ऋग्वेदः सूक्तं ९.८५

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं ९.८४ ऋग्वेदः - मण्डल ९
सूक्तं ९.८५
वेनो भार्गवः।
सूक्तं ९.८६ →
दे. पवमानः सोमः। जगती, ११-१२ त्रिष्टुप् ।


इन्द्राय सोम सुषुतः परि स्रवापामीवा भवतु रक्षसा सह ।
मा ते रसस्य मत्सत द्वयाविनो द्रविणस्वन्त इह सन्त्विन्दवः ॥१॥
अस्मान्समर्ये पवमान चोदय दक्षो देवानामसि हि प्रियो मदः ।
जहि शत्रूँरभ्या भन्दनायतः पिबेन्द्र सोममव नो मृधो जहि ॥२॥
अदब्ध इन्दो पवसे मदिन्तम आत्मेन्द्रस्य भवसि धासिरुत्तमः ।
अभि स्वरन्ति बहवो मनीषिणो राजानमस्य भुवनस्य निंसते ॥३॥
सहस्रणीथः शतधारो अद्भुत इन्द्रायेन्दुः पवते काम्यं मधु ।
जयन्क्षेत्रमभ्यर्षा जयन्नप उरुं नो गातुं कृणु सोम मीढ्वः ॥४॥
कनिक्रदत्कलशे गोभिरज्यसे व्यव्ययं समया वारमर्षसि ।
मर्मृज्यमानो अत्यो न सानसिरिन्द्रस्य सोम जठरे समक्षरः ॥५॥
स्वादुः पवस्व दिव्याय जन्मने स्वादुरिन्द्राय सुहवीतुनाम्ने ।
स्वादुर्मित्राय वरुणाय वायवे बृहस्पतये मधुमाँ अदाभ्यः ॥६॥
अत्यं मृजन्ति कलशे दश क्षिपः प्र विप्राणां मतयो वाच ईरते ।
पवमाना अभ्यर्षन्ति सुष्टुतिमेन्द्रं विशन्ति मदिरास इन्दवः ॥७॥
पवमानो अभ्यर्षा सुवीर्यमुर्वीं गव्यूतिं महि शर्म सप्रथः ।
माकिर्नो अस्य परिषूतिरीशतेन्दो जयेम त्वया धनंधनम् ॥८॥
अधि द्यामस्थाद्वृषभो विचक्षणोऽरूरुचद्वि दिवो रोचना कविः ।
राजा पवित्रमत्येति रोरुवद्दिवः पीयूषं दुहते नृचक्षसः ॥९॥
दिवो नाके मधुजिह्वा असश्चतो वेना दुहन्त्युक्षणं गिरिष्ठाम् ।
अप्सु द्रप्सं वावृधानं समुद्र आ सिन्धोरूर्मा मधुमन्तं पवित्र आ ॥१०॥
नाके सुपर्णमुपपप्तिवांसं गिरो वेनानामकृपन्त पूर्वीः ।
शिशुं रिहन्ति मतयः पनिप्नतं हिरण्ययं शकुनं क्षामणि स्थाम् ॥११॥
ऊर्ध्वो गन्धर्वो अधि नाके अस्थाद्विश्वा रूपा प्रतिचक्षाणो अस्य ।
भानुः शुक्रेण शोचिषा व्यद्यौत्प्रारूरुचद्रोदसी मातरा शुचिः ॥१२॥


सायणभाष्यम्

‘ इन्द्राय' इति द्वादशर्चमष्टादशं सूक्तं भृगुगोत्रस्य वेनस्यार्षं पवमानसोमदेवताकम् । एकादशीद्वादश्यौ त्रिष्टुभौ शिष्टा जगत्यः । तथा चानुक्रान्तम्-' इन्द्राय द्वादश वेनो भार्गवो द्वित्रिष्टुबन्तम्' इति । गतो विनियोगः ॥


इंद्रा॑य सोम॒ सुषु॑तः॒ परि॑ स्र॒वापामी॑वा भवतु॒ रक्ष॑सा स॒ह ।

मा ते॒ रस॑स्य मत्सत द्वया॒विनो॒ द्रवि॑णस्वंत इ॒ह सं॒त्विंद॑वः ॥१

इन्द्रा॑य । सो॒म॒ । सुऽसु॑तः । परि॑ । स्र॒व॒ । अप॑ । अमी॑वा । भ॒व॒तु॒ । रक्ष॑सा । स॒ह ।

