ऋग्वेदः सूक्तं ९.८८

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं ९.८७ ऋग्वेदः - मण्डल ९
सूक्तं ९.८८
उशना काण्वः।
सूक्तं ९.८९ →
दे. पवमानः सोमः। त्रिष्टुप्।


अयं सोम इन्द्र तुभ्यं सुन्वे तुभ्यं पवते त्वमस्य पाहि ।
त्वं ह यं चकृषे त्वं ववृष इन्दुं मदाय युज्याय सोमम् ॥१॥
स ईं रथो न भुरिषाळयोजि महः पुरूणि सातये वसूनि ।
आदीं विश्वा नहुष्याणि जाता स्वर्षाता वन ऊर्ध्वा नवन्त ॥२॥
वायुर्न यो नियुत्वाँ इष्टयामा नासत्येव हव आ शम्भविष्ठः ।
विश्ववारो द्रविणोदा इव त्मन्पूषेव धीजवनोऽसि सोम ॥३॥
इन्द्रो न यो महा कर्माणि चक्रिर्हन्ता वृत्राणामसि सोम पूर्भित् ।
पैद्वो न हि त्वमहिनाम्नां हन्ता विश्वस्यासि सोम दस्योः ॥४॥
अग्निर्न यो वन आ सृज्यमानो वृथा पाजांसि कृणुते नदीषु ।
जनो न युध्वा महत उपब्दिरियर्ति सोमः पवमान ऊर्मिम् ॥५॥
एते सोमा अति वाराण्यव्या दिव्या न कोशासो अभ्रवर्षाः ।
वृथा समुद्रं सिन्धवो न नीचीः सुतासो अभि कलशाँ असृग्रन् ॥६॥
शुष्मी शर्धो न मारुतं पवस्वानभिशस्ता दिव्या यथा विट् ।
आपो न मक्षू सुमतिर्भवा नः सहस्राप्साः पृतनाषाण्न यज्ञः ॥७॥
राज्ञो नु ते वरुणस्य व्रतानि बृहद्गभीरं तव सोम धाम ।
शुचिष्ट्वमसि प्रियो न मित्रो दक्षाय्यो अर्यमेवासि सोम ॥८॥


सायणभाष्यम्

'अयं सोमः' इत्यष्टर्चं तृतीयं सूक्तम् । ऋष्याद्याः पूर्ववत् । अयं सोमोऽष्टौ ' इत्यनुक्रान्तम् । गतो विनियोगः ॥


अ॒यं सोम॑ इंद्र॒ तुभ्यं॑ सुन्वे॒ तुभ्यं॑ पवते॒ त्वम॑स्य पाहि ।

त्वं ह॒ यं च॑कृ॒षे त्वं व॑वृ॒ष इंदुं॒ मदा॑य॒ युज्या॑य॒ सोमं॑ ॥१

अ॒यम् । सोमः॑ । इ॒न्द्र॒ । तुभ्य॑म् । सु॒न्वे॒ । तुभ्य॑म् । प॒व॒ते॒ । त्वम् । अ॒स्य॒ । पा॒हि॒ ।

त्वम् । ह॒ । यम् । च॒कृ॒षे । त्वम् । व॒वृ॒षे । इन्दु॑म् । मदा॑य । युज्या॑य । सोम॑म् ॥

अयम् । सोमः । इन्द्र । तुभ्यम् । सुन्वे । तुभ्यम् । पवते । त्वम् । अस्य । पाहि ।

त्वम् । ह । यम् । चकृषे । त्वम् । ववृषे । इन्दुम् । मदाय । युज्याय । सोमम् ॥

हे “इन्द्र "अयं “सोमः “तुभ्यं त्वदर्थं "सुन्वे सूयते ॥ सुनोतेः कर्मार्थे लटि ‘ लोपस्त आत्मनेपदेषु' इति तलोपः ॥ “तुभ्यं त्वदर्थमेव “पवते पूयते । “त्वं च "अस्य अमुं "पाहि पिब । “त्वं “ह “यम् “इन्दुं “सोमं “चकृषे करोषि । “त्वं च यं “ववृषे वृतवानसि । किमर्थम् । "मदाय “युज्याय सहायाय । सोम इन्द्राय बलकरत्वात् सहाय इति प्रसिद्धम् । यमेवं करोषि त्वं तं पाहीति समन्वयः।।


