ऋग्वेदः सूक्तं ९.८१

विकिस्रोतः तः
(ऋग्वेद: सूक्तं ९.८१ इत्यस्मात् पुनर्निर्दिष्टम्)
← सूक्तं ९.८० ऋग्वेदः - मण्डल ९
सूक्तं ९.८१
वसुर्भारद्वाजः
सूक्तं ९.८२ →
दे. पवमानः सोमः। जगती, ५ त्रिष्टुप्।


प्र सोमस्य पवमानस्योर्मय इन्द्रस्य यन्ति जठरं सुपेशसः ।
दध्ना यदीमुन्नीता यशसा गवां दानाय शूरमुदमन्दिषुः सुताः ॥१॥
अच्छा हि सोमः कलशाँ असिष्यददत्यो न वोळ्हा रघुवर्तनिर्वृषा ।
अथा देवानामुभयस्य जन्मनो विद्वाँ अश्नोत्यमुत इतश्च यत् ॥२॥
आ नः सोम पवमानः किरा वस्विन्दो भव मघवा राधसो महः ।
शिक्षा वयोधो वसवे सु चेतुना मा नो गयमारे अस्मत्परा सिचः ॥३॥
आ नः पूषा पवमानः सुरातयो मित्रो गच्छन्तु वरुणः सजोषसः ।
बृहस्पतिर्मरुतो वायुरश्विना त्वष्टा सविता सुयमा सरस्वती ॥४॥
उभे द्यावापृथिवी विश्वमिन्वे अर्यमा देवो अदितिर्विधाता ।
भगो नृशंस उर्वन्तरिक्षं विश्वे देवाः पवमानं जुषन्त ॥५॥


सायणभाष्यम्

‘प्र सोमस्य' इति पञ्चर्चं चतुर्दशं सूक्तम् । ऋषिदेवते पूर्ववत् । अन्त्या त्रिष्टुप् शिष्टा जगत्यः । ‘प्र सोमस्य' इत्यनुक्रान्तम् । गतो विनियोगः ॥


प्र सोम॑स्य॒ पव॑मानस्यो॒र्मय॒ इंद्र॑स्य यंति ज॒ठरं॑ सु॒पेश॑सः ।

द॒ध्ना यदी॒मुन्नी॑ता य॒शसा॒ गवां॑ दा॒नाय॒ शूर॑मु॒दमं॑दिषुः सु॒ताः ॥१

प्र । सोम॑स्य । पव॑मानस्य । ऊ॒र्मयः॑ । इन्द्र॑स्य । य॒न्ति॒ । ज॒ठर॑म् । सु॒ऽपेश॑सः ।

द॒ध्ना । यत् । ई॒म् । उत्ऽनी॑ताः । य॒शसा॑ । गवा॑म् । दा॒नाय॑ । शूर॑म् । उ॒त्ऽअम॑न्दिषुः । सु॒ताः ॥१

प्र । सोमस्य । पवमानस्य । ऊर्मयः । इन्द्रस्य । यन्ति । जठरम् । सुऽपेशसः ।

दध्ना । यत् । ईम् । उत्ऽनीताः । यशसा । गवाम् । दानाय । शूरम् । उत्ऽअमन्दिषुः । सुताः ॥१

“पवमानस्य पूयमानस्य “ऊर्मयः रसप्रवाहाः "इन्द्रस्य “जठरं “प्र “यन्ति प्रगच्छन्ति । “सुपेशसः सुरूपा ऊर्मय इति संबन्धः । “यत् यदा “ईम् एते “सुताः अभिषुताः सोमाः “गवां “यशसा बलभूतेन “दध्ना सह “उन्नीताः सन्तः “दानाय यजमानविषयाभिमतदानाय “शूरं विक्रान्तमिन्द्रम् “उदमन्दिषुः उन्मादयन्ति तदा जठरं यन्ति ॥


अच्छा॒ हि सोमः॑ क॒लशाँ॒ असि॑ष्यद॒दत्यो॒ न वोळ्हा॑ र॒घुव॑र्तनि॒र्वृषा॑ ।

अथा॑ दे॒वाना॑मु॒भय॑स्य॒ जन्म॑नो वि॒द्वाँ अ॑श्नोत्य॒मुत॑ इ॒तश्च॒ यत् ॥२

अच्छ॑ । हि । सोमः॑ । क॒लशा॑न् । असि॑स्यदत् । अत्यः॑ । न । वोळ्हा॑ । र॒घुऽव॑र्तनिः । वृषा॑ ।

अथ॑ । दे॒वाना॑म् । उ॒भय॑स्य । जन्म॑नः । वि॒द्वान् । अ॒श्नो॒ति॒ । अ॒मुतः॑ । इ॒तः । च॒ । यत् ॥२

अच्छ । हि । सोमः । कलशान् । असिस्यदत् । अत्यः । न । वोळ्हा । रघुऽवर्तनिः । वृषा ।