मा । ते॒ । रस॑स्य । म॒त्स॒त॒ । द्व॒या॒विनः॑ । द्रवि॑णस्वन्तः । इ॒ह । स॒न्तु॒ । इन्द॑वः ॥

इन्द्राय । सोम । सुऽसुतः । परि । स्रव । अप । अमीवा । भवतु । रक्षसा । सह ।

मा । ते । रसस्य । मत्सत । द्वयाविनः । द्रविणस्वन्तः । इह । सन्तु । इन्दवः ॥

हे "सोम त्वं "सुषुतः सुष्ठु अभिषुतः सन् इन्द्रार्थं "परि “स्रव परितः स्रव । गच्छ । रसं मुञ्च । "अमीवा रोगः "रक्षसा “सह “अप "भवतु अपगतो वियुक्तो भवतु । "ते तव "रसस्य स्वांशं रसं पीत्वा "मा "मत्सत मा माद्यन्तु । के। “द्वयाविनः । द्वयं सत्यानृतम् । तेन युक्ताः । पापिन इत्यर्थः । किंच “इन्दवः ते रसाः "इह अस्मिन् यज्ञे "द्रविणस्वन्तः धनवन्तः सन्तु भवन्तु ॥


अ॒स्मान्स॑म॒र्ये प॑वमान चोदय॒ दक्षो॑ दे॒वाना॒मसि॒ हि प्रि॒यो मदः॑ ।

ज॒हि शत्रूँ॑र॒भ्या भं॑दनाय॒तः पिबें॑द्र॒ सोम॒मव॑ नो॒ मृधो॑ जहि ॥२

अ॒स्मान् । स॒ऽम॒र्ये । प॒व॒मा॒न॒ । चो॒द॒य॒ । दक्षः॑ । दे॒वाना॑म् । असि॑ । हि । प्रि॒यः । मदः॑ ।

ज॒हि । शत्रू॑न् । अ॒भि । आ । भ॒न्द॒ना॒ऽय॒तः । पिब॑ । इ॒न्द्र॒ । सोम॑म् । अव॑ । नः॒ । मृधः॑ । ज॒हि॒ ॥

अस्मान् । सऽमर्ये । पवमान । चोदय । दक्षः । देवानाम् । असि । हि । प्रियः । मदः ।

जहि । शत्रून् । अभि । आ । भन्दनाऽयतः । पिब । इन्द्र । सोमम् । अव । नः । मृधः । जहि ॥

हे "पवमान सोम “अस्मान् समर्ये संग्रामे “चोदय प्रेरय। "दक्षः “हि “असि समर्थः खलु भवसि “देवानां मध्ये । यद्वा । देवानां प्रीणनाय दक्षोऽसि । यद्वा । दक्षस्त्वं देवानां "प्रियः प्रियकरो "मदः मादयितासि हि । "जहि च “शत्रून् अस्माकम् । “अभ्या गच्छ चास्मान् प्रति “भन्दनायतः । भन्दनाः स्तुतयः । भन्दतेः स्तुतिकर्मणः । ता इच्छतः । "पिब च “इन्द्र "सोमम् “अव "जहि च "नः अस्माकं "मृधः संग्रामात् ॥


अद॑ब्ध इंदो पवसे म॒दिंत॑म आ॒त्मेंद्र॑स्य भवसि धा॒सिरु॑त्त॒मः ।

अ॒भि स्व॑रंति ब॒हवो॑ मनी॒षिणो॒ राजा॑नम॒स्य भुव॑नस्य निंसते ॥३

अद॑ब्धः । इ॒न्दो॒ इति॑ । प॒व॒से॒ । म॒दिन्ऽत॑मः । आ॒त्मा । इन्द्र॑स्य । भ॒व॒सि॒ । धा॒सिः । उ॒त्ऽत॒मः ।

अ॒भि । स्व॒र॒न्ति॒ । ब॒हवः॑ । म॒नी॒षिणः॑ । राजा॑नम् । अ॒स्य । भुव॑नस्य । निं॒स॒ते॒ ॥

अदब्धः । इन्दो इति । पवसे । मदिन्ऽतमः । आत्मा । इन्द्रस्य । भवसि । धासिः । उत्ऽतमः ।

