ऋग्वेदः सूक्तं ९.८०

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं ९.७९ ऋग्वेदः - मण्डल ९
सूक्तं ९.८०
वसुर्भारद्वाजः
सूक्तं ९.८१ →
दे. पवमानः सोमः। जगती।


सोमस्य धारा पवते नृचक्षस ऋतेन देवान्हवते दिवस्परि ।
बृहस्पते रवथेना वि दिद्युते समुद्रासो न सवनानि विव्यचुः ॥१॥
यं त्वा वाजिन्नघ्न्या अभ्यनूषतायोहतं योनिमा रोहसि द्युमान् ।
मघोनामायुः प्रतिरन्महि श्रव इन्द्राय सोम पवसे वृषा मदः ॥२॥
एन्द्रस्य कुक्षा पवते मदिन्तम ऊर्जं वसानः श्रवसे सुमङ्गलः ।
प्रत्यङ्स विश्वा भुवनाभि पप्रथे क्रीळन्हरिरत्यः स्यन्दते वृषा ॥३॥
तं त्वा देवेभ्यो मधुमत्तमं नरः सहस्रधारं दुहते दश क्षिपः ।
नृभिः सोम प्रच्युतो ग्रावभिः सुतो विश्वान्देवाँ आ पवस्वा सहस्रजित् ॥४॥
तं त्वा हस्तिनो मधुमन्तमद्रिभिर्दुहन्त्यप्सु वृषभं दश क्षिपः ।
इन्द्रं सोम मादयन्दैव्यं जनं सिन्धोरिवोर्मिः पवमानो अर्षसि ॥५॥


सायणभाष्यम्

‘सोमस्य धारा' इति पञ्चर्चं त्रयोदशं सूक्तं भारद्वाजस्य वसुनाम्न आर्षं जागतं पवमानसोमदेवताकम् । तथा चानुक्रान्तं- सोमस्य वसुर्भारद्वाजः' इति । गतो विनियोगः ॥


सोम॑स्य॒ धारा॑ पवते नृ॒चक्ष॑स ऋ॒तेन॑ दे॒वान्ह॑वते दि॒वस्परि॑ ।

बृह॒स्पते॑ र॒वथे॑ना॒ वि दि॑द्युते समु॒द्रासो॒ न सव॑नानि विव्यचुः ॥१

सोम॑स्य । धारा॑ । प॒व॒ते॒ । नृ॒ऽचक्ष॑सः । ऋ॒तेन॑ । दे॒वान् । ह॒व॒ते॒ । दि॒वः । परि॑ ।

बृह॒स्पतेः॑ । र॒वथे॑न । वि । दि॒द्यु॒ते॒ । स॒मु॒द्रासः॑ । न । सव॑नानि । वि॒व्य॒चुः॒ ॥

सोमस्य । धारा । पवते । नृऽचक्षसः । ऋतेन । देवान् । हवते । दिवः । परि ।

बृहस्पतेः । रवथेन । वि । दिद्युते । समुद्रासः । न । सवनानि । विव्यचुः ॥

सोमस्य अभिषूयमाणस्य “धारा “पवते श्चोतते । कीदृशस्य सोमस्य । “नृचक्षसः नृणां यजमानानां द्रष्टुः । स च “ऋतेन यज्ञेन "देवान् सोमभाज इन्द्रादीन “हवते। कुत्र । “दिवस्परि द्युलोकस्योपरि वर्तमानान् । “बृहस्पतेः मन्त्रपालकस्य स्तोतुः “रवथेन शब्देन स्तोत्रेण “वि “दिद्युते विद्योतते । “समुद्रासो “न समुद्रा इव पृथिवीं “सवनानि यज्ञसंबन्धीनि “विव्यचुः व्याप्नुवन्ति ॥