अथ । देवानाम् । उभयस्य । जन्मनः । विद्वान् । अश्नोति । अमुतः । इतः । च । यत् ॥२

असौ “सोमः “कलशान् “अच्छ अभिमुखम् “असिष्यदत् स्यन्दते । क इव । “अत्यो “न “वोळ्हा रथस्य वाहकोऽश्व इव । स यथा स्वगन्तव्यमभिगच्छति तद्वत् । यद्वा । अयमुत्तरत्र दृष्टान्तः । “वोळ्हा अश्व इव "रघुवर्तनिः लघुगमनः “वृषा वर्षकश्च । “अथ अपि च “देवानां सोमसजुषाम् “उभयस्य उभयविधं "जन्मनः जातं “विद्वान् जानन् असिष्यदत् कलशान् । किं तदुभयं जन्मेति उच्यते । यद्देवजातम् “अमुतः द्युलोकात् “इतश्च अस्माद्भूलोकाच्च “अश्नोति व्याप्नोति यज्ञम् । तस्योभयस्य जातं विद्वानिति संबन्धः ॥


आ नः॑ सोम॒ पव॑मानः किरा॒ वस्विंदो॒ भव॑ म॒घवा॒ राध॑सो म॒हः ।

शिक्षा॑ वयोधो॒ वस॑वे॒ सु चे॒तुना॒ मा नो॒ गय॑मा॒रे अ॒स्मत्परा॑ सिचः ॥३

आ । नः॒ । सो॒म॒ । पव॑मानः । कि॒र॒ । वसु॑ । इन्दो॒ इति॑ । भव॑ । म॒घऽवा॑ । राध॑सः । म॒हः ।

शिक्ष॑ । व॒यः॒ऽधः॒ । वस॑वे । सु । चे॒तुना॑ । मा । नः॒ । गय॑म् । आ॒रे । अ॒स्मत् । परा॑ । सि॒चः॒ ॥३

आ । नः । सोम । पवमानः । किर । वसु । इन्दो इति । भव । मघऽवा । राधसः । महः ।

शिक्ष । वयःऽधः । वसवे । सु । चेतुना । मा । नः । गयम् । आरे । अस्मत् । परा । सिचः ॥३

“आ “किर सर्वतो “विक्षिप “नः अस्मभ्यं हे “सोम “पवमानः पूयमानस्त्वम् । किम् । “वसु वासकं धनं गवादिरूपम् । किंच “इन्दो दीप्त हे सोम “मघवा धनवांस्त्वं “महः महतः “राधसः धनस्य “भव दातेति शेषः । तथा हे “वयोधः अन्नस्य धातः सोम “वसवे वासकाय परिचरते मह्यं “चेतुना प्रकृष्टेन प्रज्ञानेन “सु सुखं कल्याणं “शिक्ष देहि । “नः अस्मभ्यं प्रदेयं “गयं धनम् “अस्मत् "आरे अस्मत्तो दूरं “मा “परा “सिचः मा प्रेरय ॥


आ नः॑ पू॒षा पव॑मानः सुरा॒तयो॑ मि॒त्रो ग॑च्छंतु॒ वरु॑णः स॒जोष॑सः ।

बृह॒स्पति॑र्म॒रुतो॑ वा॒युर॒श्विना॒ त्वष्टा॑ सवि॒ता सु॒यमा॒ सर॑स्वती ॥४

आ । नः॒ । पू॒षा । पव॑मानः । सु॒ऽरा॒तयः॑ । मि॒त्रः । ग॒च्छ॒न्तु॒ । वरु॑णः । स॒ऽजोष॑सः ।

बृह॒स्पतिः॑ । म॒रुतः॑ । वा॒युः । अ॒श्विना॑ । त्वष्टा॑ । स॒वि॒ता । सु॒ऽयमा॑ । सर॑स्वती ॥४

आ । नः । पूषा । पवमानः । सुऽरातयः । मित्रः । गच्छन्तु । वरुणः । सऽजोषसः ।

बृहस्पतिः । मरुतः । वायुः । अश्विना । त्वष्टा । सविता । सुऽयमा । सरस्वती ॥४

“सुरातयः सुदानाः ”सजोषसः संगताः पूषादयो देवाः “आ “गच्छन्तु “नः अस्मान् अस्माकं यज्ञं वा । तथा “सुयमा । यम्यते नियम्यत इति यमो विग्रहः । सुविग्रहा “सरस्वती चागच्छतु ॥


उ॒भे द्यावा॑पृथि॒वी वि॑श्वमि॒न्वे अ॑र्य॒मा दे॒वो अदि॑तिर्विधा॒ता ।

भगो॒ नृशंस॑ उ॒र्वं१॒॑तरि॑क्षं॒ विश्वे॑ दे॒वाः पव॑मानं जुषंत ॥५

उ॒भे इति॑ । द्यावा॑पृथि॒वी इति॑ । वि॒श्व॒मि॒न्वे इति॑ वि॒श्व॒म्ऽइ॒न्वे । अ॒र्य॒मा । दे॒वः । अदि॑तिः । वि॒ऽधा॒ता ।