अभि । स्वरन्ति । बहवः । मनीषिणः । राजानम् । अस्य । भुवनस्य । निंसते ॥

हे “इन्दो क्लिद्यमान सोम “अदब्धः अहिंसितः “मदिन्तमः मादयितृतमस्त्वं “पवसे पूयसे । “आत्मा स्वयमेव “उत्तमः त्वम् "इन्द्रस्य “धासिः अन्नं "भवसि । "अस्य “भुवनस्य "राजानं सोमं "बहवो "मनीषिणः स्तोतारः "अभि स्वरन्ति अभिष्टुवन्ति । “निंसते गच्छन्ति च ॥


स॒हस्र॑णीथः श॒तधा॑रो॒ अद्भु॑त॒ इंद्रा॒येंदुः॑ पवते॒ काम्यं॒ मधु॑ ।

जय॒न्क्षेत्र॑म॒भ्य॑र्षा॒ जय॑न्न॒प उ॒रुं नो॑ गा॒तुं कृ॑णु सोम मीढ्वः ॥४

स॒हस्र॑ऽनीथः । श॒तऽधा॑रः । अद्भु॑तः । इन्द्रा॑य । इन्दुः॑ । प॒व॒ते॒ । काम्य॑म् । मधु॑ ।

जय॑न् । क्षेत्र॑म् । अ॒भि । अ॒र्ष॒ । जय॑न् । अ॒पः । उ॒रुम् । नः॒ । गा॒तुम् । कृ॒णु॒ । सो॒म॒ । मी॒ढ्वः॒ ॥

सहस्रऽनीथः । शतऽधारः । अद्भुतः । इन्द्राय । इन्दुः । पवते । काम्यम् । मधु ।

जयन् । क्षेत्रम् । अभि । अर्ष । जयन् । अपः । उरुम् । नः । गातुम् । कृणु । सोम । मीढ्वः ॥

“सहस्रनीथः बहुप्रकारनयनः "शतधारः अपरिमितधारोपेतः “अद्भुतः आश्चर्यकरो महान् “इन्दुः "इन्द्राय "काम्यं "मधु “पवते । किंच "क्षेत्रम् अस्मभ्यम् "अपः च "जयन् “अभ्यर्ष अभिगच्छ पवित्रम् । हे "सोम “मीढ्वः सेक्तः “गातुं मार्गं “नः अस्माकम् "उरुं विस्तीर्णं "कृणु कुरु ॥


कनि॑क्रदत्क॒लशे॒ गोभि॑रज्यसे॒ व्य१॒॑व्ययं॑ स॒मया॒ वार॑मर्षसि ।

म॒र्मृ॒ज्यमा॑नो॒ अत्यो॒ न सा॑न॒सिरिंद्र॑स्य सोम ज॒ठरे॒ सम॑क्षरः ॥५

कनि॑क्रदत् । क॒लशे॑ । गोभिः॑ । अ॒ज्य॒से॒ । वि । अ॒व्यय॑म् । स॒मया॑ । वार॑म् । अ॒र्ष॒सि॒ ।

म॒र्मृ॒ज्यमा॑नः । अत्यः॑ । न । सा॒न॒सिः । इन्द्र॑स्य । सो॒म॒ । ज॒ठरे॑ । सम् । अ॒क्ष॒रः॒ ॥

कनिक्रदत् । कलशे । गोभिः । अज्यसे । वि । अव्ययम् । समया । वारम् । अर्षसि ।

मर्मृज्यमानः । अत्यः । न । सानसिः । इन्द्रस्य । सोम । जठरे । सम् । अक्षरः ॥

हे सोम “कनिक्रदत् शब्दं कुर्वन् "कलशे वर्तमानः "गोभिः पयोभिः "अज्यसे सिक्तो भवसि । “अव्ययम् अविमयं "वारं वालं दशापवित्रं "समया तत्समीपे “वि “अर्षसि विविधं गच्छसि । "मर्मृज्यमानः शोध्यमानः "अत्यो “न अश्व इव “सानसिः संभजनशीलस्त्वं हे "सोम “इन्द्रस्य "जठरे “समक्षरः सम्यक् क्षरसि ॥


