ऋग्वेदः सूक्तं ९.६४

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं ९.६३ ऋग्वेदः - मण्डल ९
सूक्तं ९.६४
कश्यपो मारीचः।
सूक्तं ९.६५ →
दे. पवमानः सोमः। गायत्री।


वृषा सोम द्युमाँ असि वृषा देव वृषव्रतः ।
वृषा धर्माणि दधिषे ॥१॥
वृष्णस्ते वृष्ण्यं शवो वृषा वनं वृषा मदः ।
सत्यं वृषन्वृषेदसि ॥२॥
अश्वो न चक्रदो वृषा सं गा इन्दो समर्वतः ।
वि नो राये दुरो वृधि ॥३॥
असृक्षत प्र वाजिनो गव्या सोमासो अश्वया ।
शुक्रासो वीरयाशवः ॥४॥
शुम्भमाना ऋतायुभिर्मृज्यमाना गभस्त्योः ।
पवन्ते वारे अव्यये ॥५॥
ते विश्वा दाशुषे वसु सोमा दिव्यानि पार्थिवा ।
पवन्तामान्तरिक्ष्या ॥६॥
पवमानस्य विश्ववित्प्र ते सर्गा असृक्षत ।
सूर्यस्येव न रश्मयः ॥७॥
केतुं कृण्वन्दिवस्परि विश्वा रूपाभ्यर्षसि ।
समुद्रः सोम पिन्वसे ॥८॥
हिन्वानो वाचमिष्यसि पवमान विधर्मणि ।
अक्रान्देवो न सूर्यः ॥९॥
इन्दुः पविष्ट चेतनः प्रियः कवीनां मती ।
सृजदश्वं रथीरिव ॥१०॥
ऊर्मिर्यस्ते पवित्र आ देवावीः पर्यक्षरत् ।
सीदन्नृतस्य योनिमा ॥११॥
स नो अर्ष पवित्र आ मदो यो देववीतमः ।
इन्दविन्द्राय पीतये ॥१२॥
इषे पवस्व धारया मृज्यमानो मनीषिभिः ।
इन्दो रुचाभि गा इहि ॥१३॥
पुनानो वरिवस्कृध्यूर्जं जनाय गिर्वणः ।
हरे सृजान आशिरम् ॥१४॥
पुनानो देववीतय इन्द्रस्य याहि निष्कृतम् ।
द्युतानो वाजिभिर्यतः ॥१५॥
प्र हिन्वानास इन्दवोऽच्छा समुद्रमाशवः ।
धिया जूता असृक्षत ॥१६॥
मर्मृजानास आयवो वृथा समुद्रमिन्दवः ।
अग्मन्नृतस्य योनिमा ॥१७॥
परि णो याह्यस्मयुर्विश्वा वसून्योजसा ।
पाहि नः शर्म वीरवत् ॥१८॥
मिमाति वह्निरेतशः पदं युजान ऋक्वभिः ।
प्र यत्समुद्र आहितः ॥१९॥
आ यद्योनिं हिरण्ययमाशुरृतस्य सीदति ।
जहात्यप्रचेतसः ॥२०॥
अभि वेना अनूषतेयक्षन्ति प्रचेतसः ।
मज्जन्त्यविचेतसः ॥२१॥
इन्द्रायेन्दो मरुत्वते पवस्व मधुमत्तमः ।
ऋतस्य योनिमासदम् ॥२२॥
तं त्वा विप्रा वचोविदः परि ष्कृण्वन्ति वेधसः ।
सं त्वा मृजन्त्यायवः ॥२३॥
रसं ते मित्रो अर्यमा पिबन्ति वरुणः कवे ।
पवमानस्य मरुतः ॥२४॥
त्वं सोम विपश्चितं पुनानो वाचमिष्यसि ।
इन्दो सहस्रभर्णसम् ॥२५॥
उतो सहस्रभर्णसं वाचं सोम मखस्युवम् ।
पुनान इन्दवा भर ॥२६॥
पुनान इन्दवेषां पुरुहूत जनानाम् ।
प्रियः समुद्रमा विश ॥२७॥
दविद्युतत्या रुचा परिष्टोभन्त्या कृपा ।
सोमाः शुक्रा गवाशिरः ॥२८॥
हिन्वानो हेतृभिर्यत आ वाजं वाज्यक्रमीत् ।
सीदन्तो वनुषो यथा ॥२९॥
ऋधक्सोम स्वस्तये संजग्मानो दिवः कविः ।
पवस्व सूर्यो दृशे ॥३०॥


सायणभाष्यम्

‘वृषा सोम' इति त्रिंशदृचं चतुर्थं सूक्तं मारीचस्य कश्यपस्यार्षं गायत्रं पवमानसौम्यम् । तथा चानुक्रान्तं- वृषा सोम कश्यपः' इति । उक्तो विनियोगः ।।


