर्षंति॒ सिंध॑वः ।

सोम॒ वर्धं॑ति ते॒ महः॑ ॥३

तुभ्य॑म् । वाताः॑ । अ॒भि॒ऽप्रियः॑ । तुभ्य॑म् । अ॒र्ष॒न्ति॒ । सिन्ध॑वः ।

सोम॑ । वर्ध॑न्ति । ते॒ । महः॑ ॥

तुभ्यम् । वाताः । अभिऽप्रियः । तुभ्यम् । अर्षन्ति । सिन्धवः ।

सोम । वर्धन्ति । ते । महः ॥

हे “सोम “तुभ्यं त्वदर्थं “वाताः वायवः “अभिप्रियः अभितर्पयितारो भवन्ति । तथा “सिन्धवः स्यन्दमाना नद्यः “तुभ्यमर्षन्ति गच्छन्ति । अभिषूयमाणस्य तवाप्यायनायैवं कुर्वन्तीत्यर्थः । त उभयेऽमी “ते तव "महः महत्त्वं “वर्धन्ति वर्धयन्ति ।।


आ प्या॑यस्व॒ समे॑तु ते वि॒श्वतः॑ सोम॒ वृष्ण्यं॑ ।

भवा॒ वाज॑स्य संग॒थे ॥४

आ । प्या॒य॒स्व॒ । सम् । ए॒तु॒ । ते॒ । वि॒श्वतः॑ । सो॒म॒ । वृष्ण्य॑म् ।

भव॑ । वाज॑स्य । स॒म्ऽग॒थे ॥

आ । प्यायस्व । सम् । एतु । ते । विश्वतः । सोम । वृष्ण्यम् ।

भव । वाजस्य । सम्ऽगथे ॥

हे “सोम त्वं वायुभिरद्भिश्च “आ “प्यायस्व प्रवृद्धो भव । “ते त्वां “विश्वतः “वृष्ण्यं वर्षयोग्यं , बलं “समेतु संगच्छताम् । “संगथे संग्रामे “वाजस्य अन्नस्य प्रापकः “भव ॥


तुभ्यं॒ गावो॑ घृ॒तं पयो॒ बभ्रो॑ दुदु॒ह्रे अक्षि॑तं ।

वर्षि॑ष्ठे॒ अधि॒ सान॑वि ॥५

तुभ्य॑म् । गावः॑ । घृ॒तम् । पयः॑ । बभ्रो॒ इति॑ । दु॒दु॒ह्रे । अक्षि॑तम् ।

वर्षि॑ष्ठे । अधि॑ । सान॑वि ॥

तुभ्यम् । गावः । घृतम् । पयः । बभ्रो इति । दुदुह्रे । अक्षितम् ।

वर्षिष्ठे । अधि । सानवि ॥

हे “बभ्रो बभ्रुवर्ण सोम "तुभ्यं त्वदर्थं “गावो “घृतं “पयः च “अक्षितम् अक्षीणं “दुदुहे दुहते । “वर्षिष्ठे प्रवृद्धे “अधि “सानवि समुच्छ्रिते प्रदेशे स्थिताय तुभ्यम् ॥


स्वा॒यु॒धस्य॑ ते स॒तो भुव॑नस्य पते व॒यं ।

इंदो॑ सखि॒त्वमु॑श्मसि ॥६

सु॒ऽआ॒यु॒धस्य॑ । ते॒ । स॒तः । भुव॑नस्य । प॒ते॒ । व॒यम् ।

इन्दो॒ इति॑ । स॒खि॒ऽत्वम् । उ॒श्म॒सि॒ ॥

सुऽआयुधस्य । ते । सतः । भुवनस्य । पते । वयम् ।

इन्दो इति । सखिऽत्वम् । उश्मसि ॥

हे “भुवनस्य भूतजातस्य “पते स्वामिन् पालक सोम। सोमस्य जगदाप्यायिकत्वेन तत्स्वामित्वम् । हे "इन्दो सोम “वयम् अनुष्ठातारः “स्वायुधस्य “ते तव “सतः “सखित्वमुश्मसि कामयामहे ॥ ॥ २१ ॥

मण्डल ९

सूक्तं ९.१

सूक्तं ९.२

सूक्तं ९.३

सूक्तं ९.४

सूक्तं ९.५

सूक्तं ९.६

सूक्तं ९.७

सूक्तं ९.८

सूक्तं ९.९

सूक्तं ९.१०

सूक्तं ९.११

सूक्तं ९.१२

सूक्तं ९.१३

सूक्तं ९.१४

सूक्तं ९.१५

सूक्तं ९.१६

सूक्तं ९.१७

सूक्तं ९.१८

सूक्तं ९.१९

सूक्तं ९.२०

सूक्तं ९.२१

सूक्तं ९.२२

सूक्तं ९.२३

सूक्तं ९.२४

सूक्तं ९.२५

सूक्तं ९.२६

सूक्तं ९.२७

सूक्तं ९.२८

सूक्तं ९.२९

सूक्तं ९.३०

सूक्तं ९.३१

सूक्तं ९.३२

सूक्तं ९.३३

सूक्तं ९.३४

सूक्तं ९.३५

सूक्तं ९.३६

सूक्तं ९.३७

सूक्तं ९.३८

सूक्तं ९.३९

सूक्तं ९.४०

सूक्तं ९.४१

सूक्तं ९.४२

सूक्तं ९.४३

सूक्तं ९.४४

सूक्तं ९.४५

सूक्तं ९.४६

सूक्तं ९.४७

सूक्तं ९.४८

सूक्तं ९.४९

सूक्तं ९.५०

सूक्तं ९.५१

सूक्तं ९.५२

सूक्तं ९.५३

सूक्तं ९.५४

सूक्तं ९.५५

सूक्तं ९.५६

सूक्तं ९.५७

सूक्तं ९.५८

सूक्तं ९.५९

सूक्तं ९.६०

सूक्तं ९.६१

सूक्तं ९.६२

सूक्तं ९.६३

सूक्तं ९.६४

सूक्तं ९.६५

सूक्तं ९.६६

सूक्तं ९.६७

सूक्तं ९.६८

सूक्तं ९.६९

सूक्तं ९.७०

सूक्तं ९.७१

सूक्तं ९.७२

सूक्तं ९.७३

सूक्तं ९.७४

सूक्तं ९.७५

सूक्तं ९.७६

सूक्तं ९.७७

सूक्तं ९.७८

सूक्तं ९.७९

सूक्तं ९.८०

सूक्तं ९.८१

सूक्तं ९.८२

सूक्तं ९.८३

सूक्तं ९.८४

सूक्तं ९.८५

सूक्तं ९.८६

सूक्तं ९.८७

सूक्तं ९.८८

सूक्तं ९.८९

सूक्तं ९.९०

सूक्तं ९.९१

सूक्तं ९.९२

सूक्तं ९.९३

सूक्तं ९.९४

सूक्तं ९.९५

सूक्तं ९.९६

सूक्तं ९.९७

सूक्तं ९.९८

सूक्तं ९.९९

सूक्तं ९.१००

सूक्तं ९.१०१

सूक्तं ९.१०२

सूक्तं ९.१०३

सूक्तं ९.१०४

सूक्तं ९.१०५

सूक्तं ९.१०६

सूक्तं ९.१०७

सूक्तं ९.१०८

सूक्तं ९.१०९

सूक्तं ९.११०

सूक्तं ९.१११

सूक्तं ९.११२

सूक्तं ९.११३

सूक्तं ९.११४

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_९.३१&oldid=181550" इत्यस्माद् पुनः प्राप्तिः