सामवेदः/कौथुमीया/संहिता/ऊहगानम्/संवत्सरपर्व/विंशः ४/आश्वसूक्तम्(इन्द्रा)

विकिस्रोतः तः
आश्वसूक्तम्(इन्द्रायेन्दो).
आश्वसूक्तम् (इन्द्रायेन्दो)

इन्द्रायेन्दो मरुत्वते पवस्व मधुमत्तमः ।
अर्कस्य योनिमासदं ।। १०७६ ।। ऋ. ९.६४.२२
तं त्वा विप्रा वचोविदः परिष्कृण्वन्ति धर्णसिं ।
सं त्वा मृजन्त्यायवः ।। १०७७ ।।
रसं ते मित्रो अर्यमा पिबन्तु वरुणः कवे ।
पवमानस्य मरुतः ।। १०७८ ।।

४. १आश्वसूक्तम् ॥ आश्वसूक्तिः। गायत्री। पवमानस्सोमः॥

आऔहोवाहाइ । इन्द्रायेन्दाउ ॥ मरू । त्वते। ऐहीयैहीऽ१ पावस्वमधुमात्तमः। ऐहीयैहीऽ१ ॥ आऽ२इ । आर्काऽ२स्यायोऽ२ । निमा । साऽ२दाऽ२३४औहोवा ॥श्रीः॥ आऔहोवाहाइ । तन्त्वाविप्राः । वचो । विदः । ऐहीयैहीऽ१ । पारिष्कृण्वन्तिधार्णसिम् । ऐहीयैहीऽ१ । आऽ२इ । सान्त्वाऽ२मार्जाऽ२ ॥ तिआ। याऽ२वाऽ२३४औहोवा ॥श्रीः। आऔहोवाहाइ । रसन्तेमाइ ॥ त्रोआ । र्यमा। ऐहीयैहीऽ१ । पाइबन्तुवरुणा- कवे। ऐहीयैहीऽ१ ॥ आऽ२इ । पावाऽ२मानाऽ२ ॥ स्यम । रूऽताऽ२३४औहोवा ॥ शुक्रआहुताऽ२३४५:॥

दी. ३८. उत् . ७. मा. २३. ठि. ॥२८७॥

१एकोनचत्वारिंशोत्तरशततमसूक्ते गीयते ।


[सम्पाद्यताम्]

टिप्पणी