ऋग्वेदः सूक्तं ९.६८

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं ९.६७ ऋग्वेदः - मण्डल ९
सूक्तं ९.६८
वत्सप्रिर्भालन्दनः
सूक्तं ९.६९ →
दे. पवमानः सोमः। जगती, १० त्रिष्टुप्


प्र देवमच्छा मधुमन्त इन्दवोऽसिष्यदन्त गाव आ न धेनवः ।
बर्हिषदो वचनावन्त ऊधभिः परिस्रुतमुस्रिया निर्णिजं धिरे ॥१॥
स रोरुवदभि पूर्वा अचिक्रददुपारुहः श्रथयन्स्वादते हरिः ।
तिरः पवित्रं परियन्नुरु ज्रयो नि शर्याणि दधते देव आ वरम् ॥२॥
वि यो ममे यम्या संयती मदः साकंवृधा पयसा पिन्वदक्षिता ।
मही अपारे रजसी विवेविददभिव्रजन्नक्षितं पाज आ ददे ॥३॥
स मातरा विचरन्वाजयन्नपः प्र मेधिरः स्वधया पिन्वते पदम् ।
अंशुर्यवेन पिपिशे यतो नृभिः सं जामिभिर्नसते रक्षते शिरः ॥४॥
सं दक्षेण मनसा जायते कविरृतस्य गर्भो निहितो यमा परः ।
यूना ह सन्ता प्रथमं वि जज्ञतुर्गुहा हितं जनिम नेममुद्यतम् ॥५॥
मन्द्रस्य रूपं विविदुर्मनीषिणः श्येनो यदन्धो अभरत्परावतः ।
तं मर्जयन्त सुवृधं नदीष्वाँ उशन्तमंशुं परियन्तमृग्मियम् ॥६॥
त्वां मृजन्ति दश योषणः सुतं सोम ऋषिभिर्मतिभिर्धीतिभिर्हितम् ।
अव्यो वारेभिरुत देवहूतिभिर्नृभिर्यतो वाजमा दर्षि सातये ॥७॥
परिप्रयन्तं वय्यं सुषंसदं सोमं मनीषा अभ्यनूषत स्तुभः ।
यो धारया मधुमाँ ऊर्मिणा दिव इयर्ति वाचं रयिषाळमर्त्यः ॥८॥
अयं दिव इयर्ति विश्वमा रजः सोमः पुनानः कलशेषु सीदति ।
अद्भिर्गोभिर्मृज्यते अद्रिभिः सुतः पुनान इन्दुर्वरिवो विदत्प्रियम् ॥९॥
एवा नः सोम परिषिच्यमानो वयो दधच्चित्रतमं पवस्व ।
अद्वेषे द्यावापृथिवी हुवेम देवा धत्त रयिमस्मे सुवीरम् ॥१०॥


सायणभाष्यम्

चतुर्थेऽनुवाकेऽष्टादश सूक्तानि । तत्र ‘प्र देवम्' इति दशर्चं प्रथमं सूक्तं भलन्दनपुत्रस्य वत्सप्रेरार्षं पवमानसोमदेवताकम् । दशमी त्रिष्टुप् शिष्टा जगत्यः । तथा चानुक्रम्यते- प्र देवं दश वत्सप्रिर्भालन्दनस्त्रिष्टुबन्तं ह' इति । गतो विनियोगः ॥


प्र दे॒वमच्छा॒ मधु॑मंत॒ इंद॒वोऽसि॑ष्यदंत॒ गाव॒ आ न धे॒नवः॑ ।

ब॒र्हि॒षदो॑ वच॒नावं॑त॒ ऊध॑भिः परि॒स्रुत॑मु॒स्रिया॑ नि॒र्णिजं॑ धिरे ॥१

प्र । दे॒वम् । अच्छ॑ । मधु॑ऽमन्तः । इन्द॑वः । असि॑स्यदन्त । गावः॑ । आ । न । धे॒नवः॑ ।

ब॒र्हि॒ऽसदः॑ । व॒च॒नाऽव॑न्तः । ऊध॑ऽभिः । प॒रि॒ऽस्रुत॑म् । उ॒स्रियाः॑ । निः॒ऽनिज॑म् । धि॒रे॒ ॥

