ऋग्वेदः सूक्तं ९.७२

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं ९.७१ ऋग्वेदः - मण्डल ९
सूक्तं ९.७२
हरिमन्त आङ्गिरसः।
सूक्तं ९.७३ →
दे. पवमानः सोमः। जगती।


हरिं मृजन्त्यरुषो न युज्यते सं धेनुभिः कलशे सोमो अज्यते ।
उद्वाचमीरयति हिन्वते मती पुरुष्टुतस्य कति चित्परिप्रियः ॥१॥
साकं वदन्ति बहवो मनीषिण इन्द्रस्य सोमं जठरे यदादुहुः ।
यदी मृजन्ति सुगभस्तयो नरः सनीळाभिर्दशभिः काम्यं मधु ॥२॥
अरममाणो अत्येति गा अभि सूर्यस्य प्रियं दुहितुस्तिरो रवम् ।
अन्वस्मै जोषमभरद्विनंगृसः सं द्वयीभिः स्वसृभिः क्षेति जामिभिः ॥३॥
नृधूतो अद्रिषुतो बर्हिषि प्रियः पतिर्गवां प्रदिव इन्दुरृत्वियः ।
पुरंधिवान्मनुषो यज्ञसाधनः शुचिर्धिया पवते सोम इन्द्र ते ॥४॥
नृबाहुभ्यां चोदितो धारया सुतोऽनुष्वधं पवते सोम इन्द्र ते ।
आप्राः क्रतून्समजैरध्वरे मतीर्वेर्न द्रुषच्चम्वोरासदद्धरिः ॥५॥
अंशुं दुहन्ति स्तनयन्तमक्षितं कविं कवयोऽपसो मनीषिणः ।
समी गावो मतयो यन्ति संयत ऋतस्य योना सदने पुनर्भुवः ॥६॥
नाभा पृथिव्या धरुणो महो दिवोऽपामूर्मौ सिन्धुष्वन्तरुक्षितः ।
इन्द्रस्य वज्रो वृषभो विभूवसुः सोमो हृदे पवते चारु मत्सरः ॥७॥
स तू पवस्व परि पार्थिवं रज स्तोत्रे शिक्षन्नाधून्वते च सुक्रतो ।
मा नो निर्भाग्वसुनः सादनस्पृशो रयिं पिशङ्गं बहुलं वसीमहि ॥८॥
आ तू न इन्दो शतदात्वश्व्यं सहस्रदातु पशुमद्धिरण्यवत् ।
उप मास्व बृहती रेवतीरिषोऽधि स्तोत्रस्य पवमान नो गहि ॥९॥


सायणभाष्यम्

‘ हरिं मृजन्ति ' इति नवर्चं पञ्चमं सूक्तमाङ्गिरसस्य हरिमन्तस्यार्षं, पवमानसोमदेवताकम् । ‘ जागतमूर्ध्वं प्रागुशनसः' ( अनु. ९.६७ ) इति परिभाषया जागतम् । तथा चानुक्रान्तं- हरिं मृजन्ति हरिमन्तः' इति । गतो विनियोगः ॥


हरिं॑ मृजंत्यरु॒षो न यु॑ज्यते॒ सं धे॒नुभिः॑ क॒लशे॒ सोमो॑ अज्यते ।

उद्वाच॑मी॒रय॑ति हि॒न्वते॑ म॒ती पु॑रुष्टु॒तस्य॒ कति॑ चित्परि॒प्रियः॑ ॥१

हरि॑म् । मृ॒ज॒न्ति॒ । अ॒रु॒षः । न । यु॒ज्य॒ते॒ । सम् । धे॒नुऽभिः॑ । क॒लशे॑ । सोमः॑ । अ॒ज्य॒ते॒ ।

उत् । वाच॑म् । ई॒रय॑ति । हि॒न्वते॑ । म॒ती । पु॒रु॒ऽस्तु॒तस्य॑ । कति॑ । चि॒त् । प॒रि॒ऽप्रियः॑ ॥