स ईं॒ रथो॒ न भु॑रि॒षाळ॑योजि म॒हः पु॒रूणि॑ सा॒तये॒ वसू॑नि ।

आदीं॒ विश्वा॑ नहु॒ष्या॑णि जा॒ता स्व॑र्षाता॒ वन॑ ऊ॒र्ध्वा न॑वंत ॥२

सः । ई॒मिति॑ । रथः॑ । न । भु॒रि॒षाट् । अ॒यो॒जि॒ । म॒हः । पु॒रूणि॑ । सा॒तये॑ । वसू॑नि ।

आत् । ई॒मिति॑ । विश्वा॑ । न॒हु॒ष्या॑णि । जा॒ता । स्वः॑ऽसाता । वने॑ । ऊ॒र्ध्वा । न॒व॒न्त॒ ॥

सः । ईमिति । रथः । न । भुरिषाट् । अयोजि । महः । पुरूणि । सातये । वसूनि ।

आत् । ईमिति । विश्वा । नहुष्याणि । जाता । स्वःऽसाता । वने । ऊर्ध्वा । नवन्त ॥

“स “ईं सोऽयं सोमः “भुरिषाट् भूरिभारस्य सोढा “रथो “न रथ इव भुरिषाट् प्रभूतस्य भारस्य सोढा “अयोजि युज्यते । कीदृशः सः । “महः महान् । किमर्थमयोजि । “पुरूणि बहूनि “वसूनि धनानि “सातये अस्मभ्यं दातुम् । “आदीं योगानन्तरं “विश्वा विश्वानि सर्वाणि नहुष्याणि । नहुषो मनुष्याः । तेषां संबन्धीनि “जाता जातान्यस्मद्विरोधीनि “ऊर्ध्वा उन्मुखानि “वने वननीये “स्वर्षाता स्वर्षातौ । संग्रामनामैतत् । स्वर्गलाभयुक्ते संग्रामे “नवन्त गच्छन्तु । नवतिर्गतिकर्मा । यद्वा। सोमं संग्रामे युद्धार्थिनः संगच्छन्ति ॥


वा॒युर्न यो नि॒युत्वाँ॑ इ॒ष्टया॑मा॒ नास॑त्येव॒ हव॒ आ शंभ॑विष्ठः ।

वि॒श्ववा॑रो द्रविणो॒दा इ॑व॒ त्मन्पू॒षेव॑ धी॒जव॑नोऽसि सोम ॥३

वा॒युः । न । यः । नि॒युत्वा॑न् । इ॒ष्टऽया॑मा । नास॑त्याऽइव । हवे॑ । आ । शम्ऽभ॑विष्ठः ।

वि॒श्वऽवा॑रः । द्र॒वि॒णो॒दाःऽइ॑व । त्मन् । पू॒षाऽइ॑व । धी॒ऽजव॑नः । अ॒सि॒ । सो॒म॒ ॥

वायुः । न । यः । नियुत्वान् । इष्टऽयामा । नासत्याऽइव । हवे । आ । शम्ऽभविष्ठः ।

विश्वऽवारः । द्रविणोदाःऽइव । त्मन् । पूषाऽइव । धीऽजवनः । असि । सोम ॥

“यः सोमः “नियुत्वान् । नियुतो वायोरश्वाः । तद्वान् “वायुर्न वायुरिव “इष्टयामा इष्टगमनः । “नासत्येव अश्विनाविव “हवम् आह्वानमाकर्ण्य “आ सर्वतः “शंभविष्ठः सुखस्य भावयितृतमः । “द्रविणोदाइव धनदातेव' “त्मन् आत्मनि “विश्ववारः विश्वैर्वरणीयो भवति तद्वद्विश्ववारोऽसि । “पूषेव पोषकः सवितेव “धीजवनः मनोवेगः “असि । यद्वा कर्मणां प्रवर्तयितासि हे “सोम ॥