वृषा॑ सोम द्यु॒माँ अ॑सि॒ वृषा॑ देव॒ वृष॑व्रतः ।

वृषा॒ धर्मा॑णि दधिषे ॥१

वृषा॑ । सो॒म॒ । द्यु॒ऽमान् । अ॒सि॒ । वृषा॑ । दे॒व॒ । वृष॑ऽव्रतः ।

वृषा॑ । धर्मा॑णि । द॒धि॒षे॒ ॥

वृषा । सोम । द्युऽमान् । असि । वृषा । देव । वृषऽव्रतः ।

वृषा । धर्माणि । दधिषे ॥

हे “सोम "वृषा वर्षकस्त्वं “द्युमान् दीप्तिमान् “असि । अपि च हे “देव द्योतमान सोम “वृषा त्वं “वृषव्रतः वर्षणशीलकर्मासि । किंच हे सोम “वृषा त्वं “धर्माणि देवानां मनुष्याणां च हितानि कर्माणि "दधिषे धारयसि ।।


वृष्ण॑स्ते॒ वृष्ण्यं॒ शवो॒ वृषा॒ वनं॒ वृषा॒ मदः॑ ।

स॒त्यं वृ॑ष॒न्वृषेद॑सि ॥२

वृष्णः॑ । ते॒ । वृष्ण्य॑म् । शवः॑ । वृषा॑ । वन॑म् । वृषा॑ । मदः॑ ।

स॒त्यम् । वृ॒ष॒न् । वृषा॑ । इत् । अ॒सि॒ ॥

वृष्णः । ते । वृष्ण्यम् । शवः । वृषा । वनम् । वृषा । मदः ।

सत्यम् । वृषन् । वृषा । इत् । असि ॥

हे “वृषन् कामानां वर्षक सोम “वृष्णः वर्षितुः “ते तव “शवः बलं “वृष्ण्यं वर्षणशीलं भवति । “वनं तव भजनमपि “वृषा वर्षणशीलम् । “मदः तव रसोऽपि “वृषा वर्षणशीलः । “सत्यं सत्यमेव त्वं “वृषेत् वर्षणशील एव “असि भवसि ॥


अश्वो॒ न च॑क्रदो॒ वृषा॒ सं गा इं॑दो॒ समर्व॑तः ।

वि नो॑ रा॒ये दुरो॑ वृधि ॥३

अश्वः॑ । न । च॒क्र॒दः॒ । वृषा॑ । सम् । गाः । इ॒न्दो॒ इति॑ । सम् । अर्व॑तः ।

वि । नः॒ । रा॒ये । दुरः॑ । वृ॒धि॒ ॥

अश्वः । न । चक्रदः । वृषा । सम् । गाः । इन्दो इति । सम् । अर्वतः ।

वि । नः । राये । दुरः । वृधि ॥

हे “इन्दो सोम “वृषा त्वम् “अश्वो “न अश्व इव “सं “चक्रदः संक्रन्दसे । अपि च “गाः पशून् “अर्वतः अश्वांश्चास्मभ्यं “सं प्रयच्छसीति शेषः। किंच “नः अस्माकं “राये धनाय “दुरः द्वाराणि “वि “वृधि विवृतानि कुरु ॥


असृ॑क्षत॒ प्र वा॒जिनो॑ ग॒व्या सोमा॑सो अश्व॒या ।

शु॒क्रासो॑ वीर॒याशवः॑ ॥४

असृ॑क्षत । प्र । वा॒जिनः॑ । ग॒व्या । सोमा॑सः । अ॒श्व॒ऽया ।

शु॒क्रासः॑ । वी॒र॒ऽया । आ॒शवः॑ ॥

असृक्षत । प्र । वाजिनः । गव्या । सोमासः । अश्वऽया ।

शुक्रासः । वीरऽया । आशवः ॥

“वाजिनः बलवन्तः “शुक्रासः शुक्रा उज्ज्वला: "आशवः वेगवन्तश्च “सोमासः सोमाः “गव्या गवेच्छया “अश्वया अश्वेच्छया च “वीरया पुत्रेच्छया च “प्र “असृक्षत ऋत्विग्भिः सृज्यन्ते ॥


शुं॒भमा॑ना ऋता॒युभि॑र्मृ॒ज्यमा॑ना॒ गभ॑स्त्योः ।

पवं॑ते॒ वारे॑ अ॒व्यये॑ ॥५

शु॒म्भमा॑नाः । ऋ॒त॒युऽभिः॑ । मृ॒ज्यमा॑नाः । गभ॑स्त्योः ।

पव॑न्ते । वारे॑ । अ॒व्यये॑ ॥

शुम्भमानाः । ऋतयुऽभिः । मृज्यमानाः । गभस्त्योः ।

पवन्ते । वारे । अव्यये ॥

“ऋतायुभिः यज्ञकामैः “शुम्भमानाः अलंक्रियमाणाः “गभस्त्योः गभस्तिभ्यां बाहुभ्याम् । ‘ गभस्ती बाहू' इति बाहुनामसु पाठात् । “मृज्यमानाः शोध्यमानाः सोमाः “अव्यये अविमये “वारे वाले पवित्रे “पवन्ते क्षरन्ति ॥ ॥ ३६ ।।