प्र । देवम् । अच्छ । मधुऽमन्तः । इन्दवः । असिस्यदन्त । गावः । आ । न । धेनवः ।

बर्हिऽसदः । वचनाऽवन्तः । ऊधऽभिः । परिऽस्रुतम् । उस्रियाः । निःऽनिजम् । धिरे ॥

"मधुमन्तः मादकरससंयुक्ताः इन्दवः सोमाः “देवं द्योतमानं सोमात्मकमिन्द्रम् "अच्छ प्रति “प्र “असिष्यदन्त प्रस्यन्दन्ते । ग्रहादिषु प्रक्षरन्ति । स्यन्दतेर्ण्यन्तस्य लुङि चङि रूपम् । तत्र दृष्टान्तः । “गाव “आ “न “धेनवः । पयस्विन्यः प्रीणयित्र्यो गावो यथा वत्सं प्रति पयांसि प्रस्रवन्ति तद्वत्। किंच “बर्हिषदः बर्हिषि सीदन्तः "वचनावन्तः हम्भारवादिशब्दवन्तः “उस्रियाः । गोनामैतत् । तादृश्यो गावः “ऊधभिः पयोधारकैः स्वैः स्वैरूधभिः परिस्रुतं परितः स्रवणशीलं "निर्णिजं शुद्धं पयोभूतं सोमरसं "धिरे दधिरे । इन्द्रार्थं धारयन्ति ॥


स रोरु॑वद॒भि पूर्वा॑ अचिक्रददुपा॒रुहः॑ श्र॒थय॑न्त्स्वादते॒ हरिः॑ ।

ति॒रः प॒वित्रं॑ परि॒यन्नु॒रु ज्रयो॒ नि शर्या॑णि दधते दे॒व आ वरं॑ ॥२

सः । रोरु॑वत् । अ॒भि । पूर्वाः॑ । अ॒चि॒क्र॒द॒त् । उ॒प॒ऽआ॒रुहः॑ । श्र॒थय॑न् । स्वा॒द॒ते॒ । हरिः॑ ।

ति॒रः । प॒वित्र॑म् । प॒रि॒ऽयन् । उ॒रु । ज्रयः॑ । नि । शर्या॑णि । द॒ध॒ते॒ । दे॒वः । आ । वर॑म् ॥

सः । रोरुवत् । अभि । पूर्वाः । अचिक्रदत् । उपऽआरुहः । श्रथयन् । स्वादते । हरिः ।

तिरः । पवित्रम् । परिऽयन् । उरु । ज्रयः । नि । शर्याणि । दधते । देवः । आ । वरम् ॥

"रोरुवत् कलशादिकं प्रति अत्यन्तं शब्दं कुर्वन् "सः सोमः "पूर्वाः मुख्याः स्तोतॄणां स्तुतीः “अभि “अचिक्रदत् अभिमुखमध्वनयत् । स्तुतयः साधीयस्य इति प्रतिध्वनिमङ्गीकारमकार्षीदित्यर्थः । किंच "हरिः हरितवर्णः "उपारुहः । रोहतेस्ताच्छीलिकः क्विप् । उपारोहणशीला ऊर्ध्वं प्रादुर्भवनशीला ओषधीः "श्रथयन् अग्रे विश्लेषयन् "स्वादते स्वादूकरोति । ताः फलिनीः कुर्वन स्वादुयुक्ता विदधातीत्यर्थः । तथा "पवित्रम् अविवालात्मकं दशापवित्रं "तिरः तिरस्कृत्य पात्राणि प्रत्यात्मनः क्षरणकाले पवित्रं व्यवधायकं कृत्वा “परियन् परितो गच्छन् सोमः “उरु महान्तं “ज्रयः वेगं करोति । ततः “शर्याणि । ' शृ हिंसायाम् ' । हिंसितव्यानि यद्वा शरेण हन्तव्यानि रक्षांसि “नि “दधते निक्षिपति न्यक्करोति । हिनस्तीति यावत् । पश्चात् "देवः दीप्यमानः सोमः “वरं वरणीयं धनं सोमदातृभ्यो यजमानेभ्यः “आ दधते आधारयति । प्रयच्छतीत्यर्थः । दधातेः लेट्यडागमे ‘ घोर्लोपो लेटि वा ' इत्याकारलोपः ॥