इंद्रो॒ न यो म॒हा कर्मा॑णि॒ चक्रि॑र्हं॒ता वृ॒त्राणा॑मसि सोम पू॒र्भित् ।

पै॒द्वो न हि त्वमहि॑नाम्नां हं॒ता विश्व॑स्यासि सोम॒ दस्योः॑ ॥४

इन्द्रः॑ । न । यः । म॒हा । कर्मा॑णि । चक्रिः॑ । ह॒न्ता । वृ॒त्राणा॑म् । अ॒सि॒ । सो॒म॒ । पूः॒ऽभित् ।

पै॒द्वः । न । हि । त्वम् । अहि॑ऽनाम्नाम् । ह॒न्ता । विश्व॑स्य । अ॒सि॒ । सो॒म॒ । दस्योः॑ ॥

इन्द्रः । न । यः । महा । कर्माणि । चक्रिः । हन्ता । वृत्राणाम् । असि । सोम । पूःऽभित् ।

पैद्वः । न । हि । त्वम् । अहिऽनाम्नाम् । हन्ता । विश्वस्य । असि । सोम । दस्योः ॥

“इन्द्रो “न इन्द्र इव “यः त्वं “महा महान्ति “कर्माणि “चक्रिः ताच्छील्येन करोषि स त्वं हे “सोम “वृत्राणां शत्रूणां “हन्ता “असि भवसि । तथा “पूर्भित् पुरां भेत्तासि । किंच “पैद्वो “न अश्व इव खलु “अहिनाम्नां “हन्ता भवसि । आगत्य हन्तीत्यहिः । तन्नामकानामित्यर्थः । न केवलं तेषामेव अपि तु “विश्वस्य अपि सर्वस्यापि "दस्योः उपक्षपयितुः शत्रोर्हन्ता असि ॥


अ॒ग्निर्न यो वन॒ आ सृ॒ज्यमा॑नो॒ वृथा॒ पाजां॑सि कृणुते न॒दीषु॑ ।

जनो॒ न युध्वा॑ मह॒त उ॑प॒ब्दिरिय॑र्ति॒ सोमः॒ पव॑मान ऊ॒र्मिं ॥५

अ॒ग्निः । न । यः । वने॑ । आ । सृ॒ज्यमा॑नः । वृथा॑ । पाजां॑सि । कृ॒णु॒ते॒ । न॒दीषु॑ ।

जनः॑ । न । युध्वा॑ । म॒ह॒तः । उ॒प॒ब्दिः । इय॑र्ति । सोमः॑ । पव॑मानः । ऊ॒र्मिम् ॥

अग्निः । न । यः । वने । आ । सृज्यमानः । वृथा । पाजांसि । कृणुते । नदीषु ।

जनः । न । युध्वा । महतः । उपब्दिः । इयर्ति । सोमः । पवमानः । ऊर्मिम् ॥

“अग्निर्न अग्निरिव “यः सोमः “वने अरण्ये “आ “सृज्यमानः वनसंबन्ध्यग्निर्यथा बलानि कुरुते' एवं यः सोमः “वृथा अनायासेन “नदीषु आन्तरिक्षाणि “पाजांसि “कृणुते कुरुते । किंच “युध्वा युद्धस्य कत “जनो “न शूरो मनुष्य इव “महतः शत्रोः "उपब्दिः । वाङ्नामैतत् । शब्दयिता सन् "पवमानः पूयमानः “सोमः “ऊर्मिं प्रवृद्धं रसम् “इयर्ति प्रेरयति ।।


ए॒ते सोमा॒ अति॒ वारा॒ण्यव्या॑ दि॒व्या न कोशा॑सो अ॒भ्रव॑र्षाः ।

वृथा॑ समु॒द्रं सिंध॑वो॒ न नीचीः॑ सु॒तासो॑ अ॒भि क॒लशाँ॑ असृग्रन् ॥६

ए॒ते । सोमाः॑ । अति॑ । वारा॑णि । अव्या॑ । दि॒व्या । न । कोशा॑सः । अ॒भ्रऽव॑र्षाः ।