ते विश्वा॑ दा॒शुषे॒ वसु॒ सोमा॑ दि॒व्यानि॒ पार्थि॑वा ।

पवं॑ता॒मांतरि॑क्ष्या ॥६

ते । विश्वा॑ । दा॒शुषे॑ । वसु॑ । सोमाः॑ । दि॒व्यानि॑ । पार्थि॑वा ।

पव॑न्ताम् । आ । अ॒न्तरि॑क्ष्या ॥

ते । विश्वा । दाशुषे । वसु । सोमाः । दिव्यानि । पार्थिवा ।

पवन्ताम् । आ । अन्तरिक्ष्या ॥

"ते “सोमाः "दिव्यानि दिवि भवानि “पार्थिवा पार्थिवानि पृथिव्यां संभूतानि च "अन्तरिक्ष्या अन्तरिक्ष्याणि अन्तरिक्षे जातानि च “विश्वा विश्वानि “वसु वसूनि धनानि “दाशुषे हविषां प्रदात्रे यजमानाय “आ “पवन्तां क्षरन्तु ॥


पव॑मानस्य विश्ववि॒त्प्र ते॒ सर्गा॑ असृक्षत ।

सूर्य॑स्येव॒ न र॒श्मयः॑ ॥७

पव॑मानस्य । वि॒श्व॒ऽवि॒त् । प्र । ते॒ । सर्गाः॑ । अ॒सृ॒क्ष॒त॒ ।

सूर्य॑स्यऽइव । न । र॒श्मयः॑ ॥

पवमानस्य । विश्वऽवित् । प्र । ते । सर्गाः । असृक्षत ।

सूर्यस्यऽइव । न । रश्मयः ॥

हे “विश्ववित् विश्वस्य द्रष्टः सोम “पवमानस्य क्षरतः "ते तव “सर्गाः सृज्यमाना धाराः “सूर्यस्येव “रश्मयः सूर्यस्य किरणा इव प्रकाशमानाः । “न इति संप्रत्यर्थे । इदानीं “प्र “असृक्षत प्रसृज्यन्ते ॥


के॒तुं कृ॒ण्वंदि॒वस्परि॒ विश्वा॑ रू॒पाभ्य॑र्षसि ।

स॒मु॒द्रः सो॑म पिन्वसे ॥८

के॒तुम् । कृ॒ण्वन् । दि॒वः । परि॑ । विश्वा॑ । रू॒पा । अ॒भि । अ॒र्ष॒सि॒ ।

स॒मु॒द्रः । सो॒म॒ । पि॒न्व॒से॒ ॥

केतुम् । कृण्वन् । दिवः । परि । विश्वा । रूपा । अभि । अर्षसि ।

समुद्रः । सोम । पिन्वसे ॥

हे "सोम "समुद्रः । समुद्द्रवन्ति यस्माद्रसाः स समुद्रः। स त्वं “केतुं प्रज्ञानं “कृण्वन् कुर्वन् अस्माकं “विश्वा विश्वानि “रूपा रूपाणि “दिवः अन्तरिक्षात् “अभ्यर्षसि अभिपवसे । “पिन्वसे नानाविधानि धनानि चास्मभ्यं प्रयच्छसि ॥


हि॒न्वा॒नो वाच॑मिष्यसि॒ पव॑मान॒ विध॑र्मणि ।

अक्रां॑दे॒वो न सूर्यः॑ ॥९

हि॒न्वा॒नः । वाच॑म् । इ॒ष्य॒सि॒ । पव॑मान । विऽध॑र्मणि ।

अक्रा॑न् । दे॒वः । न । सूर्यः॑ ॥

हिन्वानः । वाचम् । इष्यसि । पवमान । विऽधर्मणि ।

अक्रान् । देवः । न । सूर्यः ॥

हे “पवमान सोम “हिन्वानः प्रेर्यमाणस्त्वं “वाचं शब्दम् “इष्यसि प्रेरयसि । कदेत्यत्राह । यदा तव रसः “सूर्यः “देवो “न देव इव “विधर्मणि विधारके पवित्रे “अक्रान् अक्रमीत् तदेत्यर्थः ॥