वि यो म॒मे य॒म्या॑ संय॒ती मदः॑ साकं॒वृधा॒ पय॑सा पिन्व॒दक्षि॑ता ।

म॒ही अ॑पा॒रे रज॑सी वि॒वेवि॑ददभि॒व्रज॒न्नक्षि॑तं॒ पाज॒ आ द॑दे ॥३

वि । यः । म॒मे । य॒म्या॑ । सं॒य॒ती इति॑ स॒म्ऽय॒ती । मदः॑ । सा॒क॒म्ऽवृधा॑ । पय॑सा । पि॒न्व॒त् । अक्षि॑ता ।

म॒ही इति॑ । अ॒पा॒रे इति॑ । रज॑सी॒ इति॑ । वि॒ऽवेवि॑दत् । अ॒भि॒ऽव्रज॑न् । अक्षि॑तम् । पाजः॑ । आ । द॒दे॒ ॥

वि । यः । ममे । यम्या । संयती इति सम्ऽयती । मदः । साकम्ऽवृधा । पयसा । पिन्वत् । अक्षिता ।

मही इति । अपारे इति । रजसी इति । विऽवेविदत् । अभिऽव्रजन् । अक्षितम् । पाजः । आ । ददे ॥

"यः “मदः । माद्यत्यनेनेति मदः सोमरसः । "यम्या युगलभूते "संयती परस्परं संगच्छमाने द्यावापृथिव्यौ “वि “ममे विशेषेण निर्मितवान् ततः ते "साकंवृधा सहैव वर्धनशीले तथा “अक्षिता अक्षीणे सामर्थ्यवत्यौ यथा भविष्यतः तथा स सोमः "पयसा पयोरूपेण स्वीयरसेन "पिन्वत् असिञ्चत् । अवर्धयदिति यावत् । किंच "मही महत्यौ अत एव "अपारे पर्यन्तरहिते "रजसी । द्यावापृथिवीनामैतत् । ते द्यावापृथिव्यौ “विवेविदत् । ‘ विद ज्ञाने ' । यङ्लुकि शतरि रूपम् । अभ्यासस्वरः । इयं पृथिवीयं द्यौरिति सर्वेषां विविच्य तेजसा प्रज्ञापयन् "अभिव्रजन् अभितः सर्वतो गच्छन् स सोमः “अक्षितम् अक्षीणमविनश्वरं "पाजः बलम् "आ ददे स्वीकृतवान् । अत्यन्तं बलवानभवदित्यर्थः ॥


स मा॒तरा॑ वि॒चर॑न्वा॒जय॑न्न॒पः प्र मेधि॑रः स्व॒धया॑ पिन्वते प॒दं ।

अं॒शुर्यवे॑न पिपिशे य॒तो नृभिः॒ सं जा॒मिभि॒र्नस॑ते॒ रक्ष॑ते॒ शिरः॑ ॥४

सः । मा॒तरा॑ । वि॒ऽचर॑न् । वा॒जय॑न् । अ॒पः । प्र । मेधि॑रः । स्व॒धया॑ । पि॒न्व॒ते॒ । प॒दम् ।

अं॒शुः । यवे॑न । पि॒पि॒शे॒ । य॒तः । नृऽभिः॑ । सम् । जा॒मिऽभिः॑ । नस॑ते । रक्ष॑ते । शिरः॑ ॥

सः । मातरा । विऽचरन् । वाजयन् । अपः । प्र । मेधिरः । स्वधया । पिन्वते । पदम् ।

अंशुः । यवेन । पिपिशे । यतः । नृऽभिः । सम् । जामिऽभिः । नसते । रक्षते । शिरः ॥

“मेधिरः । 'मेधारथाभ्यामिरनिरचौ' (पा. सू. ५.२.१०९.३) इतरन्प्रत्ययो मत्वर्थीयः । मेधावान् प्राज्ञः "सः सोमः "मातरा मातरौ जगतो निर्मात्र्यौ द्यावापृथिव्यौ "विचरन् अन्तरेणात्यन्तं चरन् तथा “अपः अन्तरिक्षस्थितान्युदकानि “वाजयन् प्रेरयन् । वजेर्ण्य॑न्तस्य शतरि रूपम् । तादृशः “स्वधया सक्तुलक्षणेनान्नेन सह "पदं स्वस्थानमुत्तरवेदिरूपं “प्र “पिन्वते प्रकर्षेणाप्याययति । ततः “नृभिः कर्मनेतृभिर्ऋत्विग्भिः "यतः संयतः “अंशुः सोमः “यवेन “पिपिशे । ‘ पिश अवयवे'। अवयवत्वेन कृतः । मिश्रित इत्यर्थः । सोमस्तु यवसक्तुभिः श्रीयते खलु। सोऽयं "जामिभिः एकस्मात्पाणेरुत्पन्नाभिरङ्गुलीभिः “सं नसते संगच्छते च । “शिरः शीर्णं भूतजातं "रक्षते च । स्वीयरसेन रक्षति पोषयति । नसतिर्गतिकर्मा । ‘चादिलोपे विभाषा' इति न निघातः ॥


