ऋग्वेदः सूक्तं ९.३२
← सूक्तं ९.३१ | ऋग्वेदः - मण्डल ९ सूक्तं ९.३२ श्यावाश्व आत्रेयः। |
सूक्तं ९.३३ → |
दे. पवमानः सोमः। गायत्री। |
प्र सोमासो मदच्युतः श्रवसे नो मघोनः ।
सुता विदथे अक्रमुः ॥१॥
आदीं त्रितस्य योषणो हरिं हिन्वन्त्यद्रिभिः ।
इन्दुमिन्द्राय पीतये ॥२॥
आदीं हंसो यथा गणं विश्वस्यावीवशन्मतिम् ।
अत्यो न गोभिरज्यते ॥३॥
उभे सोमावचाकशन्मृगो न तक्तो अर्षसि ।
सीदन्नृतस्य योनिमा ॥४॥
अभि गावो अनूषत योषा जारमिव प्रियम् ।
अगन्नाजिं यथा हितम् ॥५॥
अस्मे धेहि द्युमद्यशो मघवद्भ्यश्च मह्यं च ।
सनिं मेधामुत श्रवः ॥६॥
सायणभाष्यम्
‘प्र सोमासः' इति षडृचमष्टमं सूक्तमात्रेयस्य श्यावाश्वस्यार्षं गायत्रं सौम्यम् । अनुक्रम्यते च- प्र सोमासः श्यावाश्वः' इति । गतो विनियोगः ॥
प्र सोमा॑सो मद॒च्युतः॒ श्रव॑से नो म॒घोनः॑ ।
सु॒ता वि॒दथे॑ अक्रमुः ॥१
प्र । सोमा॑सः । म॒द॒ऽच्युतः॑ । श्रव॑से । नः॒ । म॒घोनः॑ ।
सु॒ताः । वि॒दथे॑ । अ॒क्र॒मुः॒ ॥१
प्र । सोमासः । मदऽच्युतः । श्रवसे । नः । मघोनः ।
सुताः । विदथे । अक्रमुः ॥१
“सोमासः सोमाः “मदच्युतः मदस्राविणः “सुताः अभिषुताः सन्तः “विदथे यज्ञे “मघोनः हविष्मतो मम “श्रवसे अन्नाय कीर्तये वा “प्र “अक्रमुः प्रगच्छन्ति ।।
आदीं॑ त्रि॒तस्य॒ योष॑णो॒ हरिं॑ हिन्वं॒त्यद्रि॑भिः ।
इंदु॒मिंद्रा॑य पी॒तये॑ ॥२
आत् । ई॒म् । त्रि॒तस्य॑ । योष॑णः । हरि॑म् । हि॒न्व॒न्ति॒ । अद्रि॑ऽभिः ।
इन्दु॑म् । इन्द्रा॑य । पी॒तये॑ ॥२
आत् । ईम् । त्रितस्य । योषणः । हरिम् । हिन्वन्ति । अद्रिऽभिः ।
इन्दुम् । इन्द्राय । पीतये ॥२
“आत् अपि च “ईम् एनं “हरिं हरितवर्णं सोमं “त्रितस्य ऋषेः “योषणः अङ्गुलयः “अद्रिभिः ग्रावभिः “हिन्वन्ति प्रेरयन्ति । किमर्थम् । “इन्दुं दीप्तं सोमम् “इन्द्राय इन्द्रस्य “पीतये पानाय ॥
आदीं॑ हं॒सो यथा॑ ग॒णं विश्व॑स्यावीवशन्म॒तिं ।
अत्यो॒ न गोभि॑रज्यते ॥३
आत् । ई॒म् । हं॒सः । यथा॑ । ग॒णम् । विश्व॑स्य । अ॒वी॒व॒श॒त् । म॒तिम् ।
अत्यः॑ । न । गोभिः॑ । अ॒ज्य॒ते॒ ॥३
आत् । ईम् । हंसः । यथा । गणम् । विश्वस्य । अवीवशत् । मतिम् ।
अत्यः । न । गोभिः । अज्यते ॥३