इंदुः॑ पविष्ट॒ चेत॑नः प्रि॒यः क॑वी॒नां म॒ती ।

सृ॒जदश्वं॑ र॒थीरि॑व ॥१०

इन्दुः॑ । प॒वि॒ष्ट॒ । चेत॑नः । प्रि॒यः । क॒वी॒नाम् । म॒ती ।

सृ॒जत् । अश्व॑म् । र॒थीःऽइ॑व ॥

इन्दुः । पविष्ट । चेतनः । प्रियः । कवीनाम् । मती ।

सृजत् । अश्वम् । रथीःऽइव ॥

“चेतनः प्रज्ञापकः “प्रियः देवानां प्रीतिकरः “इन्दुः सोमः “कवीनां क्रान्तकर्मणां स्तोतॄणां “मती मत्या स्तुत्या “पविष्ट पवते । “अश्वं हयं “रथीरिव रथीव ऊर्मिं “सृजत् सृजति च ॥ ॥ ३७॥


ऊ॒र्मिर्यस्ते॑ प॒वित्र॒ आ दे॑वा॒वीः प॒र्यक्ष॑रत् ।

सीद॑न्नृ॒तस्य॒ योनि॒मा ॥११

ऊ॒र्मिः । यः । ते॒ । प॒वित्रे॑ । आ । दे॒व॒ऽअ॒वीः । प॒रि॒ऽअक्ष॑रत् ।

सीद॑न् । ऋ॒तस्य॑ । योनि॑म् । आ ॥

ऊर्मिः । यः । ते । पवित्रे । आ । देवऽअवीः । परिऽअक्षरत् ।

सीदन् । ऋतस्य । योनिम् । आ ॥

हे सोम “ते तव “यः “देवावीः देवकामः “ऊर्मिः तरङ्गः “ऋतस्य यज्ञस्य “योनिं स्थानम् “आ “सीदन् "पवित्रे “पर्यक्षरत् परिक्षरति तमूर्मिं सृजतीति पूर्वत्र संबन्धः ।।


स नो॑ अर्ष प॒वित्र॒ आ मदो॒ यो दे॑व॒वीत॑मः ।

इंद॒विंद्रा॑य पी॒तये॑ ॥१२

सः । नः॒ । अ॒र्ष॒ । प॒वित्रे॑ । आ । मदः॑ । यः । दे॒व॒ऽवीत॑मः ।

इन्दो॒ इति॑ । इन्द्रा॑य । पी॒तये॑ ॥

सः । नः । अर्ष । पवित्रे । आ । मदः । यः । देवऽवीतमः ।

इन्दो इति । इन्द्राय । पीतये ॥

हे “इन्दो “यः त्वं “देववीतमः अतिशयेन देवकामः "मदः मदकरश्च भवसि “सः त्वं “नः अस्माकं “पवित्रे “इन्द्राय इन्द्रस्य पीतये पानाय “आ “अर्ष आपवस्व ।।


इ॒षे प॑वस्व॒ धार॑या मृ॒ज्यमा॑नो मनी॒षिभिः॑ ।

इंदो॑ रु॒चाभि गा इ॑हि ॥१३

इ॒षे । प॒व॒स्व॒ । धार॑या । मृ॒ज्यमा॑नः । म॒नी॒षिऽभिः॑ ।

इन्दो॒ इति॑ । रु॒चा । अ॒भि । गाः । इ॒हि॒ ॥

इषे । पवस्व । धारया । मृज्यमानः । मनीषिऽभिः ।

इन्दो इति । रुचा । अभि । गाः । इहि ॥

हे “इन्दो सोम “मनीषिभिः ऋत्विग्भिः “मृज्यमानः शोध्यमानस्त्वम् “इषे अस्माकमन्नाय “धारया “पवस्व क्षर । “रुचा रोचमानेनान्धसा “गाः पशून् “अभि “इहि अभिगच्छ॥


पु॒ना॒नो वरि॑वस्कृ॒ध्यूर्जं॒ जना॑य गिर्वणः ।

हरे॑ सृजा॒न आ॒शिरं॑ ॥१४

पु॒ना॒नः । वरि॑वः । कृ॒धि॒ । ऊर्ज॑म् । जना॑य । गि॒र्व॒णः॒ ।

हरे॑ । सृ॒जा॒नः । आ॒ऽशिर॑म् ॥

पुनानः । वरिवः । कृधि । ऊर्जम् । जनाय । गिर्वणः ।

हरे । सृजानः । आऽशिरम् ॥

हे “गिर्वणः गीर्भिर्वननीय “हरे हरितवर्ण सोम “आशिरं क्षीरं प्रति “सृजानः विसृज्यमानः “पुनानः पूयमानस्त्वं “जनाय यजमानार्थं “वरिवः धनम् “ऊर्जम् अन्नं च "कृधि कुरु ॥