भगः॑ । नृऽशंसः॑ । उ॒रु । अ॒न्तरि॑क्षम् । विश्वे॑ । दे॒वाः । पव॑मानम् । जु॒ष॒न्त॒ ॥५

उभे इति । द्यावापृथिवी इति । विश्वमिन्वे इति विश्वम्ऽइन्वे । अर्यमा । देवः । अदितिः । विऽधाता ।

भगः । नृऽशंसः । उरु । अन्तरिक्षम् । विश्वे । देवाः । पवमानम् । जुषन्त ॥५

“विश्वमिन्वे । इन्वतिर्व्याप्तिकर्मा । सर्वव्यापिन्यौ “उभे “द्यावापृथिवी द्यावापृथिव्यौ अर्यमादयस्त्रयश्च भगश्च “नृशंसः नृभिः शंसनीयः “उर्वन्तरिक्षं च “विश्वे “देवाः च "पवमानं पूयमानं सोमं “जुषन्त सेवन्ते ॥ ॥ ६ ॥

मण्डल ९

सूक्तं ९.१

सूक्तं ९.२

सूक्तं ९.३

सूक्तं ९.४

सूक्तं ९.५

सूक्तं ९.६

सूक्तं ९.७

सूक्तं ९.८

सूक्तं ९.९

सूक्तं ९.१०

सूक्तं ९.११

सूक्तं ९.१२

सूक्तं ९.१३

सूक्तं ९.१४

सूक्तं ९.१५

सूक्तं ९.१६

सूक्तं ९.१७

सूक्तं ९.१८

सूक्तं ९.१९

सूक्तं ९.२०

सूक्तं ९.२१

सूक्तं ९.२२

सूक्तं ९.२३

सूक्तं ९.२४

सूक्तं ९.२५

सूक्तं ९.२६

सूक्तं ९.२७

सूक्तं ९.२८

सूक्तं ९.२९

सूक्तं ९.३०

सूक्तं ९.३१

सूक्तं ९.३२

सूक्तं ९.३३

सूक्तं ९.३४

सूक्तं ९.३५

सूक्तं ९.३६

सूक्तं ९.३७

सूक्तं ९.३८

सूक्तं ९.३९

सूक्तं ९.४०

सूक्तं ९.४१

सूक्तं ९.४२

सूक्तं ९.४३

सूक्तं ९.४४

सूक्तं ९.४५

सूक्तं ९.४६

सूक्तं ९.४७

सूक्तं ९.४८

सूक्तं ९.४९

सूक्तं ९.५०

सूक्तं ९.५१

सूक्तं ९.५२

सूक्तं ९.५३

सूक्तं ९.५४

सूक्तं ९.५५

सूक्तं ९.५६

सूक्तं ९.५७

सूक्तं ९.५८

सूक्तं ९.५९

सूक्तं ९.६०

सूक्तं ९.६१

सूक्तं ९.६२

सूक्तं ९.६३

सूक्तं ९.६४

सूक्तं ९.६५

सूक्तं ९.६६

सूक्तं ९.६७

सूक्तं ९.६८

सूक्तं ९.६९

सूक्तं ९.७०

सूक्तं ९.७१

सूक्तं ९.७२

सूक्तं ९.७३

सूक्तं ९.७४

सूक्तं ९.७५

सूक्तं ९.७६

सूक्तं ९.७७

सूक्तं ९.७८

सूक्तं ९.७९

सूक्तं ९.८०

सूक्तं ९.८१

सूक्तं ९.८२

सूक्तं ९.८३

सूक्तं ९.८४

सूक्तं ९.८५

सूक्तं ९.८६

सूक्तं ९.८७

सूक्तं ९.८८

सूक्तं ९.८९

सूक्तं ९.९०

सूक्तं ९.९१

सूक्तं ९.९२

सूक्तं ९.९३

सूक्तं ९.९४

सूक्तं ९.९५

सूक्तं ९.९६

सूक्तं ९.९७

सूक्तं ९.९८

सूक्तं ९.९९

सूक्तं ९.१००

सूक्तं ९.१०१

सूक्तं ९.१०२

सूक्तं ९.१०३

सूक्तं ९.१०४

सूक्तं ९.१०५

सूक्तं ९.१०६

सूक्तं ९.१०७

सूक्तं ९.१०८

सूक्तं ९.१०९

सूक्तं ९.११०

सूक्तं ९.१११

सूक्तं ९.११२

सूक्तं ९.११३

सूक्तं ९.११४

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_९.८१&oldid=208669" इत्यस्माद् प्रतिप्राप्तम्