यं त्वा॑ वाजिन्न॒घ्न्या अ॒भ्यनू॑ष॒तायो॑हतं॒ योनि॒मा रो॑हसि द्यु॒मान् ।

म॒घोना॒मायुः॑ प्रति॒रन्महि॒ श्रव॒ इंद्रा॑य सोम पवसे॒ वृषा॒ मदः॑ ॥२

यम् । त्वा॒ । वा॒जि॒न् । अ॒घ्न्याः । अ॒भि । अनू॑षत । अयः॑ऽहतम् । योनि॑म् । आ । रो॒ह॒सि॒ । द्यु॒ऽमान् ।

म॒घोना॑म् । आयुः॑ । प्र॒ऽति॒रन् । महि॑ । श्रवः॑ । इन्द्रा॑य । सो॒म॒ । प॒व॒से॒ । वृषा॑ । मदः॑ ॥

यम् । त्वा । वाजिन् । अघ्न्याः । अभि । अनूषत । अयःऽहतम् । योनिम् । आ । रोहसि । द्युऽमान् ।

मघोनाम् । आयुः । प्रऽतिरन् । महि । श्रवः । इन्द्राय । सोम । पवसे । वृषा । मदः ॥

हे “वाजिन् अन्नवन् सोम “यं “त्वा त्वाम् अघ्न्याः अहननीया गावः “अभ्यनूषत अभिष्टुवन्ति । आशिरार्थं स्थिताः शब्दायन्त इत्यर्थः । स त्वम् “अयोहतम् । अय इति हिरण्यनाम । तेन तद्वान् पाणिर्लक्ष्यते । हिरण्मयेन पाणिना हतं संस्कृतं योनिं स्थानम् “आ “रोहसि “द्युमान् दीप्तः सन् । ‘ अभि योनिमयोहतम्' (ऋ. सं. ९. १. २) इति ह्युक्तम् । किंच हे सोम “मघोनां हविष्मतां यजमानानाम् “आयुः आयुष्यं “महि महत् “श्रवः अन्नं यशो वा “प्रतिरन् वर्धयन् “इन्द्राय इन्द्रार्थं “पवसे पूयसे । “वृषा वर्षको “मदः मदकरश्च त्वम् ॥


एंद्र॑स्य कु॒क्षा प॑वते म॒दिंत॑म॒ ऊर्जं॒ वसा॑नः॒ श्रव॑से सुमं॒गलः॑ ।

प्र॒त्यङ्स विश्वा॒ भुव॑ना॒भि प॑प्रथे॒ क्रीळ॒न्हरि॒रत्यः॑ स्यंदते॒ वृषा॑ ॥३

आ । इन्द्र॑स्य । कु॒क्षा । प॒व॒ते॒ । म॒दिन्ऽत॑मः । ऊर्ज॑म् । वसा॑नः । श्रव॑से । सु॒ऽम॒ङ्गलः॑ ।

प्र॒त्यङ् । सः । विश्वा॑ । भुव॑ना । अ॒भि । प॒प्र॒थे॒ । क्रीळ॑न् । हरिः॑ । अत्यः॑ । स्य॒न्द॒ते॒ । वृषा॑ ॥

आ । इन्द्रस्य । कुक्षा । पवते । मदिन्ऽतमः । ऊर्जम् । वसानः । श्रवसे । सुऽमङ्गलः ।

प्रत्यङ् । सः । विश्वा । भुवना । अभि । पप्रथे । क्रीळन् । हरिः । अत्यः । स्यन्दते । वृषा ॥

अयं सोमः “इन्द्रस्य “कुक्षा कुक्षौ “आ “पवते आसिच्यते । किमर्थम् । “श्रवसे तस्यान्नाय यष्टुर्वा अन्नसिद्ध्यर्थम् । सोमो विशेष्यते। “मदिन्तमः मादयितृतमः “ऊर्जं “वसानः बलकरं रसमाच्छादयन् । ‘ अपो वसानः' (ऋ. सं. ९. ७८, १ ) इति ह्युक्तम् । “सुमङ्गलः शोभनमङ्गलप्रदः । “सः सोमः “प्रत्यङ् “विश्वा “भुवना सर्वाणि भूतजातानि “अभि “पप्रथे अभिप्रथयति । दिवि उदितः सन् “क्रीळन् वेद्यां संक्रीडमानः “हरिः हरितवर्णः “अत्यः अतनकुशलः “वृषा वर्षक: “स्यन्दते रसरूपेण ॥