स्वा॒दुः प॑वस्व दि॒व्याय॒ जन्म॑ने स्वा॒दुरिंद्रा॑य सु॒हवी॑तुनाम्ने ।

स्वा॒दुर्मि॒त्राय॒ वरु॑णाय वा॒यवे॒ बृह॒स्पत॑ये॒ मधु॑माँ॒ अदा॑भ्यः ॥६

स्वा॒दुः । प॒व॒स्व॒ । दि॒व्याय॑ । जन्म॑ने । स्वा॒दुः । इन्द्रा॑य । सु॒हवी॑तुऽनाम्ने ।

स्वा॒दुः । मि॒त्राय॑ । वरु॑णाय । वा॒यवे॑ । बृह॒स्पत॑ये । मधु॑ऽमान् । अदा॑भ्यः ॥

स्वादुः । पवस्व । दिव्याय । जन्मने । स्वादुः । इन्द्राय । सुहवीतुऽनाम्ने ।

स्वादुः । मित्राय । वरुणाय । वायवे । बृहस्पतये । मधुऽमान् । अदाभ्यः ॥

हे सोम "स्वादुः त्वं "दिव्याय "जन्मने देवगणाय "पवस्व । तथा "सुहवीतुनाम्ने शोभनाह्वाननामधेयाय “इन्द्राय “स्वादुः त्वं पवस्व । "मित्राय “वरुणाय “वायवे “बृहस्पतये च पवस्व “मधुमान् मधुररसः "अदाभ्यः अन्यैरहिंस्यस्त्वम् ॥ ॥ १० ॥


अत्यं॑ मृजंति क॒लशे॒ दश॒ क्षिपः॒ प्र विप्रा॑णां म॒तयो॒ वाच॑ ईरते ।

पव॑माना अ॒भ्य॑र्षंति सुष्टु॒तिमेंद्रं॑ विशंति मदि॒रास॒ इंद॑वः ॥७

अत्य॑म् । मृ॒ज॒न्ति॒ । क॒लशे॑ । दश॑ । क्षिपः॑ । प्र । विप्रा॑णाम् । म॒तयः॑ । वाचः॑ । ई॒र॒ते॒ ।

पव॑मानाः । अ॒भि । अ॒र्ष॒न्ति॒ । सु॒ऽस्तु॒तिम् । आ । इन्द्र॑म् । वि॒श॒न्ति॒ । म॒दि॒रासः॑ । इन्द॑वः ॥

अत्यम् । मृजन्ति । कलशे । दश । क्षिपः । प्र । विप्राणाम् । मतयः । वाचः । ईरते ।

पवमानाः । अभि । अर्षन्ति । सुऽस्तुतिम् । आ । इन्द्रम् । विशन्ति । मदिरासः । इन्दवः ॥

“अत्यम् अतनवन्तमश्वस्थानीयं वा सोमं "कलशे "दश “क्षिपः दशाङ्गुलयोऽध्वर्युसंबन्धिन्यः "मृजन्ति शोधयन्ति । तथा “विप्राणां मध्ये "मतयः स्तोतारः “वाचः स्तुतीः “ईरते प्रेरयन्ति । “पवमानाः सोमाः “अभ्यर्षन्ति अभिगच्छन्ति "सुष्टुतिं शोभनस्तुतिम् । "इन्द्रं "मदिरासः मदकराः "इन्दवः सोमाः “आ “विशन्ति प्रविशन्ति ॥


पव॑मानो अ॒भ्य॑र्षा सु॒वीर्य॑मु॒र्वीं गव्यू॑तिं॒ महि॒ शर्म॑ स॒प्रथः॑ ।

माकि॑र्नो अ॒स्य परि॑षूतिरीश॒तेंदो॒ जये॑म॒ त्वया॒ धनं॑धनं ॥८

पव॑मानः । अ॒भि । अ॒र्ष॒ । सु॒ऽवीर्य॑म् । उ॒र्वीम् । गव्यू॑तिम् । महि॑ । शर्म॑ । स॒ऽप्रथः॑ ।

माकिः॑ । नः॒ । अ॒स्य । परि॑ऽसूतिः । ई॒श॒त॒ । इन्दो॒ इति॑ । जये॑म । त्वया॑ । धन॑म्ऽधनम् ॥