हरिम् । मृजन्ति । अरुषः । न । युज्यते । सम् । धेनुऽभिः । कलशे । सोमः । अज्यते ।

उत् । वाचम् । ईरयति । हिन्वते । मती । पुरुऽस्तुतस्य । कति । चित् । परिऽप्रियः ॥

“हरिं हरितवर्णं सोममृत्विजो “मृजन्ति मार्जयन्ति । ‘मृजेरजादौ संक्रमे विभाषा वृद्धिरिष्यते' (पा. म. १.१.३.१०, का. १.१.५ ) इति तत्र वृद्धेरभावः । सोऽयम् “अरुषः । अर्तेरुषच्प्रत्ययः ।। गमनशीलोऽश्व इव “युज्यते इन्द्रादिभिः संयुज्यते । किंच “कलश द्रोणाभिधाने स्थितः “सोमः “धेनुभिः गोविकारैः दध्यादिभिः “सम् “अज्यते समक्तः सिक्तो भवति । अपि च सोमो यदा “वाचं शब्दम् “उत् “ईरयति उद्गमयति । शब्दं करोतीत्यर्थः । तदा स्तोतारश्च "मती । ‘ सुपां सुलुक्' इति द्वितीयायाः पूर्वसवर्णदीर्घः । स्तुतिं “हिन्वते प्रेरयन्ति । ‘हि गतौ वृद्धौ च' इति स्वादिः आत्मनेपदी । ततः स्तोत्राभिष्टुतः सः “पुरुष्टुतस्य बहुस्तोत्रयुक्तस्य स्तोतुः “परिप्रियः । ‘ प्रीङ् तर्पणे'। क्विप् । शसि इयङादेशः । कृदुत्तरपदप्रकृतिस्वरत्वम् । परितः प्रीणयितॄणि कति चित् “क्रियन्ति धनानि प्रयच्छति ॥


सा॒कं व॑दंति ब॒हवो॑ मनी॒षिण॒ इंद्र॑स्य॒ सोमं॑ ज॒ठरे॒ यदा॑दु॒हुः ।

यदी॑ मृ॒जंति॒ सुग॑भस्तयो॒ नरः॒ सनी॑ळाभिर्द॒शभिः॒ काम्यं॒ मधु॑ ॥२

सा॒कम् । व॒द॒न्ति॒ । ब॒हवः॑ । म॒नी॒षिणः॑ । इन्द्र॑स्य । सोम॑म् । ज॒ठरे॑ । यत् । आ॒ऽदु॒हुः ।

यदि॑ । मृ॒जन्ति॑ । सुऽग॑भस्तयः । नरः॑ । सऽनी॑ळाभिः । द॒शऽभिः॑ । काम्य॑म् । मधु॑ ॥

साकम् । वदन्ति । बहवः । मनीषिणः । इन्द्रस्य । सोमम् । जठरे । यत् । आऽदुहुः ।

यदि । मृजन्ति । सुऽगभस्तयः । नरः । सऽनीळाभिः । दशऽभिः । काम्यम् । मधु ॥

“मनीषिणः मनस ईशितारः प्राज्ञाः “बहवः स्तोतारः साकं सहैव युगपत् मन्त्रान् वदन्ति । तदा स्तुवन्ति । यदा “इन्द्रस्य “जठरे द्रोणकलशे सौमम् “आहः ऋत्विजो दुदुहुः तदा भिष्ट्रवन्तीति । दुहेर्लिटयुसि रूपम् । द्विवचनस्य छन्दसि विकल्पितत्वादत्र द्विवंचनाभावः । किंच यदि थदा सुगभस्तयः शोभनबाहुकाः नरः कर्मचैतारो मनुष्याः कार्य काम्यमानं मधु मकर सीमें “सनीळाभिः "दशभिः दशसंख्याकाभिरङ्गुलीभिः "मृजन्ति सोममभिषुण्वन्ति तदा वदन्तीत्यन्वयः ॥


अर॑ममाणो॒ अत्ये॑ति॒ गा अ॒भि सूर्य॑स्य प्रि॒यं दु॑हि॒तुस्ति॒रो रवं॑ ।

अन्व॑स्मै॒ जोष॑मभरद्विनंगृ॒सः सं द्व॒यीभिः॒ स्वसृ॑भिः क्षेति जा॒मिभिः॑ ॥३

अर॑ममाणः । अति॑ । ए॒ति॒ । गाः । अ॒भि । सूर्य॑स्य । प्रि॒यम् । दु॒हि॒तुः । ति॒रः । रव॑म् ।