पु॒ना॒नो दे॒ववी॑तय॒ इंद्र॑स्य याहि निष्कृ॒तं ।

द्यु॒ता॒नो वा॒जिभि॑र्य॒तः ॥१५

पु॒ना॒नः । दे॒वऽवी॑तये । इन्द्र॑स्य । या॒हि॒ । निः॒ऽकृ॒तम् ।

द्यु॒ता॒नः । वा॒जिऽभिः॑ । य॒तः ॥

पुनानः । देवऽवीतये । इन्द्रस्य । याहि । निःऽकृतम् ।

द्युतानः । वाजिऽभिः । यतः ॥

हे सोम “द्युतानः दीप्यमानः “वाजिभिः बलिभिर्यजमानैः “यतः संगृहीतः “देववीतये यज्ञार्थं “पुनानः पूयमानस्त्वम् “इन्द्रस्य "निष्कृतं स्थानं “याहि गच्छ॥ ॥ ३८ ॥


प्र हि॑न्वा॒नास॒ इंद॒वोऽच्छा॑ समु॒द्रमा॒शवः॑ ।

धि॒या जू॒ता अ॑सृक्षत ॥१६

प्र । हि॒न्वा॒नासः॑ । इन्द॑वः । अच्छ॑ । स॒मु॒द्रम् । आ॒शवः॑ ।

धि॒या । जू॒ताः । अ॒सृ॒क्ष॒त॒ ॥

प्र । हिन्वानासः । इन्दवः । अच्छ । समुद्रम् । आशवः ।

धिया । जूताः । असृक्षत ॥

"आशवः वेगवन्तः “इन्दवः सोमाः “समुद्रम् अन्तरिक्षम् "अच्छ प्रति “हिन्वानासः हिन्वानाः प्रेर्यमाणाः “धिया अङ्गुल्या “जूताः कृष्टाश्च “प्र “असृक्षत सृज्यन्ते ।


म॒र्मृ॒जा॒नास॑ आ॒यवो॒ वृथा॑ समु॒द्रमिंद॑वः ।

अग्म॑न्नृ॒तस्य॒ योनि॒मा ॥१७

म॒र्मृ॒जा॒नासः॑ । आ॒यवः॑ । वृथा॑ । स॒मु॒द्रम् । इन्द॑वः ।

अग्म॑न् । ऋ॒तस्य॑ । योनि॑म् । आ ॥

मर्मृजानासः । आयवः । वृथा । समुद्रम् । इन्दवः ।

अग्मन् । ऋतस्य । योनिम् । आ ॥

“मर्मृजानासः मर्मृज्यमानाः “आयवः गन्तारः “इन्दवः सोमाः “वृथा आयासं विनैव “समुद्रम् अन्तरिक्षं गच्छन्ति । एतदेव दर्शयति । “ऋतस्य उदकस्य “योनिं स्थानम् “अग्मन् गच्छन्तीति ॥


परि॑ णो याह्यस्म॒युर्विश्वा॒ वसू॒न्योज॑सा ।

पा॒हि नः॒ शर्म॑ वी॒रव॑त् ॥१८

परि॑ । नः॒ । या॒हि॒ । अ॒स्म॒ऽयुः । विश्वा॑ । वसू॑नि । ओज॑सा ।

पा॒हि । नः॒ । शर्म॑ । वी॒रऽव॑त् ॥

परि । नः । याहि । अस्मऽयुः । विश्वा । वसूनि । ओजसा ।

पाहि । नः । शर्म । वीरऽवत् ॥

हे सोम “अस्मयुः अस्मत्कामस्त्वं “नः अस्माकं “विश्वा विश्वानि “वसूनि धनानि “ओजसा बलेन सह “परि “याहि रक्षार्थं परिगच्छ । अपि च “नः अस्माकं “वीरवत् पुत्रवत् “शर्म गृहं “पाहि रक्ष ॥


मिमा॑ति॒ वह्नि॒रेत॑शः प॒दं यु॑जा॒न ऋक्व॑भिः ।

प्र यत्स॑मु॒द्र आहि॑तः ॥१९

मिमा॑ति । वह्निः॑ । एत॑शः । प॒दम् । यु॒जा॒नः । ऋक्व॑ऽभिः ।

प्र । यत् । स॒मु॒द्रे । आऽहि॑तः ॥

मिमाति । वह्निः । एतशः । पदम् । युजानः । ऋक्वऽभिः ।

प्र । यत् । समुद्रे । आऽहितः ॥

हे सोम “यत् यदा यः “वह्निः वहनशीलः “एतशः अश्वः “मिमाति शब्दं करोति “ऋक्वभिः ऋत्विग्भिः स्तोतृभिः “पदं यज्ञे "युजानः निदधत् स्तोत्रश्रवणार्थमागच्छति च तदा स यज्ञवाहकाश्वात्मा त्वं “समुद्रे उदके वसतीवरीषु “प्र “आहितः भवसि ।।