पवमानः । अभि । अर्ष । सुऽवीर्यम् । उर्वीम् । गव्यूतिम् । महि । शर्म । सऽप्रथः ।

माकिः । नः । अस्य । परिऽसूतिः । ईशत । इन्दो इति । जयेम । त्वया । धनम्ऽधनम् ॥

हे सोम "पवमानः पूयमानस्त्वं “सुवीर्यमुर्वीं महतीं "गव्यूतिं गोमार्गं च "महि महत् “सप्रथः सर्वतः पृथु “शर्म गृहं सुखं वा “अभ्यर्ष अभिगमय । "नः अस्माकम् "अस्य कर्मणः “परिषूतिः हिंसायाः परिप्रेरको द्वेषी "माकिः "ईशत मेश्वरो भवतु । हे “इन्दो सोम “त्वया साधनेन “धनंधनं सर्वमपि धनं "जयेम ॥


अधि॒ द्याम॑स्थाद्वृष॒भो वि॑चक्ष॒णोऽरू॑रुच॒द्वि दि॒वो रो॑च॒ना क॒विः ।

राजा॑ प॒वित्र॒मत्ये॑ति॒ रोरु॑वद्दि॒वः पी॒यूषं॑ दुहते नृ॒चक्ष॑सः ॥९

अधि॑ । द्याम् । अ॒स्था॒त् । वृ॒ष॒भः । वि॒ऽच॒क्ष॒णः । अरू॑रुचत् । वि । दि॒वः । रो॒च॒ना । क॒विः ।

राजा॑ । प॒वित्र॑म् । अति॑ । ए॒ति॒ । रोरु॑वत् । दि॒वः । पी॒यूष॑म् । दु॒ह॒ते॒ । नृ॒ऽचक्ष॑सः ॥

अधि । द्याम् । अस्थात् । वृषभः । विऽचक्षणः । अरूरुचत् । वि । दिवः । रोचना । कविः ।

राजा । पवित्रम् । अति । एति । रोरुवत् । दिवः । पीयूषम् । दुहते । नृऽचक्षसः ॥

“अधि “अस्थात् "द्यां द्युलोकं “वृषभः वर्षिता “विचक्षणः विद्रष्टा अयं सोमः । तथा कृत्वा “दिवः द्युलोकसंबन्धीनि “रोचना रोचमानानि नक्षत्रादीनि “वि “अरूरुचत् विविधं रोचयति । “कविः क्रान्तप्रज्ञः सन् "राजा सोमः “पवित्रं दशापवित्रम् "अत्येति अतिक्रम्य गच्छति । "रोरुवत् शब्दं कुर्वन् । "दिवः द्युलोकस्य "पीयूषं सारं रसं "नृचक्षसः नृणां द्रष्टारः सोमाः "दुहते स्रवन्ति । स्वकीयं रसमान्तरिक्ष्यमुदकं वा दुहन्तीत्यर्थः ॥


दि॒वो नाके॒ मधु॑जिह्वा अस॒श्चतो॑ वे॒ना दु॑हंत्यु॒क्षणं॑ गिरि॒ष्ठां ।

अ॒प्सु द्र॒प्सं वा॑वृधा॒नं स॑मु॒द्र आ सिंधो॑रू॒र्मा मधु॑मंतं प॒वित्र॒ आ ॥१०

दि॒वः । नाके॑ । मधु॑ऽजिह्वाः । अ॒स॒श्चतः॑ । वे॒नाः । दु॒ह॒न्ति॒ । उ॒क्षण॑म् । गि॒रि॒ऽस्थाम् ।

अ॒प्ऽसु । द्र॒प्सम् । व॒वृ॒धा॒नम् । स॒मु॒द्रे । आ । सिन्धोः॑ । ऊ॒र्मा । मधु॑ऽमन्तम् । प॒वित्रे॑ । आ ॥

दिवः । नाके । मधुऽजिह्वाः । असश्चतः । वेनाः । दुहन्ति । उक्षणम् । गिरिऽस्थाम् ।

अप्ऽसु । द्रप्सम् । ववृधानम् । समुद्रे । आ । सिन्धोः । ऊर्मा । मधुऽमन्तम् । पवित्रे । आ ॥