वृथा॑ । स॒मु॒द्रम् । सिन्ध॑वः । न । नीचीः॑ । सु॒तासः॑ । अ॒भि । क॒लशा॑न् । अ॒सृ॒ग्र॒न् ॥

एते । सोमाः । अति । वाराणि । अव्या । दिव्या । न । कोशासः । अभ्रऽवर्षाः ।

वृथा । समुद्रम् । सिन्धवः । न । नीचीः । सुतासः । अभि । कलशान् । असृग्रन् ॥

“एते पूयमानाः “सोमाः “अव्या अविमयानि “वाराणि वालानि “अति गच्छन्तीति शेषः । तत्र दृष्टान्तः । “दिव्या “न “कोशासः दिवि भवाः कोशा आप इव । ता विशेष्यन्ते । “अभ्रवर्षाः अभ्रैर्वृष्यमाणाः । किंच “वृथा अनायासेन “समुद्रं “सिन्धवो “न नद्य इव “नीचीः नीचीनाग्राः “सुतासः अभिषुताः सोमाः “कलशान् “अभि “असृग्रन् अभिगच्छन्ति ॥


शु॒ष्मी शर्धो॒ न मारु॑तं पव॒स्वान॑भिशस्ता दि॒व्या यथा॒ विट् ।

आपो॒ न म॒क्षू सु॑म॒तिर्भ॑वा नः स॒हस्रा॑प्साः पृतना॒षाण्न य॒ज्ञः ॥७

शु॒ष्मी । शर्धः॑ । न । मारु॑तम् । प॒व॒स्व॒ । अन॑भिऽशस्ता । दि॒व्या । यथा॑ । विट् ।

आपः॑ । न । म॒क्षु । सु॒ऽम॒तिः । भ॒व॒ । नः॒ । स॒हस्र॑ऽअप्साः । पृ॒त॒ना॒षाट् । न । य॒ज्ञः ॥

शुष्मी । शर्धः । न । मारुतम् । पवस्व । अनभिऽशस्ता । दिव्या । यथा । विट् ।

आपः । न । मक्षु । सुऽमतिः । भव । नः । सहस्रऽअप्साः । पृतनाषाट् । न । यज्ञः ॥

हे सोम “शुष्मी । शुष्मं बलं शोषणात् । बलवांस्त्वं “मारुतं “शर्धो “न मरुतां बलमिव “पवस्व । तत्र दृष्टान्तमेव स्पष्टयति । “यथा "दिव्या "विट् प्रजा "अनभिशस्ता । अभिशासो निन्दा । अनिन्दिता पवते । ‘ मरुतो वै देवानां विशः '(तै. सं. २. २. ५, ७) इति हि ब्राह्मणम् । किंच “आपो “न उदकानीव “मक्षु क्षिप्रं पवमानस्त्वं "सुमतिः “भव “नः अस्माकम् । किंच “सहस्राप्साः। अप्स इति रूपनाम । बहुरूपस्त्वं “पृतनाषाट् पृतनानामभिभवितेन्द्र इव "यज्ञः यष्टव्यो भवसीति ॥


राज्ञो॒ नु ते॒ वरु॑णस्य व्र॒तानि॑ बृ॒हद्ग॑भी॒रं तव॑ सोम॒ धाम॑ ।

शुचि॒ष्ट्वम॑सि प्रि॒यो न मि॒त्रो द॒क्षाय्यो॑ अर्य॒मेवा॑सि सोम ॥८

राज्ञः॑ । नु । ते॒ । वरु॑णस्य । व्र॒तानि॑ । बृ॒हत् । ग॒भी॒रम् । तव॑ । सो॒म॒ । धाम॑ ।

शुचिः॑ । त्वम् । अ॒सि॒ । प्रि॒यः । न । मि॒त्रः । द॒क्षाय्यः॑ । अ॒र्य॒माऽइ॑व । अ॒सि॒ । सो॒म॒ ॥