आ यद्योनिं॑ हिर॒ण्यय॑मा॒शुर्ऋ॒तस्य॒ सीद॑ति ।

जहा॒त्यप्र॑चेतसः ॥२०

आ । यत् । योनि॑म् । हि॒र॒ण्यय॑म् । आ॒शुः । ऋ॒तस्य॑ । सीद॑ति ।

जहा॑ति । अप्र॑ऽचेतसः ॥

आ । यत् । योनिम् । हिरण्ययम् । आशुः । ऋतस्य । सीदति ।

जहाति । अप्रऽचेतसः ॥

“यत् यदा “आशुः वेगवान् सोमः “ऋतस्य यज्ञस्य “हिरण्ययं हिरण्मयं “योनिं स्थानम् । ‘ हिरण्यपाणिरभिषुणोति' इत्युक्तम्। “आ “सीदति तदानीम् “अप्रचेतसः “जहाति विसृजति । अस्तोतॄणां यज्ञं नाभिगच्छति किंतु स्तोतॄणामेव यज्ञमभिगच्छतीत्यर्थः ॥ ॥ ३९ ॥


अ॒भि वे॒ना अ॑नूष॒तेय॑क्षंति॒ प्रचे॑तसः ।

मज्जं॒त्यवि॑चेतसः ॥२१

अ॒भि । वे॒नाः । अ॒नू॒ष॒त॒ । इय॑क्षन्ति । प्रऽचे॑तसः ।

मज्ज॑न्ति । अवि॑ऽचेतसः ॥

अभि । वेनाः । अनूषत । इयक्षन्ति । प्रऽचेतसः ।

मज्जन्ति । अविऽचेतसः ॥

“वेनाः कान्ताः स्तोतारः “अभि "अनूषत सोममभिष्टुवन्ति । “प्रचेतसः सुमतयः “इयक्षन्ति यष्टुमिच्छन्ति च । “अविचेतसः । विशिष्टमतयो विचेतसः । अविचेतसो विपरीतमतय इत्यर्थः । “मज्जन्ति निमज्जन्ति । ये सोमं नाभिष्टुवन्ति न यजन्ति च ते नरके पतन्तीत्यर्थः ।।


इंद्रा॑येंदो म॒रुत्व॑ते॒ पव॑स्व॒ मधु॑मत्तमः ।

ऋ॒तस्य॒ योनि॑मा॒सदं॑ ॥२२

इन्द्रा॑य । इ॒न्दो॒ इति॑ । म॒रुत्व॑ते । पव॑स्व । मधु॑मत्ऽतमः ।

ऋ॒तस्य॑ । योनि॑म् । आ॒ऽसद॑म् ॥

इन्द्राय । इन्दो इति । मरुत्वते । पवस्व । मधुमत्ऽतमः ।

ऋतस्य । योनिम् । आऽसदम् ॥

हे "इन्दो सोम “मधुमत्तमः अतिशयेन मधुमांस्त्वम् "ऋतस्य यज्ञस्य “योनिं स्थानम् “आसदम् उपवेष्टुं "मरुत्वते “इन्द्राय इन्द्रार्थं “पवस्व क्षर ॥


तं त्वा॒ विप्रा॑ वचो॒विदः॒ परि॑ ष्कृण्वंति वे॒धसः॑ ।

सं त्वा॑ मृजंत्या॒यवः॑ ॥२३

तम् । त्वा॒ । विप्राः॑ । व॒चः॒ऽविदः॑ । परि॑ । कृ॒ण्व॒न्ति॒ । वे॒धसः॑ ।

सम् । त्वा॒ । मृ॒ज॒न्ति॒ । आ॒यवः॑ ॥

तम् । त्वा । विप्राः । वचःऽविदः । परि । कृण्वन्ति । वेधसः ।

सम् । त्वा । मृजन्ति । आयवः ॥

हे सोम “तं पवमानं “त्वा त्वां “विप्राः प्राज्ञाः “वेधसः कर्मणां कर्तारः “वचोविदः स्तोतारः “परिष्कृण्वन्ति अलंकुर्वन्ति । अपि च “त्वा त्वाम् “आयवः मनुष्याः “सं “मृजन्ति सम्यक् शोधयन्ति ।


रसं॑ ते मि॒त्रो अ॑र्य॒मा पिबं॑ति॒ वरु॑णः कवे ।

पव॑मानस्य म॒रुतः॑ ॥२४

रस॑म् । ते॒ । मि॒त्रः । अ॒र्य॒मा । पिब॑न्ति । वरु॑णः । क॒वे॒ ।

पव॑मानस्य । म॒रुतः॑ ॥

रसम् । ते । मित्रः । अर्यमा । पिबन्ति । वरुणः । कवे ।

पवमानस्य । मरुतः ॥

हे “कवे क्रान्तकर्मन् सोम “पवमानस्य क्षरतः “ते तव “रसं “मित्रः “अर्यमा च "वरुणः च “मरुतः च एते सर्वे देवाः पिबन्ति ॥