"दिवः द्योतमानस्य यज्ञस्य संबन्धिनि "नाके दुःखरहिते हविर्धानाख्ये स्थाने "मधुजिह्वाः मधुरवाचः “असश्चतः असंसक्ता । पृथक्पृथगित्यर्थः । यद्वा चिरमकृत्वा शीघ्रमभिषुण्वन्तः "वेनाः एतन्नामका महर्षयः “दुहन्ति अभिषुण्वन्ति । यद्वा द्युलोक एव वेनाः कान्ता देवा दुहन्ति । तं सोमम् “उक्षणं सेक्तारं “गिरिष्ठां गिरावुन्नते देशे वर्तमानम् "अप्सु उदकेषु वसतीवरीष्वन्तः “ववृधानं वर्धमानं “द्रप्सं रसरूपं "समुद्रे समुद्रवत् प्रवृद्धे द्रोणकलशे “सिन्धोः उदकस्य “ऊर्मा ऊर्मौ पूरे “आ सिञ्चन्तीति शेषः । तदर्थं "मधुमन्तं माधुर्योपेतं रसं "पवित्रे दशापवित्रे “आ सिञ्चन्तीति शेषः ॥


नाके॑ सुप॒र्णमु॑पपप्ति॒वांसं॒ गिरो॑ वे॒नाना॑मकृपंत पू॒र्वीः ।

शिशुं॑ रिहंति म॒तयः॒ पनि॑प्नतं हिर॒ण्ययं॑ शकु॒नं क्षाम॑णि॒ स्थां ॥११

नाके॑ । सु॒ऽप॒र्णम् । उ॒प॒प॒प्ति॒ऽवांस॑म् । गिरः॑ । वे॒नाना॑म् । अ॒कृ॒प॒न्त॒ । पू॒र्वीः ।

शिशु॑म् । रि॒ह॒न्ति॒ । म॒तयः॑ । पनि॑प्नतम् । हि॒र॒ण्यय॑म् । श॒कु॒नम् । क्षाम॑णि । स्थाम् ॥

नाके । सुऽपर्णम् । उपपप्तिऽवांसम् । गिरः । वेनानाम् । अकृपन्त । पूर्वीः ।

शिशुम् । रिहन्ति । मतयः । पनिप्नतम् । हिरण्ययम् । शकुनम् । क्षामणि । स्थाम् ॥

“नाके द्युलोके वर्तमानं पश्चादुत्पतन्तं सोमं "वेनानाम् अस्माकं संबन्धिन्यः "पूर्वीः बह्व्यः “गिरः स्तुतयः "उप "अकृपन्त उपकल्पन्ते । अभिष्टुवन्तीत्यर्थः । तं "शिशुं शिशुवत् संस्कर्तव्यं सोमं “मतयः स्तुतयः “रिहन्ति लिहन्ति संस्पृशन्ति । प्राप्नुवन्तीत्यर्थः। कीदृशं शिशुम् । “पनिप्नतं शब्दायन्तम् । पनतेर्यङ्लुगन्तात् शतरि अभ्यासस्य निगागम उपधालोपश्च । “हिरण्ययं हिरण्मयं “शकुनं पक्षिणं “क्षामणि क्षमायां “स्थां हविर्धाने स्थां वर्तमानम् ॥


ऊ॒र्ध्वो गं॑ध॒र्वो अधि॒ नाके॑ अस्था॒द्विश्वा॑ रू॒पा प्र॑ति॒चक्षा॑णो अस्य ।

भा॒नुः शु॒क्रेण॑ शो॒चिषा॒ व्य॑द्यौ॒त्प्रारू॑रुच॒द्रोद॑सी मा॒तरा॒ शुचिः॑ ॥१२

ऊ॒र्ध्वः । ग॒न्ध॒र्वः । अधि॑ । नाके॑ । अ॒स्था॒त् । विश्वा॑ । रू॒पा । प्र॒ति॒ऽचक्षा॑णः । अ॒स्य॒ ।

भा॒नुः । शु॒क्रेण॑ । शो॒चिषा॑ । वि । अ॒द्यौ॒त् । प्र । अ॒रू॒रु॒च॒त् । रोद॑सी॒ इति॑ । मा॒तरा॑ । शुचिः॑ ॥

ऊर्ध्वः । गन्धर्वः । अधि । नाके । अस्थात् । विश्वा । रूपा । प्रतिऽचक्षाणः । अस्य ।

भानुः । शुक्रेण । शोचिषा । वि । अद्यौत् । प्र । अरूरुचत् । रोदसी इति । मातरा । शुचिः ॥