अनु॑ । अ॒स्मै॒ । जोष॑म् । अ॒भ॒र॒त् । वि॒न॒म्ऽगृ॒सः । सम् । द्व॒यीभिः॑ । स्वसृ॑ऽभिः । क्षे॒ति॒ । जा॒मिऽभिः॑ ॥

अरममाणः । अति । एति । गाः । अभि । सूर्यस्य । प्रियम् । दुहितुः । तिरः । रवम् ।

अनु । अस्मै । जोषम् । अभरत् । विनम्ऽगृसः । सम् । द्वयीभिः । स्वसृऽभिः । क्षेति । जामिऽभिः ॥

“सः सोम “अरममाणः अनुपरतः सन् । पुनः पुनर्देवानां प्रीणनाय ग्रहादीनि प्रविशन्नित्यर्थः । “गाः गोविकारानाश्रयणानभिलक्ष्य “अत्येति अतिक्रम्य गच्छति । ततः शब्दायमानः सोमः “सूर्यस्य आदित्यस्य “दुहितुः उषस: “प्रियं “रवं शब्दं “तिरः तिरस्करोति । तस्मिन्काले सोमाभिषवध्वनिर्महान् भवतीत्यर्थः । “विनंगृसः । विनं कमनीयं स्तोत्रं गृह्णातीति विनंगृसः स्तोता । “जोषम् । जुषेर्घञि रूपम् । पर्याप्तं स्तोत्रं तस्मै सोमाय “अनु “अभरत् अनुभरति । करोतीति यावत् । सोऽयं सोमः “द्वयीभिः द्वाभ्यां पाणिभ्यामुत्पन्नाभिः “जामिभिः परस्परं बन्धुभिः स्वसृभिः कर्मकरणार्थमितस्ततो गच्छन्तीभिरङ्गुलीभिः “सं “क्षेति संगच्छते । ‘क्षि निवासगत्योः । छान्दसी विकरणस्य लुक् ।


नृधू॑तो॒ अद्रि॑षुतो ब॒र्हिषि॑ प्रि॒यः पति॒र्गवां॑ प्र॒दिव॒ इंदु॑र्ऋ॒त्वियः॑ ।

पुरं॑धिवा॒न्मनु॑षो यज्ञ॒साध॑नः॒ शुचि॑र्धि॒या प॑वते॒ सोम॑ इंद्र ते ॥४

नृऽधू॑तः । अद्रि॑ऽसुतः । ब॒र्हिषि॑ । प्रि॒यः । पतिः॑ । गवा॑म् । प्र॒ऽदिवः॑ । इन्दुः॑ । ऋ॒त्वियः॑ ।

पुर॑न्धिऽवान् । मनु॑षः । य॒ज्ञ॒ऽसाध॑नः । शुचिः॑ । धि॒या । प॒व॒ते॒ । सोमः॑ । इ॒न्द्र॒ । ते॒ ॥

नृऽधूतः । अद्रिऽसुतः । बर्हिषि । प्रियः । पतिः । गवाम् । प्रऽदिवः । इन्दुः । ऋत्वियः ।

पुरन्धिऽवान् । मनुषः । यज्ञऽसाधनः । शुचिः । धिया । पवते । सोमः । इन्द्र । ते ॥

हे “इन्द्र पवमानगुणविशिष्टेन्द्र “ते त्वदर्थं “बर्हिषि यज्ञेयं “सोमः “धिया स्वेन कर्मणा धारया वा “पवते पात्रेषु स्यन्दते । कीदृशः। “नृधूतः कर्मनेतृभिर्मनुष्यैः शोधितः “अद्रिषुतः ग्रावभिरभिषुतः “प्रियः देवानां प्रीणयिता “गवां “पतिः स्वामी । इन्द्रो गा अलभत तस्माद्गवां स्वामी ।। “प्रदिवः । पुराणनामैतत् । पुराणः “इन्दुः पात्रेषु क्षरन् “ऋत्वियः ऋतौ जातः । 'ऋतोरण्' छन्दसि घस्' (पा, सू, ५, १, १०५- १ ० ६ ) इति घस् । सित्त्वेन पदसंज्ञायां भसंज्ञानिमित्त ओर्गुणो न भवति । “पुरंधिवान् । ‘ पुरंधिर्बहुधीः ' (निरु, ६, १३) इति यास्कः । बहुकर्मवान् “मनुषः मनुष्यस्य “यज्ञ साधनः “ शुचिः। दीप्यमानः । यद्वा । दशापवित्रेण शुद्धः । एवंगुणः सोमः इन्द्रार्थं पवत इति संबन्धः ।।