सं दक्षे॑ण॒ मन॑सा जायते क॒विर्ऋ॒तस्य॒ गर्भो॒ निहि॑तो य॒मा प॒रः ।

यूना॑ ह॒ संता॑ प्रथ॒मं वि ज॑ज्ञतु॒र्गुहा॑ हि॒तं जनि॑म॒ नेम॒मुद्य॑तं ॥५

सम् । दक्षे॑ण । मन॑सा । जा॒य॒ते॒ । क॒विः । ऋ॒तस्य॑ । गर्भः॑ । निऽहि॑तः । य॒मा । प॒रः ।

यूना॑ । ह॒ । सन्ता॑ । प्र॒थ॒मम् । वि । ज॒ज्ञ॒तुः॒ । गुहा॑ । हि॒तम् । जनि॑म । नेम॑म् । उत्ऽय॑तम् ॥

सम् । दक्षेण । मनसा । जायते । कविः । ऋतस्य । गर्भः । निऽहितः । यमा । परः ।

यूना । ह । सन्ता । प्रथमम् । वि । जज्ञतुः । गुहा । हितम् । जनिम । नेमम् । उत्ऽयतम् ॥

प्रसङ्गात् सोमसूर्ययोराविर्भावमाह । “दक्षेण प्रवृद्धेन "मनसा सह "सं "जायते पृथिव्याः सम्यग्जायते । तथा “ऋतस्य उदकस्यैव “गर्भः गर्भस्थानीयः । यद्वा । सत्यस्य यज्ञस्य मध्ये गर्भः शब्दनीयः स्तुत्यः । स एव सोमः "परः परस्तादन्तरिक्षे "यमा यमेन नियमेन देवैः “निहितः सः । सूर्याद्धि वृष्टिर्भवति । तस्मात्सोमः सूर्यात्मकतयावस्थित इत्यर्थः । एवं यूना। "ह इत्यवधारणे। युवानावेव सन्तौ तौ “प्रथमं जननकाले “वि “जज्ञतुः । अयं सोमोऽयं सूर्य इति विशेषेण ज्ञायते । तयोश्चार्धं “जनिम जन्म “गुहा गुहायां "हितं निहितं भवति । तयोः "नेमम् अर्धं च “उद्यतं प्रकाशितं भवति । दिवा सूर्यः प्रादुर्भवति रात्री चन्द्रमा इ ति ॥ ॥ १९ ॥


मं॒द्रस्य॑ रू॒पं वि॑विदुर्मनी॒षिणः॑ श्ये॒नो यदंधो॒ अभ॑रत्परा॒वतः॑ ।

तं म॑र्जयंत सु॒वृधं॑ न॒दीष्वाँ उ॒शंत॑मं॒शुं प॑रि॒यंत॑मृ॒ग्मियं॑ ॥६

म॒न्द्रस्य॑ । रू॒पम् । वि॒वि॒दुः॒ । म॒नी॒षिणः॑ । श्ये॒नः । यत् । अन्धः॑ । अभ॑रत् । प॒रा॒ऽवतः॑ ।

तम् । म॒र्ज॒य॒न्त॒ । सु॒ऽवृध॑म् । न॒दीषु॑ । आ । उ॒शन्त॑म् । अं॒शुम् । प॒रि॒ऽयन्त॑म् । ऋ॒ग्मिय॑म् ॥

मन्द्रस्य । रूपम् । विविदुः । मनीषिणः । श्येनः । यत् । अन्धः । अभरत् । पराऽवतः ।

तम् । मर्जयन्त । सुऽवृधम् । नदीषु । आ । उशन्तम् । अंशुम् । परिऽयन्तम् । ऋग्मियम् ॥