राज्ञः । नु । ते । वरुणस्य । व्रतानि । बृहत् । गभीरम् । तव । सोम । धाम ।

शुचिः । त्वम् । असि । प्रियः । न । मित्रः । दक्षाय्यः । अर्यमाऽइव । असि । सोम ॥

हे “सोम “वरुणस्य वारकस्य “ते तव “व्रतानि कर्माणि "नु क्षिप्रं करोमीति शेषः । हे “सोम “तव “धाम तेजःस्थानं “बृहत् महत् “गभीरं च । “प्रियः “मित्रः इव “त्वं “शुचिः दीप्तः शुद्धो वा “असि । “अर्यमेव अर्यमा देव इव त्वं “दक्षाय्यः “असि ॥ ॥ २४ ॥

मण्डल ९

सूक्तं ९.१

सूक्तं ९.२

सूक्तं ९.३

सूक्तं ९.४

सूक्तं ९.५

सूक्तं ९.६

सूक्तं ९.७

सूक्तं ९.८

सूक्तं ९.९

सूक्तं ९.१०

सूक्तं ९.११

सूक्तं ९.१२

सूक्तं ९.१३

सूक्तं ९.१४

सूक्तं ९.१५

सूक्तं ९.१६

सूक्तं ९.१७

सूक्तं ९.१८

सूक्तं ९.१९

सूक्तं ९.२०

सूक्तं ९.२१

सूक्तं ९.२२

सूक्तं ९.२३

सूक्तं ९.२४

सूक्तं ९.२५

सूक्तं ९.२६

सूक्तं ९.२७

सूक्तं ९.२८

सूक्तं ९.२९

सूक्तं ९.३०

सूक्तं ९.३१

सूक्तं ९.३२

सूक्तं ९.३३

सूक्तं ९.३४

सूक्तं ९.३५

सूक्तं ९.३६

सूक्तं ९.३७

सूक्तं ९.३८

सूक्तं ९.३९

सूक्तं ९.४०

सूक्तं ९.४१

सूक्तं ९.४२

सूक्तं ९.४३

सूक्तं ९.४४

सूक्तं ९.४५

सूक्तं ९.४६

सूक्तं ९.४७

सूक्तं ९.४८

सूक्तं ९.४९

सूक्तं ९.५०

सूक्तं ९.५१

सूक्तं ९.५२

सूक्तं ९.५३

सूक्तं ९.५४

सूक्तं ९.५५

सूक्तं ९.५६

सूक्तं ९.५७

सूक्तं ९.५८

सूक्तं ९.५९

सूक्तं ९.६०

सूक्तं ९.६१

सूक्तं ९.६२

सूक्तं ९.६३

सूक्तं ९.६४

सूक्तं ९.६५

सूक्तं ९.६६

सूक्तं ९.६७

सूक्तं ९.६८

सूक्तं ९.६९

सूक्तं ९.७०

सूक्तं ९.७१

सूक्तं ९.७२

सूक्तं ९.७३

सूक्तं ९.७४

सूक्तं ९.७५

सूक्तं ९.७६

सूक्तं ९.७७

सूक्तं ९.७८

सूक्तं ९.७९

सूक्तं ९.८०

सूक्तं ९.८१

सूक्तं ९.८२

सूक्तं ९.८३

सूक्तं ९.८४

सूक्तं ९.८५

सूक्तं ९.८६

सूक्तं ९.८७

सूक्तं ९.८८

सूक्तं ९.८९

सूक्तं ९.९०

सूक्तं ९.९१

सूक्तं ९.९२

सूक्तं ९.९३

सूक्तं ९.९४

सूक्तं ९.९५

सूक्तं ९.९६

सूक्तं ९.९७

सूक्तं ९.९८

सूक्तं ९.९९

सूक्तं ९.१००

सूक्तं ९.१०१

सूक्तं ९.१०२

सूक्तं ९.१०३

सूक्तं ९.१०४

सूक्तं ९.१०५

सूक्तं ९.१०६

सूक्तं ९.१०७

सूक्तं ९.१०८

सूक्तं ९.१०९

सूक्तं ९.११०

सूक्तं ९.१११

सूक्तं ९.११२

सूक्तं ९.११३

सूक्तं ९.११४

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_९.८८&oldid=179660" इत्यस्माद् पुनः प्राप्तिः