नृबा॒हुभ्यां॑ चोदि॒तो धार॑या सु॒तो॑ऽनुष्व॒धं प॑वते॒ सोम॑ इंद्र ते ।

आप्राः॒ क्रतू॒न्त्सम॑जैरध्व॒रे म॒तीर्वेर्न द्रु॒षच्च॒म्वो॒३॒॑रास॑द॒द्धरिः॑ ॥५

नृ॒बा॒हुऽभ्या॑म् । चो॒दि॒तः । धार॑या । सु॒तः । अ॒नु॒ऽस्व॒धम् । प॒व॒ते॒ । सोमः॑ । इ॒न्द्र॒ । ते॒ ।

आ । अ॒प्राः॒ । क्रतू॑न् । सम् । अ॒जैः॒ । अ॒ध्व॒रे । म॒तीः । वेः । न । द्रु॒ऽसत् । च॒म्वोः॑ । आ । अ॒स॒द॒त् । हरिः॑ ॥

नृबाहुऽभ्याम् । चोदितः । धारया । सुतः । अनुऽस्वधम् । पवते । सोमः । इन्द्र । ते ।

आ । अप्राः । क्रतून् । सम् । अजैः । अध्वरे । मतीः । वेः । न । द्रुऽसत् । चम्वोः । आ । असदत् । हरिः ॥

हे “इन्द्र पवमानगुणविशिष्ट “नृबाहुभ्यां कर्मनेतॄणामृत्विजां बाहुभ्यां “चोदितः प्रेरितः “धारया “सुतः अभिषुतः । यथा धारा भवति तथाभिषुत इत्यर्थः । तादृशः “सोमः "ते तव अनुष्वधं बलमनु बलार्थम् । यद्वा । स्वधेत्यन्ननाम । अन्नार्थं “पवते आगच्छति । ततः स त्वं सोमपानेन “क्रतून् कर्माणि “आप्राः आपूरयसि । किंच “अध्वरे यज्ञे “मतीः अभिमन्यमानान्' शत्रून् समजैः सम्यग्जितवानसि । ‘ जि जये' । लुङि सिपि सिचो ‘ बहुलं छन्दसि' इति इडभावः । ‘ सिचि वृद्धि:०' इति वृद्धिः । सोऽयं “हरिः हरितवर्णः सोमः “चम्वोः अधिषवणफलकयोः “आसदत् आसीदति । तत्र दृष्टान्तः । “वेर्न । वी गत्यादिषु । अन्येभ्योऽपि दृश्यन्ते' इति विच् । सार्वधातुकार्धधातुकयोः ' इति गुणः । यथा विः पक्षी “द्रुषत् द्रुमे सीदतीति तद्वत् । द्रुषत्' । 'पूर्वपदात्' इति षत्वम् ॥ ॥ २७ ॥


अं॒शुं दु॑हंति स्त॒नयं॑त॒मक्षि॑तं क॒विं क॒वयो॒ऽपसो॑ मनी॒षिणः॑ ।

समी॒ गावो॑ म॒तयो॑ यंति सं॒यत॑ ऋ॒तस्य॒ योना॒ सद॑ने पुन॒र्भुवः॑ ॥६

अं॒शुम् । दु॒ह॒न्ति॒ । स्त॒नय॑न्तम् । अक्षि॑तम् । क॒विम् । क॒वयः॑ । अ॒पसः॑ । म॒नी॒षिणः॑ ।