तं त्वा॑ दे॒वेभ्यो॒ मधु॑मत्तमं॒ नरः॑ स॒हस्र॑धारं दुहते॒ दश॒ क्षिपः॑ ।

नृभिः॑ सोम॒ प्रच्यु॑तो॒ ग्राव॑भिः सु॒तो विश्वां॑दे॒वाँ आ प॑वस्वा सहस्रजित् ॥४

तम् । त्वा॒ । दे॒वेभ्यः॑ । मधु॑मत्ऽतमम् । नरः॑ । स॒हस्र॑ऽधारम् । दु॒ह॒ते॒ । दश॑ । क्षिपः॑ ।

नृऽभिः॑ । सो॒म॒ । प्रऽच्यु॑तः । ग्राव॑ऽभिः । सु॒तः । विश्वा॑न् । दे॒वान् । आ । प॒व॒स्व॒ । स॒ह॒स्र॒ऽजि॒त् ॥

तम् । त्वा । देवेभ्यः । मधुमत्ऽतमम् । नरः । सहस्रऽधारम् । दुहते । दश । क्षिपः ।

नृऽभिः । सोम । प्रऽच्युतः । ग्रावऽभिः । सुतः । विश्वान् । देवान् । आ । पवस्व । सहस्रऽजित् ॥

हे सोम “तं तादृशं “त्वा त्वां “देवेभ्यः इन्द्राद्यर्थं "मधुमत्तमम् अतिशयेन मधुमन्तं “सहस्रधारं बहुधारायुक्तं “दुहते दुहन्ति । के। “नरः नेतार ऋत्विजः “दश “क्षिपः तेषां दशसंख्याका अङ्गुलयश्च । हे “सोम “नृभिः मनुष्यैः “प्रच्युतः “ग्रावभिः “सुतः अभिषुतस्त्वं “सहस्रजित् सहस्रसंख्याकधनस्य जेता सन् “विश्वान् “देवान् “आ “पवस्व ॥


तं त्वा॑ ह॒स्तिनो॒ मधु॑मंत॒मद्रि॑भिर्दु॒हंत्य॒प्सु वृ॑ष॒भं दश॒ क्षिपः॑ ।

इंद्रं॑ सोम मा॒दयं॒दैव्यं॒ जनं॒ सिंधो॑रिवो॒र्मिः पव॑मानो अर्षसि ॥५

तम् । त्वा॒ । ह॒स्तिनः॑ । मधु॑ऽमन्तम् । अद्रि॑ऽभिः । दु॒हन्ति॑ । अ॒प्ऽसु । वृ॒ष॒भम् । दश॑ । क्षिपः॑ ।

इन्द्र॑म् । सो॒म॒ । मा॒दय॑न् । दैव्य॑म् । जन॑म् । सिन्धोः॑ऽइव । ऊ॒र्मिः । पव॑मानः । अ॒र्ष॒सि॒ ॥

तम् । त्वा । हस्तिनः । मधुऽमन्तम् । अद्रिऽभिः । दुहन्ति । अप्ऽसु । वृषभम् । दश । क्षिपः ।

इन्द्रम् । सोम । मादयन् । दैव्यम् । जनम् । सिन्धोःऽइव । ऊर्मिः । पवमानः । अर्षसि ॥