त्वं सो॑म विप॒श्चितं॑ पुना॒नो वाच॑मिष्यसि ।

इंदो॑ स॒हस्र॑भर्णसं ॥२५

त्वम् । सो॒म॒ । वि॒पः॒ऽचित॑म् । पु॒ना॒नः । वाच॑म् । इ॒ष्य॒सि॒ ।

इन्दो॒ इति॑ । स॒हस्र॑ऽभर्णसम् ॥

त्वम् । सोम । विपःऽचितम् । पुनानः । वाचम् । इष्यसि ।

इन्दो इति । सहस्रऽभर्णसम् ॥

हे “इन्दो दीप्त “सोम “पुनानः पूयमानः “त्वं “विपश्चितं प्रज्ञया पवित्रां “सहस्रभर्णसं बहुभरणां “वाचम् “इष्यसि प्रेरयसि ॥ ॥ ४० ॥


उ॒तो स॒हस्र॑भर्णसं॒ वाचं॑ सोम मख॒स्युवं॑ ।

पु॒ना॒न इं॑द॒वा भ॑र ॥२६

उ॒तो इति॑ । स॒हस्र॑ऽभर्णसम् । वाच॑म् । सो॒म॒ । म॒ख॒स्युव॑म् ।

पु॒ना॒नः । इ॒न्दो॒ इति॑ । आ । भ॒र॒ ॥

उतो इति । सहस्रऽभर्णसम् । वाचम् । सोम । मखस्युवम् ।

पुनानः । इन्दो इति । आ । भर ॥

"उतो अपि च हे "इन्दो दीप्त “सोम “पुनानः पूयमानस्त्वं “सहस्रभर्णसं सहस्रभरणां “मखस्युवं धनकामां “वाचम् अस्मभ्यम् “आ “भर आहर ॥


पु॒ना॒न इं॑दवेषां॒ पुरु॑हूत॒ जना॑नां ।

प्रि॒यः स॑मु॒द्रमा वि॑श ॥२७

पु॒ना॒नः । इ॒न्दो॒ इति॑ । ए॒षा॒म् । पुरु॑ऽहूत । जना॑नाम् ।

प्रि॒यः । स॒मु॒द्रम् । आ । वि॒श॒ ॥

पुनानः । इन्दो इति । एषाम् । पुरुऽहूत । जनानाम् ।

प्रियः । समुद्रम् । आ । विश ॥

हे "पुरुहूत बहुभिराहूत “इन्दो सोम "पुनानः पूयमानस्त्वम् “एषाम् अस्मिन् यागे स्तोत्रं कुर्वतां “जनानां “प्रियः सन् "समुद्रं द्रोणकलशम् “आ “विश प्रविश ॥


दवि॑द्युतत्या रु॒चा प॑रि॒ष्टोभं॑त्या कृ॒पा ।

सोमाः॑ शु॒क्रा गवा॑शिरः ॥२८

दवि॑द्युतत्या । रु॒चा । प॒रि॒ऽस्तोभ॑न्त्या । कृ॒पा ।

सोमाः॑ । शु॒क्राः । गोऽआ॑शिरः ॥

दविद्युतत्या । रुचा । परिऽस्तोभन्त्या । कृपा ।

सोमाः । शुक्राः । गोऽआशिरः ॥

“शुक्राः उज्ज्वलाः "दविद्युतत्या द्योतमानया “रुचा दीप्त्या “परिष्टोभन्त्या परितः शब्दायमानया “कृपा धारया च युक्ताः “सोमाः “गवाशिरः भवन्ति । गव्येन पयसा मिश्रिता भवन्तीत्यर्थः॥


हि॒न्वा॒नो हे॒तृभि॑र्य॒त आ वाजं॑ वा॒ज्य॑क्रमीत् ।

सीदं॑तो व॒नुषो॑ यथा ॥२९

हि॒न्वा॒नः । हे॒तृऽभिः॑ । य॒तः । आ । वाज॑म् । वा॒जी । अ॒क्र॒मी॒त् ।

सीद॑न्तः । व॒नुषः॑ । य॒था॒ ॥

हिन्वानः । हेतृऽभिः । यतः । आ । वाजम् । वाजी । अक्रमीत् ।

सीदन्तः । वनुषः । यथा ॥

“वाजी बलवान् सोमः "हेतृभिः प्रेरकैः स्तोतृभिः “हिन्वानः स्तोत्रैः प्रेर्यमाणः “यतः संयतः सन् “वाजं यागाख्यं युद्धम् “आ “अक्रमीत् आक्रामति । तत्र दृष्टान्तः । “यथा “वनुषः हन्तारो भटाः “सीदन्तः युद्धं प्रविशन्तः आक्रामन्ति तद्वदित्यर्थः ॥