सम् । ई॒मिति॑ । गावः॑ । म॒तयः॑ । य॒न्ति॒ । स॒म्ऽयतः॑ । ऋ॒तस्य॑ । योना॑ । सद॑ने । पु॒नः॒ऽभुवः॑ ॥

अंशुम् । दुहन्ति । स्तनयन्तम् । अक्षितम् । कविम् । कवयः । अपसः । मनीषिणः ।

सम् । ईमिति । गावः । मतयः । यन्ति । सम्ऽयतः । ऋतस्य । योना । सदने । पुनःऽभुवः ॥

“कवयः क्रान्तप्रज्ञाः "अपसः कर्मवन्तः “मनीषिणः । मनस ईशा मनीषा बुद्धिः । तद्वन्त ऋत्विजः “स्तनयन्तं शब्दायमानम् “अक्षितम् अक्षीणं “कविं क्रान्तदर्शिनम् “अंशुं सोमं दुहन्ति अभिषुण्वन्ति । ततः “पुनर्भुवः पुनर्भवनशीलाः “गावः पशवः “मतयः मननीयाः स्तुतयश्च “संयतः परस्परं संगताः सत्यः “ऋतस्य सत्यभूतस्य यज्ञस्य “योना योनौ योनिस्थानीय उत्पत्तिभूते “सदने उतरवेद्याख्ये “ईम एनं सोमं “सं "यन्ति संगच्छन्ति ॥


नाभा॑ पृथि॒व्या ध॒रुणो॑ म॒हो दि॒वो॒३॒॑ऽपामू॒र्मौ सिंधु॑ष्वं॒तरु॑क्षि॒तः ।

इंद्र॑स्य॒ वज्रो॑ वृष॒भो वि॒भूव॑सुः॒ सोमो॑ हृ॒दे प॑वते॒ चारु॑ मत्स॒रः ॥७

नाभा॑ । पृ॒थि॒व्याः । ध॒रुणः॑ । म॒हः । दि॒वः । अ॒पाम् । ऊ॒र्मौ । सिन्धु॑षु । अ॒न्तः । उ॒क्षि॒तः ।

इन्द्र॑स्य । वज्रः॑ । वृ॒ष॒भः । वि॒भुऽव॑सुः । सोमः॑ । हृ॒दे । प॒व॒ते॒ । चारु॑ । म॒त्स॒रः ॥

नाभा । पृथिव्याः । धरुणः । महः । दिवः । अपाम् । ऊर्मौ । सिन्धुषु । अन्तः । उक्षितः ।

इन्द्रस्य । वज्रः । वृषभः । विभुऽवसुः । सोमः । हृदे । पवते । चारु । मत्सरः ॥

"महः महतः “दिवः द्युलोकस्य “धरुणः धारकोऽयं सोमः “पृथिव्याः विस्तीर्णाया भूमेः “नाभा नाभौ नाभिस्थानीये उच्छ्रिते पदे ' यदुत्तरवेदीनाभिः ' ( ऐ. ब्रा. १. २८) इत्याम्नानात् उत्तरवेदिस्थान ऋत्विग्भिर्निहितः “सिन्धुषु स्यन्दमानासु नदीषु “अपाम् उदकानाम् “ऊर्मौ संघे “अन्तः मध्ये “उक्षितः सिक्तः । अन्तरिक्षस्थानमध्ये वर्तमान इत्यर्थः । तादृशः “इन्द्रस्य “वज्रः वज्रस्थानीयः “वृषभः कामानां वर्षिता अत एव “विभूवसुः व्याप्तधनः “सोमः “चारु कल्याणं यथा भवति तथा इन्द्रस्य “मत्सरः मादयिता सन् "हृदे मनसे सुखाय “पवते आगच्छति ॥


स तू प॑वस्व॒ परि॒ पार्थि॑वं॒ रजः॑ स्तो॒त्रे शिक्ष॑न्नाधून्व॒ते च॑ सुक्रतो ।

मा नो॒ निर्भा॒ग्वसु॑नः सादन॒स्पृशो॑ र॒यिं पि॒शंगं॑ बहु॒लं व॑सीमहि ॥८

सः । तु । प॒व॒स्व॒ । परि॑ । पार्थि॑वम् । रजः॑ । स्तो॒त्रे । शिक्ष॑न् । आ॒ऽधू॒न्व॒ते । च॒ । सु॒क्र॒तो॒ इति॑ सुऽक्रतो ।