“ऊर्ध्वः उन्नतः "गन्धर्वः रश्मीनां धारकः सोमः “नाके आदित्ये "अधि "अस्थात् अधितिष्ठति ।। किं कुर्वन् । "अस्य आदित्यस्य "विश्वा विश्वानि रूपाणि “प्रतिचक्षाणः प्रतिपश्यन् । "भानु: आदित्यः सोमाधिष्ठितः सन् “शुक्रेण दीप्तेन “शोचिषा तेजसा “व्यद्यौत् विद्योतते । न केवलं स्वयमेव अपि तु “मातरा निर्मात्र्यौ "रोदसी द्यावापृथिव्यौ “प्रारूरुचत् प्ररोचयति। “शुचिः दीप्तः सूर्यः ॥११॥ ॥४॥

मण्डल ९

सूक्तं ९.१

सूक्तं ९.२

सूक्तं ९.३

सूक्तं ९.४

सूक्तं ९.५

सूक्तं ९.६

सूक्तं ९.७

सूक्तं ९.८

सूक्तं ९.९

सूक्तं ९.१०

सूक्तं ९.११

सूक्तं ९.१२

सूक्तं ९.१३

सूक्तं ९.१४

सूक्तं ९.१५

सूक्तं ९.१६

सूक्तं ९.१७

सूक्तं ९.१८

सूक्तं ९.१९

सूक्तं ९.२०

सूक्तं ९.२१

सूक्तं ९.२२

सूक्तं ९.२३

सूक्तं ९.२४

सूक्तं ९.२५

सूक्तं ९.२६

सूक्तं ९.२७

सूक्तं ९.२८

सूक्तं ९.२९

सूक्तं ९.३०

सूक्तं ९.३१

सूक्तं ९.३२

सूक्तं ९.३३

सूक्तं ९.३४

सूक्तं ९.३५

सूक्तं ९.३६

सूक्तं ९.३७

सूक्तं ९.३८

सूक्तं ९.३९

सूक्तं ९.४०

सूक्तं ९.४१

सूक्तं ९.४२

सूक्तं ९.४३

सूक्तं ९.४४

सूक्तं ९.४५

सूक्तं ९.४६

सूक्तं ९.४७

सूक्तं ९.४८

सूक्तं ९.४९

सूक्तं ९.५०

सूक्तं ९.५१

सूक्तं ९.५२

सूक्तं ९.५३

सूक्तं ९.५४

सूक्तं ९.५५

सूक्तं ९.५६

सूक्तं ९.५७

सूक्तं ९.५८

सूक्तं ९.५९

सूक्तं ९.६०

सूक्तं ९.६१

सूक्तं ९.६२

सूक्तं ९.६३

सूक्तं ९.६४

सूक्तं ९.६५

सूक्तं ९.६६

सूक्तं ९.६७

सूक्तं ९.६८

सूक्तं ९.६९

सूक्तं ९.७०

सूक्तं ९.७१

सूक्तं ९.७२

सूक्तं ९.७३

सूक्तं ९.७४

सूक्तं ९.७५

सूक्तं ९.७६

सूक्तं ९.७७

सूक्तं ९.७८

सूक्तं ९.७९

सूक्तं ९.८०

सूक्तं ९.८१

सूक्तं ९.८२

सूक्तं ९.८३

सूक्तं ९.८४

सूक्तं ९.८५

सूक्तं ९.८६

सूक्तं ९.८७

सूक्तं ९.८८

सूक्तं ९.८९

सूक्तं ९.९०

सूक्तं ९.९१

सूक्तं ९.९२

सूक्तं ९.९३

सूक्तं ९.९४

सूक्तं ९.९५

सूक्तं ९.९६

सूक्तं ९.९७

सूक्तं ९.९८

सूक्तं ९.९९

सूक्तं ९.१००

सूक्तं ९.१०१

सूक्तं ९.१०२

सूक्तं ९.१०३

सूक्तं ९.१०४

सूक्तं ९.१०५

सूक्तं ९.१०६

सूक्तं ९.१०७

सूक्तं ९.१०८

सूक्तं ९.१०९

सूक्तं ९.११०

सूक्तं ९.१११

सूक्तं ९.११२

सूक्तं ९.११३

सूक्तं ९.११४

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_९.८५&oldid=179434" इत्यस्माद् पुनः प्राप्तिः