ऋ॒धक्सो॑म स्व॒स्तये॑ संजग्मा॒नो दि॒वः क॒विः ।

पव॑स्व॒ सूर्यो॑ दृ॒शे ॥३०

ऋ॒धक् । सो॒म॒ । स्व॒स्तये॑ । स॒म्ऽज॒ग्मा॒नः । दि॒वः । क॒विः ।

पव॑स्व । सूर्यः॑ । दृ॒शे ॥

ऋधक् । सोम । स्वस्तये । सम्ऽजग्मानः । दिवः । कविः ।

पवस्व । सूर्यः । दृशे ॥

हे “सोम “कविः क्रान्तः “सूर्यः सुवीर्यस्त्वम् “ऋधक् ऋध्नुवन् । तथा च यास्कः-‘ऋधगिति पृथग्भावस्यानुप्रवचनं भवत्यथाप्यृध्नोत्यर्थे दृश्यते' (निरु. ४. २५ ) इति । “संजग्मानः संगच्छमानः “स्वस्तये "दृशे दर्शनाय च “दिवः “पवस्व क्षर ॥ ॥ ४१ ॥


वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन् ।

पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ॥

इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरबुक्कभूपालसाम्राज्यधुरंधरेण सायणाचार्येण विरचिते माधवीये वेदार्थप्रकाश ऋक्संहिताभाष्ये सप्तमाष्टके प्रथमोऽध्यायः ॥


मण्डल ९

सूक्तं ९.१

सूक्तं ९.२

सूक्तं ९.३

सूक्तं ९.४

सूक्तं ९.५

सूक्तं ९.६

सूक्तं ९.७

सूक्तं ९.८

सूक्तं ९.९

सूक्तं ९.१०

सूक्तं ९.११

सूक्तं ९.१२

सूक्तं ९.१३

सूक्तं ९.१४

सूक्तं ९.१५

सूक्तं ९.१६

सूक्तं ९.१७

सूक्तं ९.१८

सूक्तं ९.१९

सूक्तं ९.२०

सूक्तं ९.२१

सूक्तं ९.२२

सूक्तं ९.२३

सूक्तं ९.२४

सूक्तं ९.२५

सूक्तं ९.२६

सूक्तं ९.२७

सूक्तं ९.२८

सूक्तं ९.२९

सूक्तं ९.३०

सूक्तं ९.३१

सूक्तं ९.३२

सूक्तं ९.३३

सूक्तं ९.३४

सूक्तं ९.३५

सूक्तं ९.३६

सूक्तं ९.३७

सूक्तं ९.३८

सूक्तं ९.३९

सूक्तं ९.४०

सूक्तं ९.४१

सूक्तं ९.४२

सूक्तं ९.४३

सूक्तं ९.४४

सूक्तं ९.४५

सूक्तं ९.४६

सूक्तं ९.४७

सूक्तं ९.४८

सूक्तं ९.४९

सूक्तं ९.५०

सूक्तं ९.५१

सूक्तं ९.५२

सूक्तं ९.५३

सूक्तं ९.५४

सूक्तं ९.५५

सूक्तं ९.५६

सूक्तं ९.५७

सूक्तं ९.५८

सूक्तं ९.५९

सूक्तं ९.६०

सूक्तं ९.६१

सूक्तं ९.६२

सूक्तं ९.६३

सूक्तं ९.६४

सूक्तं ९.६५

सूक्तं ९.६६

सूक्तं ९.६७

सूक्तं ९.६८

सूक्तं ९.६९

सूक्तं ९.७०

सूक्तं ९.७१

सूक्तं ९.७२

सूक्तं ९.७३

सूक्तं ९.७४

सूक्तं ९.७५

सूक्तं ९.७६

सूक्तं ९.७७

सूक्तं ९.७८

सूक्तं ९.७९

सूक्तं ९.८०

सूक्तं ९.८१

सूक्तं ९.८२

सूक्तं ९.८३

सूक्तं ९.८४

सूक्तं ९.८५

सूक्तं ९.८६

सूक्तं ९.८७

सूक्तं ९.८८

सूक्तं ९.८९

सूक्तं ९.९०

सूक्तं ९.९१

सूक्तं ९.९२

सूक्तं ९.९३

सूक्तं ९.९४

सूक्तं ९.९५

सूक्तं ९.९६

सूक्तं ९.९७

सूक्तं ९.९८

सूक्तं ९.९९

सूक्तं ९.१००

सूक्तं ९.१०१

सूक्तं ९.१०२

सूक्तं ९.१०३

सूक्तं ९.१०४

सूक्तं ९.१०५

सूक्तं ९.१०६

सूक्तं ९.१०७

सूक्तं ९.१०८

सूक्तं ९.१०९

सूक्तं ९.११०

सूक्तं ९.१११

सूक्तं ९.११२

सूक्तं ९.११३

सूक्तं ९.११४

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_९.६४&oldid=182187" इत्यस्माद् पुनः प्राप्तिः