मा । नः॒ । निः । भा॒क् । वसु॑नः । स॒द॒न॒ऽस्पृशः॑ । र॒यिम् । पि॒शङ्ग॑म् । ब॒हु॒लम् । व॒सी॒म॒हि॒ ॥

सः । तु । पवस्व । परि । पार्थिवम् । रजः । स्तोत्रे । शिक्षन् । आऽधून्वते । च । सुक्रतो इति सुऽक्रतो ।

मा । नः । निः । भाक् । वसुनः । सदनऽस्पृशः । रयिम् । पिशङ्गम् । बहुलम् । वसीमहि ॥

हे "सुक्रतो शोभनकर्मन् सुप्रज्ञ वा सोम तादृशस्त्वं “पार्थिवं “रजः लोकं लक्षीकृत्य “तु क्षिप्रं “परि “पवस्व परितः सर्वतः क्षर । किं कुर्वन् । “आधून्वते अदाभ्यग्रहे त्रिभिरंशुभिराधावनं कुर्वते । तथा भगवता आपस्तम्बेन सूत्रितं-- तैरेनं चतुराधुनोति पञ्चकृत्वः सप्तकृत्वो वा ' इति । तस्मै धनादिकं “शिक्षन् प्रयच्छन् परि पवस्वेति समन्वयः । ततस्त्वं “नः अस्मान् “वसुनः धनात् "मा “निर्भाक् मा निर्भाङ्क्षीः मा वियोक्षीः । कीदृशात् । “सदनस्पृशः । येन भूतेन वसुना सदनानि गृहान् पुत्रादीन् स्पृशन्ति तादृशात् गृहादिकस्य प्रदातुः धनान्मा वियुजः । भाक्। 'भज सेवायाम् । लुङि सिपि सिचि ‘ बहुलं छन्दसि' इति ईडागमाभावः । ‘ एकाचः' इति इट्प्रतिषेधः । हलन्तलक्षणा वृद्धिः (पा. सू. ७. २. ३ )। सिपो लोपः । यस्मादेवं तस्माद्वयं “पिशङ्गं नानारूपं कनकादिना अत एव “बहुलं प्रभूतं “रयिं धनं “वसीमहि आच्छादयेम । बहुधनवन्तो भवेमेत्यर्थः । ‘ वस आच्छादने '। आदादिकः । लिङि रूपम् ॥


आ तू न॑ इंदो श॒तदा॒त्वश्व्यं॑ स॒हस्र॑दातु पशु॒मद्धिर॑ण्यवत् ।

उप॑ मास्व बृह॒ती रे॒वती॒रिषोऽधि॑ स्तो॒त्रस्य॑ पवमान नो गहि ॥९

आ । तु । नः॒ । इ॒न्दो॒ इति॑ । श॒तऽदा॑तु । अश्व्य॑म् । स॒हस्र॑ऽदातु । प॒शु॒ऽमत् । हिर॑ण्यऽवत् ।

उप॑ । मा॒स्व॒ । बृ॒ह॒तीः । रे॒वतीः॑ । इषः॑ । अधि॑ । स्तो॒त्रस्य॑ । प॒व॒मा॒न॒ । नः॒ । ग॒हि॒ ॥

आ । तु । नः । इन्दो इति । शतऽदातु । अश्व्यम् । सहस्रऽदातु । पशुऽमत् । हिरण्यऽवत् ।

उप । मास्व । बृहतीः । रेवतीः । इषः । अधि । स्तोत्रस्य । पवमान । नः । गहि ॥

हे “इन्दो पवमान “नः अस्मभ्यं “तु क्षिप्रं धनम् “आ आयच्छ । कीदृशम् । “शतदातु । दातु दानम् । बहुदानम् “अश्व्यम् अश्वसहितं “सहस्रदातु सहस्रदानोपेतं “पशुमत् पश्वादियुक्तं “हिरण्यवत् हिरण्ययुक्तं च धनं देहि । तथा हे सोम “बृहतीः प्रभूतानि “रेवतीः धनवन्ति । यद्वा पयसोदातारः पशवः। तद्वन्ति “इषः अन्नानि चास्मभ्यम् “उप मास्व उपनिर्मिमीष्व । कुर्विति यावत् । किंच हे पवमान “नः अस्माकं स्वभूतस्य “स्तोत्रस्य श्रवणाय “अधि “गहि आगच्छ। ‘ क्रियार्थोपपदस्य°' (पा. सू.२.३.१४ ) इति चतुर्थी । “चतुर्थ्यर्थे बहुलं छन्दसि' इति षष्ठी ॥ ॥ २८ ॥