"मनीषिणः प्राज्ञा यष्टारः "मन्द्रस्य मदकरस्य तस्य सोमस्य "रूपं "विविदुः जानन्ति । “यत् "अन्धः यत् सोमलक्षणमन्नं "श्येनः गायत्रीरूपः पक्षी "परावतः दूरात् द्युलोकात् "आभरत् आजहार। 'हृग्रहोर्भश्छन्दसि ' इति भकारः। “तं तादृशं " सुवृधं सुष्ठु वर्धमानं सुवर्धयितारं वा “अंशुं सोमं "नदीषु नदमानासु वसतीवर्याख्यास्वप्सु “आ “मर्जयन्त ऋत्विज आशोधयन्ति । अलंकुर्वन्ति वा । कीदृशम् । “उशन्तं देवान् कामयमानं “परियन्तं परितो गच्छन्तम् “ऋग्मियम् ऋगर्हं स्तुत्यं सोममामर्जयन्तीति ॥


त्वां मृ॑जंति॒ दश॒ योष॑णः सु॒तं सोम॒ ऋषि॑भिर्म॒तिभि॑र्धी॒तिभि॑र्हि॒तं ।

अव्यो॒ वारे॑भिरु॒त दे॒वहू॑तिभि॒र्नृभि॑र्य॒तो वाज॒मा द॑र्षि सा॒तये॑ ॥७

त्वाम् । मृ॒ज॒न्ति॒ । दश॑ । योष॑णः । सु॒तम् । सोम॑ । ऋषि॑ऽभिः । म॒तिऽभिः॑ । धी॒तिऽभिः॑ । हि॒तम् ।

अव्यः॑ । वारे॑भिः । उ॒त । दे॒वहू॑तिऽभिः । नृऽभिः॑ । य॒तः । वाज॑म् । आ । द॒र्षि॒ । सा॒तये॑ ॥

त्वाम् । मृजन्ति । दश । योषणः । सुतम् । सोम । ऋषिऽभिः । मतिऽभिः । धीतिऽभिः । हितम् ।

अव्यः । वारेभिः । उत । देवहूतिऽभिः । नृऽभिः । यतः । वाजम् । आ । दर्षि । सातये ॥

हे “सोम “योषणः द्वाभ्यां पाणिभ्यां विभज्योत्पन्नाः "दश दशसंख्याका अङ्गुलयः “ऋषिभिः मधुच्छन्दःप्रभृतिभिः "सुतम् अभिषुतं “हितं पात्रेषु निहितं " त्वां “मतिभिः स्तुतिभिः “धीतिभिः कर्मभिश्च "अव्यः “वारेभिः अविवालैः पवित्रैः "मृजन्ति शोधयन्ति । “उत अपि च देवहूतिभिः देवाह्वानयुक्तैः "नृभिः कर्मनेतृभिर्ऋत्विग्भिः यतः ग्रहेषु संयमितः संगृहीतस्त्वं “सातये दानाय “वाजम् अन्नम्” “आ "दर्षि आविदारयसि । विवृतं करोषि । स्तोतृभ्योऽन्नादिकं प्रयच्छसीति यावत् ॥


प॒रि॒प्र॒यंतं॑ व॒य्यं॑ सुषं॒सदं॒ सोमं॑ मनी॒षा अ॒भ्य॑नूषत॒ स्तुभः॑ ।

यो धार॑या॒ मधु॑माँ ऊ॒र्मिणा॑ दि॒व इय॑र्ति॒ वाचं॑ रयि॒षाळम॑र्त्यः ॥८

प॒रि॒ऽप्र॒यन्त॑म् । व॒य्य॑म् । सु॒ऽसं॒सद॑म् । सोम॑म् । म॒नी॒षाः । अ॒भि । अ॒नू॒ष॒त॒ । स्तुभः॑ ।

यः । धार॑या । मधु॑ऽमान् । ऊ॒र्मिणा॑ । दि॒वः । इय॑र्ति । वाच॑म् । र॒यि॒षाट् । अम॑र्त्यः ॥