“आत् अपि च “ईम् अयं सोमः “हंसो “यथा “गणं जनसंघं स्वगतिविशेषेण स्वनेन वा प्रविशति तद्वत् “विश्वस्य सर्वस्य स्तोतृजनस्य “मतिं स्तुतिं बुद्धिं वा “अवीवशत् वशं नयति । स च सोमः “अत्यो “न अश्व इव “गोभिः गव्यैरुदकैर्वा “अज्यते सिच्यते स्निग्धीक्रियते ॥
उ॒भे सो॑माव॒चाक॑शन्मृ॒गो न त॒क्तो अ॑र्षसि ।
सीद॑न्नृ॒तस्य॒ योनि॒मा ॥४
उ॒भे इति॑ । सो॒म॒ । अ॒व॒ऽचाक॑शत् । मृ॒गः । न । त॒क्तः । अ॒र्ष॒सि॒ ।
सीद॑न् । ऋ॒तस्य॑ । योनि॑म् । आ ॥४
उभे इति । सोम । अवऽचाकशत् । मृगः । न । तक्तः । अर्षसि ।
सीदन् । ऋतस्य । योनिम् । आ ॥४
हे “सोम “उभे द्यावापृथिव्यौ “अवचाकशत् । पश्यतिकर्मेदम् । पश्यन् “मृगो “न मृग इव “तक्तः गव्यैः पयअदिभिर्मिश्रितः सन् । दध्ना तनक्ति ' (तै. सं. २.५.३.५) इत्यादौ तथा दृष्टत्वात् । “अर्षसि गच्छसि च। किं कुर्वन् । “ऋतस्य यज्ञस्य “योनिं स्थानम् “आ “सीदन् आश्रयन्। यज्ञसाधनाय गच्छसीत्यर्थः ॥
अ॒भि गावो॑ अनूषत॒ योषा॑ जा॒रमि॑व प्रि॒यं ।
अग॑न्ना॒जिं यथा॑ हि॒तं ॥५
अ॒भि । गावः॑ । अ॒नू॒ष॒त॒ । योषा॑ । जा॒रम्ऽइ॑व । प्रि॒यम् ।
अग॑न् । आ॒जिम् । यथा॑ । हि॒तम् ॥५
अभि । गावः । अनूषत । योषा । जारम्ऽइव । प्रियम् ।
अगन् । आजिम् । यथा । हितम् ॥५
हे सोम त्वा “गावः शब्दाः “अभि “अनूषत अभिष्टुवन्ति । “योषा “प्रिय “जारमिव । सा यथा तं स्तौति तद्वत् । स सोमः "आजिं गन्तव्यं “हितं मित्रमिव तं “यथा अन्यः “अगन् स्वहिताय गच्छति तद्वत् । अथवा हितं धनप्रापकत्वेन हितकरम् आजिं शूर इव । अयमागच्छति पात्रम् ॥
अ॒स्मे धे॑हि द्यु॒मद्यशो॑ म॒घव॑द्भ्यश्च॒ मह्यं॑ च ।
स॒निं मे॒धामु॒त श्रवः॑ ॥६
अ॒स्मे इति॑ । धे॒हि॒ । द्यु॒ऽमत् । यशः॑ । म॒घव॑त्ऽभ्यः । च॒ । मह्य॑म् । च॒ ।
स॒निम् । मे॒धाम् । उ॒त । श्रवः॑ ॥६
अस्मे इति । धेहि । द्युऽमत् । यशः । मघवत्ऽभ्यः । च । मह्यम् । च ।
सनिम् । मेधाम् । उत । श्रवः ॥६
हे सोम “अस्मे अस्मभ्यं “द्युमत् दीप्तिमत् “यशः अन्नं “धेहि देहि । कीदृशेभ्योऽस्मभ्यम् । “मघवद्भ्यश्च हविर्लक्षणान्नवद्भ्यश्च “मह्यं “च स्तुतिकर्त्रे च । अथवा मह्यमस्मभ्यमित्यर्थः । अस्मे मघवद्भ्यश्च मह्यं चेति तेषामेवाशंसनाभेदादुभयत्र चशब्दो युक्तः । किंच "सनिं धनं “मेधां प्रज्ञाम् “उत अपि च “श्रवः कीर्तिं च धेहि ॥ ॥ २२ ॥
टिप्पणी
मण्डल ९ | |||
---|---|---|---|