मण्डल ९

सूक्तं ९.१

सूक्तं ९.२

सूक्तं ९.३

सूक्तं ९.४

सूक्तं ९.५

सूक्तं ९.६

सूक्तं ९.७

सूक्तं ९.८

सूक्तं ९.९

सूक्तं ९.१०

सूक्तं ९.११

सूक्तं ९.१२

सूक्तं ९.१३

सूक्तं ९.१४

सूक्तं ९.१५

सूक्तं ९.१६

सूक्तं ९.१७

सूक्तं ९.१८

सूक्तं ९.१९

सूक्तं ९.२०

सूक्तं ९.२१

सूक्तं ९.२२

सूक्तं ९.२३

सूक्तं ९.२४

सूक्तं ९.२५

सूक्तं ९.२६

सूक्तं ९.२७

सूक्तं ९.२८

सूक्तं ९.२९

सूक्तं ९.३०

सूक्तं ९.३१

सूक्तं ९.३२

सूक्तं ९.३३

सूक्तं ९.३४

सूक्तं ९.३५

सूक्तं ९.३६

सूक्तं ९.३७

सूक्तं ९.३८

सूक्तं ९.३९

सूक्तं ९.४०

सूक्तं ९.४१

सूक्तं ९.४२

सूक्तं ९.४३

सूक्तं ९.४४

सूक्तं ९.४५

सूक्तं ९.४६

सूक्तं ९.४७

सूक्तं ९.४८

सूक्तं ९.४९

सूक्तं ९.५०

सूक्तं ९.५१

सूक्तं ९.५२

सूक्तं ९.५३

सूक्तं ९.५४

सूक्तं ९.५५

सूक्तं ९.५६

सूक्तं ९.५७

सूक्तं ९.५८

सूक्तं ९.५९

सूक्तं ९.६०

सूक्तं ९.६१

सूक्तं ९.६२

सूक्तं ९.६३

सूक्तं ९.६४

सूक्तं ९.६५

सूक्तं ९.६६

सूक्तं ९.६७

सूक्तं ९.६८

सूक्तं ९.६९

सूक्तं ९.७०

सूक्तं ९.७१

सूक्तं ९.७२

सूक्तं ९.७३

सूक्तं ९.७४

सूक्तं ९.७५

सूक्तं ९.७६

सूक्तं ९.७७

सूक्तं ९.७८

सूक्तं ९.७९

सूक्तं ९.८०

सूक्तं ९.८१

सूक्तं ९.८२

सूक्तं ९.८३

सूक्तं ९.८४

सूक्तं ९.८५

सूक्तं ९.८६

सूक्तं ९.८७

सूक्तं ९.८८

सूक्तं ९.८९

सूक्तं ९.९०

सूक्तं ९.९१

सूक्तं ९.९२

सूक्तं ९.९३

सूक्तं ९.९४

सूक्तं ९.९५

सूक्तं ९.९६

सूक्तं ९.९७

सूक्तं ९.९८

सूक्तं ९.९९

सूक्तं ९.१००

सूक्तं ९.१०१

सूक्तं ९.१०२

सूक्तं ९.१०३

सूक्तं ९.१०४

सूक्तं ९.१०५

सूक्तं ९.१०६

सूक्तं ९.१०७

सूक्तं ९.१०८

सूक्तं ९.१०९

सूक्तं ९.११०

सूक्तं ९.१११

सूक्तं ९.११२

सूक्तं ९.११३

सूक्तं ९.११४

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_९.७२&oldid=179399" इत्यस्माद् पुनः प्राप्तिः