परिऽप्रयन्तम् । वय्यम् । सुऽसंसदम् । सोमम् । मनीषाः । अभि । अनूषत । स्तुभः ।

यः । धारया । मधुऽमान् । ऊर्मिणा । दिवः । इयर्ति । वाचम् । रयिषाट् । अमर्त्यः ॥

“परिप्रयन्तं पात्राणि परितः प्रगच्छन्तं वयं देवैः काम्यमानं सुसंसदं शोभनसंसदनं "सोमं “मनीषाः मनस ईशित्र्यः " स्तुभः स्तुतयः “अभ्यनूषत अभिष्टुवन्ति । वय्यम् । ‘ वी गत्यादिषु' इत्यस्माद्यति 'भय्यप्रवय्ये च छन्दसि' ( पा. सू. ६. १. ८३ ) इति निपातितः । अत्रानुपसर्गस्यापि निपातनं भवति । मधुमान् मदकररसवान् यः सोमः “धारया स्वीयया “ऊर्मिणा वसतीवर्याख्येनोदकेन सह “दिवः आकाशात् द्रोणकलश आपतति: “रयिषाट् शत्रुधनानामभिभविता "अमर्त्यः मनुष्यधर्मरहितः स सोमः “वाचम् "इयर्ति प्रेरयति । तदा हि स्तोतारः स्तुवन्ति ॥


अ॒यं दि॒व इ॑यर्ति॒ विश्व॒मा रजः॒ सोमः॑ पुना॒नः क॒लशे॑षु सीदति ।

अ॒द्भिर्गोभि॑र्मृज्यते॒ अद्रि॑भिः सु॒तः पु॑ना॒न इंदु॒र्वरि॑वो विदत्प्रि॒यं ॥९

अ॒यम् । दि॒वः । इ॒य॒र्ति॒ । विश्व॑म् । आ । रजः॑ । सोमः॑ । पु॒ना॒नः । क॒लशे॑षु । सी॒द॒ति॒ ।

अ॒त्ऽभिः । गोभिः॑ । मृ॒ज्य॒ते॒ । अद्रि॑ऽभिः । सु॒तः । पु॒ना॒नः । इन्दुः॑ । वरि॑वः । वि॒द॒त् । प्रि॒यम् ॥

अयम् । दिवः । इयर्ति । विश्वम् । आ । रजः । सोमः । पुनानः । कलशेषु । सीदति ।

अत्ऽभिः । गोभिः । मृज्यते । अद्रिऽभिः । सुतः । पुनानः । इन्दुः । वरिवः । विदत् । प्रियम् ॥

“अयं सोमः “दिवः द्युलोकात् "विश्वं "रजः । उदकनामैतत् । सर्वमुदकम् "इयर्ति अभिप्रापयति । किंच "पुनानः दशापवित्रेण पूयमानः "सोमः "कलशेषु द्रोणनामसु "सीदति । तथा “अद्रिभिः ग्रावभिः “अद्भिः वसतीवर्याख्याभिः “गोभिः गोविकारैः क्षीरदध्यादिभिश्च "मृज्यते शोध्यते अलंक्रियते । ततः "पुनानः पूतः “इन्दुः सोमः "प्रियं प्रियतरं प्रीणनकारि वा “वरिवः वरणीयं धनं "विदत् स्तोतृभ्यो लम्भयति । प्रयच्छतीति यावत् ॥


ए॒वा नः॑ सोम परिषि॒च्यमा॑नो॒ वयो॒ दध॑च्चि॒त्रत॑मं पवस्व ।

अ॒द्वे॒षे द्यावा॑पृथि॒वी हु॑वेम॒ देवा॑ ध॒त्त र॒यिम॒स्मे सु॒वीरं॑ ॥१०

ए॒व । नः॒ । सो॒म॒ । प॒रि॒ऽसि॒च्यमा॑नः । वयः॑ । दध॑त् । चि॒त्रऽत॑मम् । प॒व॒स्व॒ ।

अ॒द्वे॒षे इति॑ । द्यावा॑पृथि॒वी इति॑ । हु॒वे॒म॒ । देवाः॑ । ध॒त्त । र॒यिम् । अ॒स्मे इति॑ । सु॒ऽवीर॑म् ॥

एव । नः । सोम । परिऽसिच्यमानः । वयः । दधत् । चित्रऽतमम् । पवस्व ।

अद्वेषे इति । द्यावापृथिवी इति । हुवेम । देवाः । धत्त । रयिम् । अस्मे इति । सुऽवीरम् ॥