“तं तादृशं “मधुमन्तं मधुररसं “वृषभं कामानां वर्षकं “त्वा त्वां “हस्तिनः सुहस्तस्य “दश “क्षिपः अङ्गुलयः “अद्रिभिः ग्रावभिः "अप्सु "दुहन्ति । तादृश हे “सोम “इन्द्रम् अन्यं “दैव्यं “जनं देवसंबन्धिनं संघं “मादयन् “सिन्धोरूर्मिरिव “पवमानः पूयमानः सन् "अर्षसि गच्छसि॥ ॥५॥

मण्डल ९

सूक्तं ९.१

सूक्तं ९.२

सूक्तं ९.३

सूक्तं ९.४

सूक्तं ९.५

सूक्तं ९.६

सूक्तं ९.७

सूक्तं ९.८

सूक्तं ९.९

सूक्तं ९.१०

सूक्तं ९.११

सूक्तं ९.१२

सूक्तं ९.१३

सूक्तं ९.१४

सूक्तं ९.१५

सूक्तं ९.१६

सूक्तं ९.१७

सूक्तं ९.१८

सूक्तं ९.१९

सूक्तं ९.२०

सूक्तं ९.२१

सूक्तं ९.२२

सूक्तं ९.२३

सूक्तं ९.२४

सूक्तं ९.२५

सूक्तं ९.२६

सूक्तं ९.२७

सूक्तं ९.२८

सूक्तं ९.२९

सूक्तं ९.३०

सूक्तं ९.३१

सूक्तं ९.३२

सूक्तं ९.३३

सूक्तं ९.३४

सूक्तं ९.३५

सूक्तं ९.३६

सूक्तं ९.३७

सूक्तं ९.३८

सूक्तं ९.३९

सूक्तं ९.४०

सूक्तं ९.४१

सूक्तं ९.४२

सूक्तं ९.४३

सूक्तं ९.४४

सूक्तं ९.४५

सूक्तं ९.४६

सूक्तं ९.४७

सूक्तं ९.४८

सूक्तं ९.४९

सूक्तं ९.५०

सूक्तं ९.५१

सूक्तं ९.५२

सूक्तं ९.५३

सूक्तं ९.५४

सूक्तं ९.५५

सूक्तं ९.५६

सूक्तं ९.५७

सूक्तं ९.५८

सूक्तं ९.५९

सूक्तं ९.६०

सूक्तं ९.६१

सूक्तं ९.६२

सूक्तं ९.६३

सूक्तं ९.६४

सूक्तं ९.६५

सूक्तं ९.६६

सूक्तं ९.६७

सूक्तं ९.६८

सूक्तं ९.६९

सूक्तं ९.७०

सूक्तं ९.७१

सूक्तं ९.७२

सूक्तं ९.७३

सूक्तं ९.७४

सूक्तं ९.७५

सूक्तं ९.७६

सूक्तं ९.७७

सूक्तं ९.७८

सूक्तं ९.७९

सूक्तं ९.८०

सूक्तं ९.८१

सूक्तं ९.८२

सूक्तं ९.८३

सूक्तं ९.८४

सूक्तं ९.८५

सूक्तं ९.८६

सूक्तं ९.८७

सूक्तं ९.८८

सूक्तं ९.८९

सूक्तं ९.९०

सूक्तं ९.९१

सूक्तं ९.९२

सूक्तं ९.९३

सूक्तं ९.९४

सूक्तं ९.९५

सूक्तं ९.९६

सूक्तं ९.९७

सूक्तं ९.९८

सूक्तं ९.९९

सूक्तं ९.१००

सूक्तं ९.१०१

सूक्तं ९.१०२

सूक्तं ९.१०३

सूक्तं ९.१०४

सूक्तं ९.१०५

सूक्तं ९.१०६

सूक्तं ९.१०७

सूक्तं ९.१०८

सूक्तं ९.१०९

सूक्तं ९.११०

सूक्तं ९.१११

सूक्तं ९.११२

सूक्तं ९.११३

सूक्तं ९.११४

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_९.८०&oldid=179427" इत्यस्माद् पुनः प्राप्तिः