अयं प्रत्यक्षकृतः । हे "सोम “दधत् प्रयच्छंस्त्वं परिषिच्यमानः परितोऽद्भिर्गोभिर्वा सिच्यमानः “एव “चित्रतमं चित्रं नानाविधं चायनीयतमं वा “वयः अन्नं "नः अस्मभ्यं “पवस्व प्रापय । प्रयच्छेति यावत् । किंच “अद्वेषे द्वेषरहिते “द्यावापृथिवी द्यावापृथिव्यौ "हुवेम हविष्प्रदानार्थं वयमाह्वयेम । हे "देवाः यूयं च "सुवीरम् । वीरः कर्मणि समर्थः पुत्रः । तादृशपुत्रोपेतं "रयिं धनम् “अस्मे अस्मासु “धत्त निधत्त ॥ ॥ २० ॥

मण्डल ९

सूक्तं ९.१

सूक्तं ९.२

सूक्तं ९.३

सूक्तं ९.४

सूक्तं ९.५

सूक्तं ९.६

सूक्तं ९.७

सूक्तं ९.८

सूक्तं ९.९

सूक्तं ९.१०

सूक्तं ९.११

सूक्तं ९.१२

सूक्तं ९.१३

सूक्तं ९.१४

सूक्तं ९.१५

सूक्तं ९.१६

सूक्तं ९.१७

सूक्तं ९.१८

सूक्तं ९.१९

सूक्तं ९.२०

सूक्तं ९.२१

सूक्तं ९.२२

सूक्तं ९.२३

सूक्तं ९.२४

सूक्तं ९.२५

सूक्तं ९.२६

सूक्तं ९.२७

सूक्तं ९.२८

सूक्तं ९.२९

सूक्तं ९.३०

सूक्तं ९.३१

सूक्तं ९.३२

सूक्तं ९.३३

सूक्तं ९.३४

सूक्तं ९.३५

सूक्तं ९.३६

सूक्तं ९.३७

सूक्तं ९.३८

सूक्तं ९.३९

सूक्तं ९.४०

सूक्तं ९.४१

सूक्तं ९.४२

सूक्तं ९.४३

सूक्तं ९.४४

सूक्तं ९.४५

सूक्तं ९.४६

सूक्तं ९.४७

सूक्तं ९.४८

सूक्तं ९.४९

सूक्तं ९.५०

सूक्तं ९.५१

सूक्तं ९.५२

सूक्तं ९.५३

सूक्तं ९.५४

सूक्तं ९.५५

सूक्तं ९.५६

सूक्तं ९.५७

सूक्तं ९.५८

सूक्तं ९.५९

सूक्तं ९.६०

सूक्तं ९.६१

सूक्तं ९.६२

सूक्तं ९.६३

सूक्तं ९.६४

सूक्तं ९.६५

सूक्तं ९.६६

सूक्तं ९.६७

सूक्तं ९.६८

सूक्तं ९.६९

सूक्तं ९.७०

सूक्तं ९.७१

सूक्तं ९.७२

सूक्तं ९.७३

सूक्तं ९.७४

सूक्तं ९.७५

सूक्तं ९.७६

सूक्तं ९.७७

सूक्तं ९.७८

सूक्तं ९.७९

सूक्तं ९.८०

सूक्तं ९.८१

सूक्तं ९.८२

सूक्तं ९.८३

सूक्तं ९.८४

सूक्तं ९.८५

सूक्तं ९.८६

सूक्तं ९.८७

सूक्तं ९.८८

सूक्तं ९.८९

सूक्तं ९.९०

सूक्तं ९.९१

सूक्तं ९.९२

सूक्तं ९.९३

सूक्तं ९.९४

सूक्तं ९.९५

सूक्तं ९.९६

सूक्तं ९.९७

सूक्तं ९.९८

सूक्तं ९.९९

सूक्तं ९.१००

सूक्तं ९.१०१

सूक्तं ९.१०२

सूक्तं ९.१०३

सूक्तं ९.१०४

सूक्तं ९.१०५

सूक्तं ९.१०६

सूक्तं ९.१०७

सूक्तं ९.१०८

सूक्तं ९.१०९

सूक्तं ९.११०

सूक्तं ९.१११

सूक्तं ९.११२

सूक्तं ९.११३

सूक्तं ९.११४

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_९.६८&oldid=179253" इत्यस्माद् पुनः प्राप्तिः